पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 1178, कुल 1267 में से
संदर्भ में पढ़ेंतृतीयः परिशिष्टः ॥ ११३१
(१७) प्र ॥ जीवः परतन्त्रकर्ता चेत् विधिनिषेधशास्त्रस्य निष्प्र-
योजनत्वं नापतति किम् ?
उ ॥ शास्त्रं हि इदं कार्यं इति इदं अकार्यं इति ज्ञानाय प्र-
वृत्तम् । जीवः शास्त्रानुसारेण अनुष्ठाने अननुष्ठाने च
स्वतन्त्रः अतः विधिनिषेधशास्त्रं सप्रयोजनम् । शास्त्रा-
र्थोऽनुष्ठानप्रवृत्त्यनन्तरं भगवत्प्रेरणं विना कार्यं न निष्प-
द्यते । अतः जीवः परतन्त्रकर्ता ॥ २-३-४१.
(१८) प्र ॥ जीवानां भूतसम्बन्धः देहान्ते निवर्तते वा न वा ?
उ ॥ मुक्तिपर्यन्तं न निवर्तते । कर्मानुसारेण भूयोभूयः जन्मा-
न्तरं प्राप्नुवन्ति ॥ ३-१-१.
(१९) प्र ॥ जीवानां जन्मान्तरादिक्लेशात् कथं मुक्तिः ?
उ ॥ भगवदुपासनातः प्रीतः परमात्मा मुक्तिं ददाति ॥ ३-
४-१, १-१०.
(२०) प्र ॥ कर्मउपासकेनाप्यनुष्ठेयं किम् ?
उ ॥ कर्म उपासनायाः अङ्गम् । अतः अवश्यं अनुष्ठेयम् ॥
३-४-२६.
(२१) प्र ॥ उपासना का ?
उ ॥ उपासना अविच्छिन्नस्मृतिसन्ततिरूपा ध्यानवेदनभ-
क्तिज्ञानादिशब्दवाच्या संस्कारपरिपाकसमासादित
विशदत मप्रत्यक्षाकारा ॥ ३-४-२६.
(२२) प्र ॥ उपास्यं ब्रह्म उपासितुः अन्यत्वेन उपास्यं किं उत
आत्मत्वेन ?
उ ॥ जीवः शरीरस्य यथा आत्मा तथा स्वस्यापि परब्रह्म
आत्मेति उपासीत ॥ ४-१-३.