पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 1173, कुल 1267 में से
संदर्भ में पढ़ें११२६ द्वितीयः परिशिष्टः ॥
ब्धकर्म अनुभवेनैव नश्यति अनुभवानन्तरं ब्रह्मज्ञानी
ब्रह्म प्राप्नोति ॥ ४-१-१५, ३-३-२६.
(२१) प्र ॥ काम्यकर्मापि ज्ञानसाधनं किम् ?
उ ॥ न ॥ ४-१-१७.
(२२) प्र ॥ जीवः कर्ता वा ?
उ ॥ यथा तक्षा यावत् उपकरणवान् तावत् कर्ता भवति,
स्वगृहप्राप्त्यनन्तरं निर्व्यापारः सुखी च भवति, तथा
जीवः यावत् अविद्यासम्बन्धी तावत् कर्ता, अनन्तरं
न ॥ २-३-४०.
(२३) प्र ॥ जीवानां कर्तृत्वं भगवदधीनं वा न वा ?
उ ॥ भगवदधीनमेव, पूर्वकर्मानुसारेण परमात्मा जीवैः क-
र्म कारयति मोक्षोऽपि भगवदनुग्रहादेव ॥ २-३-४२.
(२४) प्र ॥ ब्रह्मणः जीवस्य एकत्वे उपास्योपासकभावः कथम् ?
उ ॥ ब्रह्म द्विरूपं, एकं नामरूपविकारभेदोपाधिविशिष्टं अ-
न्यत् तद्विपरीतं जीवस्य अविद्यावस्थायां नामरूपवि-
शिष्टस्य ब्रह्मणः उपास्योपासकादिलक्षणव्यवहारः ॥
१-१-१२, ४-३-१४.
(२५) प्र ॥ ब्रह्म सगुणत्वनिर्गुणत्वभेदेन द्विरूपं इति भवद्भिः उ-
क्तं । तत् द्विरूपं कालभेदेन वा एककाले वा ?
उ ॥ एककाले द्वे रूपे स्तः ॥
(२६) प्र ॥ उपासना कथं कार्या ?
उ ॥ ब्रह्म मम आत्मा इति उपासना कार्या ॥ ४-१-३.
(२७) प्र ॥ ज्ञानानन्तरं ब्रह्म विना किमपि नास्ति खलु अतः वेदोऽ-
पि मिथ्या वा ?