सामग्री पर जाएँ
सर्वकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 1176, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 1176

॥ तृतीयः परिशिष्टः ॥
——————✻——————
॥ भगवद्रामानुजभाष्यानुसारिसिद्धान्तसंग्रहः ॥
—————:✲:—————
( १ ) प्र ॥ जगत्कारणं किम् ?
उ ॥ यत् जगदिति व्यवह्रियते तत् स्थूलचिदचिद्विशिष्टं ब्र-
ह्म । तस्य कारणं सूक्ष्मचिदचिद्विशिष्टं ब्रह्म ॥ १-१-१०
( २ ) प्र ॥ विशेषणीभूतस्य चिदचिद्रूपजगतः कारणं किम् ?
उ ॥ ब्रह्मैव ॥
( ३ ) प्र ॥ ब्रह्म निमित्तकारणं वा उपादानकारणं वा ?
उ ॥ उभयं च ॥
( ४ ) प्र ॥ संकल्पद्वारा ब्रह्म निमित्तकारणं भवतु । उपादानकार-
णं कथं भवति ?
उ ॥ चिदचितोः अपृथक्सिद्धाधारत्वात् तादृशचिदचिद्वै-
शिष्ट्यरूपकार्यकारणावस्थायोगात् उपादानकारणं भ-
वति ॥ १-१-१०
( ५ ) प्र ॥ ब्रह्म किंलक्षणकम् ?
उ ॥ ब्रह्म निखिलजगज्जन्मादिकारणं निरस्तनिखिलदोषं
समस्तकल्याणगुणाकरं सत्यं ज्ञानमनन्तं सर्वात्मक-
मनवधिकातिशयानन्दं च ॥ १-१-१,२० ३-२-११.
( ६ ) प्र ॥ ब्रह्मणस्सर्वात्मकत्वे सर्वदोषास्पदत्वमपरित्याज्यमिति
कथं तस्य निरस्तनिखिलदोषता ?
उ ॥ सर्वात्मकत्वं हि न सर्वाभिन्नत्वं । किन्तु सर्वान्तर्यामि-
त्वं यदेवसर्वशरीरत्वमित्युच्यते । यथा च सर्वव्यापि-
नोऽपि वाय्वादेः न व्याप्यगतदोषास्पदता । यथा वा
शरीरगतैर्दोषैः शारीरश्चेतनो नस्पृश्यते तथा सर्वान्त-
र्याम्यपि ब्रह्म निरस्तनिखिलदोषमेव ॥ ३-२-११.
१४२