सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 650, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 650

१८ न्यायसूत्रोद्धारे-
प्रकृतादर्थादप्रतिसम्बद्धार्थमर्थान्तरम् ॥ ७ ॥
वर्णक्रमनिर्देशवन्निरर्थकम् ॥ ८ ॥
परिषत्प्रतिवादिभ्यां त्रिरभिहितमप्यविज्ञातमविज्ञातार्थम् ॥ ९ ॥
पौर्वापर्यायोगादप्रतिसम्बद्धार्थमपार्थकम् ॥ १० ॥
अवयवविपर्यासवचनमप्राप्तकालम् ॥ ११ ॥
हीनमन्यतमेनाप्यवयवेन न्यूनम् ॥ १२ ॥
हेतुदाहरणाधिकमधिकम् ॥ १३ ॥
शब्दार्थयोः पुनर्वचनं पुनरुक्तमन्यत्रानुवादात् ॥ १४ ॥
अर्थादापन्नस्य स्वशब्देन पुनर्वचनम् ॥ १५ ॥
विज्ञातस्य परिषदा,त्रिरभिहितस्याप्यप्रत्युच्चारणमननुभाषणम् १६
अविज्ञातं चाज्ञानम् ॥ १७ ॥
उत्तरस्याप्रतिपत्तिरप्रतिभा ॥ १८ ॥
कार्यव्यासङ्गात्कथाविच्छेदो विक्षेपः ॥ १९ ॥
स्वपक्षदोषाभ्युपगमात् परपक्षे दोषप्रसङ्गो मतानुज्ञा ॥ २० ॥
निग्रहस्थानप्राप्तस्यानिग्रहः पर्यनुयोज्योपेक्षणम् ॥ २१ ॥
अनिग्रहस्थाने निग्रहस्थानाभियोगो निरनुयोज्यानुयोगः ॥ २२ ॥
सिद्धान्तमभ्युपेत्यानियमात् कथाप्रसङ्गोऽपसिद्धान्तः! ॥ २३ ॥
हेत्वाभासाश्च यथोक्ताः ॥ २४ ॥
शिवेमोरसि विधृतौ पादौ नश्चापवर्गदौ ।
व्यतेरिव न्यायसूत्राख्यं चैत्रे वस्त्वक्षितासवे ॥
इति गौतमसूत्रे पञ्चमाध्यायस्य द्वितीयाह्निकम् ।
॥ इति गौतमसूत्रे पञ्चमोऽध्यायः ॥
इति न्यायसूत्राणि ।
तात्पर्यटीकासु न विशिष्य प्रमाणम् । अथापि निग्रहस्थानविभागतद्विशेषलक्षणपरत्वे-
नैषां सूत्रत्वं निर्विवादम् ।
❋ समाप्तः ❋