न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 648, कुल 654 में से
संदर्भ में पढ़ें३६ न्यायसूत्रोद्धारे-
साधर्म्यात्संशये न संशयो वैधर्म्यादुभयथा वा संशयेऽत्यन्तसंशय-
प्रसङ्गो नित्यत्वानभ्युपगमाच्च सामान्यस्या प्रतिषेधः ॥ १५ ॥
उभयसाधर्म्यात्प्रक्रियासिद्धेः प्रकरणसमः ॥ १६ ॥
प्रतिपक्षात्प्रकरणसिद्धेः प्रतिषेधानुपपत्तिः ॥ १७ ॥
त्रैकाल्यासिद्धेर्हेतोरहेतुसमः ॥ १८ ॥
न हेतुतः कार्य्यसिद्धेस्त्रैकाल्यासिद्धिः ॥ १९ ॥
प्रतिषेधानुपपत्तेः प्रतिषेद्धव्याप्रतिषेधः ॥ २० ॥
अर्थापत्तितः प्रतिपक्षसिद्धेरर्थापत्तिसमः ॥ २१ ॥
अनुक्तस्यार्थापत्तेः पक्षहानेरुपपत्तिरनुक्तत्वादनेकान्तिकत्वाच्चा-
र्थापत्तेः ॥ २२ ॥
एकधर्मोपपत्तेरविशेषे सर्व्वाविशेषप्रसङ्गात्सद्भावोपपत्तेरविशेष-
समः ॥ २३ ॥
क्वचिद्धर्मानुपपत्तेः क्वचिच्चोपपत्तेः प्रतिषेधाभावः ॥ २४ ॥
उभयकारणोपपत्तेरुपपत्तिसमः ॥ २५ ॥
उपपत्तिकारणाभ्यनुज्ञानादप्रतिषेधः ॥ २६ ॥
निर्दिष्टकारणाभावेऽप्युपलम्भादुपलब्धिसमः ॥ २७ ॥
कारणान्तरादपि तद्धर्मोपपत्तेरप्रतिषेधः ॥ २८ ॥
तदनुपलब्धेरनुपलम्भादभावसिद्धौ तद्विपरीतोपपत्तेरनुपलब्धि-
समः ॥ २९ ॥
अनुपलम्भात्मकत्वादनुपलब्धेरहेतुः ॥ ३० ॥
ज्ञानविकल्पानां च भावाभावसंवेदनादध्यात्मम् ॥ ३१ ॥
साधर्म्यात्तुल्यधर्मोपपत्तेः सर्व्वानित्यत्वप्रसङ्गादनित्यसमः ॥ ३२ ॥
एषां सूत्रत्वे प्रमाणमन्वीक्षानयतत्त्वबोधे वर्द्धमानोपाध्यायाः । १९ इदं सूत्रमिति ता०
टी० । १६-१७-१८ एषां सूत्रत्वे प्रमाणमन्वीक्षानयतत्त्वबोधे वर्द्धमानोपाध्यायाः ।
१९ सं० पु० प्रज्ञातस्येत्यधिकमस्ति । २२ अस्य प्रत्यादेशसूत्रमिति वार्त्तिकम् ।
२३ अस्य सूत्रत्वे प्रमाणम् । २४ सं० पु० क्वचिच्चोपपत्तेरिति नास्ति अस्य प्रत्या-
देशसूत्रमिति ता० टी० । २५ अस्य सूत्रत्वे प्रमाणमन्वीक्षानयतत्त्वबोधः । २६
विरोधः सूत्रार्थ इति वार्त्तिकम् । २७ अस्य सूत्रत्वे प्रमाणमन्वीक्षानयतत्त्वबोधः ।
२८ सं० पु० रुपलब्धिसमः इत्यत्र र्प्रतिषेधः इत्येव पाठः । अस्य प्रत्याख्यान-
सूत्रमिति ता० टी० । २९-३० अनयोः सूत्रत्वे प्रमाणमन्वीक्षानयतत्त्वबोधः ।
३१ ममापि तु सर्व्वजनप्रत्यक्षत्वात्संवेदनीयत्वाद सूत्रकार इति ता० टी० । ३२ सं० पु०