पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 1168, कुल 1267 में से
संदर्भ में पढ़ेंप्रतीयमानसिद्धान्तः ॥ ११२१
उ ॥ पुण्यकर्म्मिणः धूमादिमार्गेण चन्द्रलोकं प्राप्य तत्र भोगा
न् भुक्त्वा शेषेण कर्मणा इमं लोकं आयान्ति । पापक
र्म्मिणः तिर्यग्जन्म वा नरकं वा प्राप्नुवन्ति, तत्र दुःखं अनु
भूय के चित् जीवाः पुनरपि मनुष्यजन्म प्राप्नुवन्ति,
के चित् जीवाः तमसि अवरोहन्ति ॥ ३-१-८, ३-१-९,
३-१-१८, ३-१-१४.
( ३६ ) प्र ॥ नरके भेदः अस्ति किम् ?
उ ॥ अस्ति, नरकाणि सप्त, द्वे नित्ये, पञ्च अनित्यानि, नि
त्यनरके पतितस्य आरोहणं नास्ति ॥ ३-१-१६, ३-१-१४.
( ३७ ) प्र ॥ मोक्षदातुः विष्णोः लक्षणानि ज्ञातुं इच्छामि ?
उ ॥ विष्णुः आनन्दपूर्णः ॥ १-१-१३.
( २ ) सर्वान्तर्यामी ॥ १-१-१८.
( ३ ) पृथिवीस्वर्गाद्याधारः ॥ १-३-१.
( ४ ) अदृश्यः ॥ १-२-२१.
( ५ ) प्राकृतरूपरहितः ॥ ३-२-१४.
( ६ ) गुणगुणिभेदरहितः ॥ ३-२-२८.
( ७ ) अवयवावयविभेदरहितः ॥ १-१-१५.
( ८ ) ज्ञानानन्दाद्यात्मकशरीरवान् ॥ २-२-४१.
( ९ ) सर्वपालकः ॥ ३-२-२२.
( १० ) सृष्टिसंहारकर्ता ॥ १-१-२.
( ११ ) अव्यक्तः ॥ ३-२-२३.
( १२ ) मुक्तप्राप्यः ॥ १-३-२.
( १३ ) सर्वगतः ॥ १-२-१०.
( १४ ) सर्वशब्दवाच्यः ॥ १-४-१०, १-४-११.
( १५ ) युक्तिविरुद्धाविरुद्धचिन्त्याचिन्त्यसर्वगुणोपेतः ॥ २-
१-३८.
( ३८ ) प्र ॥ विष्णुः अदृश्यश्चेत् उपासकानां कथं तस्य साक्षात्का
रः भवति ?
उ ॥ अदृश्योऽपि स्वप्रसादात् उपासकानां व्यक्तः भवति ॥
३-२-२७.
१४१