पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 1174, कुल 1267 में से
संदर्भ में पढ़ेंद्वितीयः परिशिष्टः ॥ ११२७
उ ॥ ज्ञानानन्तरं मिथ्यैव ॥ ४-१-३.
(२८) प्र ॥ मिथ्यारूपवेदोक्तोपासनेन सत्यज्ञानं कथं भवति ?
उ ॥ स्वप्नं असत्यमपि स्वप्नदर्शनेन जाग्रति सत्यफलप्राप्तिः
यथा सम्भवति तथा वेदोक्तोपासनया यथार्थज्ञानं स-
म्भवति । यः स्वप्ने कृष्णं कृष्णदन्तं पुरुषं पश्यति स
एनं हन्ति यः स्वप्नेषु स्त्रियं पश्यति स समृद्धिं प्राप्नो-
ति इत्यादिश्रुतिवचनात् असत्येन कारणेन सत्यफलं स-
म्भवतीति सिद्धम् ॥ २-१-१४.
(२९) प्र ॥ मायाविशिष्टस्य सगुणब्रह्मणः उपासना केवलं ज्ञान-
साधनमेव वा सा अन्यफलमपि ददाति वा ?
उ ॥ सगुणोपासना उपासकस्य जीवस्य सङ्कल्पमात्रेण स-
र्वापेक्षितप्राप्तिरूपजगदैश्वर्यं ददाति ॥ ४-३-१४.
(३०) प्र ॥ सुकर्मिणां मरणात्परं का गतिः ?
उ ॥ धूमादिमार्गेण चन्द्रलोकं गत्वा तत्र भोगाननुभूय कर्म-
शेषेण इमं लोकं पुनरागच्छन्ति कर्मानुसारेण जन्म प्रा-
प्नुवन्ति ॥ ३-१-८.
(३१) प्र ॥ दुष्कर्मिणां अकर्मिणां च का गतिः ?
उ ॥ ते यमलोकं गच्छन्ति तत्र दुःखं अनुभूय इमं लोकं पु-
नः प्रविशन्ति ॥ ३-१-१३, १४.
(३२) प्र ॥ निर्गुणोपासकानां का गतिः ?
उ ॥ गम्याभावात् तेषां गतिः नास्ति । ज्ञानात् ब्रह्मत्वमेव
सिध्यति ॥ ४-३-१४.
(३३) प्र ॥ सगुणोपासकानां का गतिः ?
उ ॥ अर्चिरादिमार्गेण चतुर्मुखब्रह्म प्राप्नुवन्ति तल्लोकप्रळ