न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
गृहे ।
गीयन्ते भवता नैवं..."
Wait, is it:
गीयन्ते भवता नैवं किं न वाच्यमुच्यताम्? Or नैवमिति न वाच्यमुच्यताम्?
Wait, look at the meter:
If pāda 1 is: गीयन्ते भवता नैवम् (8 syllables),
then pāda 2 is: इति न वाच्यमुच्यताम्?
इ-ति न वाच्-य-मुच्-य-ताम् = 8 syllables!!
YES!
इ (1)
ति (2)
न (3)
वाच् (4)
य (5)
मुच् (6)
य (7)
ताम् (8)
= 8 SYLLABLES!
Now look at the image!
नैवम् then इति!
Wait, but between इति and वाच्यमुच्यताम्, what is written?
इति then न then न्वा? Or नू? Or न व्व?
Look at the image between इति and वाच्यमुच्यताम्:
इति then a space, then:
`
प्रमाणप्रकरणम् ५९
अभावभेदनिरूपणम् —
स च द्विविधः प्रागभावः प्रध्वंसाभावश्चेति, चतुर्विध इत्यन्ये इतरेतरा-
भावः अत्यन्ताभावश्च तौ च द्वाविति, षट्प्रकार इत्यन्ये अपेक्षाभावः साम-
र्थ्याभावस्ते च चत्वार इति । तत्र च—
प्रागात्मलाभान्नास्तित्वं प्रागभावो ऽभिधीयते ।
उत्पन्नस्यात्महानं तु प्रध्वंस इति कथ्यते ॥
न प्रागभावादन्ये तु भिद्यन्ते परमार्थतः ।
स हि वस्त्वन्तरोपाधिरन्योन्याभाव उच्यते ॥
स एवावधिशून्यत्वादत्यन्ताभावतां गतः ।
अपेक्षाभावता तस्य देशोपाधिनिबन्धना ॥
सामर्थ्यं पूर्वसिद्धं चेत्प्रध्वंसे तदभावधीः ।
नो चेत्तर्हि विशेषो ऽस्य दुर्लभः प्रागभावतः ॥
उत्पन्नस्य विनाशो वा तदनुत्पाद एव वा ।
अभावस्तत्त्वतो ऽन्ये तु भेदास्त्वौपाधिका मताः ॥
तस्मादभावाख्यमिदं प्रमेयं तस्येन्द्रियेण ग्रहणं च सिद्धम् ।
अतः प्रमाणेषु जगाद युक्तं चतुष्ट्वमेतन्मुनिरक्षपादः ॥
सम्भवैतिह्ययोर्मानान्तरत्वनिरासः—
ननु नाद्यापि चतुष्ट्वमेवमवतिष्ठते सम्भवैतिह्ये इति द्वयोः प्रमाणान्तरभा-
वात् , सम्भवो नाम समुदायेन समुदायिनो ऽवगमः सम्भवति खार्यां द्रोणः
सम्भवति सहस्रे शतमिति, अनिर्दिष्टप्रवक्तृकं प्रवादपरम्परा चैतिह्यम्, इह
वटे यक्षः प्रतिवसतीति, न चायमागमः, आप्तस्योपदेष्टुरनिश्चयादिति तदनु-
पपन्नम् ।
भिन्नः सम्भव एष न ह्यनुमितेराख्यायि खार्यामितो
द्रोणः सम्भवतीति सेयमविनाभावान्मतिर्लैङ्गिकी ।
ऐतिह्यं तु न सत्यमत्र हि वटे यक्षो ऽस्ति वा नेति वा
को जानाति कदा च केन कलितं यक्षस्य कीदृग्वपुः ॥
सत्यमपि चागमात्पृथग्नैतिह्यमुपदेशरूपत्वात् , आप्तग्रहणं सूत्रे न लक्ष-
णायेति वक्ष्यामः, चार्वाकधूर्त्तस्तु अथातस्तत्त्वं व्याख्यास्याम इति प्रतिज्ञाय
प्रमाणप्रमेयसंख्यालक्षणनियमोशक्यकरणीयत्वमेव तत्त्वं व्याख्यातवान् , प्रमा-
णसंख्यानियमोशक्यकरणीयत्वसिद्धये च प्रमितिभेदान् प्रत्यक्षादिप्रमाणानुपज-
न्यानीदृशानुपदर्शयत् ।
वक्राङ्गुलिः प्रविरलाङ्गुलिरेष पाणि-
रित्यस्ति धीस्तमसि मीलितचक्षुषो वा ।
नेयं त्वगिन्द्रियकृता न हि तत्करस्थं
तत्रैव हि प्रमितिमिन्द्रियमादधाति ॥
दूरात्करोति निशि दीपशिखा च दृष्टा
पर्यन्तदेशविसृतासु मतिं प्रभासु ।
धत्ते धियं पवनकम्पितपुण्डरीक-
षण्डोनुवातभुवि दूरगते ऽपि गन्धे ॥
स एवंप्रायसंवित्तिसमुत्प्रेक्षणपण्डितः ।
रूपं तपस्वी जानाति न प्रत्यक्षानुमानयोः ॥
प्रत्यक्षाद्विरलकराङ्गुलिप्रतीति-
र्व्यापित्वादकुशलमिन्द्रियं न तस्याम् ।
श्यानाभेस्तुहिनजलं जनैः पिबद्भि-
स्तत्स्पर्शः शिशिरतरो ऽनुभूयते ऽन्तः ॥
संयोगबुद्धिश्च यथा तदुत्था
तथैव तज्जा तदभावबुद्धिः ।
क्रियाविशेषग्रहणाच्च तस्मा-
दाकुञ्चितत्वावगमोऽङ्गुलीनाम् ॥
पद्मामोदविदूरदीपकविभाबुद्धिः पुनर्लैङ्गिकी
व्याप्तिज्ञानकृतेति का खलु मतिर्मानान्तरापेक्षिणी ।
संख्याया नियमः प्रमाणविषये नास्तीत्यतो नास्तिकै-
स्तत्सामर्थ्यविवेकशून्यमतिभिर्मिथ्यैव विस्फूर्जितम् ॥
इयत्त्वमविलक्षणं नियतमस्ति मानेषु नः
प्रमेयमपि लक्षणादिनियमान्वितं वक्ष्यते ।
अशक्यकरणीयतां कथयतां तु तत्त्वं सतां
समक्षममुना ऽत्मनो जडमतित्वमुक्तं भवेत् ॥
इति श्रीजयन्तभट्टकृतायां न्यायमञ्जर्यां प्रथममाह्निकम् ।
प्रमाणप्रकरणम् ६१
प्रत्यक्षलक्षणम्—
एवं प्रमाणानां सामान्यलक्षणे विभागे च निर्णीते सति अधुना विशेषल-
क्षणवर्णनावसर इति सकलप्रमाणमूलभूतत्वेन पूर्वपठितत्वेन च ज्येष्ठत्वात्प्रथमं
प्रत्यक्षस्य लक्षणं प्रतिपादयितुमाह—
इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानमव्यपदेश्यमव्यभिचारि व्य-
वसायात्मकं प्रत्यक्षम् ॥ ४ ॥
प्रत्यक्षमिति लक्ष्यनिर्देशः इतरल्लक्षणम् , समानासमानजातीयव्यवच्छेदो
लक्षणार्थः, समानजातीयं प्रमाणतया अनुमानादि विजातीयं प्रमेयादि ततो
व्यवच्छिन्नं प्रत्यक्षस्य लक्षणमनेन सूत्रेणोपपाद्यते ।
अत्र चोदयन्ति-इन्द्रियार्थसन्निकर्षोत्पन्नत्वादिविशेषणैः स्वरूपं वा विशि-
ष्यते सामग्री वा फलं वा, तत्र स्वरूपविशेषणपक्षे यदेवंस्वरूपं ज्ञानं तत्प्रत्यक्ष-
मिति तत्स्वरूपस्य विशेषितत्वात्फलविशेषणानुपादानाच्च लक्षणमव्याप्त्यति-
व्याप्तिभ्यामुपहृतं स्यात् , अव्याप्तिस्तावद् अतथाविधस्वरूपस्य बोधस्येन्द्रिया-
देश्च निर्मलफलजनकतया लब्धप्रमाणभावस्यापि प्रामाण्यं नोक्तं भवेत् , अ-
तिव्याप्तिश्च तथाविधस्वरूपस्यापि ज्ञानस्याकारकस्य वा संस्कारकारिणो वा
स्मृतिं जनयतो वा संशयमादधानस्य वा विपर्ययमुत्पादयतो वा प्रमाणत्वं प्रा-
प्नोति फलस्याविशेषितत्वात् , तद्विशेषणाभिधाने पुनरश्रुतसूत्रान्तराध्याहारप्रस-
क्तिः अव्याप्तिश्च तदवस्थेति न स्वरूपविशेषणपक्षः, नापि सामग्रीविशेषणप-
क्षः, तत्र हीन्द्रियार्थसन्निकर्षोत्पन्नमिति इन्द्रियार्थसन्निकर्षोपपन्नं सामग्र्यमि-
ति व्याख्यातव्यम् , अव्यपदेशमव्यभिचारि व्यवसायात्मकं ज्ञानमिति च त-
ज्जनकत्वादुपचारेण तथा साकल्यं वर्णनीयमिति क्लिष्टकल्पना, फलविशेषण-
पक्षो ऽपि न सङ्गच्छते, ज्ञानप्रत्यक्षयोः फलकरणवाचिनोः सामानाधिकरण्यप्र-
सङ्गात् , प्रमाणलक्षणप्रस्तावात्प्रत्यक्षं प्रमाणमुच्यते तच्च करणमिति वर्णितम् ,
ज्ञानं तु तदुपजनितं फलमिति कथमैकाधिकरण्यं तस्मात्पक्षत्रयस्याप्ययुक्तियु-
क्तत्वात्पक्षान्तरस्याप्यसम्भवादयुक्तं सूत्रमिति ।
अत्रोच्यते, स्वरूपसामग्रीविशेषणपक्षौ तावद्यथोक्तदोषोपहतत्वान्नाभ्युपग-
म्येते, फलविशेषणपक्षमेव संमन्यामहे, तत्र च यद्वैधिकरण्यं चोदितं तद्यतः
शब्दाध्याहारेण परिहरिष्यामः, यत एवं यद्विशेषणविशिष्टं ज्ञानाख्यं फलं भवति
तत्प्रत्यक्षमिति सूत्रार्थः, इत्थं च न क चिदव्याप्तिरतिव्याप्तिर्वा न का चित्
क्लिष्टकल्पना यतःशब्दाध्याहारमात्रेण निरवद्यलक्षणोपवर्णनसमर्थसूत्रपदसङ्गति-
सम्भवात् ।
६२ न्यायमञ्जर्याम्
ननु समानाधिकरणे एव ज्ञानप्रत्यक्षपदे कथं न व्याख्यायेते किं यतःश-
ब्दाध्याहारेण, उक्तमत्र करणस्य प्रमाणत्वाज्ज्ञानस्य च तत्फलत्वात् फलकरण-
योश्च स्वरूपभेदस्य सिद्धत्वात् , तदत्र-
प्रमाणतायां सामग्र्यास्तज्ज्ञानं फलमिष्यते ।
तस्य प्रमाणभावे तु फलहानादिबुद्धयः ॥
ननु स्मृत्याद्यनेकबुद्धिव्यवधानसम्भवात्कथमिन्द्रियार्थसन्निकर्षोत्पन्नमालो-
चनाज्ञानं हानादिफलं भवेत् , तथा हि कपित्थादिजातीयमर्थमिन्द्रियादिसन्नि-
कर्षादिसामग्रीत उपलभ्य तद्गतं सुखसाधनत्वमनुस्मरति एवञ्जातीयकेन मम
पूर्वं सुखमुपजनितमभूदिति, ततः स्मृत्यनन्तरं परामर्शज्ञानमस्योपजायते अयं
च कपित्थजातीय इति, परामर्शानन्तरं सुखसाधनत्वनिश्चयो भवति तस्मादेष
सुखसाधनमिति, तत उपादेयज्ञानमुत्पद्य
curve?
Wait, is it स्मृत्या? Under स्मृ there is ृ.
Under विनश्यत्ता: wait, look under त्ता: there is a ृ?
No, wait! Look at line 10 under त्ता:
Wait, विनश्यत्ता or विनश्यतः?
Let's look closely at line 10:
वि न श्य त्ता?
Wait! In line 11: दवस्थं चेन्द्रियविषये!
Ah! विनश्यदवस्थं!
Line 10 ends with: विनश्य-
Line 11 begins with: दवस्थं!
So विनश्य-दवस्थं!
Then what is before विनश्य-?
तस्य विनश्यत्ता?
Wait, look at तस्य: त स्य.
Then वि न श्य त्ता?
Wait, what is that letter with the stroke below?
Could it be स्मृत्या च तस्य विनश्यतो or विनश्यतः or विनश्यत्ता?
Wait, look at the mark below त्:
It has त् and ता with a ृ below त्?
Wait, look at the word: "विनश्यदवस्थं चेन्द्रियविषये कपित्थादौ सुखसाधनत्व
६४ न्यायमञ्जर्याम्
अनुमेयमितेः पूर्वमूर्ध्वं च निगमे स्मृतेः ॥
अत एवार्थमालोक्य विनैव हि दवीयसा ।
बिलम्बेन व्यवस्यन्ति ग्रहणादिषु लौकिकाः ॥
लिङ्गज्ञानं च विनश्यदवस्थमनुमेयप्रतीतौ व्याप्रीयमाणं प्रमाणतां प्रतिप-
त्स्यते, तत्कृतैवोपलम्भानुवादेन लिङ्गिबुद्धिर्भविष्यति, तस्मात्कपित्थादिपदार्थद-
र्शनस्य परामर्शसोपानमनारोहत एवापादेयज्ञानफलता वक्तुं युक्तेति ।
अपि च-अनुमेयविषये वह्न्यादौ सुखसाधनत्वानुस्मृतिकृतमुपादेयताज्ञा-
नं तव न समस्त्येव ततश्च तत्रापि तथा चायं ज्वलनजातीय इति परामर्शो
भवता ऽभ्युपेय एव स च किंकरणक इति निरूपणीयम्, न तावदिन्द्रियद्वारकः
पावकस्य परोक्षत्वात् , शब्दोपमाने त्वाशङ्कितुमपि तत्र न युक्ते, धूमाख्याल्लि-
ङ्गादेव स उत्पद्यते इति चेन्न, लिङ्गस्य परामर्शाविषयीकृतस्यानुमेयमितिजनननै-
पुणानभ्युपगमात्, धूमपरामर्शस्य च तदानीमतिक्रान्तत्वात्, तथा हि प्रथमं लि-
ङ्गज्ञानं ततो व्याप्तिस्मरणं ततो धूमपरामर्शः ततो वह्निज्ञानं तेनधूमपरामर्शस्य-
विनश्यत्ता ततो ऽग्नौ सुखसाधनत्वानुस्मरणं तदा च धूमपरामर्शस्य विनाश
एवेति तस्मिन्विनष्टे न केवलो धूमस्तदानीमनलपरामर्शं जनयितुमुत्सहते,
अग्नौ सुखसाधनत्वानुस्मरणानन्तरं पुनर्धूमज्ञानमिन्द्रियादुत्पद्यत इति
चेन्मैवम्-अननुभवात्, भवतु वा धूमज्ञानं तथा ऽपि धूमज्ञानानन्तरं पुन-
र्व्याप्तिस्मृतिः पुनर्धूमपरामर्शश्चावश्यं भवेदित्यत्रान्तरे हुतभुजि सुखसाधन-
त्वानुस्मृतिरतिक्रान्तेति तत्सहायपरामर्शज्ञानजन्यसुखसाधनत्वनिश्चयोत्पादो
न स्यात्, सुखसाधनत्वानुस्मरणेन हि विनश्यदवस्थेन जन्यमानः प्रत्य-
क्षविषये ऽसौ दृष्ट इति,
अथ मन्यसे न तदानीं पुनर्धूमज्ञानव्याप्तिस्मरणतत्परामर्शोत्पादादिज्ञान-
शृङ्खलाऽभ्युपेयते किं तु प्राक्तन एव धूमपरामर्शः कृशानौ सुखसाधनत्वानु-
स्मरणानन्तरं स्मरिष्यते तेन स्मृतिविषयवर्त्तिना सता तथा चायमग्नि-
जातीय इति ज्वलनपरामर्शो जनयिष्यते इति एतदप्ययुक्तम् , अग्निज्ञाना-
नन्तरं युगपत्स्मरणद्वयोदयप्रसङ्गात्तदैव सुखसाधनतानुस्मृतिः तदैव धूमप-
रामर्शस्मृतिरिति न हि क्रमोत्पादे किंचित्कारणमस्ति ज्ञानयौगपद्यं च
शास्त्रे प्रतिषिद्धम् , भवतु वा क्रमोत्पादः तदापि स्मरणद्वयसमनन्तरमुपजाय-
मानः पावकपरामर्शो नोपलम्भानुवादेन जायते क्रमपक्षे ऽपि च वह्निज्ञाना-
नन्तरं तद्गतसुखसाधनत्वानुस्मरणमेव पूर्वं भवेत् ततो धूमपरामर्शस्मरणं
तेन तस्य विनश्यत्ता ततो ऽग्नौ तज्जातीयत्वपरामर्शस्तेन सुखसाधनत्वस्मृते
र्विनाश एवेति पुनरपि सा विनष्टा सती सुखसाधनत्वानुस्मृते निश्चयजन्मनि न
व्याप्रियेतेति, न च धूमलिङ्गानुमितवह्निज्ञानानन्तरं धूमस्मरणमुचितमनल-
प्रमाणप्रकरणम् ६५
मुपलभ्य हि तद्गतसुखसाधनत्वमनुस्मरति लोको न धूममिति ।
तेनानुमानविषये परामर्शो ऽतिदुर्घटः ।
प्रत्यक्षविषये ऽप्येवं किमनेन शिखरिडना ॥
यत्पुनरुपनयवचनमभिधेयरहितमप्रयोज्यं प्रसज्यते इति परिचोदितं तद-
वयवप्रसङ्गएव निरूपयिष्यामः, तस्मादन्तरावर्त्तिनः परामर्शज्ञानस्याभावादा-
द्यमालोचनाज्ञानमेव हेयादिज्ञानफलं यथोक्तरीत्या भविष्यतीति ।
ननु च प्रत्यक्षफलमिह मीमांस्यं वर्त्तते स चायं सुखसाधनत्वनिश्चयः त-
ज्जातीयत्वाल्लिङ्गादुद्गम्यमान आनुमानिक इति न प्रत्यक्षफलतामवलम्बते स-
त्यमेतत्-किं तु सम्बन्धग्रहणसमये सुखसाधनत्वनिश्चयः प्रत्यक्षजनितो ऽपि
समस्ति यतो ऽनुमानं प्रवर्त्तते महानसादौ धूमादिदर्शनवत् , अतः सम्बन्धप्र-
हणकालभाविनं सुखसाधनत्वनिश्चयं चेतसि विधाय भाष्यकारस्तत्फलं प्रत्यक्ष-
ज्ञानस्य वर्णितवानिति ।
शक्तेः प्रत्यक्षग्राह्यत्वनिरूपणम्-
ननु सम्बन्धग्रहणकालेऽपि सुखसाधनत्वशक्तेरतीन्द्रियत्वात्कथं प्रत्यक्षग-
म्यता, तज्जातीयत्वाल्लिङ्गादेव तदाऽपि तद्ग्रहणे इष्यमाणे ततः पुनः सम्बन्धप्र-
ग्रहणादनवस्था, सुखादेव कार्यात्तदा तदवगम इति चेत् तदा ऽपि नाज्ञातसम्ब-
न्धमवगतिजननसमर्थमिति तत्सम्बन्धग्रहणवेलायामपि शक्तिग्रहणे प्रत्यक्षास्या-
ङ्गमत्वादनुमानान्तरापेक्षायामनवस्था तदवस्था, उच्यते—
न खल्वतीन्द्रिया शक्तिरस्माभिरुपगम्यते ।
यया सह न कार्यस्य सम्बन्धज्ञानसम्भवः ॥
स्वरूपसहकारिसन्निधानमेव शक्तिः सा च सुगमैव ।
ननु सहकारिणां मध्ये ऽदृष्टमप्यनुप्रविष्टं न च तत्प्रत्यक्षगम्यम् अतीन्द्रिय-
त्वाद्धर्मस्येति सापि न सुगमा शक्तिः, नैतत्-न धर्मादिशक्तित्वादतीन्द्रियम्
अपि तु तन्नैसर्गिकमेव जगद्वैचित्र्येण च तदनुमानं वक्ष्यामः तदेवं तदितरस-
हकारिस्वरूपसन्निधानात्मिकायाः शक्तेः प्रत्यक्षग्राह्यत्वसम्भवादुपपन्नं तज्जाती-
यत्वलिङ्गस्य सम्बन्धग्रहणम् ।
ननु कपित्थादिकार्यस्य सुखस्येदानीं न चक्षुर्ग्राह्यत्वमिति सम्बन्धिग्रह-
णाभावात्कथं चाक्षुषप्रत्ययगम्यः सम्बन्धः, न चाक्षुषप्रत्यक्षगम्यः सम्बन्धः किं
तु मानसप्रत्यक्षगम्यः,
सुखादि मनसा बुद्ध्वा कपित्थादि च चक्षुषा ।
तस्य कारणता तत्र मनसैवावगम्यते ॥
ननु च मनसा कपित्थादेः सुखसाधनत्वग्रहणाभ्युपगमे बाह्यविषयप्रमितिषु
९ न्या०
मन एव निरङ्कुशं करणमिदानीं संवृत्तमिति कृतं चक्षुरादिभिः, अतश्च न
कश्चिदन्धो बधिरो वा स्यात् ,
नैष दोषः-प्रथमप्रवृत्तसमनस्कबाह्येन्द्रियजनितविज्ञानविषयीकृतवपुषा बा-
ह्यस्य वस्तुनो मनोग्राह्यत्वाभ्युपगमात्तस्यैव नियामकत्वान्नाशृङ्खलमन्तः करणं
बाह्यविषये प्रवर्तते ।
ननु च सम्बन्धग्रहणकाले यदि मानसेन प्रत्यक्षेण सुखसाधनत्वावधारणं
तर्हि तत्काल इव व्यवहारकालेऽपि मानसप्रत्यक्ष एव सुखसाधनत्वनिश्चयो ऽस्तु
किं तज्जातीयत्वलिङ्गापेक्षणेनेति मैवम्-शब्दलिङ्गेन्द्रियाद्युपरतौ केवलमन्तः-
करणं करणं कल्प्यते परिदृश्यमानायाः प्रतीतेरपह्नोतुमशक्यत्वात् , लिङ्गाद्युपा-
यान्तरसम्भवे तु यदि मन एव केवलं कारणमुच्यते तन्मानसमेवैकं प्रमाणं
स्यान्न चत्वारि प्रमाणानि भवेयुरित्यलं प्रसङ्गेन ।
तस्मात्सम्बन्धग्रहणकाले यत्तत्कपित्थादिविषयमक्षजं ज्ञानं तदुपादेयादि-
ज्ञानफलमिति भाष्यकृतश्चेतसि स्थितम् । सुखसाधनत्वज्ञानमेवोपादेयादिज्ञा-
नमित्युक्तम् ।
ज्ञानस्य स्वस्मिन् करणत्वनिरासः—
आह-किमर्थमयमीदृशः क्लेश आश्रीयते प्रमाणादभिन्नमेव फलमस्तु त-
देव चक्षुरादिजनितं कपित्थादिपदार्थदर्शनं विषयप्रकाशेन व्याप्रियमाणमिवा-
भातीति करणमुच्यताम् , तदेव विषयानुभवस्वभावत्वात्फलमिति कथ्यताम् ।
इत्थं च प्रमाणफले न भिन्नाधिकरणे भविष्यतः, अन्यत्र प्रमाणमन्यत्र फल-
मिति, तदुक्तम् 'सव्यापारप्रतीतित्वात्प्रमाणं फलमेव सत्' इति ।
तदिदमनुपपन्नम्-प्रमाणस्य स्वरूपहानिप्रसङ्गात् , करणं हि प्रमाणमुच्यते
प्रमीयते चानेनेति, न च क्रियैव क चित्करणं भवति क्रियायां साध्यायां का-
रकं किमपि करणमुच्यते, तत्र यथा दात्रेण चैत्रः शालिस्तम्भं लुनातीति क-
र्तृकर्मकरणानि क्रियातो भिन्नान्युपलभ्यन्ते तथेहापि चक्षुषा घटं पश्यतीति दर्श-
नक्रियातः पृथग्भाव एव तेषां युक्तो न दर्शनं करणमेवेति, प्रमा प्रमाणमिति तु
फले प्रमाणशब्दस्य साधुत्वाख्यानमात्रं कृतिः करणमितिवत् ।
यत्तु न भिन्नाधिकरणे प्रमाणफले इत्थं भविष्यत इति सेयमपूर्वावाचोयुक्तिः
किमत्राधिकरणं विवक्षितं यदि तावद्विषयः तदस्त्येकविषयत्वम् , यद्विषयं
हि दर्शनं स एव चक्षुरादेः करणस्य विषयः, आश्रयो ऽस्त्वधिकरणमिति बौ-
द्धगृहे तावदवाचको ग्रन्थः, क्षणिकत्वेन सर्वकार्याणां निराधारत्वात् , अस्म
( १ ) एकात्माश्रयत्वमिति युक्तः पाठः ।
त्पक्षे तु भिन्नाश्रययोरपि फलकरणभावः पाककाष्ठयोर्दृष्टः तथा चक्षुर्ज्ञानयोरपि
भविष्यतीति, क्व चित्तु भिन्नयोरपि ज्ञानयोः फलकरणत्वेन स्थितयोर्लिङ्गलिङ्गि-
ज्ञानयोरिव विशेषणविशेष्यज्ञानयोरिव चैकात्म्याश्रयत्वमस्ति(१), न त्वनेन स-
मानाश्रयत्वेन प्रयोजनं चक्षुरादावनिर्वहणात्, अथैकफलनिष्पत्तौ व्यापारः स-
मानाश्रयत्वमुच्यते तदपि भवतु कारकान्तराणां न तु फलस्वभावस्य ज्ञानस्य
फलनिष्पत्तौ सव्यापारत्वमुपपद्यते अपि तु पृथग्भूतफलनिर्वृत्तावेवेति।
ननु वस्तुस्थित्या फलमेव ज्ञानमुच्यते न तु विषयानुभवः विषयानुभवे स
व्यापारो भवति, अथ मनुषे—विषयाधिगमाभिमानस्तस्मिन्सति भवतीति, को
ऽयमभिमानो नाम, विषयानुभवाद्भिन्नः अभिन्नो वा, अभेदे सति तस्मिन्सति
भवतीत्यसङ्गता वाचायुक्तिः, भेदे त्वस्मन्मतानुप्रवेशः, अपि च ज्ञानं विषयाधिगमे
व्यापृतमिति कृत्वा विषयाधिगमाभिमानमुपजनयत्युत विषयाधिगमस्वभाव-
त्वादेवेति विचारे विषयाधिगमात्पृथग्भूतस्य तत्र व्याप्रीयमाणस्यानुपलम्भाद्वि-
षयाधिगमस्वभावमेव ज्ञानमवधार्यते तत्कृतश्चाभिमान इति फलमेव ज्ञानम-
वकल्पते न करणमिति, तथा च लोकः फलत्वमेव ज्ञानस्यानुमन्यते न करण-
त्वम्, तथा ह्येवं वदति चक्षुषा पश्यामि लिङ्गेन जानामीति न तु ज्ञानेन जा-
नामीत्येवं व्यपदिशन्कश्चिद् दृश्यते,
ननु च सत्स्वपि चक्षुरादिषु विषयज्ञानमनुपजनयत्सु न करणतां व्य-
पदिशति लोको जनयत्सु च व्यपदिशतीति लोके करणोत्पादकत्वादेव तेषां
करणत्वव्यपदेशो न साक्षात्करणत्वादिति।
तदयुक्तम्—चक्षुराद्येव करणं न तु तेनान्यत्करणमुपजन्यते किं हि तदन्य-
त्करणम्, ज्ञानमिति चेत् कस्यां क्रियायां तत्करणमिति परीक्ष्यतामेतत्, न
ह्यात्मन्येव किं चित्करणं करणं भवतीति, यत् तु ज्ञानमजनयति चक्षुरादौ न
करणतामाचष्टे लोकस्तद्युक्तमेव, न हि क्रियोत्पत्तावव्याप्रियमाणं करणं कारकं
भवति तेन चक्षुरादेर्ज्ञानक्रियामुपजनयतः करणत्वं ज्ञानस्य फलत्वमेवेति युक्त-
स्तथा व्यपदेशः।
प्रमाणस्य प्रमाणत्वं तस्मादभ्युपगच्छताम्।
भिन्नं फलमुपेतव्यमेकत्वे तदसम्भवात्॥
यस्तु (२) मूढतरः प्रमाणप्रमेयफलव्यवहारमेकत्रैव ज्ञानात्मनि निर्वाहयितु-
मुद्यच्छति—
यदाभासं प्रमेयं तत्प्रमाणफलते पुनः।
ग्राहकाकारसंवित्त्योर्द्वयं नातः पृथक्कृतम्॥ इति।
( १ ) यः—बौद्धः विज्ञानवादीति यावत्।
तमपवर्गाह्निके ज्ञानाद्वैतदलनप्रसङ्गेन दुराचारं निर्भर्त्सयिष्यामइ इत्यलं
विस्तरेण ।
तस्मात्सुष्ठूक्तं यदा ज्ञानं प्रमाणं तदा हानादिबुद्धयः फलमिति, तदेवं
फलविशेषणपक्षे यतःशब्दाध्याहारेण वाचक सूत्रं यत इन्द्रियार्थसन्निकर्षोत्पन्न-
त्वादिविशेषणविशेषितं ज्ञानाख्यं फलं भवति तत्प्रत्यक्षमिति, तत्रेन्द्रियार्थसन्नि-
कर्षोत्पन्नपदमर्थानपेक्षजन्मनः स्मृत्यादिज्ञानस्याथजनितस्यापि च परोक्षविषय-
स्यानुमानादिज्ञानस्य व्यवच्छेदार्थम्, अतः तज्जनकस्य न प्रत्यक्षता प्रसज्यते ।
प्रत्यक्षलक्षणस्यानुमानातिव्याप्तिनिरासः—
नन्विन्द्रियार्थसन्निकर्षोत्पन्नमिन्द्रियगत्यनुमानमप्यस्ति तद्धीन्द्रियार्थसन्नि-
कर्षेण लिङ्गभूतेन जन्यते देशान्तरप्राप्त्येव तपनगमनानुमानम् इति कथमनेन
पदेनानुमानमपाक्रियते,
नैतदेवम्—इन्द्रियेण स्वविषयसन्निकृष्टेन सता तत्रैव यद्विज्ञानमुत्पद्यते त-
दिन्द्रियार्थसन्निकर्षोत्पन्नमिह ब्रूमहे न चेदृशमिन्द्रियगत्यनुमानम्, कुतो विशेष-
प्रतिलम्भ इति चेद् उत्पन्नग्रहणादिति ब्रूमः, उत्पन्नग्रहणेन हि सन्निकर्षस्य कार-
कत्वं ख्याप्यते तच्चापीन्द्रियविषये ऽर्थे ज्ञानमुत्पादयते। निर्वहति इन्द्रियगत्यनु-
माने तुन सन्निकर्षे कारकमाहुरपि तु ज्ञापकम् , अत एव स्वग्रहणसापेक्षः त-
दनुमाने ऽसौ व्याप्रियते न रूपादिप्रमिताविवतरनिरपेक्ष इति ।
प्रत्यक्षलक्षणघटकपदार्थनिर्वचनम् —
इन्द्रियाणि घ्राणरसननयनस्पर्शनश्रोत्राणि पृथिव्यादिभूतपञ्चकप्रकृतीनि
वक्ष्यन्ते ।
अर्थास्तु गन्धरूपरसस्पर्शशब्दगन्धत्वादिखजात्यवच्छिन्नास्तदधिकरणानि
पृथिव्यप्तेजांसि द्रव्याणि तदधिष्ठानाः संख्यादयो गुणाः उत्क्षेपणादीनि कर्माणि
तद्वृत्तीनि सामान्यानि येषां स्पर्शनेन चक्षुषा ग्रहणं कणव्रतमते निरूपितं ते
ऽर्थाः, प्रागुक्तश्चाभावो ऽप्यर्थ एव विचार्ये गम्यमानत्वात् ।
इन्द्रियार्थसंनिकर्षनिरूपणम्—
सन्निकर्षस्त्विन्द्रियाणामर्थैः सह षट्प्रकारः, तत्र द्रव्यं चक्षुषा त्वगिन्द्रियेण
वा संयोगाद् गृह्यते, तद्गतो रूपादिगुणः संयुक्तसमवायात् , रूपत्वादिसामान्या-
नि संयुक्तसमवेतसमवायाद् गृह्यन्ते, चक्षुषा संयुक्तं द्रव्यं तत्र समवेतं रूपं रूपे
च समवेतं रूपत्वमिति, समवायाच्छब्दो गृह्यते, श्रोत्रमाकाशद्रव्यं तत्र समवेतः
शब्दः, शब्दत्वं समवेतसमवायाद् गृह्यते श्रोत्राकाशसमवेते शब्दे तद्धि समवे-
प्रमाणप्रकरणम् ६९
तमिति, संयुक्तविशेषणभावादभावग्रहणं व्याख्यातम् इह घटो नास्तीति, चक्षुषा
संयुक्तो भूप्रदेशस्तद्विशेषणीभूतश्चाभाव इति ।
सन्निकर्षावश्यकत्वम्—
ननु सन्निकर्षावगमे किं प्रमाणम् , व्यवहितानुपलब्धिरिति ब्रूमः, यदि ह्य-
सन्निकृष्टमपि चक्षुरादीन्द्रियमर्थं गृह्णीयाद् व्यवहितो ऽपि ततो ऽर्थ उपलभ्येत
न चोपलभ्यते तस्मादस्ति सन्निकर्षः,
नन्वव्यवधानमेवास्तु किं सन्निकर्षेण, मैवम्-इन्द्रियाणां कारकत्वेन प्राप्य-
कारित्वात् , संसृष्टं च कारकं फलाय कल्पते इति कल्पनीयः संसर्गः, एतच्चे-
न्द्रियपरीक्षाप्रसङ्गे निपुणं निर्णेष्यते इति नेह विविच्यते, रसनस्पर्शनयोश्च स्पष्टं
प्राप्यकारित्वमुपलभ्यते इति तत्सामान्यादिन्द्रियान्तरेष्वपि कल्पनीयमिति ।
तच्चेदं प्रत्यक्षं चतुष्टयत्रयद्वयसन्निकर्षात्प्रवर्त्तते, तत्र बाह्ये रूपादौ विषये
चतुष्टयसन्निकर्षात् ज्ञानमुत्पद्यते आत्मा मनसा संयुज्यते मन इन्द्रियेण इन्द्रिय-
मर्थेनेति, सुखादौ तु त्रयसन्निकर्षाज्ज्ञानमुत्पद्यते तत्र चक्षुरादिव्यापाराभावात्,
आत्मनि तु योगिनो द्वयोरात्ममनसोरेव संयोगाज्ज्ञानमुपजायते तृतीयस्य
ग्राह्यस्य ग्राहकस्य तत्राभावात्, तस्मात्सुखादिज्ञानसंग्रहादिन्द्रियार्थसन्नि-
कर्षोत्पन्नमितियुक्तमुक्तम्, आत्ममनसोस्तु सदपि ज्ञानजनकत्वमिह न सूत्रितं
सर्वप्रमाणसाधारणत्वादिति ।
ज्ञानपदकृत्यम्- -
ज्ञानग्रहणं विशेष्यनिर्देशार्थम्, तस्य हीन्द्रियार्थसन्निकर्षोत्पन्नत्वादीनि वि-
शेषणानि तानि असति विशेष्ये कस्य विशेषणानि स्युरिति,
अथ वा सुखादिव्यावृत्त्यर्थं ज्ञानपदोपादानम् । इन्द्रियार्थसन्निकर्षोत्पन्नं
हि सुखमपि भवतितत्र तज्जनकं कारकचक्रं प्रमाणं मा भूज्ज्ञानजनकमेव
प्रमाणं यथा स्यादिति ज्ञानग्रहणम् ।
बौद्धमतेन ज्ञानस्य सुखरूपत्वम्—
अत्र शाक्याश्चोदयन्ति-न ज्ञानपदेन सुखादिव्यवच्छेदः कर्तुं युक्तः शक्यो
वा सुखादीनामपि ज्ञानस्वभावत्वात्, ज्ञानस्यैवामी भेदाः सुखं दुःखमिच्छा द्वे-
षः प्रयत्न इति, कारणाधीनो हि भावानां भेदो भवितुमर्हति समानकारणानाम-
पि तु भेदे ऽभिधीयमाने न कारणकृतं पदार्थानां नियतं रूपमिति तद्भाऽऽकस्मि-
कत्वप्रसङ्गः, तदुक्तम्—
तत्तद्रूपिणो भावास्तत्तद्रूपहेतुजाः ।
तत्सुखादि किमज्ञानं विज्ञानाभिन्नहेतुजम् ॥ इति ।
तस्माज् ज्ञानरूपाः सुखादयः तदभिन्नहेतुत्वादिति ।
स्वमतेन ज्ञानस्य सुखरूपताखण्डनम् ।
तदिदमनुपपन्नम्-प्रत्यक्षविरुद्धत्वाद्धेतोः, सुखादिसंवेद्यमानमानन्दादिरूपत-
या ऽनुभूयते ज्ञानं विषयानुभवस्वभावतयेति प्रत्यक्षसिद्धभेदत्वात्कथमभेदे ऽनु-
मानं क्रमते, अत एव इदमपि न वचनीयम्, एवमेवेदं संविद्रूपं हर्षवि-
षादाद्यनेकाकारविवर्त्तं पश्यामः तत्र यथेष्टं सञ्ज्ञाः क्रियन्तामिति, संविदो वि-
षयानुभवस्वभावतयैव प्रतिभासात् सुखादेश्च विषयानुभवस्वभावाऽनुस्यूतस्याप्र-
तिभासात्, ज्ञानमेव विषयग्रहणरूपं प्रकाशते न सुखं दुःखं वा, यस्तु सुखज्ञा-
नं दुःखज्ञानमिति प्रतिभासः स ज्ञानस्वभावभेदकृत एव संशयज्ञानं विपर्ययज्ञा-
नमितिवत्, उक्तमत्र संशयविपर्ययादौ विषयानुभवस्वभावत्वमनुस्यूतमवभाति
संशयो हि विषयग्रहणात्मको ऽनुभूयते अनिश्चितं तु विषयं गृह्णाति विपर्ययो-
ऽपि विषयग्रहणात्मक एव विपरीतमसन्तं वा विषयं गृह्णाति न तु विषयग्रह-
णास्वभावं सुखं दुःखं चानुभूयते, अन्य एवायं ग्राह्यैकस्वभाव आन्तरो धर्मः
सुखदुःखादिरिति घटज्ञानवद्विषयतयैव ज्ञानं भिनत्ति न स्वभावभेदेन संशयव-
दिति, तन्नैतस्यात् स्वप्रकाशत्वात्सुखादेर्न ग्राह्यैकस्वभावत्वम्, अतश्च ग्राह्यग्र-
हणोभयस्वभावत्वाज् ज्ञानमेव तदिति, मैवं वोचः, प्रकाशत्वं ज्ञाने ऽपि प्रति-
क्षिप्तं प्रतिषेत्स्यते तत्कुतः सुखादौ भविष्यति, न हि ग्रहणस्वभावं कश्चित्सुख-
मनुभवति ज्ञानवदिति ।
नन्वस्य प्रकाशत्वानभ्युपगमे सुखादेरुत्पादानुत्पादयोरविशेषात्सर्वदा सु-
खित्वं न कदा चिद्वा स्यादिति, नैतदेवम्-उत्पन्नमेव सपदि सुखं गृह्यते ज्ञाने-
नेति कथमनुत्पन्नान्न विशिष्यते, प्रत्युत स्वप्रकाशसुखवादिनामेष दोषः स्वप्र-
काशस्य दीपादेः सर्वान्प्रत्यविशिष्टत्वात् , क चित्सन्ताने स्वप्रकाशसुखोत्पादा-
त्तेनैव स्वप्रकाशेन सुखेनान्यो ऽपि सुखी स्याद्यस्यापि सुखं नोत्पन्नमिति, किं च
किमेकमेव ज्ञानं सर्वसुखदुःखाद्यशेषाकारभूषितमिष्यते उत किं चित्सुखात्मकं
किं चिद्दुःखात्मकं ज्ञानमिति, आद्ये पक्षे सर्वाकारखचितज्ञानोपजननादेक-
स्मिन्नेव क्षणे परस्परविरुद्धसुखदुःखादिधर्मप्रबन्धवेदनप्रसङ्गः, उत्तरस्मिंस्तु
किञ्चित्सुखज्ञानं किंचिद्दुःखज्ञानमिति यत्किं चित्सुखदुःखचितं विषयानुभव-
स्वभावमपि ज्ञानमनुभूयमानमेषितव्यमेव, तच्च न स्वच्छम् अपि तु केन चिद्-
घटादिना विषयेणोपरक्तमन्वयव्यतिरेकाभ्यां च घटाद्युपजननापाये ऽपि
बोधस्वभावमनुवर्त्तमानं प्रतीयते, तदिदानीं सुखज्ञानमप्यनुभूयमानं सुखेन
विषयभावजुषा घटादिनेवोपरज्यते इति गम्यते न स्वरूपेणैव सुखात्मकं ततो
भिन्नरूपस्य बोधमात्रस्वभावस्य ज्ञानस्यान्यदा दृष्टत्वादिति, तस्मान्न बोधरूपाः
सुखादयः, अभिन्नहेतुजत्वादिति चायमसिद्धो हेतुः समवायिकारणस्यात्मनः
असमवायिकारणस्यात्ममनः संयोगस्य अभेदे ऽपि निमित्तकारणस्य सुखत्व-
ज्ञानत्वादेर्भिन्नत्वात् ।
ननु सुखोत्पादात्पूर्वमनाश्रयं सुखत्वसामान्यं कथं तत्र स्यात् , कश्चापि
सुखहेतुभिः कारकैः संसर्गः असंसृष्टं च कथं कारकं स्यात् ,
उच्यते-सर्वसर्वगतानि सामान्यानि साधयिष्यन्ते इति सन्ति तत्रापि सु-
खत्वादीनि योग्यतालक्षण एव चैषां सुखहेतुभिः कारकैः संसर्गः धर्माधर्मवत् ,
धर्माधर्मौ हि सर्वस्य प्राणिनां सुखदुःखहेतोः जायमानस्य शाल्यादेः कार्यस्य
कारणं तयोश्च तत्कारणैः बीजक्षितिजलादिभिः सह योग्यतैव संसर्गः एवं
सुखत्वादीनामपि स्यात् , तस्मान्निमित्तकारणभेदाद्भिन्नानि ज्ञानसुखादीनि
कार्याणि ।
निमित्तकारणान्यत्वमपि कार्यस्य भेदकम् ।
विलक्षणा हि दृश्यन्ते घटादौ पाकजा गुणाः ॥
अपि च ज्ञानमिच्छन्ति न सर्वं ज्ञानपूर्वकम् ।
सुखदुःखादि सर्वं तु विषयज्ञानपूर्वकम् ॥
विषयानुभवात्पाश्चाद्यत्रापि न सुखादयः ।
तत्रापि तेषामुत्पत्तौ कारणं विषयस्मृतिः ॥
क्व चित्तु सङ्कल्पो ऽपि सुखस्य कारणतां प्रतिपद्यते, तस्मात्सर्वं सुखादि
ज्ञानपूर्वकमेव, ज्ञानमपि ज्ञानपूर्वकमेवेति चेद् उपरिष्टान्निराकरिष्यमाणत्वात्
न हि गर्भादौ मदमूर्च्छाद्यनन्तरं वा ज्ञानमुपजायमानं ज्ञानान्तरपूर्वकं भवतीति
वक्ष्यामः, तेन सुखादीनां वैलक्षण्योपपादनात् सुखादिव्यवच्छेदस्य सिद्धत्वात् ,
अव्यभिचारिपदाज्ज्ञानलाभशङ्कासमाधाने--
व्यभिचाराव्यभिचारौ हे ज्ञानस्य धर्मौ न सुखादेरतस्तदुपादानात्तद्धर्मयोगि
ज्ञानं लभ्यते एव किं ज्ञानग्रहणेन, नैतदेवम्-सुखस्यापि सव्यभिचारस्य दृष्ट-
त्वात् , किं
त्यलमतिकेलिना, तस्मात्समानन्यायत्वात्सुखे व्यभिचारितास्तीत्यव्यभिचारि-
पदाज्ज्ञानं न लभ्यते ।
व्यवसायपदाज्ज्ञानलाभसम्भवे विशेष्यनिर्देशार्थं ज्ञानपदम्--
अपर आह—किमनेन डिम्भकलहेन मा भूदव्यभिचारिपदाज्ज्ञानस्य
लाभस्तथापि व्यवसायात्मकपदाल्लभ्यत एव ज्ञानं न हि सुखदुःखादयो व्यव-
सायात्मका भवन्ति किं तु ज्ञानमेव तथाविधमिति, संशयव्यवच्छेदार्थं च त-
त्पदमिति चेत , सत्यम्—सुखादिव्यवच्छेदमपि कर्तुमलमेव भवति व्यवसा-
यात्मकत्वस्य सुखादिष्वसम्भवादिति, तदेवं सिद्धे ऽपि सुखादिव्यवच्छेदे कर्त्त-
व्यमेव ज्ञानग्रहणं विशेष्यनिर्देशार्थत्वात् , तस्य हि सर्वाण्यमूनि विशेषणान्यु-
पात्तानि तदनुपादाने निरालम्बनानि भवेयुः, श्रोतुश्च बुद्धिर्न समाधीयेतेति तेन
बलादगम्यमानमेव कर्त्तव्यमेव ज्ञानग्रहणम् , अर्थाक्षिप्तस्यावचने प्रत्यक्षं प्रत्य-
क्षमित्येतावन्मात्रमभिधेयं स्यादन्यदर्थाल्लभ्यत एव, तस्माद्धर्मिनिर्देशार्थं युक्तं
ज्ञानपदम् ।
अव्यपदेश्यपदकृत्यम्-
शब्दानामर्थसंस्पर्शित्वं शाक्यमतनिरासेन साधयिष्यते इति शब्दानुप्रवेश-
वशेन व्यपदेश्यं नाम ज्ञानमुपपद्यते इति तद्व्यवच्छेदार्थमव्यपदेशपदम् ।
तत्र वृद्धनैयायिकास्तावदाचक्षते, व्यपदिश्यते इति व्यपदेश्यं शब्दकर्मता-
मापन्नं ज्ञानमुच्यते यदिन्द्रियार्थसन्निकर्षोत्पन्नं सद्विषयनामधेयेन व्यपदिश्यते
रूपज्ञानं रसज्ञानमिति तद्व्यपदेश्यं ज्ञानं प्रत्यक्षफलं मा भूदित्यव्यपदेशग्रहणम्।
अव्यपदेश्यपदस्य कृत्यान्तरम्-
तदिदमनुपपन्नम्—न हि नामधेयव्यपदेश्यत्वमप्रामाण्यकारणं भवति
यदि हि तद्रूपज्ञानं रसज्ञानं च विषयाव्यभिचारि निःसंशयं च तत्कथमप्रमा-
णफलमुच्यते व्यभिचारादिदोषयोगे वा पदान्तरेण तत्प्रतिषेधात् किमव्यपदे-
श्यपदेन, प्रमाणफलं च तद्विज्ञानमिदानीं किं प्रमाणप्रभवं भवद् न प्रत्यक्षफलम्
एतत्पदप्रक्षिप्तत्वात् , नानुमानादिजन्यं तद्वैलक्षण्यात् , नास्ति किं चित् पञ्चमं
प्रमाणमसङ्ग्रहो ऽस्य लक्ष्यस्य लक्षणेनेति प्रज्ञाप्रमादः, तस्मादपव्याख्यानमे-
तदिति व्यवच्छेद्यान्तरमव्यपदेश्यपदस्य वर्ण्यां चक्रुराचार्याः—शब्दार्थेषु स्थ-
विरव्यवहारतो व्युत्पद्यमानो जनः संशयावगमसमये संज्ञोपदेशकादयं पनस उ-
च्यते इति वृद्धोदीरिताद्वाक्यात्पुरोऽवस्थितशाखादिमन्तमर्थं पनसशब्दवाच्यत-
या जानाति, तदस्य ज्ञानमिन्द्रियजमपि न केवलेन्द्रियकरणं भवितुमुचितम् ,
असति संज्ञोपदेशिनि शब्दे तदनुत्पादात्तेन शब्देन्द्रियाभ्यां सम्भूय जनित-
१० न्या०
७४ न्यायमञ्जर्याम्
त्वादुभयजमिदं ज्ञानं व्यपदेशाज्जातमिति व्यपदेश्यमुच्यते तद्व्यपदेश्यपदेन
व्युदस्यते, न चेदं परुक्षमं प्रमाणमवतरति किं तु शाब्दमिवैतदनुमन्यते लोकः,
तथा च कथं पुनः जानीते भवान्पनसो ऽयमिति पृष्टः प्रतिवक्ति मम देवदत्तेना-
ख्यातं पनसो ऽयमिति, न पुनरेवं विस्मृत्यापि ब्रवीति चक्षुषा मया प्रतिपन्नं
पनसो ऽयमुच्यते इति, तदिन्द्रियान्वयव्यतिरेकानुविधाने सत्यपि शब्द एवा-
त्र करणम् , अत एव सूत्रकृता शब्दलक्षणं वर्णयता नेन्द्रियानुप्रवेशप्रतिषेधाय
किमपि विशेषणमुपरचितम् , उपदेशः शब्द इत्येतावदेव लक्षणमभिहितम् ,
अतश्चेन्द्रियानुप्रवेशे ऽपि शाब्दतामस्य मन्यते सूत्रकारः, इह पुनरव्यपदेश्य-
विशेषणपदोपादानेन शब्दानुप्रवेशप्रतिषेधान्न प्रत्यक्षफलमेतज् ज्ञानं तस्मादेवं
विधव्यपदेश्यविज्ञानव्यवच्छेदार्थमव्यपदेश्यपदमिति,
अव्यपदेश्यपदस्य पूर्वोक्तप्रयोजनस्य निराकरणम्—
तदेतद्व्याख्यातारो नानुमन्यन्ते, यद्युभयजं ज्ञानमव्यपदेश्यपदेन व्यु-
दस्यते तदपि नाप्रमाणम् अप्रमाणलक्षणातीतत्वादिति, प्रमाणं भवत्कस्मिन्न-
नुनिविशतामिति चिन्त्यम् ।
ननु शाब्दमिदं ज्ञानं तद्भावानुविधानतः ।
भवत्वक्षजमप्येतत्तद्भावानुविधानतः ॥
शाब्दं चोभयजं चेति विरुद्धमभिधीयते ।
प्रमाणान्तरमेव स्यादित्थं तदपि पूर्ववत् ॥
ननु लोकः शाब्दतामस्य व्यपदिशति देवदत्तेनाख्यातं पनसो ऽयमिति व्य-
वहारादित्युक्तम्, अहो लोकवृत्तः श्रद्दधानो महानुभावः, न खलु लोकस्य व्य-
पदकैकशरणा वस्तुस्थितयो भवन्ति, लोको हि यथारुचि व्यपदिशति, नाना-
मुनिजनसाधारणमपि तीर्थं नन्दिकुण्डमिति किं न श्रुतवान् भवान्, हन्त तर्हि
सूत्रकाराशयमनुसरन्तः शाब्दमिदं ज्ञानं प्रतिपद्यामहे यदयं सूत्रकारः प्रत्यक्षे
शब्दानुप्रवेशव्यवच्छेदार्थ विशेषणमिदमुपदिशति शब्दे तु नेन्द्रियव्युदासाय
किं चिद्विशेषणमुपादत्ते स पश्यति करणान्तरानुप्रवेशे ऽपि शाब्दमेतज् ज्ञान-
मिति, उच्यते—
मनुवत्सूत्रकारो ऽपि न धर्मस्योपदेशकः ।
येनैतदनुरोधेन तस्य ब्रूयाम शाब्दताम् ॥
वस्तुस्थित्या तु निरूप्यमाणमिन्द्रियान्वयव्यतिरेकानुविधायित्वादिदं विज्ञानं
न प्रत्यक्षफलतामतिवर्त्तते, ततश्च व्युदस्यमानं प्रमाणन्तरमेव स्पृशेत् ।
तस्मादुभयजज्ञानव्युदासानुपपत्तितः ।
व्याख्या भङ्ग्यन्तरेणास्य पदस्येयं विधीयते ॥
प्रमाणप्रकरणम् ७५
वाच्यार्थप्रत्यये वाचकशब्दस्य विषयतया प्रसक्ता-
संभवदोषवारणार्थमव्यपदेश्यपदम्—
असम्भवदोषव्यवच्छेदार्थमव्यपदेश्यपदोपदानम् , एवं हि परो मन्यते स-
ति लक्ष्ये लक्षणवर्णनमुचितम् इह तु लक्ष्यमाणं प्रत्यक्षमिन्द्रियार्थसन्निकर्षोत्पन्नं
नाम न किं चिदस्ति, गौरित्यादिज्ञानानां शब्दावच्छिन्नवाच्यविषयत्वेन शाब्द-
त्वात्, इह हि विषयव्यतिरेकेण ज्ञानानामतिशयो दुरुपपादः बोधस्वभावस्य
सर्वान्प्रत्यविशिष्टत्वात्, तत्र यथा दण्डीति शुक्न इति वा प्रत्ययो विशेषणावच्छि-
न्नविशेष्यविषयतया सातिशयत्वमश्नुते तथा गौरित्यादिप्रत्ययो ऽपि वाचकाव-
च्छिन्नवाच्यविषयत्वात्सातिशयत्वं भजते शब्दावच्छिन्नवाच्यविषयत्वाच्च शाब्द
एष प्रत्ययः तद्व्यतिरिक्तकरणाकार्यत्वानुपपत्तेः, न हीन्द्रियकरणमिदं ज्ञानं भवि-
तुम
न सो ऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते ।
अनुविद्धमिव ज्ञानं सर्वं शब्देन गृह्यते ॥
तस्मात्प्रत्यक्षस्य लक्ष्यस्यासद्भावात्कस्येदं लक्षणमुपक्रान्तमिति असम्भव-
दोषमाशङ्क्याह सूत्रकारः अव्यपदेश्यमिति, यदिदमविदितपदपदार्थसंबन्धस्य
ज्ञानमुत्पद्यते विदितसंबन्धस्यापि वा यत्प्रथमाक्षसन्निपातसमये एव-ज्ञानमनु-
ल्लिखितशब्दकं शब्दानुस्मरणे हेतुभूतमुपजायते तदशाब्दम् अशाब्दावच्छिन्न-
विषयमव्यपदेश्यमिन्द्रियार्थसन्निकर्षैककरणमविकल्पं प्रत्यक्षम् , न च शब्दकृता
बुद्धीनां प्रकाशस्वभावता, स्वत एव तासामेवंरूपत्वात्, न च निर्विकल्पकसमये
यत्किं चिदिदमित्यादिसामान्यशब्दोल्लेखः को ऽपि कैश्चिदनुभूयते तस्माद् गौ-
रित्यादिज्ञानानां शाब्दत्वे ऽपि तथाविधस्य ज्ञानस्य लक्ष्यस्य सद्भावान्न व्यर्थं
लक्षणमित्येवमसम्भवदोषनिराकरणार्थमव्यपदेश्यपदमिति,
वाच्यार्थप्रत्यये वाचकशब्दस्याऽविषयत्वेनासम्भवदोषनिरासः-
तदेतदाचार्या न क्षमन्ते न गौरित्यादिज्ञानमिन्द्रियार्थसन्निकर्षोत्पन्नमपीदं
शाब्दमिति वक्तुं युक्तम् न चात्र शब्दावच्छिन्नार्थः प्रकाशते तथाविधार्थग्रहणे
करणाभावाद्, विशेषार्थप्रमितौ तावच्छब्दः करणम्, विशेषणभूतस्य तु शब्द-
स्य ग्रहणे किं करणमिति निरूप्यताम्, न श्रोत्रं विरम्य व्यापारासंवेदनात्
संबन्धग्रहणादूर्ध्वं च स्मर्यमाणशब्दयोजनया जायमाने गौरित्यादिज्ञाने श्रोत्रं
करणमाशङ्कितुमपि न युक्तम्, नापि मनो बाह्यकरणनिरपेक्षं बाह्ये विषये धिय-
माधातुमलम् अन्धाद्यभावप्रसङ्गात् ।
ननु शब्द एव करणमित्युक्तं तत्किमपरकरणाशङ्कनेन, मैवम्-एकस्य
कारकस्यैकस्यामेव क्रियायां कर्मकरणभावानुपपत्तेः, सवितृप्रकाशवदिति चेद्
न क्रियाभेदाद् यत्रासौ करणं न तत्र कर्म यत्र वा कर्म न तत्र करणमिति,
घटादिविषयप्रमितिजन्मनि करणमेव तरणिप्रकाशो न कर्म तद्ग्रहणकाले तु
कर्मैवासौ न करणम्, किं तर्हि तत्र करणमिति चेत् केवलमेव चक्षुरिति ब्रूमः
आलोकग्रहणे चक्षुषः प्रकाशान्तरनिरपेक्षत्वात्, कथमेवमिति चेद् अपर्य-
नुयोज्या हि वस्तुशक्तिः घटादिग्रहणे चक्षुरुद्द्योतमपेक्षते नोद्द्योतग्रहणे इति
कमनुयुञ्ज्महे, सो ऽयं सूर्यप्रकाशः प्रकाशान्तरनिरपेक्षचक्षुरिन्द्रियप्रथमगृहीतः
चिरमवतिष्ठमानस्तदिन्द्रियग्राह्य एकविषये गृह्यमाणे करणतामुपयातीति युक्तम्,
शब्दस्तु क्षणिकः श्रोत्रेन्द्रियग्राह्यस्तदितरपरिच्छेदे विषये तदवगमक्रियायां क-
रणीभूय भूयस्तस्यामेव क्रियायां कथमिव कर्मभावमनुभवेत्, शब्दो हि
धूमादिवदुपाय एव नोपेयः स उपायत्वात्प्रथमं गृह्यतां नाम न उपेयग्रहणकाले
पुनर्ग्रहणमर्हति धूमवदेवेति, एवं स्मर्यमाणो ऽपि शब्दो यत्रार्थप्रतीतिकारणं
प्रमाणप्रकरणम् ७७
'तत्रापि प्रथमं शब्दस्मरणं ततः शब्दार्थसम्प्रत्ययो भवति नतरां तत्रार्थप्रती-
तिवेलायां शब्दग्रहणं सम्भाव्यते, तस्मान्नास्ति वाचकविशेषितवाच्यप्रतिभासः,
अपि च गौरित्यादिज्ञानमिन्द्रियार्थसन्निकर्षान्वयव्यतिरेकानुविधायि प्रसभं त-
त्कथं शाब्दमित्युच्यते ।
.शब्दस्मरणसापेक्षं यस्योत्पादकमिन्द्रियम् ।
तदेव यदि ते शाब्दमहो नैयायिको भवान् ॥
ननु शब्दावच्छिन्नमर्थं न चक्षुः श्रोत्रयोरन्यतरदपि करणं ग्रहीतुमलम-
त्युक्तम् , भोः साधो चक्षुरेवैनं ग्रहीष्यतीति कथं न ब्रूषे ।
ननु नाविषये युक्तमिन्द्रियस्य प्रवर्त्तनम् ।
तेन शब्दविशिष्टार्थज्ञानं नेन्द्रियजं ब्रुवे ॥
मरीचिषु जलज्ञानं कथमिन्द्रियजं तव ।
तत्रापि हि न तोयेन सन्निकर्षो ऽस्ति चक्षुषः ॥
ननु च स्मृत्युपारूढमुदकं तत्र गृह्यते ।
इहापि स्मृत्युपारूढः शब्दः कस्मान्न गृह्यते ॥
ननु शब्दो न नेत्रस्य कदा चिदपि गोचरः ।
असंनिहितमप्यम्बु किं वा भवति गोचरः ॥
नन्वेकेन्द्रियवादः स्याच्चाक्षुषे शब्दवेदने ।
अत्रापि सर्वबोधः स्यादसन्निहितवेदने ॥
ननु च मरीचिजलज्ञानं भ्रान्तमिति कथमिह दृष्टान्तीक्रियते, कथञ्चास्य भ्रा-
न्तत्वं किमनिन्द्रियजत्वादुत व्यभिचारित्वात् , तत्रानिन्द्रियजत्वेनास्य भ्रान्त-
तायामिन्द्रियार्थसन्निकर्षोत्पन्नपदेनैव निरासादव्यभिचारिपदमनुपादेयमिति,
तदुपादानात्तु व्यभिचारित्वेनास्य भ्रान्तत्वमिति नूनमिदमिन्द्रियजमसंनिहितस-
लिलज्ञानमभ्युपगन्तव्यम् ।
यथा चाविषये तस्मिन्नीरे नयनजा मतिः ।
तथा वाचकसंस्पृष्टे वाच्ये किमिति नेष्यते ॥
यथा च तव कालादि नीरूपमपि चाक्षुषम् ।
तथा शब्दानुरक्तो ऽपि किमित्यर्थो न चाक्षुषः ॥
एवं हीन्द्रियव्यतिरेकानुविधानमत्र न वाधितं भविष्यति ।
ननु चाक्षुषतां शब्दे न जीवन्वक्तुमुत्सहे ।
त्यजैनं वाचकोपेतवाच्यावगमदुंग्रहम् ॥
अपि चामुष्य शाब्दत्वे संबंधग्रहणं कथम् ।
न चागृहीतसंबन्धः शब्दो भवति वाचकः ॥