न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 644, कुल 654 में से
संदर्भ में पढ़ें३२ न्यायसूत्रोद्धारे-
प्रीतेरात्माश्रयत्वादप्रतिषेधः ॥ ५२ ॥
न पुत्रपशुस्त्रीपरिच्छदहिरण्यादिफलनिर्देशात् ॥ ५३ ॥
तत्सम्बन्धात् फलनिष्पत्तेस्तेषु फलवदुपचारः ॥ ५४ ॥
विविधबाधनायोगाद् दुःखमेव जन्मोत्पत्तिः ॥ ५५ ॥
न सुखस्यान्तरालनिष्पत्तेः ॥ ५६ ॥
बाधनानिर्वृत्तेर्वेद्यतः पर्येषणदोषादप्रतिषेधः ॥ ५७ ॥
दुःखविकल्पे सुखाभिमानाच्च ॥ ५८ ॥
ऋणक्लेशप्रवृत्त्यनुबन्धादपवर्गाभावः ॥ ५९ ॥
प्रधानशब्दानुपपत्तेर्गुणशब्देनानुवादो निन्दाप्रशंसोपपत्तेः ॥ ६० ॥
समारोपणादात्मन्यप्रतिषेधः ॥ ६१ ॥
पात्रचयानुपपत्तेश्च फलाभावः ॥ ६२ ॥
सुषुप्तस्य स्वप्नादर्शने क्लेशाभावादपवर्गः ॥ ६३ ॥
न प्रवृत्तिः प्रतिसन्धानाय हीनक्लेशस्य ॥ ६४ ॥
न क्लेशसन्ततेः स्वाभाविकत्वात् ॥ ६५ ॥
प्रागुत्पत्तेरभावानित्यत्ववत्स्वाभाविकेऽप्यनित्यत्वम् ॥ ६६ ॥
अणुश्यामानित्यत्ववद्वा ॥ ६७ ॥
न सङ्कल्पनिमित्तत्वाच्च रागादीनाम् ॥ ६८ ॥
इतिश्रीगौतमसूत्रे चतुर्थाध्यायस्याद्यमाह्निकम् ।
दोषनिमित्तानां तत्त्वज्ञानादहङ्कारनिवृत्तिः ॥ १ ॥
दोषनिमित्तं रूपादयो विषयाः सङ्कल्पकृताः ॥ २ ॥
तन्निमित्तं त्वयम्भिमानः ॥ ३ ॥
विद्याविद्याद्वैविध्यात्संशयः ॥ ४ ॥
५२ आश्रयव्यतिरेकोऽसिद्ध इति सूत्रार्थः इति वार्तिकम् । ५३-५४ सूत्रार्थकथनेनैव
भाष्यवार्तिके व्याख्याते इति ता०टी० । ५५-५६-५७-५८ एषां सूत्रत्वे प्रमाणं न्या-
यसूचीनिबन्धः । ५९ अपवर्गः प्रत्याख्यायते अनेनेति सूत्रेनेति वार्तिकम् । ६० अस्य
सूत्रत्वे प्रमाणं न्यायसूचीनिबन्धः । गुणशब्देनेत्यर्थवाद इति पाठो न्यायसूत्रविवरणे ।
इतः परम् 'अन्यत्र च अधिकाराच्च विधानं विद्यान्तरवत्' इति सूत्रमधिकं वार्तिके
दृश्यते । ६१-६२ इमे सूत्रे इति परिशुद्धिः ॥ ६३-६४-६५-६६-६७-६८ एषां
सूत्रत्वे प्रमाणं न्यायसूचीनिबन्धः ।
१ इदं सूत्रमिति ता० टी० । २ सूत्रं दोषनिमित्तमित्यादि ता० टी० ।
३ सूत्रं तन्निमित्तमिति ता० टी० । ४ संशयप्रदर्शनाय सूत्रमिति वृत्तिः ।