सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 647, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 647

गौतमसूत्रपाठः । २५
साधर्म्यवैधर्म्योत्कर्षापकर्षवर्ण्यावर्ण्यविकल्पसाध्यप्राप्त्यप्राप्तिप्रसङ्ग-
दृष्टान्तानुत्पत्तिसंशयप्रकरणहेत्वर्थापत्त्यविशेषोपपत्त्युपलब्ध्यनुपलब्धिनि-
त्यानित्यकार्यसमाः ॥ १ ॥
साधर्म्यवैधर्म्याभ्यामुपसंहारे तद्धर्मविपर्ययोपपत्तेः साधर्म्यवैध-
र्म्यसमौ ॥ २ ॥
गोत्वादगोसिद्धिवत्तत्सिद्धिः ॥ ३ ॥
साध्यदृष्टान्तयोर्धर्मविकल्पादुभयसाध्यत्वाच्चोत्कर्षापकर्षावर्ण्य-
वर्ण्यविकल्पसाध्यसमाः ॥ ४ ॥
किञ्चित्साधर्म्यादुपसंहारसिद्धेर्वैधर्म्यादप्रतिषेधः ॥ ५ ॥
साध्यातिदेशाच्च दृष्टान्तोपपत्तेः ॥ ६ ॥
प्राप्य साध्यमप्राप्य वा हेतोः प्राप्त्याऽविशिष्टत्वादप्राप्त्याऽसाधक-
त्वाच्च प्राप्त्यप्राप्तिसमौ ॥ ७ ॥
घटादिनिष्पत्तिदर्शनात् पीडने चाभिचारादप्रतिषेधः ॥ ८ ॥
दृष्टान्तस्य कारणानपदेशात् प्रत्यवस्थानाच्च प्रतिदृष्टान्तेन प्रसङ्गप्र-
तिदृष्टान्तसमौ ॥ ९ ॥
प्रदीपोपादानप्रसङ्गनिवृत्तिवत्तन्निवृत्तिः ॥ १० ॥
प्रतिदृष्टान्तहेतुत्वे च नाहेतुर्दृष्टान्तः ॥ ११ ॥
प्रागुत्पत्तेः कारणाभावाद्वनुत्पत्तिसमः ॥ १२ ॥
तथाभावादुत्पन्नस्य कारणोपपत्तेर्न कारणप्रतिषेधः ॥ १३ ॥
सामान्यदृष्टान्तयोर्येन्द्रियकत्वे समाने नित्यानित्यसाधर्म्यात्संशय-
समः ॥ १४ ॥
१ साधर्म्यादिसममिति वार्तिकम् । जातिविशेषलक्षणावतारहेतुतया सङ्कतेन
विभागसूत्रेण सह त्रिभिः सूत्रैः सत्प्रतिपक्षदेशनाभासप्रकरणम् लक्षणोत्तरसूत्रपिण्डने
त्रिभिः सूत्रैः साध्यदृष्टान्तधर्मविकल्पप्रभवोत्कर्षसमादिषट्कप्रकरणम् तथा द्विसूत्रकं
प्राप्त्यप्राप्तियुगपद्भावादिविकल्पोपक्रमजातिद्वयप्रकरणम् तथा द्वित्रिसूत्रकान्येकैक-
जातकानि द्वादश प्रकरणानि कथाभासरूपषट्पक्षीप्रकरणं चेति प्रथमाह्निके सप्तदश-
प्रकरणानि । अथ विभागसूत्रेण सह षड्भिः सूत्रैः प्रतिज्ञोपलक्षितैकमात्राश्रयनिग्रह-
स्थानचतुष्कप्रकरणं तथा द्विसूत्रकं स्वसिद्धान्तानुरूपप्रयोगाभासनिग्रहस्थानत्रिकप्रकरणं
तथा त्रिसूत्रकं पुनरुक्तनिग्रहस्थानप्रकरणम् चतुःसूत्रमनुत्तरफलनिग्रहस्थानचतुष्कप्रक-
रणम् तथा त्रिसूत्रकं भ्रान्तोत्तरनिग्रहस्थानत्रिकप्रकरणं तथा द्विसूत्रकं प्रमाणान्तरोप-
नयनप्रयासोद्भाव्यनिग्रहस्थानद्विकप्रकरणमित्येवं द्वितीयाह्निके सप्तप्रकरणानीति परि-
शुद्धिसंवादात् पञ्चमाध्यायसूत्रनिर्णयः । २-३-४-५-६-७ एषां सूत्रत्वे प्रमाणमन्वी-
क्षानयतत्त्वबोधे वर्धमानः । ८ इदं सूत्रमिति ता० टी० । ९-१०-११-१२-१३-१४