सामग्री पर जाएँ
सर्वकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 1170, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 1170

॥ द्वितीयः परिशिष्टः ॥
—::—
॥ शंकरभगवत्पादभाष्यानुसारी सिद्धान्तः ॥
—:
:—
( १ ) प्र ॥ किं ब्रह्म ?
उ ॥ यतः सर्वज्ञात् सर्वशक्तेः कारणात् जगतः जन्मस्थिति
भङ्गं भवति तत् नित्यशुद्धबुद्धमुक्तस्वभावं ब्रह्म ॥ १-
१ - २ ०
( २ ) प्र ॥ ब्रह्म नित्यशुद्धतया निर्गुणं चेत् तथाविधस्य ब्रह्मणः
सर्वज्ञत्वं सर्वशक्तित्वं च कथम् ?
उ ॥ ब्रह्मणो निर्गुणस्यापि सर्वज्ञत्वं सर्वशक्तित्वं चाविद्या
त्मकोपाधिपरिच्छेदापेक्षं न परमार्थतः ॥ २-१-१४.
( ३ ) प्र ॥ अविद्या सत्पदार्थो वा असत्पदार्थो वा ?
उ ॥ सती असती इति वक्तुं न शक्यते ? अविद्या सर्वज्ञस्य
ईश्वरस्य माया शक्तिः प्रकृतिः इति श्रुतिस्मृतिषु उच्य
ते ॥ २-१-१४.
( ४ ) प्र ॥ ब्रह्म जगतः कारणं चेत्, किं उपादानकारणं किं वा नि
मित्तकारणम् ?
उ ॥ जगतः उपादानकारणं निमित्तकारणं च ब्रह्मैव ॥ १-४-२३,
( ५ ) प्र ॥ ब्रह्म जगतः उपादानकारणं चेत् ब्रह्म एकदेशेन परिण
मते किम् ?
उ ॥ ब्रह्म अखण्डं तस्य एकदेशः परिणमते इति वक्तुं न श
क्यते ॥ २-१-२७.
( ६ ) प्र ॥ ब्रह्म विशिष्टं परिणमते किम् ?
उ ॥ न ॥ २-१-२७.
( ७ ) प्र ॥ खण्डेन वा अखण्डरूपेण वा परिणामाभावे ब्रह्मणः उ
पादानकारणत्वं कथम् ?