सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

प्रतीयमानसिद्धान्तः ॥ ११२१
उ ॥ पुण्यकर्म्मिणः धूमादिमार्गेण चन्द्रलोकं प्राप्य तत्र भोगा
न् भुक्त्वा शेषेण कर्मणा इमं लोकं आयान्ति । पापक
र्म्मिणः तिर्यग्जन्म वा नरकं वा प्राप्नुवन्ति, तत्र दुःखं अनु
भूय के चित् जीवाः पुनरपि मनुष्यजन्म प्राप्नुवन्ति,
के चित् जीवाः तमसि अवरोहन्ति ॥ ३-१-८, ३-१-९,
३-१-१८, ३-१-१४.
( ३६ ) प्र ॥ नरके भेदः अस्ति किम् ?
उ ॥ अस्ति, नरकाणि सप्त, द्वे नित्ये, पञ्च अनित्यानि, नि
त्यनरके पतितस्य आरोहणं नास्ति ॥ ३-१-१६, ३-१-१४.
( ३७ ) प्र ॥ मोक्षदातुः विष्णोः लक्षणानि ज्ञातुं इच्छामि ?
उ ॥ विष्णुः आनन्दपूर्णः ॥ १-१-१३.
( २ ) सर्वान्तर्यामी ॥ १-१-१८.
( ३ ) पृथिवीस्वर्गाद्याधारः ॥ १-३-१.
( ४ ) अदृश्यः ॥ १-२-२१.
( ५ ) प्राकृतरूपरहितः ॥ ३-२-१४.
( ६ ) गुणगुणिभेदरहितः ॥ ३-२-२८.
( ७ ) अवयवावयविभेदरहितः ॥ १-१-१५.
( ८ ) ज्ञानानन्दाद्यात्मकशरीरवान् ॥ २-२-४१.
( ९ ) सर्वपालकः ॥ ३-२-२२.
( १० ) सृष्टिसंहारकर्ता ॥ १-१-२.
( ११ ) अव्यक्तः ॥ ३-२-२३.
( १२ ) मुक्तप्राप्यः ॥ १-३-२.
( १३ ) सर्वगतः ॥ १-२-१०.
( १४ ) सर्वशब्दवाच्यः ॥ १-४-१०, १-४-११.
( १५ ) युक्तिविरुद्धाविरुद्धचिन्त्याचिन्त्यसर्वगुणोपेतः ॥ २-
१-३८.
( ३८ ) प्र ॥ विष्णुः अदृश्यश्चेत् उपासकानां कथं तस्य साक्षात्का
रः भवति ?
उ ॥ अदृश्योऽपि स्वप्रसादात् उपासकानां व्यक्तः भवति ॥
३-२-२७.
१४१

॥१२२ ब्रह्मसूत्राणां भगवता मध्वाचार्येण कृतभाष्यात् ॥
(३९) प्र ॥ परमात्मा अवाच्य इति वेदे उक्तं खलु तस्य गुणाः क-
थं वर्णनीयाः ?
उ ॥ परमात्मा साकल्येन अवाच्योपि यत्किञ्चिद्रूपेण वाच्य
एव ॥ १-१-५.
(४०) प्र ॥ विष्णोः गुणाः अनन्ताः खलु, तस्य गुणोपासना कथम्?
उ ॥ विष्णुः सत्यं ज्ञानं आनन्दं ब्रह्म इति चतुर्गुणैः मानुषैः
उपसंहारः कर्तव्यः देवैः योग्यताऽनुसारेण एककाले
यावन्तो गुणाः स्फुरन्ति तावद्गुणैः उपसंहारः कर्तव्यः।
विरिञ्चस्तु सर्वगुणैः उपासनां कर्तुं योग्यः। सर्वैरपि
परमात्मा मम स्वामी इति उपासना कार्या ॥ ४-१-३,
३-३-१०, ३-३-१२, ३-३-१४, ३-३-१८.
(४१) प्र ॥ अधिकगुणोपासनेन किं प्रयोजनं ?
उ ॥ अधिकफलं भवति ॥ ३-३-११.
(४२) प्र ॥ मोक्षानन्तरमपि जीवानां उपासना अस्ति किम् ?
उ ॥ मोक्षे मुक्ताः स्वेच्छया उपासनां कुर्वन्ति, न बद्धतया ॥
३-३-२९, ४-१-१२.
(४३) प्र ॥ लक्ष्मीः नित्यमुक्ता खलु तस्या अपि उपासना अस्ति
किम् ?
उ ॥ साऽपि भक्तिविशेषात् स्वेच्छया उपासनां करोति ॥
३-३-४१.
(४४) प्र ॥ स्वयोग्यबिम्बरूपव्यतिरिक्तरूपाणि उपास्यानि किम् ?
उ ॥ अमुमुक्षुभिः काम्यार्थे उपास्यानि । मुमुक्षुभिः मोक्ष
प्रतिबन्धकदुरितादिनिवारणार्थे उपास्यानि ॥ ३-३-६२,
३-३-६१.
—:*:—

॥ द्वितीयः परिशिष्टः ॥
—::—
॥ शंकरभगवत्पादभाष्यानुसारी सिद्धान्तः ॥
—:
:—
( १ ) प्र ॥ किं ब्रह्म ?
उ ॥ यतः सर्वज्ञात् सर्वशक्तेः कारणात् जगतः जन्मस्थिति
भङ्गं भवति तत् नित्यशुद्धबुद्धमुक्तस्वभावं ब्रह्म ॥ १-
१ - २ ०
( २ ) प्र ॥ ब्रह्म नित्यशुद्धतया निर्गुणं चेत् तथाविधस्य ब्रह्मणः
सर्वज्ञत्वं सर्वशक्तित्वं च कथम् ?
उ ॥ ब्रह्मणो निर्गुणस्यापि सर्वज्ञत्वं सर्वशक्तित्वं चाविद्या
त्मकोपाधिपरिच्छेदापेक्षं न परमार्थतः ॥ २-१-१४.
( ३ ) प्र ॥ अविद्या सत्पदार्थो वा असत्पदार्थो वा ?
उ ॥ सती असती इति वक्तुं न शक्यते ? अविद्या सर्वज्ञस्य
ईश्वरस्य माया शक्तिः प्रकृतिः इति श्रुतिस्मृतिषु उच्य
ते ॥ २-१-१४.
( ४ ) प्र ॥ ब्रह्म जगतः कारणं चेत्, किं उपादानकारणं किं वा नि
मित्तकारणम् ?
उ ॥ जगतः उपादानकारणं निमित्तकारणं च ब्रह्मैव ॥ १-४-२३,
( ५ ) प्र ॥ ब्रह्म जगतः उपादानकारणं चेत् ब्रह्म एकदेशेन परिण
मते किम् ?
उ ॥ ब्रह्म अखण्डं तस्य एकदेशः परिणमते इति वक्तुं न श
क्यते ॥ २-१-२७.
( ६ ) प्र ॥ ब्रह्म विशिष्टं परिणमते किम् ?
उ ॥ न ॥ २-१-२७.
( ७ ) प्र ॥ खण्डेन वा अखण्डरूपेण वा परिणामाभावे ब्रह्मणः उ
पादानकारणत्वं कथम् ?

११२४ द्वितीयःपरिशिष्टः ॥
उ ॥ उपादानकारणं द्विविधं परिणाम्युपादानं विवर्तोपा-
दानं चेति, ब्रह्म विवर्तोपादानकारणं न परिणाम्युपादा-
नकारणम् ॥ २-१-२७.
( ८ ) प्र ॥ विवर्तोपादानकारणं कीदृशम् ?
उ ॥ रज्जौ सर्पभ्रमे रज्जुः सर्पस्य कारणं इति यत् तादृशं
विवर्तोपादानकारणम् ॥
( ९ ) प्र ॥ सर्परज्जुदृष्टान्ते सर्पः यथा मिथ्या तथा जगदपि मिथ्या
किम् ?
उ ॥ मिथ्यैव, न सत्यं, तर्हि स्वप्नदृष्टकल्पितपदार्थ इव जगत्
केवलं मिथ्या ? न, यत स्वप्ने दृष्टं तत् स्मृतमात्रं यत् जा-
गरे दृष्टं तत् उपलब्धं, अतः स्वप्नकाले दृष्टपदार्थ इव के-
वलं मिथ्या न, ब्रह्म विना सत्पदार्थ एव नास्ति अतः ज-
गत् सत्यमिति वक्तुमपि न शक्यते॥ २-२-२९, १-४-२३.
( १० ) प्र ॥ जगत् केवलं मिथ्या न केवलं सत्यं न इति चेत् किमि-
ति मन्तव्यम् ?
उ ॥ व्यवहारे सत्यं पारमार्थिकदशायां असत्यं इति मन्तव्यं
स्वप्ने दृष्टपदार्थाः स्वप्नान्तपर्यन्तं यथा सत्याः तथा स-
र्वं ब्रह्म इति ज्ञानात्पूर्वं जगत् सत्यं अनन्तरं मिथ्या इति
मन्तव्यम् ॥ २-१-१४.
( ११ ) प्र ॥ ब्रह्मणः अन्यस्य वस्तुनः अभावे जगत् ब्रह्म कथं सृजति ?
उ ॥ अविद्याकल्पिते प्रपञ्चस्य बीजभूते अनिर्वचनीये नामरू-
पे स्तः ते ब्रह्म प्रकटीकरोति, तदेव सृष्टिः॥ २-१-१४,
१-४-१५.
( १२ ) प्र ॥ नामरूपाभ्यां ईश्वरः अन्यो वा अनन्यो वा ?
उ ॥ अन्यः ॥ २-१-१४.
( १३ ) प्र ॥ जगत्सृष्ट्या ब्रह्मणः किं प्रयोजनम् ?
उ ॥ प्रयोजनं नास्ति लीलया सृष्टिं करोति ॥ २-१-३३.

द्वितीयः परिशिष्टः ॥ ११२६
(१४) प्र ॥ ब्रह्म कांश्चित् जनान् दुःखभाजः करोति कांश्चित् जना
न् सुखभाजः करोति तस्य कारणं किम् ?
उ ॥ जीवानां अनादिकर्म कारणम् ॥ २-१-३४, २-१-३५.
(१५) प्र ॥ यः इदं इदमिति जानाति स जीवोऽपि जगदिव मिथ्या
किम् ?
उ ॥ न, जीवः ब्रह्मैव, तथाऽपि मायाकल्पितदेहेन्द्रियोपाधि
वशात् तस्य भेदव्यपदेशः ॥ १-२-२०, १-४-२२.
(१६) प्र ॥ ब्रह्मणः उपाधिः कथं आगतः ?
उ ॥ उपाधिः अनादिः ॥ २-१-१४.
१७) प्र ॥ जीवः ब्रह्मणः अभिन्नश्चेत् शास्त्रे विधिनिषेधयोः किं
प्रयोजनम् ?
उ ॥ यथा स्वप्नदृष्टपदार्थाः स्वप्नान्तपर्यन्तं सत्याः अनन्तरं
मिथ्या, तथा यावत्पर्यन्तं अहमेव ब्रह्म इति ज्ञानं जीव
स्य न सम्भवति तावत्पर्यन्तं जीवभेदादिकं सत्यं भेद
सत्यताज्ञानात् तावत्पर्यन्तं जीवः शास्त्रोक्तप्रकारेण क
र्म कुर्यात् एव । व्यवहारकाले विधिनिषेधयोः प्रयोज
नं अस्ति ॥ २-३-४८, २-१-१४.
(१८) प्र ॥ जीवानां देहसम्बन्धरूपसंसारात् मुक्तिः अस्ति वा ?
उ ॥ अस्ति, अहं ब्रह्मैव इति ज्ञानं यदा सम्भवति तदा मु
क्तिः ॥ १-१-१९, ३-३-३२, ४-३-१४.
(१९) प्र ॥ कर्मणां प्रयोजनं नास्ति किम् ?
उ ॥ प्रयोजनं अस्ति, कर्म परम्परया ज्ञानसाधकम् ॥ ४-१-
१६, १८,३-४-२७.
(२०) प्र ॥ ज्ञानानन्तरं पूर्वकृतं कर्म किं भवति ?
उ ॥ सुकर्म सुहृदं प्राप्नोति, दुष्कर्म द्वेषिणं प्राप्नोति । प्रार

११२६ द्वितीयः परिशिष्टः ॥
ब्धकर्म अनुभवेनैव नश्यति अनुभवानन्तरं ब्रह्मज्ञानी
ब्रह्म प्राप्नोति ॥ ४-१-१५, ३-३-२६.
(२१) प्र ॥ काम्यकर्मापि ज्ञानसाधनं किम् ?
उ ॥ न ॥ ४-१-१७.
(२२) प्र ॥ जीवः कर्ता वा ?
उ ॥ यथा तक्षा यावत् उपकरणवान् तावत् कर्ता भवति,
स्वगृहप्राप्त्यनन्तरं निर्व्यापारः सुखी च भवति, तथा
जीवः यावत् अविद्यासम्बन्धी तावत् कर्ता, अनन्तरं
न ॥ २-३-४०.
(२३) प्र ॥ जीवानां कर्तृत्वं भगवदधीनं वा न वा ?
उ ॥ भगवदधीनमेव, पूर्वकर्मानुसारेण परमात्मा जीवैः क-
र्म कारयति मोक्षोऽपि भगवदनुग्रहादेव ॥ २-३-४२.
(२४) प्र ॥ ब्रह्मणः जीवस्य एकत्वे उपास्योपासकभावः कथम् ?
उ ॥ ब्रह्म द्विरूपं, एकं नामरूपविकारभेदोपाधिविशिष्टं अ-
न्यत् तद्विपरीतं जीवस्य अविद्यावस्थायां नामरूपवि-
शिष्टस्य ब्रह्मणः उपास्योपासकादिलक्षणव्यवहारः ॥
१-१-१२, ४-३-१४.
(२५) प्र ॥ ब्रह्म सगुणत्वनिर्गुणत्वभेदेन द्विरूपं इति भवद्भिः उ-
क्तं । तत् द्विरूपं कालभेदेन वा एककाले वा ?
उ ॥ एककाले द्वे रूपे स्तः ॥
(२६) प्र ॥ उपासना कथं कार्या ?
उ ॥ ब्रह्म मम आत्मा इति उपासना कार्या ॥ ४-१-३.
(२७) प्र ॥ ज्ञानानन्तरं ब्रह्म विना किमपि नास्ति खलु अतः वेदोऽ-
पि मिथ्या वा ?

द्वितीयः परिशिष्टः ॥ ११२७
उ ॥ ज्ञानानन्तरं मिथ्यैव ॥ ४-१-३.
(२८) प्र ॥ मिथ्यारूपवेदोक्तोपासनेन सत्यज्ञानं कथं भवति ?
उ ॥ स्वप्नं असत्यमपि स्वप्नदर्शनेन जाग्रति सत्यफलप्राप्तिः
यथा सम्भवति तथा वेदोक्तोपासनया यथार्थज्ञानं स-
म्भवति । यः स्वप्ने कृष्णं कृष्णदन्तं पुरुषं पश्यति स
एनं हन्ति यः स्वप्नेषु स्त्रियं पश्यति स समृद्धिं प्राप्नो-
ति इत्यादिश्रुतिवचनात् असत्येन कारणेन सत्यफलं स-
म्भवतीति सिद्धम् ॥ २-१-१४.
(२९) प्र ॥ मायाविशिष्टस्य सगुणब्रह्मणः उपासना केवलं ज्ञान-
साधनमेव वा सा अन्यफलमपि ददाति वा ?
उ ॥ सगुणोपासना उपासकस्य जीवस्य सङ्कल्पमात्रेण स-
र्वापेक्षितप्राप्तिरूपजगदैश्वर्यं ददाति ॥ ४-३-१४.
(३०) प्र ॥ सुकर्मिणां मरणात्परं का गतिः ?
उ ॥ धूमादिमार्गेण चन्द्रलोकं गत्वा तत्र भोगाननुभूय कर्म-
शेषेण इमं लोकं पुनरागच्छन्ति कर्मानुसारेण जन्म प्रा-
प्नुवन्ति ॥ ३-१-८.
(३१) प्र ॥ दुष्कर्मिणां अकर्मिणां च का गतिः ?
उ ॥ ते यमलोकं गच्छन्ति तत्र दुःखं अनुभूय इमं लोकं पु-
नः प्रविशन्ति ॥ ३-१-१३, १४.
(३२) प्र ॥ निर्गुणोपासकानां का गतिः ?
उ ॥ गम्याभावात् तेषां गतिः नास्ति । ज्ञानात् ब्रह्मत्वमेव
सिध्यति ॥ ४-३-१४.
(३३) प्र ॥ सगुणोपासकानां का गतिः ?
उ ॥ अर्चिरादिमार्गेण चतुर्मुखब्रह्म प्राप्नुवन्ति तल्लोकप्रळ

११२८ द्वितीयः परिशिष्टः ॥
यत्काले तत्रोत्पन्नसम्यग्ज्ञानवन्तः ब्रह्मणा सह विष्णुप
दं प्राप्नुवन्ति ॥ ४-३-१.
( ३४ ) प्र ॥ सगुणोपासकानां ब्रह्मलोकप्राप्त्यनन्तरं पुनरावृत्तिः अ-
स्ति वा ?
उ ॥ न, सगुणशरणानां अपि क्रमेण निर्वाणं अस्ति अतः
पुनरावृत्तिर्नास्ति ॥ ४-४-२२.
—:*:—
☞ ए, महादेवशास्त्री.

॥ तृतीयः परिशिष्टः ॥
——————✻——————
॥ भगवद्रामानुजभाष्यानुसारिसिद्धान्तसंग्रहः ॥
—————:✲:—————
( १ ) प्र ॥ जगत्कारणं किम् ?
उ ॥ यत् जगदिति व्यवह्रियते तत् स्थूलचिदचिद्विशिष्टं ब्र-
ह्म । तस्य कारणं सूक्ष्मचिदचिद्विशिष्टं ब्रह्म ॥ १-१-१०
( २ ) प्र ॥ विशेषणीभूतस्य चिदचिद्रूपजगतः कारणं किम् ?
उ ॥ ब्रह्मैव ॥
( ३ ) प्र ॥ ब्रह्म निमित्तकारणं वा उपादानकारणं वा ?
उ ॥ उभयं च ॥
( ४ ) प्र ॥ संकल्पद्वारा ब्रह्म निमित्तकारणं भवतु । उपादानकार-
णं कथं भवति ?
उ ॥ चिदचितोः अपृथक्सिद्धाधारत्वात् तादृशचिदचिद्वै-
शिष्ट्यरूपकार्यकारणावस्थायोगात् उपादानकारणं भ-
वति ॥ १-१-१०
( ५ ) प्र ॥ ब्रह्म किंलक्षणकम् ?
उ ॥ ब्रह्म निखिलजगज्जन्मादिकारणं निरस्तनिखिलदोषं
समस्तकल्याणगुणाकरं सत्यं ज्ञानमनन्तं सर्वात्मक-
मनवधिकातिशयानन्दं च ॥ १-१-१,२० ३-२-११.
( ६ ) प्र ॥ ब्रह्मणस्सर्वात्मकत्वे सर्वदोषास्पदत्वमपरित्याज्यमिति
कथं तस्य निरस्तनिखिलदोषता ?
उ ॥ सर्वात्मकत्वं हि न सर्वाभिन्नत्वं । किन्तु सर्वान्तर्यामि-
त्वं यदेवसर्वशरीरत्वमित्युच्यते । यथा च सर्वव्यापि-
नोऽपि वाय्वादेः न व्याप्यगतदोषास्पदता । यथा वा
शरीरगतैर्दोषैः शारीरश्चेतनो नस्पृश्यते तथा सर्वान्त-
र्याम्यपि ब्रह्म निरस्तनिखिलदोषमेव ॥ ३-२-११.
१४२

११३० तृतीयः परिशिष्टः ॥
( ७ ) प्र ॥ ब्रह्म चैतन्यस्वरूपं वा चैतन्यगुणकं वा ?
उ ॥ चैतन्यगुणकं चैतन्यस्वरूपं च ॥ ३-२-१६.
( ८ ) प्र ॥ ब्रह्म कथं ज्ञातव्यम् ?
उ ॥ शास्त्रात् ॥
( ९ ) प्र ॥ ब्रह्मणः सर्वचिदचित्कारणत्वे स्वप्नपदार्थानां अपि
ब्रह्मैव कारणं किम् ?
उ ॥ ब्रह्मैव ॥ ३-२-१.
( १० ) प्र ॥ स्वप्नपदार्थाः मिथ्या न किम् ?
उ ॥ न । किंतु तत्तत्कालावसायिनः तत्तत्पुरुषमात्रानुभा-
व्याः ईश्वरसृष्टाः सत्या एव ॥ १-१-१०.
( ११ ) प्र ॥ सृष्ट्या परमात्मनः प्रयोजनं किम् ?
उ ॥ लीलैव ॥ २-१-३३.
( १२ ) प्र ॥ जीवाः परमात्मनः भिन्ना वा अभिन्ना वा ?
उ ॥ भिन्ना एव ॥ २-१-२२.
( १३ ) प्र ॥ जीवः अणुर्वा व्यापको वा

तृतीयः परिशिष्टः ॥ ११३१
(१७) प्र ॥ जीवः परतन्त्रकर्ता चेत् विधिनिषेधशास्त्रस्य निष्प्र-
योजनत्वं नापतति किम् ?
उ ॥ शास्त्रं हि इदं कार्यं इति इदं अकार्यं इति ज्ञानाय प्र-
वृत्तम् । जीवः शास्त्रानुसारेण अनुष्ठाने अननुष्ठाने च
स्वतन्त्रः अतः विधिनिषेधशास्त्रं सप्रयोजनम् । शास्त्रा-
र्थोऽनुष्ठानप्रवृत्त्यनन्तरं भगवत्प्रेरणं विना कार्यं न निष्प-
द्यते । अतः जीवः परतन्त्रकर्ता ॥ २-३-४१.
(१८) प्र ॥ जीवानां भूतसम्बन्धः देहान्ते निवर्तते वा न वा ?
उ ॥ मुक्तिपर्यन्तं न निवर्तते । कर्मानुसारेण भूयोभूयः जन्मा-
न्तरं प्राप्नुवन्ति ॥ ३-१-१.
(१९) प्र ॥ जीवानां जन्मान्तरादिक्लेशात् कथं मुक्तिः ?
उ ॥ भगवदुपासनातः प्रीतः परमात्मा मुक्तिं ददाति ॥ ३-
४-१, १-१०.
(२०) प्र ॥ कर्मउपासकेनाप्यनुष्ठेयं किम् ?
उ ॥ कर्म उपासनायाः अङ्गम् । अतः अवश्यं अनुष्ठेयम् ॥
३-४-२६.
(२१) प्र ॥ उपासना का ?
उ ॥ उपासना अविच्छिन्नस्मृतिसन्ततिरूपा ध्यानवेदनभ-
क्तिज्ञानादिशब्दवाच्या संस्कारपरिपाकसमासादित
विशदत मप्रत्यक्षाकारा ॥ ३-४-२६.
(२२) प्र ॥ उपास्यं ब्रह्म उपासितुः अन्यत्वेन उपास्यं किं उत
आत्मत्वेन ?
उ ॥ जीवः शरीरस्य यथा आत्मा तथा स्वस्यापि परब्रह्म
आत्मेति उपासीत ॥ ४-१-३.

११३२ तृतीयः परिशिष्टः ॥
(२३) प्र ॥ ऐहिकमामुष्मिकं च फलं किं कर्मभिरेव तैरतैः साक्षात्
भवति ?
उ ॥ न। तेन तेन कर्मणा प्रीतः परमात्मा तत्तत्फलं ददा-
ति ॥३-२-३७.
(२४) प्र ॥ वेदोक्तकर्माधिकारिणः के ?
उ ॥ वेदोक्तानि कर्माणि द्विविधानि साधारणानि असाधा-
रणानि चेति। तत्र साधारणानि यानि अग्निविद्यानपे-
क्षाणि सत्यवदनाहिंसादीनि तेषु सर्वेषामेवाधिकारः।
यानि तु असाधारणानि अग्निविद्यासापेक्षाणि तेषु अ-
धिकारिणः ब्रह्मक्षत्रियवैश्या एव। शूद्राणां तु तत्राधि-
कारो नास्ति। अतः ब्रह्मविद्यायां अपि नाधिकारः ॥
१-३-३३.
(२५) प्र ॥ तर्हि त्रैवर्णिकेतरेषां मुक्तिनास्ति किम् ?
उ ॥ तेषामपि भागवतधर्मनिष्ठत्वे स्वानुरूपेण भगवत्ससा-
राधनेन भवति मुक्तिः ॥ २-२-४२.
(२६) प्र ॥ मुक्तिस्वरूपं किम् ?
उ ॥ सकलकर्मनिवृत्तिपूर्वकपरमात्मानुभवः मुक्तिः ॥ १-
२-१२.
(२७) प्र ॥ जीवः परमात्मानं पृथक्भूतं अनुभवति उत अपृथ-
क्भूतं अनुभवति ?
उ ॥ तच्छरीरतया अविभागेन अहं ब्रह्म अस्मि इत्यनुभव-
ति ॥ ४-४-४.
(२८) प्र ॥ मुक्तः सदेहस्सन् अनुभवति वा विदेहस्सन् अनुभव-
ति वा ?
उ ॥ यथेच्छं उभयविधस्सन् अनुभवति ॥ ४-४-१२.

(wait, is there a space between(and२९? It's ( २९ )or(२९)? Let's check spacing: ( २९ )has a slight space:( २९ )or(२९). In Devanagari it's usually written (२९)or( २९ ). Let's look: ( २९ )- there is space inside parentheses:( २९ )or(२९). In line 30: ( ३० ), line 31: ( ३१ ), line 32: ( ३२ ), line 33: ( ३३ )). Line 2 of page text: ( २९ ) प्र ॥ मुक्तस्य परब्रह्मणा परमसाम्यश्रवणात् सर्वप्रकारेणापि Line 3: साम्यं भवति किम्(wait, is that a question mark? It looks likeकिम्followed by a faint dot. But let's check: in all other questions there is?. In 29, it looks like either किम्orकिम् ?. Let's check the very right edge: there is a tiny speck, maybe किम्). Line 4: उ ॥ मुक्तस्य जगत्स्रष्टृत्वं विना ब्रह्म

॥ चतुर्थः परिशिष्टः ॥
——
॥ शाङ्कररामानुजयोः भाष्यप्रकारेण पूर्वपक्षसूत्राणि ॥
—:
:—
सूत्रसङ्ख्या.
अ. पा. †शं. §रा. ‡म. सूत्राणि.
१ ३ ३१ ३० ३१ मध्वादिष्वसम्भवादनाधिका } रामानुजीये पूर्वप-
रं जैमिनिः ॥ } क्षसूत्राणि शाङ्करे
३२ ३१ ३२ ज्योतिषि भावाच्च ॥ } सिद्धान्तसूत्राणि
२ १ ४ ४ ४ न विलक्षणत्वादस्य तथात्वं
च शब्दात् ॥
५ ५ ६ अभिमानिव्यपदेशस्तु विशे-
षानुगतिभ्याम् ॥
८ ८ ९ अपीतौ तद्वत्प्रसङ्गादसमञ्ज-
सम् ॥
२१ २१ २२ इतरव्यपदेशाद्धिताकरणादि-
दोषप्रसक्तिः ॥
२६ २६ २७ कृत्स्नप्रसक्तिर्निरवयवत्वश-
ब्दकोपो वा ॥
३२ ३२ ३३ न प्रयोजनवत्त्वात् ॥ ˙
२ २ ४२ ३९ ४२ उत्पत्त्यसम्भवात् ॥ } रामानुजीये पू०
४३ ४० ४३ न च कर्तुः करणम् ॥ } शाङ्करे सि०
२ ३ १ १ १ न वियदश्रुतेः ॥
२ २ २ अस्ति तु ॥ शां० पू० रा० सि०
३ ३ ३ गौण्यसम्भवात् ॥
४ ३ ४ शब्दाच्च ॥
गौण्यसम्भवाच्छब्दाच्च ॥ इ-
ति रामानुजः ।


† शङ्करभाष्यप्रकारेण ॥
§ रामानुजभाष्यप्रकारेण ॥
‡ मध्वभाष्यप्रकारेण ॥

पूर्वपक्षसूत्राणि ॥ ११३५
सूत्रसङ्ख्या.
अ. पा. †शं$रा‡ म. सूत्राणि.
२ ३ ५ ४ ५ स्याच्चैकस्य ब्रह्मशब्दवत् ॥
स्याच्चैकस्यापि ब्रह्मशब्दवत्॥
इति शङ्करः ।
१० १० १० तेजोऽतस्तथा ह्याह ॥ ┐
११ ११ ११ आपः ॥ │
१२ १२ १२ पृथिव्यधिकाररूपशब्दान्तरा │
१३ दिभ्यः ॥ इति मध्वः । │ रामानुजीये पूर्वप-
पृथिव्यधिकाररूपशब्दान्तरे ┤ क्षः शाङ्करे सि-
भ्यः ॥ इति शङ्करः । │ द्धान्तः
पृथिवी ॥ इति रामानुजः । │
अधिकाररूपशब्दान्तरेभ्यः॥ │
इति रामानुजः । ┘
१९ २० २० उत्क्रान्तिगत्यागतीनाम् ॥ ┐
२० २१ २१ स्वात्मना चोत्तरयोः ॥ │
२१ २२ २२ नाणुरतच्छ्रुतेरिति चेन्नेतरा │ शाङ्करे पूर्वपक्षः
धिकारात् ॥ ┤ रामानुजीये सि-
२२ २३ २३ स्वशब्दोन्मानाभ्यां च ॥ │ द्धान्तः
२३ २४ २४ अविरोधश्चन्दनवत् ॥ │
२४ २५ २५ अवस्थितिवैशेष्यादिति चेन्ना │
भ्युपगमाद्धृदि हि ॥ ┘
२५ २६ २६ गुणाद्वालोकवत् ॥ ┐
२६ २७ २७ व्यतिरेको गन्धवत् ॥ │ शाङ्करे पूर्वपक्षसू-
२७ तथा च दर्शयति ॥ │ त्राणि रामानुजीये
व्यतिरेकोगन्धवत्तथा च द- ┤ सिद्धान्तसूत्राणि
र्शयति॥ इति मध्वरामानुजौ │
२८ २८ २८ पृथगुपदेशात् ॥ ┘
२ ४ ५ ४ ६ सप्तगतेर्विशेषितत्वाच्च ॥

११३६ शङ्कररामानुजयोः भाष्यप्रकारेण ।
सूत्रसङ्ख्या.
अ. पा. †शं §रा ‡ म. सूत्राणि.
३ १ ९ ९ १० चरणादिति चेन्न तदुपलक्ष- ⎱
णार्थेति कार्ष्णाजिनिः ⎪
चरणादिति चेन्नोपलक्षणार्थे ⎬ रा० पू० शा० सि०
ति कार्ष्णाजिनिः ॥ इति श- ⎪
ङ्करः ॥ ⎭
३ १ १२ १२ १३ अनिष्टादिकारिणामपि च भु-
तम् ॥
३ १ १३ १३ १४ संयमने त्वनुभूयेतरेषामारोहा- ⎱
वरोहौ तद्गतिदर्शनात् ॥ ⎪
१४ १४ १५ स्मरन्ति च ॥ ⎪
१५ १५ १६ अपि सप्त ॥ ⎪ रामानुजीये पूर्वप
अपि च सप्त ॥ इति शङ्करः । ⎬ क्ष सूत्राणि शाङ्करे
१६ १६ १७ तत्रापि च तद्व्यापारादवि- ⎪ सिद्धान्तसूत्राणि
रोधः ॥ ⎪
तत्रापि तद्व्यापारादविरोधः । ⎪
इति रामानुजः ॥ ⎭
३ २ १ १ १ सन्ध्ये सृष्टिराह हि ॥
२ २ २ निर्मातारं चैके पुत्रादयश्च ॥
१९ १९ १९ अम्बुवदग्रहणात्तु न तथात्वम् ॥
२७ २६ २८ उभयव्यपदेशात्त्वहिकुण्डल
वत् ॥
२८ २७ २९ प्रकाशाश्रयवद्वा तेजस्त्वात् ॥
३१ ३० ३२ परमतस्सेतून्मानसम्बन्धभेद
व्यपदेशेभ्यः ॥
४० ३९ ४१ धर्मं जैमिनिरत एव ॥
३ ३ ६ ६ ७ अन्यथात्वं च शब्दादिति चे- ⎱
न्नाविशेषात् ॥ इति मध्वः ॥ ⎪
अन्यथात्वं शब्दादिति चेन्ना ⎬ रा० पू० शा० सि०
विशेषात् ॥ ⎭

पूर्वपक्षसूत्राणि ॥ ११३७
सूत्रसङ्ख्या.
अ. पा. †शं ⸸रा‡ म. सूत्राणि.
३ ३ २० २० २१ सम्बन्धादेवमन्यत्रापि ॥
२९ २९ ३० गतेरर्थवत्त्वमुभयथाऽन्यथा } रा० पू० शं० सि०
हि विरोधः ॥
४० ३९ ४१ आदरादलोपः ॥ शं० पू० रा० सि०
३ ३ ४५ ४४ ४६ पूर्वविकल्पः प्रकरणात्स्या-
त्क्रियामानसवत् ॥
४६ ४५ ४७ अतिदेशाच्च ॥
३ ३ ५३ ५१ ५५ एक आत्मनश्शरीरे भावात् ॥
६१ ५९ ६३ अङ्गेषु यथाऽऽश्रयभावः ॥
६२ ६० ६४ शिष्टेश्च ॥
६३ ६१ ६५ समाहारात् ॥
६४ ६२ ६६ गुणसाधारण्यश्रुतेश्च ॥
३ ४ २ २ २ शेषत्वात्पुरुषार्थवादो यथान्ये-
ष्विति जैमिनिः ॥
३ ३ ३ आचारदर्शनात् ॥
४ ४ ४ तच्छ्रुतेः ॥
५ ५ ५ समन्वारम्भणात् ॥
६ ६ ६ तद्वतो विधानात् ॥
७ ७ ७ नियमाच्च ॥
१८ १८ १८ परामर्शं जैमिनिरचोदना चा ┐
पवदति हि ॥ │
परामर्शं जैमिनिरचोदनाच्चा │
पवदति हि॥ इति रामानुजः ├ शं० पू० रा० सि०
४१ ४१ ४१ न चाधिकारिकमपि पतनानु- │
मानात्तदयोगात् ॥ ┘
४४ ४४ ४४ स्वामिनः फलश्रुतेरित्यात्रेयः
४ २ १२ १२ १२ प्रतिषेधादिति चेन्न शारीरात्॥ शं०पू०रा० सि०
१४३

११३८ शंकररामानुजयोः भाष्यप्रकारेण ।
सूत्रसङ्ख्या.
अ. पा. †शं§रा‡ म. सूत्राणि.
प्रतिषेधादिति चेन्न शारीरा-
त्स्पष्टो ह्येकेषाम् ॥ इति रा-
मानुजः ॥
४ ३ ७ ६ ७ कार्यं बादरिरस्य गत्युपपत्तेः॥ ┐
८ ७ ८ विशेषितत्वाच्च ॥ │
९ ८ ९ सामीप्यात्तुतद्व्यपदेशः॥ │ रा० पू० शं० सि०
१० ९ १० कार्यात्यये तदध्यक्षेण सहातः │
परमभिधानात् ॥ │
११ १० ११ स्मृतेश्च ॥ ┘
४ ३ १२ ११ १२ परं जैमिनिर्मुख्यत्वात् ॥
१३ १२ १३ दर्शनाच्च ॥ ┐
१४ १३ १४ न च कार्ये प्रतिपत्त्यभिसन्धिः ॥ │
न च कार्ये प्रत्यभिसन्धिः ॥ इ │ रा० पू० शं० सि०
ति रामानुजः ॥ ┘
४ ४ ५ ५ ५ ब्राह्मेण जैमिनिरुपन्यासादिभ्यः
६ ६ ६ चितिमात्रेण तदात्मकत्वादि ┐
त्यौडुलोमिः ॥ │
चितितन्मात्रेणतदात्मकत्वा │ शं० सि० रा० पू०
दित्यौडुलोमिः ॥ इति शंकर │
रामानुजौ ॥ ┘
१० १० १० अभावं बादरिराह ह्येवम् ॥
११ ११ ११ भावं जैमिनिर्विकल्पाङ्गानात् ॥
भावं जैमिनिर्विकल्पामननात् ॥
इति शंकररामानुजौ ॥
───※:※:※───

॥ पञ्चमपरिशिष्टः ॥
॥ अधिकरणविभागः ॥
:—*—:
सूत्रसङ्ख्य. | सूत्रसङ्ख्य.
अ.पा.अधि .मध्वः. शङ्करः. रामा० | अ.पा.अधि.मध्वः. शङ्करः रामा०
१ १ १ १ १ १ | १ ३ १२ ४१ ४०
२ २ २ २ | १३ ४२ ४१
३ ३ ३ ३ | १४ ४३ ४२-४३
४ ४ ४ ४ | १ ४ १ १-९ १-७ १-७
५ ५-११ ५-११ ५-१२ | २ १०-११ ८-१० ८-१०
६ १२-१९ १२-१९ १३-२० | ३ १२-१४ ११-१३ ११-१३
७ २०-२१ २०-२१ २१-२२ | ४ १५ १४-१५ १४-१५
८ २२ २२ २३ | ५ १६-२३ १६-१८ १६-१८
९ २३ २३ २४ | ६ २४-२८ १९-२२ १९-२२
१० २४ २४-२७ २५-२८ | ७ २९ २३-२७ २३-२८
११ २५-२७ २८-३१ २९-३२ | ८ २८ २९
१२ २८-३१ | २ १ १ १-३ १-२ १-२
१ २ १ १-८ १-८ १-८ | २ ४-५ ३ ३
२ ९-१० ९-१० ९-१२ | ३ ६-७ ४-११ ४-१२
३ ११-१२ ११-१२ १३-१८ | ४ ८-१३ १२ १३
४ १३-१७ १३-१७ १९-२१ | ५ १४ १३ १४
५ १८-२० १८-२० २२-२४ | ६ १५-२१ १४-२० १५-२०
६ २१-२३ २१-२३ २५-३३ | ७ २२-२७ २१-२३ २१-२३
७ २४-३२ २४-३२ | ८ २८-३२ २४-२५ २४-२५
१ ३ १ १-७ १-७ १-६ | ९ ३३-३४ २६-२९ २६-३१
२ ८-९ ८-९ ७-८ | १० ३५-३७ ३०-३१ ३२-३६
३ १०-१२ १०-१२ ९-११ | ११ ३८ ३२-३३
४ १३ १३ १२ | १२ ३४-३६
५ १४-२१ १४-२१ १३-२२ | १३ ३७
६ २२-२३ २२-२३ २३-२४ | २ २ १ १-४ १-१० १-९
७ २४-२५ २४-२५ २५-२९ | २ ५ ११ १०-१६
८ २६-३३ २६-३० ३०-३२ | ३ ६ १२-१७ १७-२६
९ ३४-३८ ३१-३३ ३३-४१ | ४ ७-८ १८-२७ २७-२९
१० ३९ ३४-३८ ४२-४४ | ५ ९-१० २८-३२ ३०
११ ४० ३९ . | ६ ११-१७ ३३-३६ ३१-३४

११४० पञ्चमपरिशिष्टः ॥
सूत्रसङ्ख्य. | सूत्रसङ्ख्य.
अ.पा.अधि. मध्वः. शङ्करः. रामा० | अ.पा.अधि. मध्वः. शङ्करः. रामा०
२ २ ७ १८-२५ ३७-४१ ३५-३८ | २ ४ ७ ११-१२ १४-१६ १५-१६
८ २६-२९ ४२-४५ ३९-४२ | ८ १३ १७-१९ १७-१९
९ ३०-३२ | ९ १४ २०-२२
१० ३३-३६ | १० १५-१७
११ ३७-४१ | ११ १८-२०
१२ ४२-४५ | १२ २१
२ ३ १ १-७ १-७ १-९ | १३ २२-२३
२ ८ ८ १०-१७ | ३ १ १ १ १-७ १-७
३ ९ ९ १८ | २ २ ८-११ ८-११
४ १० १० १९-३२ | ३ ३ १२-२१ १२-२१
५ ११ ११ ३३-३९ | ४ ४ २२ २२
६ १२ १२ ४०-४१ | ५ ५ २३ २३
७ १३ १३ ४२-५२ | ६ ६ २४-२७ २४-२७
८ १४ १४ | ७ ७
९ १५-१६ १५ | ८ ८
१० १७ १६ | ९ ९
११ १८-१९ १७ | १० १०-१२
१२ २०-२६ १८ | ११ १३-१५
१३ २७ १९-३२ | १२ १६
१४ २८-२९ ३३-३९ | १३ १७
१५ ३० ४० | १४ १८
१६ ३१-३२ ४१-४२ | १५ १९-२३
१७ ३३-४२ ४३-५७ | १६ २४
१८ ४३-५० | १७ २५
१९ ५१-५३ | १८ २६-२७
२ ४ १ १-३ १-४ १-३ | १९ २८
२ ४ ५-६ ४-५ | २० २९
३ ५ ७ ६-७ | ३ २ १ १-४ १-६ १-६
४ ६-७ ८ ८-११ | २ ५ ७-८ ७-८
५ ८ ९-१२ १२ | ३ ६ ९ ९
६ ९-१० १३ १३-१४ | ४ ७ १० १०