सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

प्राप्तौ वानियमात् ॥ ६८ ॥
शरीरोत्पत्तिनिमित्तवत्संयोगोत्पत्तिनिमित्तं कर्म ॥ ६९ ॥
एतेनानियमः प्रत्युक्तः ॥ ७० ॥
उपपन्नश्च तद्वियोगः कर्मक्षयोपपत्तेः ॥ ७१ ॥
तददृष्टकारितमिति चेत् पुनस्तत्प्रसङ्गोऽपवर्गे ॥ ७२ ॥
न करणाकरणयोरारम्भदर्शनात् ॥ ७३ ॥
मनः कर्मनिमित्तत्वाच्च संयोगानुच्छेदः ॥ ७४ ॥
नित्यत्वप्रसङ्गश्च प्रायणानुपपत्तेः ॥ ७५ ॥
अणुश्यामतानित्यत्ववदेतत्स्यात् ॥ ७६ ॥
नाकृताभ्यागमप्रसङ्गात् ॥ ७७ ॥
इति गौतमसूत्रे तृतीयाध्यायस्य द्वितीयमाह्निकम् ।
॥ इति गौतमसूत्रे तृतीयोऽध्यायः ॥


प्रवृत्तिर्यथोक्ता ॥ १ ॥
तथा दोषाः ॥ २ ॥
तत्त्रैराश्यं रागद्वेषमोहायार्थान्तरभावात् ॥ ३ ॥
नैकप्रत्यनीकभावात् ॥ ४

२० न्यायसूत्रोद्धारे-
न दोषलक्षणावरोधान्मोहस्य ॥ ८ ॥
नित्यनैमित्तिकोपपत्तेश्च तुल्यजातीयानामप्रतिषेधः ॥ ९ ॥
आत्मनित्यत्वे प्रेत्यभावसिद्धिः ॥ १० ॥
व्यक्ताद्व्यक्तानां प्रत्यक्षप्रामाण्यात् ॥ ११ ॥
न घटाद् घटानिष्पत्तेः ॥ १२ ॥
व्यक्ताद् घटनिष्पत्तेरप्रतिषेधः ॥ १३ ॥
अभावाद्भावोत्पत्तिर्नानुपमृद्य प्रादुर्भावात् ॥ १४ ॥
व्याघातादप्रयोगः ॥ १५ ॥
नातीतानागतयोः कारकशब्दप्रयोगात् ॥ १६ ॥
न विनष्टेभ्योऽनिष्पत्तेः ॥ १७ ॥
क्रमनिर्देशादप्रतिषेधः ॥ १८ ॥
ईश्वरः कारणं पुरुषकर्माफल्यदर्शनात् ॥ १९ ॥
न पुरुषकर्माभावे फलानिष्पत्तेः ॥ २० ॥
तत्कारितत्वादहेतुः ॥ २१ ॥
अनिमित्ततो भावोत्पत्तिः कण्टकतैक्ष्ण्यादिदर्शनात् ॥ २२ ॥
[L

नोत्पत्तिविनाशकारणोपलब्धेः ॥ ३० ॥
तल्लक्षणावरोधादप्रतिषेधः ॥ ३१ ॥
नोत्पत्तितत्कारणोपलब्धेः ॥ ३२ ॥
न व्यवस्थानुपपत्तेः ॥ ३३ ॥
सर्वं पृथग्भावलक्षणपृथक्त्वात् ॥ ३४ ॥
नानेकलक्षणैरेकभावनिष्पत्तेः ॥ ३५ ॥
लक्षणव्यवस्थानादेवाप्रतिषेधः ॥ ३६ ॥
सर्वमभावो भावेष्वितरेतराभावसिद्धेः ॥ ३७ ॥
न स्वभावसिद्धेर्भावानाम् ॥ ३८ ॥
नस्वभावसिद्धिरापेक्षिकत्वात् ॥ ३९ ॥
व्याहतत्वादयुक्तम् ॥ ४० ॥
संख्यैकान्तासिद्धिः कारणानुपपत्त्युपपत्तिभ्याम् ॥ ४१ ॥
न कारणावयवभावात् ॥ ४२ ॥
निरवयवत्वादहेतुः ॥ ४३ ॥
सद्यः कालान्तरे च फलनिष्पत्तेः संशयः ॥ ४४ ॥
न सद्यः कालान्तरोपभोग्यत्वात् ॥ ४५ ॥
कालान्तरेण निष्पत्तिर्हेतुविनाशात् ॥ ४६ ॥
प्राङ्निष्पत्तेर्वृक्षफलवत्तत्स्यात् ॥ ४७ ॥
नासन्न सन्न सदसत्सदसतोर्वैधर्म्यात् ॥ ४८ ॥
उत्पादव्ययदर्शनात् ॥ ४९ ॥
बुद्धिसिद्धं तु तदसत् ॥ ५० ॥
आश्रयव्यतिरेकाद् वृक्षफलोत्पत्तिवदित्यहेतुः ॥ ५१ ॥


सूत्रत्वे प्रमाणं न्यायसूचीनिबन्धः । ३०-३१-३२ इषां सूत्रत्वे प्रमाणं
न्यायसूचीनिबन्धः । ३३ अस्य सूत्रत्वे प्रमाणं वार्तिकम् । अन्तर्हितः पाठ इति
राधामोहनः । ३४ पूर्वपक्षसूत्रमिति वृत्तिः, न्यायसूचीनिबन्धेऽपीदम् । ३५-३६ अनयोः
सूत्रत्वे प्रमाणं न्यायसूचीनिबन्धः । ३७-३८ किंपुनरनेन सूत्रेण क्रियते । पूर्वसूत्रविरोध-
मोचत इति वार्तिकादनयोः सूत्रत्वम् । ३९-४० अनयोः सूत्रत्वे प्रमाणं न्यायसूची-
निबन्धः । ४१ प्रतिषेधोद्धारकं सूत्रमिति वार्तिकम् । ४२ एकान्तो ह्यर्थ सूत्रार्थ इति
वार्तिकम् । ४३-४४ अनयोः सूत्रत्वे प्रमाणं न्यायसूचीनिबन्धः । ४५ न-सद्यः फल-
मिति फलघटितं सूत्रं न्यायसूचीनिबन्धे । ४६ कालान्तरेणानिष्पत्तिर्हेतुविनाशादिति
पाठो न्यायसूचीनिबन्धे । ४७ इदं सूत्रमिति न्यायसूचीनिबन्धः । ४८ इदं सूत्रमिति
परिशुद्धिः । ४९-५० उत्पादव्ययदर्शनाद्बुद्धिसिद्धं तु तदसत्युभयोरपि
सूत्रत्वं सिद्धं भवतीति परिशुद्धिः । ५१ अत्र न्यायसूचीनिबन्धः प्रमाणम् ।

३२ न्यायसूत्रोद्धारे-
प्रीतेरात्माश्रयत्वादप्रतिषेधः ॥ ५२ ॥
न पुत्रपशुस्त्रीपरिच्छदहिरण्यादिफलनिर्देशात् ॥ ५३ ॥
तत्सम्बन्धात् फलनिष्पत्तेस्तेषु फलवदुपचारः ॥ ५४ ॥
विविधबाधनायोगाद् दुःखमेव जन्मोत्पत्तिः ॥ ५५ ॥
न सुखस्यान्तरालनिष्पत्तेः ॥ ५६ ॥
बाधनानिर्वृत्तेर्वेद्यतः पर्येषणदोषादप्रतिषेधः ॥ ५७ ॥
दुःखविकल्पे सुखाभिमानाच्च ॥ ५८ ॥
ऋणक्लेशप्रवृत्त्यनुबन्धादपवर्गाभावः ॥ ५९ ॥
प्रधानशब्दानुपपत्तेर्गुणशब्देनानुवादो निन्दाप्रशंसोपपत्तेः ॥ ६० ॥
समारोपणादात्मन्यप्रतिषेधः ॥ ६१ ॥
पात्रचयानुपपत्तेश्च फलाभावः ॥ ६२ ॥
सुषुप्तस्य स्वप्नादर्शने क्लेशाभावादपवर्गः ॥ ६३ ॥
न प्रवृत्तिः प्रतिसन्धानाय हीनक्लेशस्य ॥ ६४ ॥
न क्लेशसन्ततेः स्वाभाविकत्वात् ॥ ६५ ॥
प्रागुत्पत्तेरभावानित्यत्ववत्स्वाभाविकेऽप्यनित्यत्वम् ॥ ६६ ॥
अणुश्यामानित्यत्ववद्वा ॥ ६७ ॥
न सङ्कल्पनिमित्तत्वाच्च रागादीनाम् ॥ ६८ ॥
इतिश्रीगौतमसूत्रे चतुर्थाध्यायस्याद्यमाह्निकम् ।
दोषनिमित्तानां तत्त्वज्ञानादहङ्कारनिवृत्तिः ॥ १ ॥
दोषनिमित्तं रूपादयो विषयाः सङ्कल्पकृताः ॥ २ ॥
तन्निमित्तं त्वयम्भिमानः ॥ ३ ॥
विद्याविद्याद्वैविध्यात्संशयः ॥ ४ ॥
५२ आश्रयव्यतिरेकोऽसिद्ध इति सूत्रार्थः इति वार्तिकम् । ५३-५४ सूत्रार्थकथनेनैव
भाष्यवार्तिके व्याख्याते इति ता०टी० । ५५-५६-५७-५८ एषां सूत्रत्वे प्रमाणं न्या-
यसूचीनिबन्धः । ५९ अपवर्गः प्रत्याख्यायते अनेनेति सूत्रेनेति वार्तिकम् । ६० अस्य
सूत्रत्वे प्रमाणं न्यायसूचीनिबन्धः । गुणशब्देनेत्यर्थवाद इति पाठो न्यायसूत्रविवरणे ।
इतः परम् 'अन्यत्र च अधिकाराच्च विधानं विद्यान्तरवत्' इति सूत्रमधिकं वार्तिके
दृश्यते । ६१-६२ इमे सूत्रे इति परिशुद्धिः ॥ ६३-६४-६५-६६-६७-६८ एषां
सूत्रत्वे प्रमाणं न्यायसूचीनिबन्धः ।
१ इदं सूत्रमिति ता० टी० । २ सूत्रं दोषनिमित्तमित्यादि ता० टी० ।
३ सूत्रं तन्निमित्तमिति ता० टी० । ४ संशयप्रदर्शनाय सूत्रमिति वृत्तिः ।

गौतमसूत्रपाठः । २३
तदसंशयः पूर्वहेतुप्रसिद्धत्वात् ॥ ५ ॥
वृत्त्यनुपपत्तेरपि तर्हि न संशयः ॥ ६ ॥
कृत्स्नैकदेशवृत्तित्वादवयवानामवयव्यभावः ॥ ७ ॥
तेषु चावृत्तेरवयव्यभावः ॥ ८ ॥
पृथक्चावयवेभ्योऽवृत्तेः ॥ ९ ॥
नचावयव्यवयवाः ॥ १० ॥
एकस्मिन्भेदाभावाद् भेदशब्दप्रयोगानुपपत्तेरप्रश्नः ॥ ११ ॥
अवयवान्तराभावेप्यवृत्तेरहेतुः ॥ १२ ॥
केशसमूहे तैमिरिकोपलब्धिवत्तदुपलब्धिः ॥ १३ ॥
स्वविषयानतिक्रमेणेन्द्रियस्य पटुमन्दभावाद्द्विषयग्रहणस्य तथाभा-
वो नाविषये प्रवृत्तिः ॥ १४ ॥
अवयवावयविप्रसङ्गश्चैवमाप्रलयात् ॥ १५ ॥
न प्रलयोऽणुसद्भावात् ॥ १६ ॥
परं वा त्रुटेः ॥ १७ ॥
आकाशव्यतिभेदात् तदनुपपत्तिः ॥ १८ ॥
आकाशासर्वगतत्वं वा ॥ १९ ॥
अन्तर्बहिश्च कार्यद्रव्यस्य कारणान्तरवचनादकार्यं तदभावः ॥२०॥
शब्दसंयोगविभवाच्च सर्वगतम् ॥ २१ ॥
अव्यूहाविष्टम्भविभुत्वानि चाकाशधर्माः ॥ २२ ॥
मूर्तिमंतां च संस्थानोपपत्तेरवयवसद्भावः ॥ २३ ॥
संयोगोपपत्तेश्च ॥ २४ ॥
अनवस्थाकारित्वादनवस्थानुपपत्तेश्चाप्रतिषेधः ॥ २५ ॥
बुद्ध्या विवेचनात्तु भावानां याथात्म्यानुपलब्धिस्तन्त्वपकर्षणेन
पटसद्भावानुपलब्धिवत् तदनुपलब्धिः ॥ २६ ॥
५-६-७-८ एषां सूत्रत्वे प्रमाणं न्यायसूचीनिबन्धः । इमानि भाष्यमिति वृत्तिकृतः ।
९ पूर्वपक्षसूत्रमिति वृत्तिः । १०-११-१२ एषां सूत्रत्वे प्रमाणं न्यायसूचीनिबन्धः ।
१३ इदं सूत्रमिति ता० टी० । १४ पु० । अस्य सूत्रत्वे प्रमाणं ता०टी० दोषान्तरा-
भिधानाय सूत्रमिति वृत्तिः । १५-१६-१७ एषां सूत्रत्वे प्रमाणं न्यायसूचीनिबन्धः ।
१८-१९ संयोगमात्रं चोत्तरसूत्रेणानूद्यत इति वार्तिकाद्द्योत्तरस्य च सूत्रत्वम् ।
२०-२१-२२ एषां सूत्रत्वे प्रमाणं न्यायसूचीनिबन्धः । २३ अस्य सूत्रत्वे नन्विदं सूत्रं
संस्थानवत्त्वादित्यनेनेव चरितार्थमित्युत्तरसूत्रस्थं वार्तिकं प्रमाणम् । २४ अस्य सूत्रत्वे
संयोगित्वादिति सूत्रार्थ इति वार्तिकं प्रमाणम् । २५ अस्य सूत्रत्वे प्रमाणं न्यायसू-
चीनिबन्धः । २६ वं० पुं० तदनुपलब्धिरिति नास्ति । पूर्वपक्षसूत्रमिति वृत्तिः ।

२४ न्यायसूत्रोद्धारे —
व्याहतत्वादहेतुः ॥ २७ ॥
तदाश्रयत्वादपृथग्ग्रहणम् ॥ २८ ॥
प्रमाणतश्चार्थप्रतिपत्तेः ॥ २९ ॥
प्रमाणानुपपत्त्युपपत्तभ्याम् ॥ ३० ॥
स्वप्नविषयाभिमानवदयं प्रमाणप्रमेययाभिमानः ॥ ३१ ॥
मायागन्धर्वनगरमृगतृष्णिकावद्वा ॥ ३२ ॥
हेत्वभावादसिद्धिः ॥ ३३ ॥
स्मृतिसङ्कल्पवच्च स्वप्नविषयाभिमानः ॥ ३४ ॥
मिथ्योपलब्धिविनाशस्तत्त्वज्ञानात्स्वप्नविषयाभिमानः ॥ ३५ ॥
बुद्धेश्चैवं निमित्तसद्भावोपलम्भात् ॥ ३६ ॥
तत्त्वप्रधानभेदाच्च · मिथ्याबुद्धेर्वैविध्योपपत्तिः ॥ ३७ ॥
समाधिविशेषाभ्यासात् ॥ ३८ ॥
नार्थविशेषप्राबल्यात् ॥ ३९ ॥
क्षुधादिभिः प्रवर्त्तनाच्च ॥ ४० ॥
पूर्वकृतफलानुबन्धात्तदुत्पत्तिः ४१ ॥
अरण्यगुहापुलिनादिषु योगाभ्यासोपदेशः ॥ ४२ ॥
अपवर्गेप्येवं प्रसङ्गः ॥ ४३ ॥
न निष्पन्नावश्यंभावित्वात् ॥ ४४ ॥
तदभावश्चापवर्गे ॥ ४५ ॥
तदर्थं यमनियमाभ्यामात्मसंस्कारो योगाच्चाध्यात्मविध्युपायैः ॥ ४६ ॥
ज्ञानग्रहणाभ्यासस्तद्विद्यैश्च सह संवादः ॥ ४७ ॥
तं शिष्यगुरुसब्रह्मचारिविशिष्टश्रेयोर्थिभिरनसूयुभिरभ्युपेयात् ॥ ४८ ॥
प्रतिपक्षहीनमपि वा प्रयोजनार्थमर्थित्वे ॥ ४९ ॥
तत्त्वाध्यवसायसंरक्षणार्थं जल्पवितण्डे बीजप्ररोहसंरक्षणार्थं क-
ण्टकशाखावरणवत् ॥ ५० ॥
ताभ्यां विगृह्य कथनम् ॥ ५१ ॥
इति गौतमसूत्रे चतुर्थाध्याये द्वितीयमाह्निकम् ।
इति गौतमसूत्रे चतुर्थोऽध्यायः
२७-२८-२९-३०-३१-३२-३३ एषां सूत्रत्वे प्रमाणं न्यायसूचीनिबन्धः ।
३४-३५-३६ ३७-३८ एषां सूत्रत्वे प्रमाणं न्यायसूचीनिबन्धः । ३९-४०-४१
सूत्राणि ता० टी० । ४२-४३ अनयोः सूत्रत्वे प्रमाणं न्यायसूचीनिबन्धः । ४४ इदं
सूत्रमिति ता० टी० । ४५ अस्य सूत्रत्वे प्रमाणं न्यायसूचीनिबन्धः । ४६-४७-४८
अनयो सूत्रत्वे प्रमाणं न्यायसूचीनिबन्धः । ४९-५०-५१ एषां सूत्रत्वे ता० टीका
प्रमाणम् ।

गौतमसूत्रपाठः । २५
साधर्म्यवैधर्म्योत्कर्षापकर्षवर्ण्यावर्ण्यविकल्पसाध्यप्राप्त्यप्राप्तिप्रसङ्ग-
दृष्टान्तानुत्पत्तिसंशयप्रकरणहेत्वर्थापत्त्यविशेषोपपत्त्युपलब्ध्यनुपलब्धिनि-
त्यानित्यकार्यसमाः ॥ १ ॥
साधर्म्यवैधर्म्याभ्यामुपसंहारे तद्धर्मविपर्ययोपपत्तेः साधर्म्यवैध-
र्म्यसमौ ॥ २ ॥
गोत्वादगोसिद्धिवत्तत्सिद्धिः ॥ ३ ॥
साध्यदृष्टान्तयोर्धर्मविकल्पादुभयसाध्यत्वाच्चोत्कर्षापकर्षावर्ण्य-
वर्ण्यविकल्पसाध्यसमाः ॥ ४ ॥
किञ्चित्साधर्म्यादुपसंहारसिद्धेर्वैधर्म्यादप्रतिषेधः ॥ ५ ॥
साध्यातिदेशाच्च दृष्टान्तोपपत्तेः ॥ ६ ॥
प्राप्य साध्यमप्राप्य वा हेतोः प्राप्त्याऽविशिष्टत्वादप्राप्त्याऽसाधक-
त्वाच्च प्राप्त्यप्राप्तिसमौ ॥ ७ ॥
घटादिनिष्पत्तिदर्शनात् पीडने चाभिचारादप्रतिषेधः ॥ ८ ॥
दृष्टान्तस्य कारणानपदेशात् प्रत्यवस्थानाच्च प्रतिदृष्टान्तेन प्रसङ्गप्र-
तिदृष्टान्तसमौ ॥ ९ ॥
प्रदीपोपादानप्रसङ्गनिवृत्तिवत्तन्निवृत्तिः ॥ १० ॥
प्रतिदृष्टान्तहेतुत्वे च नाहेतुर्दृष्टान्तः ॥ ११ ॥
प्रागुत्पत्तेः कारणाभावाद्वनुत्पत्तिसमः ॥ १२ ॥
तथाभावादुत्पन्नस्य कारणोपपत्तेर्न कारणप्रतिषेधः ॥ १३ ॥
सामान्यदृष्टान्तयोर्येन्द्रियकत्वे समाने नित्यानित्यसाधर्म्यात्संशय-
समः ॥ १४ ॥
१ साधर्म्यादिसममिति वार्तिकम् । जातिविशेषलक्षणावतारहेतुतया सङ्कतेन
विभागसूत्रेण सह त्रिभिः सूत्रैः सत्प्रतिपक्षदेशनाभासप्रकरणम् लक्षणोत्तरसूत्रपिण्डने
त्रिभिः सूत्रैः साध्यदृष्टान्तधर्मविकल्पप्रभवोत्कर्षसमादिषट्कप्रकरणम् तथा द्विसूत्रकं
प्राप्त्यप्राप्तियुगपद्भावादिविकल्पोपक्रमजातिद्वयप्रकरणम् तथा द्वित्रिसूत्रकान्येकैक-
जातकानि द्वादश प्रकरणानि कथाभासरूपषट्पक्षीप्रकरणं चेति प्रथमाह्निके सप्तदश-
प्रकरणानि । अथ विभागसूत्रेण सह षड्भिः सूत्रैः प्रतिज्ञोपलक्षितैकमात्राश्रयनिग्रह-
स्थानचतुष्कप्रकरणं तथा द्विसूत्रकं स्वसिद्धान्तानुरूपप्रयोगाभासनिग्रहस्थानत्रिकप्रकरणं
तथा त्रिसूत्रकं पुनरुक्तनिग्रहस्थानप्रकरणम् चतुःसूत्रमनुत्तरफलनिग्रहस्थानचतुष्कप्रक-
रणम् तथा त्रिसूत्रकं भ्रान्तोत्तरनिग्रहस्थानत्रिकप्रकरणं तथा द्विसूत्रकं प्रमाणान्तरोप-
नयनप्रयासोद्भाव्यनिग्रहस्थानद्विकप्रकरणमित्येवं द्वितीयाह्निके सप्तप्रकरणानीति परि-
शुद्धिसंवादात् पञ्चमाध्यायसूत्रनिर्णयः । २-३-४-५-६-७ एषां सूत्रत्वे प्रमाणमन्वी-
क्षानयतत्त्वबोधे वर्धमानः । ८ इदं सूत्रमिति ता० टी० । ९-१०-११-१२-१३-१४

३६ न्यायसूत्रोद्धारे-
साधर्म्यात्संशये न संशयो वैधर्म्यादुभयथा वा संशयेऽत्यन्तसंशय-
प्रसङ्गो नित्यत्वानभ्युपगमाच्च सामान्यस्या प्रतिषेधः ॥ १५ ॥
उभयसाधर्म्यात्प्रक्रियासिद्धेः प्रकरणसमः ॥ १६ ॥
प्रतिपक्षात्प्रकरणसिद्धेः प्रतिषेधानुपपत्तिः ॥ १७ ॥
त्रैकाल्यासिद्धेर्हेतोरहेतुसमः ॥ १८ ॥
न हेतुतः कार्य्यसिद्धेस्त्रैकाल्यासिद्धिः ॥ १९ ॥
प्रतिषेधानुपपत्तेः प्रतिषेद्धव्याप्रतिषेधः ॥ २० ॥
अर्थापत्तितः प्रतिपक्षसिद्धेरर्थापत्तिसमः ॥ २१ ॥
अनुक्तस्यार्थापत्तेः पक्षहानेरुपपत्तिरनुक्तत्वादनेकान्तिकत्वाच्चा-
र्थापत्तेः ॥ २२ ॥
एकधर्मोपपत्तेरविशेषे सर्व्वाविशेषप्रसङ्गात्सद्भावोपपत्तेरविशेष-
समः ॥ २३ ॥
क्वचिद्धर्मानुपपत्तेः क्वचिच्चोपपत्तेः प्रतिषेधाभावः ॥ २४ ॥
उभयकारणोपपत्तेरुपपत्तिसमः ॥ २५ ॥
उपपत्तिकारणाभ्यनुज्ञानादप्रतिषेधः ॥ २६ ॥
निर्दिष्टकारणाभावेऽप्युपलम्भादुपलब्धिसमः ॥ २७ ॥
कारणान्तरादपि तद्धर्मोपपत्तेरप्रतिषेधः ॥ २८ ॥
तदनुपलब्धेरनुपलम्भादभावसिद्धौ तद्विपरीतोपपत्तेरनुपलब्धि-
समः ॥ २९ ॥
अनुपलम्भात्मकत्वादनुपलब्धेरहेतुः ॥ ३० ॥
ज्ञानविकल्पानां च भावाभावसंवेदनादध्यात्मम् ॥ ३१ ॥
साधर्म्यात्तुल्यधर्मोपपत्तेः सर्व्वानित्यत्वप्रसङ्गादनित्यसमः ॥ ३२ ॥
एषां सूत्रत्वे प्रमाणमन्वीक्षानयतत्त्वबोधे वर्द्धमानोपाध्यायाः । १९ इदं सूत्रमिति ता०
टी० । १६-१७-१८ एषां सूत्रत्वे प्रमाणमन्वीक्षानयतत्त्वबोधे वर्द्धमानोपाध्यायाः ।
१९ सं० पु० प्रज्ञातस्येत्यधिकमस्ति । २२ अस्य प्रत्यादेशसूत्रमिति वार्त्तिकम् ।
२३ अस्य सूत्रत्वे प्रमाणम् । २४ सं० पु० क्वचिच्चोपपत्तेरिति नास्ति अस्य प्रत्या-
देशसूत्रमिति ता० टी० । २५ अस्य सूत्रत्वे प्रमाणमन्वीक्षानयतत्त्वबोधः । २६
विरोधः सूत्रार्थ इति वार्त्तिकम् । २७ अस्य सूत्रत्वे प्रमाणमन्वीक्षानयतत्त्वबोधः ।
२८ सं० पु० रुपलब्धिसमः इत्यत्र र्प्रतिषेधः इत्येव पाठः । अस्य प्रत्याख्यान-
सूत्रमिति ता० टी० । २९-३० अनयोः सूत्रत्वे प्रमाणमन्वीक्षानयतत्त्वबोधः ।
३१ ममापि तु सर्व्वजनप्रत्यक्षत्वात्संवेदनीयत्वाद सूत्रकार इति ता० टी० । ३२ सं० पु०

गौतमसूत्रपाठः । २७
साधर्म्यादसिद्धेः प्रतिषेधासिद्धिः प्रतिषेध्यसाधर्म्याच्च ॥ ३३ ॥
दृष्टान्ते च साध्यसाधनभावेन प्रज्ञातस्य धर्मस्य हेतुत्वात्तस्य
चोभयथाभावात्नाविशेषः ॥ ३४ ॥
नित्यमनित्यभावादनित्ये नित्यत्वोपपत्तेर्नित्यसमः ॥ ३५ ॥
: प्रतिषेध्ये नित्यमनित्यभावादनित्ये नित्यत्वोपपत्तेः प्रतिषेधाभावः ३६
प्रयत्नकार्यानेकत्वात्कार्यसमः ॥ ३७ ॥
कार्यान्यत्वे प्रयत्नाहेतुत्वमनुपलब्धिकारणोपपत्तेः ॥ ३८ ॥
प्रतिषेधेऽपि समानो दोषः ॥ ३९ ॥
सर्वत्रैवम् ॥ ४० ॥
प्रतिषेधविप्रतिषेधे प्रतिषेधदोषवद्दोषः ॥ ४१ ॥
प्रतिषेधं सदोषमभ्युपेत्य प्रतिषेधविप्रतिषेधे समानौ दोषप्रसङ्गो मता-
नुज्ञा ॥ ४२ ॥
स्वपक्षलक्षणापेक्षा ऽप्युपसंहारे हेतुनिर्देशे परपक्षदोषाभ्युपगमा-

१८ न्यायसूत्रोद्धारे-
प्रकृतादर्थादप्रतिसम्बद्धार्थमर्थान्तरम् ॥ ७ ॥
वर्णक्रमनिर्देशवन्निरर्थकम् ॥ ८ ॥
परिषत्प्रतिवादिभ्यां त्रिरभिहितमप्यविज्ञातमविज्ञातार्थम् ॥ ९ ॥
पौर्वापर्यायोगादप्रतिसम्बद्धार्थमपार्थकम् ॥ १० ॥
अवयवविपर्यासवचनमप्राप्तकालम् ॥ ११ ॥
हीनमन्यतमेनाप्यवयवेन न्यूनम् ॥ १२ ॥
हेतुदाहरणाधिकमधिकम् ॥ १३ ॥
शब्दार्थयोः पुनर्वचनं पुनरुक्तमन्यत्रानुवादात् ॥ १४ ॥
अर्थादापन्नस्य स्वशब्देन पुनर्वचनम् ॥ १५ ॥
विज्ञातस्य परिषदा,त्रिरभिहितस्याप्यप्रत्युच्चारणमननुभाषणम् १६
अविज्ञातं चाज्ञानम् ॥ १७ ॥
उत्तरस्याप्रतिपत्तिरप्रतिभा ॥ १८ ॥
कार्यव्यासङ्गात्कथाविच्छेदो विक्षेपः ॥ १९ ॥
स्वपक्षदोषाभ्युपगमात् परपक्षे दोषप्रसङ्गो मतानुज्ञा ॥ २० ॥
निग्रहस्थानप्राप्तस्यानिग्रहः पर्यनुयोज्योपेक्षणम् ॥ २१ ॥
अनिग्रहस्थाने निग्रहस्थानाभियोगो निरनुयोज्यानुयोगः ॥ २२ ॥
सिद्धान्तमभ्युपेत्यानियमात् कथाप्रसङ्गोऽपसिद्धान्तः! ॥ २३ ॥
हेत्वाभासाश्च यथोक्ताः ॥ २४ ॥
शिवेमोरसि विधृतौ पादौ नश्चापवर्गदौ ।
व्यतेरिव न्यायसूत्राख्यं चैत्रे वस्त्वक्षितासवे ॥
इति गौतमसूत्रे पञ्चमाध्यायस्य द्वितीयाह्निकम् ।
॥ इति गौतमसूत्रे पञ्चमोऽध्यायः ॥
इति न्यायसूत्राणि ।
तात्पर्यटीकासु न विशिष्य प्रमाणम् । अथापि निग्रहस्थानविभागतद्विशेषलक्षणपरत्वे-
नैषां सूत्रत्वं निर्विवादम् ।
❋ समाप्तः ❋

न्यायमञ्जर्यां परिगृहीतग्रन्थकारनामानि ।
ग्रन्थकाराः पृ० पं० ग्रन्थकाराः पृ० पं०
अक्षपादः ३ २१ प्रवराः ७८ २७
आचार्याः ६२ १४ बाणः २१७ ५
आर्हताः १९८ ९ बौद्धाः २६ १५
ईश्वरकृष्णः ७०० १४ भट्टः ३ १५
कणव्रतः १०६ ३० भर्तृमित्र १९६ ६
कालिदासः २१६ १६ भर्तृहरिः ७५ ३०
कपिलाः १९७ ३० भाष्यकारः ३८१ १२
कीर्तिः द्वि० भा० १९१ १९ मनुः २३३ १९
गौतमयमापस्तम्बसंवर्तकाति- माघः ७९ २१
कादयः २४७ १५ मीमांसकः २६ १६
गौरमूलकम्-ग्रन्थकारपिता- याज्ञवल्क्यः २३७ १६
महग्रामः २५० १३ राजा १०० १६
चरकः २२८ १ वार्तिककारः ३८१ ८
चार्वाकः २६ १४ वृद्धनैयायिकः ७३ १६
जैमिनिः ५ ९ व्याख्यातारः ६३ ८
नारदः द्वि० भा० १९३ १ व्यासः २३० १३
पतञ्जलिः १८५ १७ शङ्खलिखितौ २३४ ५
पाणिनिः ५ ९ शाक्याः ७० १३
पिङ्गलः ५ १० शातातपः २३४ १०
पुष्पदन्तः ३९२ शौद्धोदनिशिष्यः १०७ २७
प्राभाकराः सांख्यः २६ १६

न्यायमञ्जर्यां परिगृहीतग्रन्थनामानि—
पृ० पं० ग्रन्थाः | पृ० पं० ग्रन्थाः
२ १६ अथर्ववेदः | २१४ १२ भारतम्
२२६ ३१ आयुर्वेदः | २३२ १ मनुस्मृतिः
२ १६ ऋग्वेदः | २९७ ७ महाभाष्यम्
५ २८ गौतमसूत्रम् | १८४ १३ मुण्डकोपनिषद्
२३२ २६ छान्दोग्योपनिषद् | २ १६ यजुर्वेदः
१९२ २३ जैमिनिसूत्रम् | ४ ५ याज्ञवल्क्यस्मृतिः
३६ १५ तन्त्रवार्तिकम् | १८५ १७ योगसूत्रम्
२३३ ११ तैत्तरीयब्राह्मणम् | ९६ १ रामायणम्
१९३ १ नारदस्मृतिः (द्वि० भा०) | ७६ १ वाक्यपदीयम्
२३१ २८ नारायणोपनिषद् | २९३ २० वैशेषिकसूत्रम्
५६ २ न्यायभाष्यम् | २३१ २८ शतपथब्राह्मणम्
२१२ ११ न्यायवार्तिकम् | १६ १२ शाबरभाष्यम्
२४२ १२ पाञ्चरात्रम् | १६ १३ श्लोकवार्तिकम्
१२४ २० प्रशस्तपादभाष्यम् | १८३ १७ श्वेताश्वतरोपनिषद्
२३३ ९ ब्रह्मोपनिषद् | ५४ १४ सांख्यकारिका (द्वि० भा०
१८४ ७ भगवद्गीता | २ १६ सामवेद

न्यायमञ्जर्यामुपलब्धानां ग्रन्थान्तरवाक्यानां टिप्पण्याम्-
प्रदर्शिततत्तद्ग्रन्थस्थलानां तत्तत्स्थलविवरणम् ।
पृ० पं० वाक्यानि पृ० पं० वाक्यानि
३३ १२ अभिघातोपघातात् श्लो. वा. सू. ५ श्लो. १०९
न्यायभाष्ये अ० १ आ० १ सू० ३ ३१७ ३ पदात्प्रसृति या चैषा
८ ३१ अथ शब्दानुशासनम् ३१३ पृष्ठे टिप्पणी द्रष्टव्या
'महाभाष्यस्य प्रथमं वाक्यम् । ३६५ १० पदानि स्वं स्वं
१३० ४ अधर्मे धर्मरूपेण शाबरभाष्ये अ. १ पा. १ सू. २५
श्लो. वा. सू. ४ श्लो. १०५ ३७२ ४ प्रकृतिप्रत्ययौ यद्वत्
१०४ ३१ अप्रत्यक्षोपलम्भस्य (द्वि० भा०) श्लो. वा. वाक्याधिकरणे श्लो. २५९
सर्वदर्शनसंग्रहे बौद्धदर्शने ११ ११ प्रदीपः सर्वविद्यानाम्
१७५ २३ असाधुरनुमानेन न्यायभाष्ये अ. १ आ. १ सू. १
वैयाकरण

न्यायमञ्जर्यामुपलब्धानां ग्रन्थान्तरवाक्याना-
मनुपलब्धस्थलानां विवरणम्—
पृ० पं० वाक्यानि पृ० पं० वाक्यानि
६८ १० अङ्गुष्ठ्यप्रादिवाक्येषु १७१ ३० पूर्वस्मिन्प्रत्यये प्राप्तप्रतिष्ठे
९८ १२ अधिगतमर्थ० २१७ ११ प्रतिमन्वन्तरं चैषा
२७ २० अनलाभ्यर्थनं पश्यन् २१ ३० प्रमाणमविसंवादकत्वं
२९ ५ अन्यथैवाभिसम्बन्धा० १०८ ९ प्रमाणस्यागौणत्वात्
२९ २ अन्यदेवेन्द्रियग्राह्य ३६८ ३० प्रमाणान्तरदर्शनं
८६ २३ अर्थोपयोगेऽपि पुनः १४६ १० प्रमाणान्तरदर्शनमत्र
९१ ३ आपः पवित्रं ९० ३ प्रार्थ्यमानं फलं
९४ २० आहुर्विधातृ (द्वि०भा०) १०५ २४ बाह्यसिद्धिः स्यात् (द्वि०भा०)
१९९ ११ उपसर्गवशाद्धातु० ८७ २१ भोगाभ्यासमनु० (द्वि०भा०)
२७६ ७ एकप्रत्यवमर्शस्य ३७० १४ मतद्वयमपीदं तु
९० २६ एकमेवेदृशं (द्वि० भा०) १११ १५ ममं त्वदृष्टिमात्रेण
८७ १५ एकस्यार्थस्वभावस्य १४८ २४ मृद्दण्डचक्रसूत्रादि
८७ २५ एष गुणी रूपादिभ्यो ८६ १९ यः प्राग्जनको बुद्धेः
९७ ११ कामशोकामयोन्माद १८४ १० यथा हि खप्रहृष्टोऽर्थः
१६७ २८ कार्यभेदवगम्येत १०६ ३० यदाभासं प्रमेयं
१६९ २३ कृतश्च शूलविध्वंसो ३४ २४ रजतं ख्यामानं हि (द्वि० भा०)
४८ १२ जरावियोगमरण (द्वि०भा०) ३९२ ६ रूपान्तरेण देवास्ते
२७ १७ तत्परिच्छिनत्ति ११५ ३० वर्तत एव ब्रूमः (द्वि० भ
१०५ १२ तत्रानुभवमात्रेण (द्वि०भा०) ३८० १८ वाक्येभ्य एव परि
५६ २४ तथापि नितरां (द्वि०भा०) २५९ ११ विधिरस्तुत्योः सदा वृत्तिः
७० १८ तदतद्रूपिणो भावाः ३१२ २ विधेर्लक्षणमेतावत्
२९१ ७ तद्युक्तं प्रतिव्यक्ति ८६ २८ विशेषणं विशेष्यं च
८७ २३ तृष्णाखनिरगाधेयं (द्वि०भा०) ३८६ २ वृत्तिसूत्रं तिला माषाः
३७३ १६ तेनाग्निहोत्रं जुहुयात् ८७ ३ सङ्केतस्मरणोपायं
३८५ ३१ दुग्धमद्रुगृहीतो वा २८ ३० समानविषयत्वे च
१०३ ३ द्वे ब्रह्मणी वेदितव्ये (द्वि०भा०) ८६ १० सर्वेषां सविपक्ष० (द्वि०भा
३ १४ धर्मे प्रमीयमाणे तु ६६ १९ स व्यापार प्रतीतत्वात्
३०७ १४ न सा केनचिदुत्पाद्या १९३ २ सारस्तु व्यवहाराणां (द्वि०
१७७ ६ किमीश्वरतयेश्वरो १७९ १४ सिद्धं यादृगधिष्ठातृ
२७७ १५ नानोपाध्युपकारान् ३३० ३२ स्मरणादभिलाषेण
३७३ २० नाभिनवाःकेचन ३७३ ११० स्वयं रागादिमाजार्थ
११६ २० नासिद्धे भावधर्मोऽस्ति