न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
यत्किञ्चिदर्थमालोक्य (च्य) न च कश्चित्प्रतीयते ॥
प्रतिबन्धो ऽपि नाज्ञातः प्रयाति मतिहेतुताम् ।
न सद्योजातबालादेरुद्भवन्ति तथा धियः ॥
न विशेषात्मना यत्र सम्बन्धज्ञानसम्भवः ।
तत्राप्यस्त्येव सामान्यरूपेण तदुपग्रहः ॥
अपि च तेन विना नोपपद्यते इति च व्यतिरेकभणितिरियं व्यतिरेकश्च
प्रतीतः तस्मिन्सत्युपपद्यते इत्यन्वयमाक्षिपति, अन्वयव्यतिरेकौ च गमकस्य
लिङ्गस्य धर्म इति कथमर्थापत्तिर्नानुमानम्, केवलव्यतिरेकी हेतुरन्वयमूल एव
गमक इति वक्ष्यामः ।
शक्तिनिराकरणम् ।
याश्च प्रत्यक्षादिपूर्विकाः शक्तिकल्पनायामर्थापत्तय उदाहृताः ताश्च शक्ते-
रतीन्द्रियाया अभावाद् निर्विषया एव ।
स्वरूपादुद्भवत्कार्यं सहकार्युपबृंहितात् ।
न हि कल्पयितुं शक्तं शक्तिमन्यामतीन्द्रियाम् ॥
ननु शक्तिमन्तरेण कारकमेव न भवेत्, यथा पादपं छेत्तुमनसा परशुरुद्य-
म्यते तथा पादुकाद्यप्युद्यम्येत शक्तेरनभ्युपगमे हि द्रव्यस्वरूपाविशेषात्सर्वस्मा-
त्सर्वदा कार्योदयप्रसङ्गः, तथा हि विषदहनयोर्मारणे दाहे च शक्तावनिष्यमाणायां
मन्त्रप्रतिबद्धायां स्वरूपप्रत्यभिज्ञायां सत्यामपि कार्यौदासीन्यं यद् दृश्यते तत्र का
युक्तिः, न हि मन्त्रेण स्वरूपसहकारिसन्निध्यं प्रतिबध्यते, तस्य प्रत्यभिज्ञायमा-
नत्वात्, शक्तिस्तु प्रतिबध्यते इति सत्यपि स्वरूपे सत्स्वपि सहकारिषु कार्या-
नुत्पादो युक्तः, किञ्च सेवाद्यर्जनादिसाम्येपि फलवैचित्र्यदर्शनादतीन्द्रियं कि-
मपि कारणं कल्पितमेव धर्मादि भवद्भिरतः शक्तिरतीन्द्रिया तथा ऽभ्युपग-
म्यतामिति—
तदेतदनुपपन्नम्, यत्तावदुपादाननियमादित्युकम्—तत्रोच्यते—न हि वय-
मद्य किञ्चिदभिनवं भावानां कार्यकारणभावमुत्थापयितुं शक्नुमः, किं तु यथा
प्रवृत्तमनुसरन्तो व्यवहरामः, न हास्मदिच्छया ऽऽपः शीतं शमयन्ति कृशानुर्वा
पिपासाम्, तत्र च्छेदनादावन्वयव्यतिरेकाभ्यां वृद्धव्यवहाराद्वा परश्वधादेरेव
कारणत्वमभ्यवगच्छाम इति तदेव तदर्थिन उपादद्महे न पादुकादीति, न च
परश्वघादेःस्वरूपसन्निधाने सत्यपि सर्वदा कार्योदयः स्वरूपवत्सहारिणामप्य-
पेक्षणीयत्वात्सहकार्यादिसन्निधानस्य सर्वदा ऽनुपपत्तेः, सहकारिवर्गे च धर्मा-
दिकमपि निपतति तदपेक्षे च कार्योत्पादे कथं सर्वदा तत्सम्भवः, धर्माधर्मयोश्च
वैचित्र्यकार्यबलेन कल्पनमपरिहार्यम् , तयोश्च न शक्तित्वादतीन्द्रियत्वम् ,
अपि तु स्वरूपमहिम्नैव मनःपरमाण्वादिवत् ।
यदपि विषदहनसन्निधाने सत्यपि मन्त्रप्रयोगात्कार्यादर्शनं तदपि न श-
क्तिप्रतिबन्धननिबन्धनमपि तु सामग्र्यन्तरानुप्रवेशहेतुकम् ।
ननु मन्त्रिणा प्रविशता तत्र किं कृतं न किं चित्कृतम् , सामग्र्यन्तरं तु
सम्पादितं का चिद्धि सामग्री कस्य चित्कार्यस्य हेतुः, स्वरूपं तदवस्थमेवेति
चेद् , यद्येवमभक्षितमपि विषं कथं न हन्यात् , तत्रास्य संयोगाद्यपेक्षणीयमस्तीति
चेन्मन्त्राभावो ऽप्यपेक्ष्यताम् , दिव्यकरणकाले धर्म इव मन्त्रो ऽप्यनुप्रविष्टः
कार्यं प्रतिहन्ति, शक्तिपक्षे ऽपि वा मन्त्रस्य को व्यापारः मन्त्रेण हि शक्ते-
र्नाशो वा क्रियते प्रतिबन्धो वा न तावन्नाशः, मन्त्रापगमे पुनस्तत्कार्यदर्श-
नात् , प्रतिबन्धस्तु स्वरूपस्यैव शक्तेरिवास्तु स्वरूपस्य किं जातं कार्योदासी-
न्यमिति चेत्तदितरतोपि समानम् , स्वरूपमस्त्येव दृश्यमानत्वादिति चेच्छक्ति-
रप्यस्ति पुनः कार्यदर्शनेनानुमीयमानत्वादिति,
किं वः शक्तिरभ्युपगम्यमाना पदार्थस्वरूपवन्नित्या ऽभ्युपगम्येत कार्या
वा नित्यत्वे सर्वदा कार्योदयप्रसङ्गः, सहकार्यपेक्षायां तु स्वरूपस्यैव तदपे-
क्षा ऽस्तु किं शक्त्या, कार्यत्वे तु शक्तेः पदार्थस्वरूपमात्रकार्यत्वं वा स्यात्सहका-
र्यादिसामग्रीकार्यत्वं वा स्वरूपमात्रकार्यत्वे पुनरपि सर्वदा कार्योत्पादप्रसङ्गः सर्व-
दा शक्तेरुत्पादात् सामग्रीकार्यत्वेतु कार्यमस्तु किमन्तरालवर्तिन्या शक्त्या,
अशक्तात्कारकात्कार्यं न निष्पद्यते इति चेच्छक्तिरपि कार्यं तदुत्पत्तावप्येवं
शक्त्यन्तरकल्पनादनवस्था, आह—दृष्टसिद्धये ह्यदृष्टं कल्प्यते न तु दृष्टविधा-
ताय शक्त्यन्तरकल्पनायां शक्तिश्रेणीनिर्माणे एव क्षीणत्वात्कारकाणां कार्य-
विघातः स्यादित्येकैव शक्तिः कल्प्यते तत्कुतो ऽनवस्था ।
अत्रोच्यते—यद्यदृष्टमन्तरेण दृष्टं न सिद्ध्यति काममदृष्टं कल्प्यताम् ,
अन्यथा ऽपि तु तदुपपत्तौ किं तदुपकल्पनेन, दर्शिता चान्यथाप्युपपत्तिः क-
ल्प्यमानमपि चादृष्टं तत्कल्प्यतां यदनवस्थां नावहेत धर्मादिवत् , अपि च
व्यापारो ऽप्यतीन्द्रियः शक्तिवदिष्यते भवद्भिरन्यतरकल्पनयैव कार्योपपत्तेः
किमुभयकल्पनागौरवेण, शक्तमव्याप्रियमाणं न कारकं कारकमिति चेत्तच्छ-
क्तमिति, तथा कथं जानामि, कार्यदर्शनाज्ज्ञास्यामीति चेद्व्यापारादेव कार्यं
सेत्स्यति, पादुकादेव्याप्रियमाणादपि न पादपच्छेदो दृश्यते—इति चेत् प्रत्यक्ष
स्तर्हि व्यापारा नातीन्द्रियो यतः कार्यदर्शनात्पूर्वमपि व्याप्रियमाणत्वं ज्ञात-
मायुष्मता, कार्यानुमेयो हि व्यापारः कार्यं विना न ज्ञायेतैव, कार्यं त्वन्यतर-
स्मादपि घटमानं नोभयं कल्पयितुं प्रभवतीत्यलं प्रसङ्गेन प्रकृतमनुसरामः ।
तस्मादतीन्द्रियायाः शक्तेरभावान्निर्विषया यथोदाहृतास्ता अर्थापत्तयः ।
त्वात्Then:पू र्वा? No, पूwith repha on... wait:पू र्वो प ल ब्धै वं वि ध गृ हा भा व व त्Wait! Is itपूर्वेोपलब्ध...? Look at र्वो: it has र्, व, and an ोmatra (one stroke left, one stroke right? No, one vertical line on right with slant on top, and one slant on top left). Wait! In Devanagari,ोhas a vertical bar after the letter and a slant on top. Here, afterर्व, there is a vertical bar with a top slant. And on top of र्वthere is also another slant! That makes it look likeौorोे! Wait, in old prints, ोis sometimes printed with the top slant directly above the vertical bar, or sometimes it'sपूर्वेोपलब्ध(the old Bombay/Marathi style of printingोasेon the letter +ाafter it, which givesे+ा=ो). Wait, let's check other ो: Look at जीवतोin L7:तhasो. It's a vertical bar with a top stroke. Look at गृहाभाव
प्राभाकरमतेनार्थापत्तेरनुमानवैलक्षण्यनिरूपणम्—
प्राभाकरास्तु प्रकारान्तरेणानुमानाद्भेदमुत्राचक्षते अनुमाने गमकविशेषणा-
मन्यथानुपपन्नत्वमनलं विना धूमो हि नोपपद्यते, इह तु विपर्ययः गम्यो गमकेन
विना नोपपद्यते गम्यो बहिर्भावः स जीवतो गृहाभावं विना नोपपद्यते गृहान्नि-
र्गतो जीवन् बहिर्भवतीति,भाष्यमप्येवं योजयन्ति, दृष्टः श्रुतो वार्थो ऽर्थक-
ल्पना अर्थान्तरं(१) कल्पयतीत्यर्थः, यतः सा कल्पना प्रमेयद्वारिका ऽन्यथा नो-
पपद्यते कल्पमानो ऽर्थो ऽन्यथा नोपपद्यते स च गम्य इति,
प्राभाकरमतार्थापत्तेरनुमानवैलक्षण्यनिराकरणम्—
एतदपि ग्रन्थवैक्ष्म्योपपादनमात्रं न तु नूतनविशेषोत्प्रेक्षणम्, गम्ये
तावदगृहीते सति तद्गतमनुपपद्यमानत्वं कथमवधार्येत गृहीते तु गम्ये किं
तद्गतानुपपद्यमानत्वग्रहणेन साध्यस्य सिद्धत्वात्, पुरा तद्गतमन्यथाऽनुपप-
द्यमानत्वं गृहीतमासीदिति चेद्, अहो महाननुमानाद्विशेषः इदं हि पूर्वं
प्रतिबन्धग्रहणमुक्तं स्यात्,
अपि च बहिर्भावस्य गृहाभावं विनाऽनुपपत्तिरिति उक्ते तस्मिन्सति त-
स्योपपत्तिर्वक्तव्य सा च का किमुत्पत्तिर्ज्ञाप्तिर्वा, यदि ज्ञप्तिः सा चानुमाने ऽपि,
गम्यं गमकं विना नास्ति तस्मिन्सत्यस्तीति समानः पन्थाः ।
उत्पत्तिस्तु गृहाभावाद् बहिर्भावस्य दुर्भणा ।
प्राक् सिद्धे हि गृहाभावे तदुत्पादः क्षणान्तरे ॥
कारणं पूर्वसिद्धं हि कार्योपादाय कल्पते ।
तेनैकत्र क्षणे जीवन्न गृहे न बहिर्भवेत् ॥
तस्माद्यत्किंचिदेतत् ।
एवं च यदेके ज्ञप्त्युत्पत्तिकृतमिह वैलक्षण्यमुत्प्रेक्षितवन्तो धूमेनाग्निर्गम्यते
एव गृहाभावेन बहिर्भावो जन्यते ऽपीति तदपि प्रत्युक्तं भवति ।
यत्तु संबन्धग्रहणाभावादित्युक्तं तदपि न सुन्दरम्, मन्दिराशुद्धम्(२) द्वा-
रावत्तिनस्तदुत्पत्तेः ।
एतच्च स्वयमाशङ्क्य न तैः प्रतिसमाहितम् ।
उदाहरणमन्यत्तु व्यत्ययेन प्रदर्शितम् ॥
गृहाभावेन बहिरभावकल्पनमिति तत्रैव तदेव तदेव वक्तव्यम्, इयमभाव-
पूर्विका न भवत्येवार्थापत्तिः, षडर्थापत्तीः प्रतिज्ञायैमामभावपूर्वीकामर्थापत्तिमु-
(१) ‘अर्थापत्तिरपि दृष्टः श्रुतो वार्थोऽन्यथा नोपपद्यत इत्यर्थकल्पना’ इति शा-
बरभाष्यम् ।
(२) मन्दिराशुद्धमित्यधिकं प्रतिभाति ।
५ न्या०
An exact line-by-line transcription of the Sanskrit text into Unicode Devanagari:
त्कोपनेयायिककटाक्षपातभीतामिह गहने हरिणीमिव यदुपेक्ष्य गम्यते तदत्यन्त-
मत्रभवतामनार्यजनोचितं चेष्टितम् ।
त्वदेकशरणां बालामिमामुत्सृज्य गच्छतः ।
कथं ते तर्कयिष्यन्ति सुखमन्या अपि स्त्रियः ॥
भावेनाभावकल्पना तु प्रत्यक्षपूर्विकाऽर्थापत्तिः, तस्या अपि च न दुरवगमः
संबन्धः, असर्वगतस्य द्रव्यस्य नियतदेशवृत्तेरक्लेशेन तदितरदेशनास्तित्वाव-
धारणात्, अनग्निव्यतिरेकनिश्चये च धूमस्य भवतां का गतिः, या तत्र वार्त्ता
सैवेहापि नो भविष्यति, न च भूयोदर्शनावगम्यमानानवयमात्रैकशरणतया-
यस्य वस्त्वन्तराभावो गम्यस्तस्यैव दुष्यति ।
मम त्वदृष्टिमात्रेण गमकाः सहचारिणः ॥
इति कथयितुमुचितम, अनिश्चितव्यतिरेकस्य साध्यनिश्चयाभावादिति दर्श-
uro-
Wait, "हविरार्त्तिमाच्छदितिवत्"?
Look at L20: "हविरार्त्तिमाच्छदितिवत्" - wait, look at footnote (2):
"यस्योभयं हविरात्तिमाच्छेद्"
In L20: "हविरार्त्तिमाच्छदितिवत्" or "हविरार्त्तिमाच्छे्दितिवत्"?
Look at the letter: 'च्छ' with an 'े' matra: "हविरार्त्तिमाच्छे्दितिवत्" or "हविरार्त्तिमाच्छदितिवत्"?
There is an e-matra: look at the top stroke on 'च्छ'! Yes, "हविरार्त्तिमाच्छे्दितिवत्" or "हविरार्त्तिमाच्छेदितिवत्" or "हविरार्त्तिमाच्छदितिवत्"? Wait, the e-matra is faint or missing, but wait, look above 'च्छ': there's a top slant!
Wait, look at footnote 2: "हविरात्तिमाच्छे्दैन्द्रं" -> "हविरातिर्माच्छेद् वैन्द्रं" / "हविरात्तिमाच्छेद्".
In L20: "(२) क चिदन्यथा स्थितानि तदनुरो-"
Yes, "तदनुरो-" at the end of L20!
L21:
धादन्यथैव स्थाप्यन्ते प्रयाज
तैकघनाकार (१)वाक्यार्थानुसारेण सतामसतां वा पदानां निमित्तभावव्यवस्था-
पनादश्रूयमाणतथाविधैकदेशादपि वाक्यात्तदर्थावगतिसम्भवात्किं श्रुतार्थापत्त्या,
अत एव न सोपानव्यवहितं तस्यार्थस्य शाब्दत्वं साक्षादेव तत्सिद्धेः, न च
श्रूयमाणेषु निमित्तेषु कुतस्तदर्थमवगच्छामः अनवगच्छन्तश्च कीदृशं नैमित्तिक-
मवकल्पयामः—
उच्यते—श्रुतेष्वपि पदेषु तेषां निमित्तभावो न स्वमहिम्ना ऽवकल्पते किं तु
नैमित्तिकानुसारद्वारक इत्युक्तम्, एवमश्रुतेष्वपि भविष्यति, न यजौ करणवि-
भक्तिं शृणुमो न स्वर्गे कर्मविभक्तिं नाग्निविदादिषु क्विप्प्रत्ययं नाधुनादिषु प्र-
कृतिं न समासत्तद्धितेषु यथोचितां विभक्तिमपि च प्रतीम एव तदर्थम्, एवं वि-
श्वजिदादावपि यजेतेति नैमित्तिकबलादेव स्वर्गकामादि
spaces around ऽ?
"पूर्वोक्तवीथ्या ऽनेन पथा ऽस्तु वा ॥" - yes, printed with spaces around avagraha: "पूर्वोक्तवीथ्या ऽनेन पथा ऽस्तु वा ॥"
Line 17:
"ध्वनिनिराकरणम्-"
Line 18:
"एतेन शब्दसामर्थ्यमहिम्ना सो ऽपि वारितः ।"
Line 19:
"यमन्यः पण्डितंमन्यः प्रपेदे कं चन ध्वनिम् ॥"
Line 20:
"विधेर्निषेधावगतिर्विधिबुद्धिर्निषेधतः ।"
Line 21:
"यथा—" (or "यथा-")
Line 22:
"भ्रम धम्मिअ वीसत्थो(१) मा स्म पान्थ गृहं विश ॥"
Wait, note the (१) is directly attached to वीसत्थो: "वीसत्थो(१)".
Line 23:
"मानान्तरपरिच्छेद्वस्तुरूपोपदेशिनाम् ।"
Wait, look at "परिच्छेद्वस्तुरूपोपदेशिनाम् ।"
Yes, exactly as printed.
Line 24:
"शब्दानामेव सामर्थ्यं तत्र तत्र तथा तथा ॥"
Line 25:
"अथ वा नेदृशी चर्चा कविभिः सह शोभते ।"
Line 2
४६ न्यायमञ्जर्याम्
अभावस्य प्रमाणान्तरत्वनिरूपणम् —
आह अभावस्तर्हि प्रमाणान्तरमस्तु ।
सत्परिच्छेदकं यत्र न प्रमाणं प्रवर्त्तते ।
तदभावमितौ मानं प्रमाणाभाव उच्यते ॥
इह घटो नास्तीति घटं प्रति सदुपलम्भकप्रमाणप्रवृत्तिर्नास्तीति असौ प्र-
माणाभावो घटाभावं परिच्छिनत्ति, तत्र च घटविषयज्ञातृव्यापारानुत्पाद एव
दृश्यादर्शनवाच्यः प्रमाणं, नास्तीति बुद्धिः फलम् ।
अथ वा घटाभावग्राही ग्रहीतृव्यापारः सदुपलम्भकप्रमाणाभावजनितो ना-
स्तीति प्रत्ययस्वभावः प्रमाणं, फलं तु हानादिज्ञानं भविष्यति, तदुक्तम्—
प्रत्यक्षादेरनुत्पत्तिः प्रमाणाभाव उच्यते ।
सात्मनोऽपरिणामो वा विज्ञानं वा ऽन्यवस्तुनि ॥ (१) इति ।
अन्यवस्तुशब्देन घटाभाव उक्तः, तत्र तावदिदं नास्तीति ज्ञानं न प्रत्यक्ष-
जनितमिन्द्रियार्थसन्निकर्षाभावात् , सन्निकर्षो हि संयोगसमवायस्वभावः तत्प्र-
भावभेदो वा संयुक्तसमवायादिरिह नास्त्येव संयुक्तविशेषणभावो ऽपि न सम्भ-
वति कुम्भाभावस्य भूप्रदेशविशेषणत्वाभावात् , न ह्यसंयुक्तमसमवेतं वा किं
चिद्विशेषणं भवति संयुक्तस्य दण्डादेः समवेतस्य शुक्लगुणादेस्तथाभावदर्शनाद्,
अभावश्च न केन चित्संयुज्यते अद्रव्यभावात् , न क चित्स समवैति गुणादि-
वैलक्षण्यादिति, यदि च संयुक्तविशेषणभावसन्निकर्षोपकृतं चक्षुरभावं गृह्णाति
तर्हि तद्विशेषात्संयुक्तद्रव्यवर्त्तीन् रसादीनपि गृह्णीयात् तदभावमपि मा ग्रहीद्-
योग्यत्वाविशेषात् , योग्यायोग्यत्वकृतग्रहणाग्रहणनियमवादे वा योग्यतैव स-
न्निकर्षो भवति किं षट्कघोषेण, तस्मान्न घटाभावज्ञानं चाक्षुषम् ।
ननु भूप्रदेशं च घटाभावं च विस्फारिते चक्षुषि निरीक्षामहे निमीलिते तु
(१) श्लो० अभावग्रन्थे १० श्लो० । अभावोऽपि प्रमाणाभावो नास्तीत्यर्थः
स्यासन्निकृष्टस्य' इति भाष्यम् । तत्र 'प्रमाणपञ्चकं यत्र वस्तु रूपे न जायते । वस्तुस-
त्तावबोधार्थं तत्राभावप्रमाणता' इत्यनेन प्रमाणपदं प्रत्यक्षादिप्रमाणपञ्चकपरमिति
व्याख्याय अभावशब्दं व्याचष्टे—प्रत्यक्षादेरिति । तां (प्रत्यक्षाद्यनुत्पत्तिं) द्विधा वि-
भजते सेति । सोऽयमात्मनो घटादिविषयः प्रत्यक्षादिज्ञानस्वरूपः परिणामः तदभाव-
मात्रमेवानुत्पत्तिरभाव इति बोध्यते तच्च घटाद्यभावविषयं नास्ति बुद्धिजनकत्या इ-
न्द्रियादिवत्प्रमाणम् नास्तीतिबुद्धिश्चफलम् सैव या बुद्धिर्घटाद्यभावरूपे वस्तुनि जाय
माना लक्षणयानुत्पत्त्यभावशब्दाभ्यामुच्यते तत्प्रमाणे च हानादिधीः फलम् , तदेवं
भाष्यार्थः प्रत्यक्षाद्यभावो यो नास्तीत्यर्थस्य बोधकः सोऽभावो नाम प्रमाणम् इति
न्यायरत्नाकरः ।
[Header] प्रमाणप्रकरणम् ४७
तस्मिंस्तयोरन्यतरमपि न पश्यामः, तत्र समाने च तद्भावभावित्वे भूप्रदेशज्ञानं
चाक्षुषमभावज्ञानं तु न चाक्षुषमिति कुतो विशेषमवगच्छामः, बाढमवगच्छा-
मः, सन्निकर्षाभावादेव न ह्यसन्निकृष्टं चक्षुरवगतिजन्मने प्रभवति तद्भावभावितं
त्विदमन्यथासिद्धम् , विदूरदेशे व्यवस्थितस्थूलज्वालावलीजटिलज्वलनगतभा-
स्वररूपोपलम्भानुवृत्तितद्गतोष्णस्पर्शज्ञानवत्, तत्र यथा रूपानुमीयमानस्पर्शवे-
दने नयनान्वयव्यतिरेकान्वयविधानमन्यथासिद्धम् एवमिहापि भूप्रदेशोपलम्भा-
विनाभाविनि कुम्भाभावग्रहणे तत्कृतमिन्द्रियान्वयव्यतिरेकान्वयविधानमिति
न चाक्षुषो घटाभावप्रतिभासः, तदुक्तम्—
गृहीत्वा वस्तुसद्भावं स्मृत्वा च प्रतियोगिनम् ।
मानसं नास्तिताज्ञानं जायते ऽक्षानपेक्षया ॥ (१) इति ।
अतश्चैवमसन्निहितस्यापि क चिद्ग्रहणदर्शनात् , स्वरूपमात्रेण गौरमू-
लकमपुलब्धवतः ततो देशान्तरं गतस्य तत्र केन चिद् गर्गो ऽस्ति वा नास्ति
वेति पृष्टस्य सतः स्वरूपमात्रं गृहीतं गौरमूलकमनुस्मरतः तदानीमसन्निकृष्टे
ऽपि गर्गस्याभावे तदैव तस्य ज्ञानमुदेति तत्रेन्द्रियकथा ऽपि नास्ति इति न तस्य
प्रत्यक्षत्वम् , चानुमानगम्यो ऽयमभावः भूप्रदेशस्य तद्गतघटादर्शनस्य वा
लिङ्गत्वानुपत्तेः, न भूप्रदेशो लिङ्गम् अगृहीतसम्बन्धस्यापि तत्प्रतीतेः अनैका-
न्तिकत्वाद् अपक्षधर्मत्वात् , तदधिकरणभावानन्येन सम्बन्धग्रहणासम्भवाच्च,
नापि घटादर्शनं लिङ्गम्, अपक्षधर्मत्वाद्घटादर्शनं घटस्य धर्मो न तदभावस्य,
घटाभावप्रतीति प्रति व्याप्रीयमाणत्वात्तद्धर्मत्वमस्येतिचेन्न इतरेतराश्रयप्रसङ्गात्,
तद्धर्मत्वे सति लिङ्गप्रतीतिजनकत्वं प्रतीतिजन्मनि सति तद्धर्मताज्ञानमदर्शनस्य
दुर्घटमेव, सिद्धायां तु किं पक्षधर्मताज्ञानेन साध्यप्रतीतेः सिद्धत्वात् ,
अपि चेदमदर्शनाख्यं लिङ्गमविदितव्याप्ति कथमभावस्यानुमापकं भवेत् ,
व्याप्तिग्रहणं च धूमाग्निवदुभयधर्मिग्रहणपूर्वकम् , तत्र व्याप्तिग्रहणवेलाया-
मेव तावत् कुतस्त्यमभावाख्यधर्मिग्रहणमिति चिन्त्यम् , तत एवानुमानादिति
यद्युच्यते तदितरेतराश्रयम् , अनुमानान्तरनिबन्धने तु तद्ग्रहणे ऽनवस्था,
अदर्शनाख्यलिङ्गमपि दर्शनाभावस्वभावमिति तत्स्वरूपपरिक्वेदचिन्तायामपि
अयमेव पन्थाः, अता दूरमपि गत्वा तदवगमसिद्धये प्रमाणान्तरमभावपरिच्छे-
दनिपुणमवगन्तव्यमिति तत एव तदवगमसिद्धेर्न तस्यानुमेयत्वम् , न चेदमिह
(१.) श्लोकवा० अभावग्रन्थे श्लोक २७ । दृश्यादर्शनमभावे प्रमाणं नादर्शन-
मात्रं येन चाश्रयभूतं भूतलादिकं वस्तु गृहीतस्तस्यैव घटो दृश्यो भवति नान्यस्य दृ-
ङ्मीलिताक्षस्यैव च तद्ग्रहणमिति दृश्यादर्शनसिद्धयेऽक्षापेक्षा नाभावग्रहणाय आश्रये
गृहीते प्रतियोगिनि च स्मृतेऽक्षास्थानीयेन दृश्यादर्शनसहायेन मनसैवाभावज्ञानमिति
नेन्द्रियस्याभावग्रहणे शक्तिः कल्पनीयेत्यर्थः ।
घटो नास्तीति ज्ञानं शब्दोपमानार्थापत्त्यन्यतमनिमित्तमाशङ्कितुमपि युक्तमिति,
सदुपलम्भकप्रमाणातीतत्वादभावस्यैव भूमिरभाव इति युक्तम् ,
अपि च प्रमेयमनुरूपेण प्रमाणेन प्रमातुमुचितम्—
भावात्मके प्रमेये हि नाभावस्य प्रमाणता ।
अभावे ऽपि प्रमेये स्यान्न भावस्य प्रमाणता ॥
न प्रमेयमभावाख्यं निहुतं बोधयन्त्वया ।
प्रमाणमपि तेनेदमभावात्मकमिष्यताम् ॥
अभावस्य प्रमाणान्तरत्वनिराकरणम्—
अत्राभिधीयते, सत्यमभावः प्रमेयमभ्युपगम्यते प्रत्यक्षाद्यवसीयमानस्वरू-
पत्वान्न प्रमाणान्तरमात्मपरिच्छित्तये मृगयते ।
अदूरमेदिनीदेशवर्त्तिनस्तस्य चक्षुषः ।
परिच्छेदः परोक्षस्य क चिन्मानान्तरैरपि ॥
तथा चेह घटो नास्तीति ज्ञानमेकमेवेदम् इह कुण्डे दधीति ज्ञानवद् उभ-
यालम्बनमनुपरतनयनव्यापारस्य भवति तत्र भूप्रदेशमात्रे एव नयनजं ज्ञानमि-
तरत्र प्रमाणान्तरजनितमिति कुतस्त्यो ऽयं विभागः, अत्राग्निरिति युक्तो ऽय-
मनक्षजः प्रतिभासः धूमग्रहणानन्तरमविनाभावस्मरणदिबुद्ध्यन्तरव्यवधानस-
म्भवात् , इह तु तथा नास्त्येव, अव्यवहितैव हि भूप्रदेशवद् घटनास्तित्वावग-
तिरविच्छेदेनानुभूयते, न च क्षितिधराधिकरणपरोक्षाशुशुक्षणिवदनीक्षणा-
यता भवति भावस्य तद्व्यापारान्वयव्यतिरेकानुविधानात्तत्प्रतीतेः, तत्र ,
व्यापृताक्षो ऽपि न पर्वतवर्त्तिनमनलमवलोकयितुमुत्सहते, इह तु घटाभावमप-
रिम्लाननयनव्यापार एव पश्यतीति चाक्षुषमभावज्ञानं तद्भावभावित्वविधानात्
न च दूरव्यवस्थितहुतवहरूपदर्शनपूर्वकस्पर्शनुमानवदिदमन्यथासिद्धं तद्भाव-
भावित्वम् , तत्र हि बहुशः स्पर्शदर्शनकौशलशून्यत्वमवधारितं चक्षुषः स्पर्शप-
रिच्छेदि च कारणान्तरं त्वगिन्द्रियमवगतम्, अविनाभाविता च पुरा तथाविधयो
रूपस्पर्शयोरुपलब्धेत्यनुमेय एवासौ स्पर्श इति युक्तं तत्रान्यथासिद्धत्वं चक्षुर्व्या-
पारस्य, प्रकृते तु नेदृशः प्रकारः समस्ति, न चैकत्र तद्भावभावित्वमन्यथासिद्ध-
मिति सर्वत्र तथा कल्प्यते, एवं हि रूपमपि चाक्षुषतामवजह्यात् ,
ननु नीरूपस्यासम्बद्धस्य च चाक्षुषत्वमभावस्य कथमभिधीयते, चक्षुर्ज-
नितज्ञानविषयत्वाच्चाक्षुषत्वं न रूपवत्त्वेन, रूपवतामपि परमाणूनामचाक्षुषत्वा-
त् , सम्बद्धमपि न सर्वं चाक्षुषमाकाशस्य तथात्वे ऽपि तदभावात् ,
नन्वसम्बद्धस्य चक्षुषा ग्रहणे दूरव्यवहितस्य विभीषणादेरपि चाक्षुष
त्वप्रसङ्गः, उच्यते-भावे खल्वयं नियमः, यदसम्बद्धस्य चक्षुषा ऽग्रहणम् च
प्रमाणप्रकरणम् ४९
भावस्त्वसम्बद्धो ऽपि चक्षुषा ग्रहीष्यते, षट्प्रकारसन्निकर्षवर्णनमपि भावाभि-
प्रायमेव, सम्बद्धं हि यद् गृह्यते तत् षण्णां सन्निकर्षाणामन्यतमेन सन्निक-
र्षेणेति, प्राप्यकारित्वमपि इन्द्रियाणां वस्त्वभिप्रायमेवोच्यते, तस्मादवस्तुत्वाद्-
भावस्य तेन सन्निकर्षमलभमानमपि नयनमुपजनयति तद्विषयमवगममिति न
दोषः, न चासंबद्धत्वाविशेषाद् देशान्तरादिषु सर्वाभावग्रहणमाशङ्कनीयम् ,
आश्रयग्रहणसापेक्षत्वादभावप्रतीतेः आश्रयस्य च सन्निहितस्यैव प्रत्यक्षत्वात्,
अथवा संयुक्तविशेषणभावाख्यसन्निकर्षोपकृतं चक्षुरभावं ग्रहीष्यति, यथा
समवायप्रत्यक्षत्ववादिनां पक्षे समवायमिति ।
ननु तद्दीदमसिद्धम् असिद्धस्य दृष्टान्तीक्रियते, मैवम्—भवता ऽपि द्रव्य-
गुणयोर्वृत्तेरपरिहार्यत्वात्, भेदबुद्ध्या सिद्धभेदयोरसंबद्धयोश्च द्रव्यगुणयोर्दर्श-
नादवश्यं का चिद्वृत्तिरेषितव्येत्यलमर्थान्तरचिन्तनेन ।
यत्तूक्तं संयोगसमवाययोरभावादभावो न भूप्रदेशस्य विशेषणमिति तदप्य-
साधु-संयोगसमवायाभ्यामन्यस्यैव विशेषणविशेष्यभावनाम्नः संबन्धस्यादूरे
एव प्रतीतिबलेन दर्शयिष्यमाणत्वात् ।
यस्तु संयुक्तविशेषणभावे सन्निकर्षे रसादिभिरतिप्रसङ्ग उद्भावितः सो ऽयं
संयुक्तसमवायाख्ये चक्षूरूपसन्निकर्षे ऽपि समानो दोषः, संयुक्तसमवायो ऽपि
हि मा भूत् सन्निकर्षः किं नश्छिन्नम् , तत्किमसंबद्धमेव रूपं गृह्णातु चक्षुः न हि
संयुक्तसमवायादन्यश्चक्षूरूपयोः सम्बन्धः ।
नन्वर्थग्रहणात्मको व्यापार एव चक्षुषः सन्निकर्षो, योग्यता वा तद्वशादेव
रूपस्य तद्ग्राहकत्वमुपेयते न संयुक्तसमवायादिनेति स तर्हि व्यापारः सा वा
योग्यता कथमभावमपि प्रति तस्य न स्यात्, प्राप्यकारीणि चेन्द्रियाणि कारक-
त्वादित्यन्ते सन्निकर्षश्च निहू नूयते इति विप्रतिषिद्धम् , तस्मात् षट्प्रकारा स-
न्निकर्षानुगामिनी योग्यता वक्तव्या, न योग्यतामात्रे एव विश्रम्य स्थातव्यम् ,
यत्र योग्यता तत्र सन्निकर्षोऽप्यस्ति न तु यत्र सन्निकर्षस्तत्रावश्यं योग्यतेत्येव-
मभ्युपगच्छतां न रसाद्यतिप्रसङ्गचोदना धुनोति, मनोरसादेः सत्यपि सन्निकर्षे
योग्यत्वाभावादग्रहणम् ।
योग्यतामात्रवादेपि नाभावस्यास्त्ययोग्यता ।
भवद्भिर्वस्तुधर्मो ऽस्य को वा नाभ्युपगम्यते ॥
सर्वोपाख्यावियुक्तत्वान्नास्त्येवेत्येष वोच्यताम् ।
अभावश्चाक्षुषज्ञानविषयो वा ऽभ्युपेयताम् ॥
७ न्या०
५० न्यायमञ्जर्याम्
यदपि -- स्वरूपमात्रं दृष्टं च पश्चात्किं चित्स्मरन्नपि ।
तत्रान्यनास्तितां पृष्टस्तदैव प्रतिपद्यते (१) ॥
इत्युक्तं तदपि न युक्तम् , वस्त्वन्तरविविक्तगौरमूलकस्वरूपग्रहणसमये
एव तत्रासन्निहितसकलपदार्थाभावग्रहणस्य मेचकबुद्ध्या सिद्धत्वाद् इदानीं त-
द्गतगर्गाभावास्मरणं न तस्य परोक्षस्यानुभवः, तथा हि तदानीं गर्गस्तत्र ना-
सीदित्येवमसौ स्मृत्वा सत्यवादी स्मरति इदानीं स्वस्तित्वनास्तित्वे प्रति संशेते
एवासौ गर्गस्य कुतश्चिदागतस्येदानीं तत्रास्तित्वसम्भवात् ।
ननु न पूर्वं सर्वाभावग्रहणमनुभूतवानसौ गौरमूलके अननुभूयमानमपि
तदस्य बलात्कल्प्यते ऽभ्यस्तविषये ऽविनाभावस्मरणवत् , तथा हि तेन तेना-
नुयुक्तः तस्य तस्याभावं स्मृत्वोत्तरमसौ सर्वेभ्य आचष्टे ।
ननु मेचकबुद्ध्या सकलाभावग्रहणे सहसैव सकलाभावस्मृतिरुपजायेत,
मैवम्—यत्रैव प्रश्नादिस्मरणकारणमस्य भवति तदेव स्मरति न सर्वमविद्यमा-
नस्मरणनिमित्तम् , अन्यत्र तु युगपदुपलब्धेष्वपि वर्णेषु युगपद्दन्त्यवर्णानुभ-
वसमनन्तरं स्मरणम् , अन्यत्र तु युगपदुपलब्धेष्वपि ऽपि क्रमेण स्मरणं भ-
विष्यतीति न मेचकबुद्धावयं दोषः, किं च स्वरूपमात्रं दृष्टमिति वदता भवता
ऽपि मेचकज्ञानमभ्युपगतमेव मात्रग्रहणेन तदन्याभावग्रहणसिद्धेः, एवं हि भ-
वानेवाभ्यधात् ।
अयमेवेति यो ह्येष भावे भवति निर्णयः ।
नैष वस्त्वन्तराभावसंवित्त्यनुगमादृते (२) ॥
इति, तस्माद् गौरमूलकावेशसमये एव तत्रासन्निहितस्य गर्गादेरभावग्रह-
णान्नेदानीं परोक्षाभावग्रहणमभावकारणमभ्युपगन्तव्यमिति प्रत्यक्षगम्य एवा-
यमभावः ।
यत्पुनरनुमेयत्वम् इह घटो नास्तीति प्रकृताभावविषयमभ्यधायि तद-
स्माकमभिमतम् , कश्चित्पुनरसन्निकृष्टदेशवृत्तिरनुमेयो ऽपि भवत्यभावो यथा
( १ ) श्लोक• अभावग्रन्थे २८ स्वरूपमात्रमिति । अयमर्थः यदा हि कश्चित्प्रातः
काले कञ्चिद् देशमध्यासीनस्तत्र व्याघ्रादिकमदृष्ट्वा तदस्मरणाच्च तदभावमप्यगृहीत्वा
देशमात्रं दृष्ट्वा देशान्तरगतो मध्यन्दिने पृच्छयते कश्चित्तस्मिन्देशे प्रातः काले व्या-
ग्रो गजः सिंहः पार्थिवो वा समागतः इति स तदा तं देशमवगतत्वात्स्मरन्नपि तत्र
देशेऽन्येषां व्याघ्रादीनामभावं प्रागगृहीतं तदैवागृह्णाति न च मध्यन्दिने समये प्रातः
कालिकस्याभावस्यानिन्द्रियसन्निकृष्टस्य सम्भवति प्रत्यक्षेण ग्रहणं तस्येन्द्रियसन्निकृष्ट-
वर्तमानविषयत्वादिति न्याय रक्षाकारः ।
( २ ) श्लोकवार्तिकेऽभावग्रन्थे श्लो० १६ । योऽयं देवदत्त एवात्र गृहे नान्यः
स्थाणुरेवायं न पुरुष इति सावधारणो निर्णयः स वस्त्वन्तराभावानुविद्ध इत्यर्थः ।
प्रमाणप्रकरणम् ५१
सन्तमसे सलिलधाराविसरसिक्तसस्यमूलमभिवर्षति देवे घनपवनसंयोगाभावो
ऽनुमीयते यथा वार्थपत्तावुदाहृतं गृहभावेन चैत्रस्य बहिरभावकल्पनमिति ।
आगमादप्यभावस्य क्व चिद्भवति निश्चयः ।
चौरादिनास्तिताज्ञानमध्वगानामिवाप्ततः ॥
यत्पुनरुक्तम् अनुरूपेण प्रमाणेन प्रमेयं प्रमीयते प्रमेयत्वाद्भावात्मकप्रमेय-
वदिति, एतदप्यप्रयोजकं साधनम्—
अभावः पटलादीनां प्रत्यक्षं प्रतिपद्यते ।
विपक्षे वृत्त्यभावश्च लिङ्गस्य सहकारिताम् ॥
पुरुषोक्तिषु दोषाणामभावश्चोपयुज्यते ।
सामग्र्यन्तर्गतात्तस्माद्भावादपि भावधीः ॥
अभावश्च क्व चिल्लिङ्गमिष्यते भावसंविदः ।
वृष्ट्यभावो ऽपि वात्वभ्रसंयोगस्यानुमापकः ॥
तस्माद्युक्तमभावस्य नाभावेनैव वेदनम् ।
[L15
Here is the line-by-line transcription of the Sanskrit text into Devanagari script:
५२ न्यायमञ्जर्याम्
भ्युपगमे वा घटतदभावयोरिव वध्यघातकयोः साहचर्यमनुभूयेते, घटाभावः
किं कुर्वन् घटं विरुन्ध्याद् अकिञ्चित्करस्य विरोधित्वेऽतिप्रसक्तिः अभावा-
न्तरकरणेऽनवस्था, मुद्गरादयो घटस्य नाभावहेतवो भवितुमर्हन्ति भावस्य
स्वत एव भङ्गुरत्वेन विनाशहेत्वनपेक्षत्वात् ।
भावो विनश्वरात्मा चेत्कृतं प्रलयहेतुभिः ।
अथाप्यनश्वरात्मा चेत्कृतं प्रलयहेतुभिः ॥
तस्माद्विजातीकपालादिसन्ततिजननएव मुद्गरादिकारकव्यापारः साम-
ग्र्यन्तरानुप्रवेशे सति सन्तत्यन्तरोत्पादो न पुनरभावस्य ततो निष्पत्तिः, स हि
घटाद्वस्त्वन्तरं चेत्किमायातं यदसौ न पूर्ववदुपलभ्यते, तद्विरोधित्वादिति
चेत्प्रत्युक्तमेतत्, अनर्थान्तरत्वे तु घटस्यैव मुद्गरकार्यत्वं स्यात् ।
ननु यानि मुद्गरेण कपालानि जन्यन्ते स एव घटाभावः, हन्त तर्हि
कपालस्फोटने सति घटाभावस्य विनष्टत्वाद् घटस्योन्मज्जनं प्राप्नोति किं चाकि-
ञ्चित्कराणि कपालानि घटस्याऽभाव इति यद्युच्यते पटस्यापि तथोच्येरन्,
किञ्च कारकत्वं तेषां पूर्ववत् प्रतिषेद्धव्यम्, अपि चायमभावो भवनधर्मा
वा स्यादभवनधर्मा वा भवनधर्मत्वे भावोऽसौ भवेद् घटादिवत्, अभवन-
धर्मा तु यद्यभावोऽस्ति स नित्य एवासौ तर्हि भवेत्, स चायमेकपवार्थसम्बन्धी
वा स्यात्सर्वपदार्थसम्बन्धी वा तत्रैकभावसम्बन्धित्वे न तस्य नियमकारण-
मुत्पश्यामः, सर्वभावसम्बन्धित्वे तु सर्वपदार्थप्रतिकूलस्याभावस्य नित्यत्वा-
न्नित्यः संनित्यो वा कश्चिदभावो नामास्ति ।
नन्वभावानभ्युपगमे भावानामितरेतरसङ्करादखिलव्यवहारविप्लवः प्राप्नोति,
यदाह—
क्षीरे दधि भवेदेवं दध्नि क्षीरं घटे पटः ।
शशे शृङ्गं पृथिव्यादौ चैतन्यं मूर्त्तिरात्मनि ॥ इति(१) ।
अभावाभ्युपगमे तु भावानामितरेतराभावादसङ्कीर्णस्वभावत्वाद् अभाव-
कारणकसङ्करपरिहारकथने तु सुतरां विप्लवः ।
भावो भावादिवाप्यन्यस्मादभावांशादपि ध्रुवम् ।
असङ्कीर्णो ऽभ्युपेतव्यः स कथं वा भविष्यति ॥
अन्योन्यमपि भावानां यद्यसङ्कीर्णता स्वतः ।
भावैः किमपराद्धं वा परतश्चेत्कुतो नु सा ॥
भावेभ्यो यद्युपेयेत भवेदन्योन्यसंश्रयम् ।
अभावान्तरजन्या चेदनवस्था दुरुत्तरा ॥
(१) श्लोकवार्तिकेऽभावग्रन्थे श्लो० ४ ।
अभावस्वभावतायाश्च सर्वान् प्रत्यविशेषात्प्रतिषेध्यनिबन्धन एव तद्भेदः
प्रतिषेध्याश्च भावाः परस्परेण भिद्यमानास्तं भिन्दन्तीति प्रत्युत भावाधीनम्-
भावानामसङ्कर्यं वक्तुमुचितं नतु विपर्ययो युक्तः, तदखिलपदार्थव्यवस्थाविसं-
ष्ठुलीभावभयादपि नाभावाभ्युपगमो युक्तः ।
• नन्वभावप्रतिषेपे नञः किं वाच्यमुच्यताम् ।
नैव शब्दानुसारेण वाच्यस्थितिरुपेयते ॥
बौद्धाः खलु वयं लोके सर्वत्र ख्यातकीर्त्तयः ।
विकल्पमात्रशब्दार्थपरिकल्पनपण्डिताः ॥
क चिन्नामपदप्राप्तवृत्तिना जन्यते नवा ।
निषेधपर्युदस्तारमविषयोल्लेखिनी मतिः ॥
क चित्त्वाख्यातसम्बन्धमुपेत्य विदधात्यसौ ।
तदुपात्तक्रियारम्भनिवृत्त्युल्लेखमात्रकम् ।
ननु चानेन मार्गेण यदि भावो निरस्यते ।
एकादशप्रकारैषा ऽनुपलब्धिः क्व गच्छतु ॥
एकादशविधानुपलब्धिनिरूपणम्—
स्वभावानुपलब्धिः यथा नेह घटो ऽनुपलब्धेरिति, कारणानुपलब्धिर्यथा
नात्र धूमो दहनानुपलब्धेरिति, व्यापकानुपलब्धिर्यथा नात्र शीतस्पर्शः पावको-
पलब्धेरिति, कार्य्यानुपलब्धिर्यथा नात्र निरपवादा धूमहेतवः सन्ति धूमानुप-
लब्धेरिति, स्वभावविरुद्धोपलब्धिर्यथा नात्र शीतस्पर्शः पावकोपलब्धेरिति, स्व-
भावविरुद्धकार्य्योपलब्धिर्यथा नात्र शीतस्पर्शो धूमोपलब्धेरिति, विरुद्धव्याप्तो-
पलब्धिर्यथा नाध्रुवभावी भूतस्यापि भावस्य विनाशो हेत्वन्तरापेक्षणादिति,
कार्यविरुद्धोपलब्धिर्यथा नात्र शीतकारणमप्रतिबद्धसामर्थ्यमस्ति ज्वलनोप-
लब्धेरिति, व्यापकविरुद्धोपलब्धिर्यथा नात्र तुहिनस्पर्शः कृशानुदर्शनादिति,
कारणविरुद्धोपलब्धिर्यथा नैतस्य रोमहर्षदन्तवीणादिविशेषाः सन्ति सन्निहित-
हुतवहाधिष्ठितविशेषादिति, कारणविरुद्धकार्य्योपलब्धिर्यथा प्रवृत्तदन्तवीणादि-
विशेषपुरुषाधिष्ठित एष देशो न भवति धूमवत्त्वादिति ।
सत्यमेकादशविधाऽनुपलब्धिरिहेष्यते ।
सा त्वसद्व्यवहारस्य हेतुर्नाभावसंविदः ॥
नन्वनुपलब्धेः स्वभावहेतावन्तर्भाव उक्तः स्वभावहेतौ च साध्यसाधनयोर-
व्यतिरेक इष्यते, असद्व्यवहारश्च ज्ञानाभिधानात्मकत्वात्तत एव पृथगिति
कथं तद्विषयतां यायात्, सत्यमेवम्—किन्तु नासद्व्यवहारस्तया साध्यतेऽपि तु
तद्योग्यता योग्यता च न ततोऽर्थान्तरमिति न स्वभावहेतुत्वहानिः ।
असत्वव्यवहारो हि (8) सिध्यत्यनुपलब्धितः (8) ॥
Line 11: एकान्तानुपलब्धेषु (8) विहायःकुसुमादिषु (8) ।
Line 12: Wait! If line 11 is pāda a and b:
एकान्तानुपलब्धेषु (8) विहायःकुसुमादिषु (8) ।
Then line 12:
(असत्वाधीन) - wait, why is (असत्वाधीन) in parentheses?
Wait, is it:
(असत्त्वाधीन) then दृश्यत्वयोग्यताऽनवधारणात्।?
दृश्यत्वयोग्यताऽनवधारणात् = दृश्य-त्व-यो-ग्य-ता-(5) ऽन-व-धा-र-णात् (6) = 11 syllables!
Wait, if line 12 has (असत्वाधीन):
Could it be an alternate reading inserted in parentheses by the editor?
Yes! Some manuscripts read असत्त्वाधीन- or something, or it's a gloss / variant reading.
Wait, let's read line 12 and 13:
Line 12: (असत्वाधीन) दृश्यत्वयोग्यताऽनवधारणात्।
Line 13: `न शक्यो ऽनुपलम्भेन कर्तु नास्तित्वनिश्चयः
यदिह घटो नास्तीति घटविविक्तभूतलालम्बनतायामस्याः स्वसंविदः इहेति
तावदस्मिन्संविदंशे देश आलम्बनमित्यविवाद एव, इह घटो ऽस्तीति भावप्र-
तीति समये ऽपि तत्र तदवभासाभ्युपगमात्, घटो नास्तीत्यत्र तु यदवभासते
तन्न भूतलमात्रमेव भावप्रतीतिसमयं तदतिरिक्तप्रतिभासस्यावश्यम्भावित्वात्,
तदतिरिक्तं तु प्रतिभासमानं घटविविक्ततेति वा कथ्यतां घटाभाव इति वा नात्र
वस्तुनि विशेषः,
ननु घटो नास्तीति विकल्पमात्रमेतत्, न दर्शनानन्तरप्रवृत्तत्वेन विधि-
विकल्पतुल्यत्वात् ।
यथानुभवमुत्पत्तुमर्हन्ति किल कल्पनाः ।
प्रतिषेधविकल्पस्तु न विध्यनुभवोचितः ॥
ननु नैव विकल्पानां वयं प्रामाण्यवादिनः ।
कामं विधिविकल्पानामपि मा भूतप्रमाणता ॥
प्रामाण्यं दर्शनानां चेत्स्वविकल्पानुसारतः ।
इहापि तेषामेवास्ति तद्विकल्पानुसारतः ॥
वस्तुप्राप्त्या विधिविकल्पानां प्रामाण्यव्यवहार इति चेद् इहापि तत्प्राप्त्यैव
निषेधविकल्पानामस्तु प्रामाण्यव्यवहारः, किमत्र वस्तु प्राप्यते इति चेत्तत्रापि
किं प्राप्यते, नीलमिति चेत् सेयमभावस्यापि प्राप्तिर्भवत्येव नीलं हि प्राप्यमाणं
तदभावाविनाभूतपीतादिव्यवच्छिन्नरूपं प्राप्यते सा चेयं तथाभूतनीलप्राप्तिर्भव-
न्तीतराभावप्राप्तिरपि भवत्यन्यथा हि नीलप्राप्तिरेव न स्यादिति, एतच्च लाक्षणि-
कं विरोधमाचक्षाणैर्भवद्भिरेवोपगतम् ।
सुखदुःखसमुत्पत्तिरभावे शत्रुमित्रयोः ।
कण्टकाभावमालम्ब्य पदं पथि निधीयते ॥
प्रागुत्पत्तेर्घटाभावं बुद्ध्वा तत्कारणादरः ।
व्याध्यभावपरिच्छेदाद्भैषज्यविनिवर्त्तनम् ॥
इहाभावप्रतिष्ठानव्यवहारपरम्पराम् ।
पश्यन्नभावं को नाम निन्हुवीत सचेतनः ॥
ननु नाजनकमालम्बनं भवति ज्ञानस्याभावस्तु सकलोपाख्याविनिर्मुक्तस्व-
रूप इति न ज्ञानजननपटुः अतः कथं तदालम्बनम्, उच्यते, सौगतानां तावन्न
कि चिज्जनकं वस्तु प्रतिभासते द्वित्रिक्षणावस्थितिप्रसङ्गेन क्षणभङ्गत्वविलोप-
प्रसङ्गात्, उत्पद्यते चार्थज्ञानं च जनयति जातेन तेन गृह्यते चेत्यासां क्रियाणा-
मेककालत्वाभावात्, तस्मादकारक एव भावः प्रतिभासते आकारार्पणपक्षं च
प्रतिक्षेप्स्यामः, एवं भाववदभावो ऽप्यजनकः प्रतिभासताम्, अस्माभिस्तु भाव-
वदभावो ऽपि ज्ञानजननसमर्थ इष्यते न हि निःशेषसामर्थ्यरहितत्वमभावलक्ष-
[Page Header]
५६ न्यायमञ्जर्याम्
णम्, अपितु नास्तीति ज्ञानगम्यत्वं सत्प्रत्ययगम्या हि भाव इष्यते असत्प्रत्ययग-
म्यस्वभाव इति, तदिदमुक्तं 'सदसती तत्त्वम्' इति(१) ।
ननु भाववदेष ज्ञानजनकः सन्नभावो न भावाद्द्विशिष्यते अहो निपुणदर्शी
देवानाम्प्रियः प्रतीतिभेदश्चास्ति तत्र प्रतीयमानौ भावाभावौ न भिद्येते इति
कथमेवं भवेद्, अपि रे मूढ ज्ञानजनकत्वाविशेषे ऽपि रूपरसौ कथं भिद्येते प्र-
तीतिभेदादिति चेद् भावाभाववपि जनकत्वधर्मसामान्ये ऽपि प्रतीतिभेदादेव
भिद्येयाताम् , न हि प्रतिभास्यभेदमन्तरेण प्रतिभासभेदो भवतीति भवता
ऽप्यभ्युपगतम् ।
प्रामाण्यं वस्तुविषयं द्वयोरर्थभिदां जगौ ।
प्रतिभासस्य चित्रत्वादेकस्मिंस्तदय्रोगत इति ॥
तस्मादस्तीति प्रतीतेरेव भावः नास्तीति प्रतीतेरभावो भूमिरित्यभ्युपग-
म्यताम् , अथ वा विज्ञानवाद एव सुस्पष्टमास्थीयतामन्तराऽवस्थानं तु न साम्प्र-
तम्, अर्थक्रियासामर्थ्यमपि तस्य दर्शितमेव ।
स्वज्ञानाख्यक्रियाशक्तिरमुष्य दुरपह्नवा ।
अर्थक्रिया ऽन्यजन्या तु न भावेनापि जन्यते ॥
एवं च सति यः पूर्वं शक्तिवादो ऽत्र वर्णितः ।
स प्रत्यक्षविरुद्धत्वात्
यत्तु भवनधर्मा अभवनधर्मा वेति विकल्पितं तत्राभवनधर्मैवाभावो ऽभ्यु-
पगम्यते भवनधर्मत्वे ऽपि चाभावो न भावान्न भिद्यते प्रतिभासभेदस्य रूपरसा-
दिषूपदर्शितत्वात्, भवनधर्मत्वं चास्य हेत्वन्वयव्यतिरेकित्वाद्भवति घटो हि
मृत्पिण्डदण्डादीनिव जन्मनि विनाशे ऽपि मुद्गरादीननुवर्त्तते हेतून, विजातीय-
सन्ततिजननपक्षे ऽपि सदृशसन्तानजनिकायाः शक्तेरभावः क्रियते एवान्यथा
मुद्गराद्युपनिपाते ऽपि विजातीयेव सजातीयसन्ततिरभिजायेत, सजातीयवि-
जातीयोभयसन्ततिजननशक्तियुक्तो घट इति चेद् मुद्गरादियोगात्पूर्वमपि कपा-
लसन्ततिजननं तद्योगे ऽपि वा सति घटसन्ततिजननमनियमेन दृश्येतेति, विजा-
तीयक्षणोत्पादनस्वभावे च घटे मुद्गरादेर्वैयर्थ्यमेव स्यात् ।
तदुत्पादस्वभावे हि न किञ्चिन्मुद्गरादिना ।
अतदुत्पादकत्वे ऽपि न किञ्चिन्मुद्गरादिना ॥
मुद्गरोपनिपाताच्च यद्युत्पन्नं क्षणान्तरम् ।
घटक्षणस्य कं वृत्तं येन नाभाति पूर्ववत् ॥
नन्वस्याभवनं वृत्तं स एवार्थो ऽयमुच्यते ।
घटा किमपराद्धं वा किं वाप्युपकृतं ल्युटा ॥
ननूक्तं न तस्य किंचिद्भवति न भवत्येव केवलमिति तदयुक्तम् यदसौ न
भवति स एवास्याभावः ।
ननु स न न तु तस्याभावः, मैवम्—स नेतिशब्दयोर्ज्ञानयोश्च विषयभेदात् ,
स इति ज्ञानस्य स्मर्यमाणो घटादिर्विषयः नेति तु ज्ञानस्याभावो भूमिरित्यलम-
लीकविदग्धविरचितविफलवक्रवचनविमर्द्देन ।
तस्मादित्थंमभावस्य प्रमेयत्वोपपादनात् ।
न ह्यसद्व्यवहाराय कल्पन्ते ऽनुपलब्धयः ॥
न स्वभावानुमाने च तदन्तर्भावसम्भवः ।
मेयं पृथग्भवाख्यममूषामुपपादितम् ॥
कारणानुपलब्ध्यादेर्बाढमस्त्वनुमानता ।
स्वभावानुपलब्धिस्तु प्रत्यक्षमिति साधितम् ॥
या चेयमेकादशोपलब्धिवधूशुद्धान्तमध्ये विरुद्धव्याप्तोपलब्धिरुदाहृता
नाध्रुवभावी भूतस्यापि भावस्य विनाशो हेत्वन्तरानपेक्षणादिति, सेयमिदानी-
मेव साध्वी दूषिता विस्तरतस्तु क्षणभङ्गभङ्गे दूषयिष्यते ।
अभावानभ्युपगन्तृप्राभाकरमतनिराकरणम्—
यैस्तु मीमांसकस्सद्भिरभावो नाभ्युपेयते ।
प्रमादेनामुना तेषां वयमप्यद्य लज्जिताः ॥
८ न्या०