न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 645, कुल 654 में से
संदर्भ में पढ़ेंगौतमसूत्रपाठः । २३
तदसंशयः पूर्वहेतुप्रसिद्धत्वात् ॥ ५ ॥
वृत्त्यनुपपत्तेरपि तर्हि न संशयः ॥ ६ ॥
कृत्स्नैकदेशवृत्तित्वादवयवानामवयव्यभावः ॥ ७ ॥
तेषु चावृत्तेरवयव्यभावः ॥ ८ ॥
पृथक्चावयवेभ्योऽवृत्तेः ॥ ९ ॥
नचावयव्यवयवाः ॥ १० ॥
एकस्मिन्भेदाभावाद् भेदशब्दप्रयोगानुपपत्तेरप्रश्नः ॥ ११ ॥
अवयवान्तराभावेप्यवृत्तेरहेतुः ॥ १२ ॥
केशसमूहे तैमिरिकोपलब्धिवत्तदुपलब्धिः ॥ १३ ॥
स्वविषयानतिक्रमेणेन्द्रियस्य पटुमन्दभावाद्द्विषयग्रहणस्य तथाभा-
वो नाविषये प्रवृत्तिः ॥ १४ ॥
अवयवावयविप्रसङ्गश्चैवमाप्रलयात् ॥ १५ ॥
न प्रलयोऽणुसद्भावात् ॥ १६ ॥
परं वा त्रुटेः ॥ १७ ॥
आकाशव्यतिभेदात् तदनुपपत्तिः ॥ १८ ॥
आकाशासर्वगतत्वं वा ॥ १९ ॥
अन्तर्बहिश्च कार्यद्रव्यस्य कारणान्तरवचनादकार्यं तदभावः ॥२०॥
शब्दसंयोगविभवाच्च सर्वगतम् ॥ २१ ॥
अव्यूहाविष्टम्भविभुत्वानि चाकाशधर्माः ॥ २२ ॥
मूर्तिमंतां च संस्थानोपपत्तेरवयवसद्भावः ॥ २३ ॥
संयोगोपपत्तेश्च ॥ २४ ॥
अनवस्थाकारित्वादनवस्थानुपपत्तेश्चाप्रतिषेधः ॥ २५ ॥
बुद्ध्या विवेचनात्तु भावानां याथात्म्यानुपलब्धिस्तन्त्वपकर्षणेन
पटसद्भावानुपलब्धिवत् तदनुपलब्धिः ॥ २६ ॥
५-६-७-८ एषां सूत्रत्वे प्रमाणं न्यायसूचीनिबन्धः । इमानि भाष्यमिति वृत्तिकृतः ।
९ पूर्वपक्षसूत्रमिति वृत्तिः । १०-११-१२ एषां सूत्रत्वे प्रमाणं न्यायसूचीनिबन्धः ।
१३ इदं सूत्रमिति ता० टी० । १४ पु० । अस्य सूत्रत्वे प्रमाणं ता०टी० दोषान्तरा-
भिधानाय सूत्रमिति वृत्तिः । १५-१६-१७ एषां सूत्रत्वे प्रमाणं न्यायसूचीनिबन्धः ।
१८-१९ संयोगमात्रं चोत्तरसूत्रेणानूद्यत इति वार्तिकाद्द्योत्तरस्य च सूत्रत्वम् ।
२०-२१-२२ एषां सूत्रत्वे प्रमाणं न्यायसूचीनिबन्धः । २३ अस्य सूत्रत्वे नन्विदं सूत्रं
संस्थानवत्त्वादित्यनेनेव चरितार्थमित्युत्तरसूत्रस्थं वार्तिकं प्रमाणम् । २४ अस्य सूत्रत्वे
संयोगित्वादिति सूत्रार्थ इति वार्तिकं प्रमाणम् । २५ अस्य सूत्रत्वे प्रमाणं न्यायसू-
चीनिबन्धः । २६ वं० पुं० तदनुपलब्धिरिति नास्ति । पूर्वपक्षसूत्रमिति वृत्तिः ।