सामग्री पर जाएँ
सर्वकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 1171, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 1171

११२४ द्वितीयःपरिशिष्टः ॥
उ ॥ उपादानकारणं द्विविधं परिणाम्युपादानं विवर्तोपा-
दानं चेति, ब्रह्म विवर्तोपादानकारणं न परिणाम्युपादा-
नकारणम् ॥ २-१-२७.
( ८ ) प्र ॥ विवर्तोपादानकारणं कीदृशम् ?
उ ॥ रज्जौ सर्पभ्रमे रज्जुः सर्पस्य कारणं इति यत् तादृशं
विवर्तोपादानकारणम् ॥
( ९ ) प्र ॥ सर्परज्जुदृष्टान्ते सर्पः यथा मिथ्या तथा जगदपि मिथ्या
किम् ?
उ ॥ मिथ्यैव, न सत्यं, तर्हि स्वप्नदृष्टकल्पितपदार्थ इव जगत्
केवलं मिथ्या ? न, यत स्वप्ने दृष्टं तत् स्मृतमात्रं यत् जा-
गरे दृष्टं तत् उपलब्धं, अतः स्वप्नकाले दृष्टपदार्थ इव के-
वलं मिथ्या न, ब्रह्म विना सत्पदार्थ एव नास्ति अतः ज-
गत् सत्यमिति वक्तुमपि न शक्यते॥ २-२-२९, १-४-२३.
( १० ) प्र ॥ जगत् केवलं मिथ्या न केवलं सत्यं न इति चेत् किमि-
ति मन्तव्यम् ?
उ ॥ व्यवहारे सत्यं पारमार्थिकदशायां असत्यं इति मन्तव्यं
स्वप्ने दृष्टपदार्थाः स्वप्नान्तपर्यन्तं यथा सत्याः तथा स-
र्वं ब्रह्म इति ज्ञानात्पूर्वं जगत् सत्यं अनन्तरं मिथ्या इति
मन्तव्यम् ॥ २-१-१४.
( ११ ) प्र ॥ ब्रह्मणः अन्यस्य वस्तुनः अभावे जगत् ब्रह्म कथं सृजति ?
उ ॥ अविद्याकल्पिते प्रपञ्चस्य बीजभूते अनिर्वचनीये नामरू-
पे स्तः ते ब्रह्म प्रकटीकरोति, तदेव सृष्टिः॥ २-१-१४,
१-४-१५.
( १२ ) प्र ॥ नामरूपाभ्यां ईश्वरः अन्यो वा अनन्यो वा ?
उ ॥ अन्यः ॥ २-१-१४.
( १३ ) प्र ॥ जगत्सृष्ट्या ब्रह्मणः किं प्रयोजनम् ?
उ ॥ प्रयोजनं नास्ति लीलया सृष्टिं करोति ॥ २-१-३३.