न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
आत्मनोऽनुमानागम्यत्वम् । ७
न जडत्वाविशेषेऽपि कर्मादौ समवैति चेत् ।
न द्रव्यत्वाविशेषेऽपि गन्धः स्पृशति पावकम् ॥
तस्मान्न प्रत्यक्ष आत्मा नापि स्वतश्चेतयितेति स्थितम् ।
नैयायिकमतेनात्मनः प्रत्यक्षत्वोपपादनम्-
स्वयूथ्यास्तु के चिदाचक्षते—यदेकस्य कर्तृत्वकर्मत्वमनुपपन्नमित्यप्रत्यक्ष-
आत्मेष्यते तदयमनुमानेनापि कथं ग्रहीष्यते ?
आत्मानमात्मनाऽऽत्मैव लिङ्गादनुमिनोति हि ।
तत्र नूनमुपेतव्या कर्तृता कर्मताऽस्य च ॥
तत्रानुमानज्ञानस्य यथाऽऽत्मा याति कर्मताम् ।
तथाऽहंप्रत्ययस्यैव प्रत्यक्षस्यापि गच्छतु ॥
देहादिव्यतिरिक्तश्च यथा लिङ्गेन गम्यते ।
तथाऽहंप्रत्ययेनापि गम्यतां तद्विलक्षणः ॥
न चात्मनः किं रूपं यत्प्रत्यक्षेण साक्षात्क्रियते ? यद्येवं सुखादेरपि किं रूपं-
यन्मानसप्रत्यक्षसमधिगम्यमिष्यते ?
नन्वानन्दादिस्वभावरूपं प्रसिद्धमेव सुखादेः, तर्हि तदाधारत्वमात्मनोऽपि
रूपमवगच्छतु भवान्,
सुखादि चेत्यमानं हि स्वतन्त्रं नानुभूयते ।
मतुबर्थानुवेधात्तु सिद्धं ग्रहणमात्मनः ॥
इदं सुखमिति ज्ञानं दृश्यते न घटादिवत् ।
अहं सुखीति तु ज्ञप्तिरात्मनोऽपि प्रकाशिका ॥
अपि च—
ज्ञातृज्ञानविशिष्टार्थग्रहणं किल भाष्यकृत् ।
स्वयं प्रादीदृशत्तच्च किं वा युक्तमुपेक्षितुम् ॥
विशेष्यबुद्धिमिच्छन्ति नागृहीतविशेषणाम् ।
पूर्वं चाननुभूतस्य स्मरणं नावकल्पते ॥
न चानुमानतः पूर्वं ज्ञात्वाऽऽत्मानं विशेषणम् ।
तद्विशिष्टार्थबुद्धिःस्यात् स्मरणानवधारणात् ॥
तस्मात्प्रत्यक्ष आत्मा ।
सामानाधिकरण्यं च स्मरणानुभवादिषु ।
अनुसन्धीयमानं यद् दृश्यते तत्कथं भवेत् ॥
आत्मनोऽनुमानगम्यत्वनिरूपणम् -
पूर्वमहममुमर्थमनुभूतवानहमेवाद्य पुनरनुभवामीति तुल्यविषयतावत्तु-
ल्यकर्तृकताऽपि तत्र प्रकाशते, इतरथा त्वनुमातुमप्यात्मा न शक्यते
८ न्यायमञ्जर्याम् ।
ज्ञानेच्छासुखदुःखादि किलेदं लिङ्गमात्मनः ।
एकाश्रयतया ज्ञातमनुसंधातृबोधकम् ॥
तथात्वेन च तज्ज्ञानमाश्रयज्ञानपूर्वकम् ।
ज्ञाते तत्राफलं लिङ्गमज्ञाते तु न लिङ्गता ॥
तस्मात्प्रत्यक्ष एवात्मा वरमभ्युपगम्यताम् ।
बृद्धागमानुसारेण संविदालोकनेन च ॥
अथ वाऽभिनिवेशेन किमनेन प्रयोजनम् ।
अनुमेयत्वमेवास्तु लिङ्गेनेच्छाऽऽदिनाऽऽत्मनः ॥
तदाह सूत्रकारः—'इच्छाद्वेषप्रयत्नसुखदुःखज्ञानान्यात्मनो लिङ्गम्'(१), इच्छा
नाम तावदित्थमुपजायते यज्जातीयमर्थमित्थमुपयुञ्जानः पुरुषः पुरा सुखमनुभू-
तवान् पुनः कालान्तरे तज्जातीयमुपलभ्य सुखसाधनतामनुस्मृत्य तमादातुमि-
च्छति सेयमनेन क्रमेण समुपजायमानेच्छा पूर्वापरानुसंधानसमर्थमाश्रयमनुमा-
पयति कार्यस्य निराधारस्यानुपपत्तेराश्रयमात्रप्रतीतौ चान्वयव्यतिरेकवानेव हे-
तुर्भवति, इच्छा धर्मियाश्रितेति साध्यो धर्मः कार्यत्वाद् घटादिवद् गुणत्वा-
दिति वा हेतुर्वक्तव्यः, गुणत्वं चेच्छाऽऽदीनामचाक्षुषप्रत्यक्षत्वादिनो रसादिवद्-
र्शितमाचार्यैः(२), एवमन्वयव्यतिरेकवताऽमुना हेतुनाऽधिष्ठानमात्रेऽनुमिते तद-
धिष्ठानत्वे च देहेन्द्रियादौ प्रसक्ते पूर्वानुभूतसुखसाधनत्वानुसंधानसन्यपेक्षत्तदुत्पा-
दनपर्यालोचनया तत्कार्यसमानकर्तृकत्वावगमाच्छरीरादिविलक्षणाश्रया(३), श-
रीरादिषु बाधकोपपत्तौ सत्यां कार्यत्वादित्यत्र च साधर्म्यदृष्टान्तो न संभवतीति वैध-
र्म्यदृष्टान्तः—कार्यत्वे निर्विशेषणे य एव साधर्म्यदृष्टान्तो घटः स एव वैधर्म्यदृष्टान्तः
सविशेषणे, यत्र विलक्षणाश्रितत्वं नास्ति तत्र सविशेषणं कार्यत्वमपि नास्ति
यथा घटादाविति तु शक्यते वक्तुम्, तत्र कार्यमात्रयोगेऽपि सविशेषणानां
कार्यत्वाभावाद्दिलक्षणाश्रितत्वं नास्ति भूताश्रितत्वेन प्रत्यक्षमुपलभ्यमानत्वात् ।
ननु चान्वयदर्शनमन्तरेण केवलव्यतिरेकः प्रतीयमानः संदिग्धो भवति
किं तत्साध्याभावकृतैव तस्य तस्माद्व्यावृत्तिरुत निमित्तान्तरकृतेति, संदि-
ग्धव्यतिरेकस्य हेतोरगमकत्वं निश्चितव्यभिचारहेतुवदिति तार्किकाः,
उच्यते—स्यादेतदेवं यदि प्रथममनवगतान्वय एव केवलव्यतिरेकशरणो हेतुः
प्रयुज्यते, यतस्त्वन्वयव्यतिरेकताऽवकाशं लभते घटो हि भूतलाश्रितत्वेन प्रत्य-
क्षमुपलभ्यते तदस्य विशेषाणाश्रयविरहादेव सविशेषणहेतुशून्यता जाता निर्वि-
शेषणावस्थायां तद्योगदर्शनादिति न संदिग्धो व्यतिरेकः, अथ वा शरीरत्वं सा-
मान्यमिह वधर्म्यदृष्टान्तीकर्तव्यं, तत्र हि सर्वात्मना कार्यत्वस्पर्शोऽपि नास्ति
( १ ) गौतमसूत्रम् अ० १ आ० १ सू० १०॥
( २ ) वल्लभाचार्यैः। ( ३ ) इच्छेति शेषः ।
न च तद्विलक्षणाश्रितं ; शरीराश्रितत्वस्य प्रत्यक्षत उपलम्भादिति, तदियमिच्छा
प्रथमपदार्थदर्शनादिकार्यसमानकर्तृकतयाऽवगम्यमाना शरीरादिविलक्षणमा-
श्रयमवगमयति सविशेषणात्कार्यत्वादिति स्थितम्, यश्च स विलक्षण आश्रय-
स्तत्रात्मसंज्ञाऽऽगमिकी,
एवमेव द्वेषादेरात्मलिङ्गतता वक्तव्या, यज्जातीयस्यार्थस्य सन्निधानाद्
दुःखमनुभूतवान् पुरुषः तज्जातीयमर्थ पुनरुपलभमानो दुःखसाधनतामनु-
संधाय तं द्वेष्टीति सोऽपि प्रतिसंधातारमेकमन्तरेण नोपपद्यते, आभ्यामिच्छा-
द्वेषाभ्यामनन्तरं प्रयत्नः समुत्पद्यते सोऽपि यथोक्तेन क्रमेणानुसंधानपूर्वक एव
प्रयतमानस्य सुखदुःखे भवतः, ते अपि तथैव द्रष्टव्ये, ज्ञानं यद्यपि प्रथममनु-
संधाननिरपेक्षमपि भवति तदपि च शक्यत एवात्मलिङ्गमभिधातुं तथाऽप्यनुसं-
धानपूर्वेच्छाऽऽदिकार्यप्रकरणाभिर्णायात्मकमिह ज्ञानमुदाहर्त्तव्यं, तत्र हि बुभु-
त्साविमर्शादिपूर्वकत्वमुपकल्पते तदेवमिच्छाऽऽदीन्यात्मलिङ्गानीति स्थितम् ,
शास्त्रे चानेकहेतूक्तिर्न दोषाय कथास्विव ।
शिष्यः कश्चित्क चित्किंचिदनुस्मृत्याभिधास्यति ॥
इति कारुणिको मुनिरनेकमिह हेतुमार्गमुपदिष्टवान्,
नन्वत्र चोदितमनुसंधातारमन्तरेण तदेतदिच्छाऽऽदिकार्य नावकल्पत इति
कथं ज्ञायते ? एकत्र प्रमातरि तद्दर्शनादिति यदुच्यते तदिदमेकप्रमातृग्रहणा-
दात्मप्रत्यक्षत्वमङ्गीकृतं स्यादिति व्यर्थमनुमानम्; अग्रहणे तु प्रमातुरेकम्य
तत्पूर्वेच्छाऽऽदेः प्रतिबन्धाग्रहणादशक्यमनुमानमिति, परिहृतमेतत् कार्य-
त्वेनैव लिङ्गत्वमिच्छाऽऽदेरुपवर्णितमस्माभिर्न स्मरणादिसमानाश्नयतयेति,
किमर्थस्तर्हि प्रतिसंधानोपन्यासः ? शरीरादिषु तदाश्रयत्वप्रतिषेधार्थः, न त्वेवं-
व्याख्यातवन्तो वयमेकस्य प्रमातुरिच्छाऽऽदिकार्याश्रयत्वदर्शनादेकाश्रयत्वानु-
मानमिति तस्मान्न दोषः, शरीराश्रयत्वप्रतिषेधसाधनत्वेऽपि हेतोर्व्याप्तिग्रहणा-
सम्भवाद् , ग्राह्क(१)बुद्धिदर्शनस्मरणेच्छाऽऽदिकार्यजातमेकत्र प्रमातृनियतत-
याऽनवधारितम्, तत्कथमस्मदवस्थाऽऽदिभिन्नशरीराद्याश्रयत्वनिषेधस्य तत्पु-
र्वकस्य वाऽऽत्माश्रितत्वस्य सिद्धिः,
क एवमाह न गृहीतमेककर्तृकतया कार्यमिच्छाऽऽदीति, ? यदि गृहीतं तर्हि
वक्तव्यं क्व गृहीतं केन वा प्रमाणेन गृहीतमिति ? स्वात्मन्येवेति चेत्सोऽयं-
प्रत्यक्ष आत्मा भवेद् एवमनभ्युपगमे न व्याप्तिग्रहणमिति,
उच्यते-न च प्रत्यक्ष आत्मा न च व्याप्तेरग्रहणं न चैव धर्म्मन्तरे व्याप्तिर्गृ-
ह्यते किं तु स्वसंतान एव तथाऽपि न सिद्धयति प्रमातृनियतानुमानं; कथमिव
सिद्धयति संतानान्तरेषु प्रतिसंधानस्य दृष्टत्वात् ,
( १ ) 'ग्राह्क' इत्यस्य स्थाने 'यावद्' इति क० पु० पा० ।
२ न्या०
: किं च काऽत्र व्याप्तिग्रहणकालः प्रमातृवृद्धि तद्भेदेन भवितव्यं, ततः किम् ?
इदं ततो भवति कथं स्वसंतान एव व्याप्तिर्गृह्येत। कथं च तत्रैव प्रमातृनिय-
माऽनुमीयतामिति सेयमुभयतः पाशा रज्जुः,; आत्मा वा प्रत्यक्षो व्याप्तिर्वा दुर-
वगमेति, नैतदेवं, यथा शाक्यपक्षे सत्त्वात्क्षणिकत्वानुमाने व्याप्तिग्रहणं तथै-
हापि भविष्यति, तत्र हि यैव क्रमयौगपद्यव्यावृत्त्या सत्त्वस्य नित्येभ्यो व्या-
वृत्तिः स एव क्षणिकैरन्वय इति धर्म्यन्तरनिरपेक्षतयैव साध्येऽपि धर्मिणि प्रति-
बन्धग्रहणं चानुमानं च दर्शितं, तद्वदिहाप्येकप्रमातृपूर्वकत्वेन प्रतिसंधानस्य
धर्म्यन्तरे यद्यपि ग्रहणं नास्ति तथाऽपि संतानान्तरभेदे यदस्य दर्शनं तदेवै-
ककर्तृकत्वदर्शनमिति कोऽनयोर्हेतुत्वे विशेषः,
ननु तत्र (१)चित्येभ्यः क्रमयौगपद्यव्यावृत्त्या व्यावृत्तं सत्त्वं शक्यग्रहण-
मिह तु प्रमातृभेदेन प्रतिसंधानव्यावृत्तिर्दुरवगमा स्वसंतानेऽपि ज्ञा-
नक्षणा भिन्ना एव प्रमातारः, न च तेभ्यो व्यावृत्तं प्रतिसंधानमिति, तिष्ठत्व-
न्वयो व्यतिरेकमुखेनापि कष्टमिदमनुमानं वर्तते स्वसंताने संतानान्तरवत्प्रमा-
तृभेदाग्रहणात् तद्भेदग्रहे हि स्वसन्तानविवेको न स्यान्न चैवं प्रमातृभेदाग्रहणा-
भावात्पुनरप्यात्मा प्रत्यक्ष आयातः,
मैवम्—नात्मा प्रत्यक्षः प्रमातृभेदो हि स्वसंताने न गृह्यते, अन्यश्च भेदाप्र-
हणमन्यश्च तदैक्यग्रहणं भेदाग्रहवदेव च व्याप्तिसिद्धेर्न कष्टमनुमानम्,
ननु च स्वसन्ताने प्रमातृभेदाग्रहणं किं प्रमातुरेकत्वादुत ज्ञानानां कार्य-
कारणभावादिति न निश्चीयतेः ततश्च संदिग्धो व्यतिरेकः यथा ज्ञानानां-
कार्यकारणभावो नास्ति यथा च न तत्कृतोऽयं व्यवहारस्तथाऽनन्तरमेव
वक्ष्यामः, तस्मादिच्छाऽऽदिकार्येण युक्तमेकप्रमातृनुमानम् ,
ननु चाश्रितमिच्छाऽऽदि देह एव भविष्यति ।
भूतानामेव चैतन्यमिति प्राह बृहस्पतिः ॥
उक्तं च मदशक्तिवद्विज्ञानमिति, उच्यते—शरीरं तावन्नेच्छाऽऽदेराश्रयः
शैशवयौवनवार्धकादिदशामेदेन भिन्नत्वात् ,
तथा हि नान्यदृष्टोऽर्थः स्मर्तुमन्येन शक्यते ।
न चान्येन स्मृते तस्मिन्नन्यस्येच्छोपजायते ॥
तेनाद्यादर्थविज्ञानात्प्रभृतीच्छासमुद्भवात् ।
एकस्य कार्यचक्रस्य वक्तव्यः कश्चिदाश्रयः ॥
शरीरं च बाल्याद्यवस्थाभेदेन भिन्नमतस्तस्य नाश्रयो भवितुमर्हति संता-
नान्तरवद् यथा हि देवदत्तदृष्टेऽर्थे यज्ञदत्तस्य न स्मरणमेवं बालशरीराद्यनुभूते
युवशरीयस्य तन्न स्यात् ,
( १ ) ‘चित्येभ्यः’ इत्यत्र ‘नित्येभ्यः’ इति० क० पु० पा० ।
नन्ववस्थामात्रमेव भिन्नमवस्थातृशरीरस्वरूपमभिन्नमेव प्रत्यभिज्ञाप्रत्यय-
प्रामाण्यादवगम्यते, न चेयं प्रत्यभिज्ञा लूनपुनर्जातनखादिप्रत्यभिज्ञावदन्यथा-
सिद्धो विनाशास्यासम्भवात्, स्तम्बादौ हि क्षणभङ्गित्त्वप्रतिषेधः प्रत्यभिज्ञयैव
करिष्यते सा चेहापि तादृश्येव, तदयुक्तम्-स्तम्बादौ नानात्वकारणाग्रहणाद् इह
तु रूपपरिमाणपरिवेशाद्यन्यत्वदर्शनात्साद्दश्यनिबन्धनेयं भ्रान्तिरेव प्रत्यभिज्ञा
न खलु शिशुशरीरे तरुणशरीरे जरच्छरीरे च तुल्यमेव परिमाणमुपलभ्यते,
आहारपरिणामाच्च देहभेदोऽवगम्यते ।
पाकजोत्पत्तिमार्गेण न जीर्येतान्नमन्यथा ॥
न भवेत्परिपोषो हि दधिक्षीरादिभक्षणे ।
काञ्चनाद्युपयोगेन दृश्यते तस्य रक्तता ॥
क्षीणैरवयवैः कैश्चित्कैश्चित्तच्चाभिनवोद्गतैः ।
अभिन्न एवावयवी कथ
१२ न्यायमञ्जर्याम्
ष्पन्नपानादिषु रसमलधातुभावेन परिणाममुपगच्छत्सु प्रायेण प्रतिक्षणमुत्पाद-
विनाशौ सम्भवत इति स्थैर्याभावात्कथमनुसन्धानादिकार्ययोगोऽस्येति ।
पिठरपाकवादिमतम्-
अपरे-पुनः प्रत्यक्षबलवत्तया घटादेरविनाशमेव पच्यमानस्य मन्यन्ते सुषिर-
रद्रव्यारम्भाच्चान्तर्बहिश्च पाकोऽप्युपपद्यते दृश्यते च पक्केऽपि कलशे निषि-
क्तानामपां बहिः शीतस्पर्शग्रहणमतश्च पाककाले ज्वलदनलशिखाकलापानुप्रवे-
शकृतविनाशबलादपि शिशिरतरनीरकरणनिकरानुप्रवेशकृतनाशप्रसङ्गः, न चेदृशी
प्रमाणदृष्टिरतः प्रकृतिसुषिरतयैव कार्यद्रव्यस्य घटादेरारम्भदान्तरन्तस्तेजःक-
णानुप्रवेशकृतपाकोपपत्तेरलं विनाशकल्पनया पिठरपाकपक्ष एव पेशलः,
यादृगेव हि निक्षिप्तो घटः पाकाय कन्दुके(१) ।
पाकेऽपि तादृगेवासावुद्गतो दृश्यते ततः ॥
क्व चित्तु संनिवेशान्तरदर्शनं काष्ठाद्यभिघातकृतमुपपत्स्यते पावकसंपर्क-
स्य तत्कारित्वे तु सर्वत्र तथाभावः स्यात्, तस्मादविनष्टा एव घटादयः पच्य-
न्ते सोऽयं तु घटादिन्यायः शरीरे नेष्यते,
न ह्यन्नपाकस्थैर्येऽपि तत्र कुम्भादिपाकवत् ।
चयापचययुक्तं हि शरीरमुपलभ्यते ॥
तस्मात्परिमाणादिभेददर्शनान्नैकं शरीरमिति ज्वालाऽऽदिप्रत्यभिज्ञावत्तत्प्र-
त्यभिज्ञेति स्थितम् ।
यदप्युच्यते-अवस्थानामेव नानात्वमवस्थाता पुनरेक एव देहाख्य इति तद-
प्ययुक्तम्, भेदाभेदविकल्पानुपपत्तेः, यदि शरीरादव्यतिरिक्ता एव तदवस्थाः तदा-
ऽवस्थानामप्यन्योन्यं भेदो न स्याद्, अथ व्यतिरिक्ताः शरीरादवस्थाः तर्हि भेदेन
तदुपग्रहो दर्शयितव्यः, न चासावस्ति गोत्वादावनुवृत्त्या बुद्धिरनन्यथासिद्धा
सती न केन चित्प्रतिहन्यते, इह पुनरवस्थान्तरैकत्वग्राहिणी बुद्धिः पूर्वनि त्या
प्रमाणबाधितत्वाद् भ्रान्तेति, तस्माच्छरीरस्य भिन्नत्वात्संतानान्तरवत् स्मृत्यनु-
संधानादिकार्ययोगो दुर्घट इति न तस्येच्छाऽऽदिकार्याश्रयत्वम्, इतश्च न शरीर-
स्य ज्ञानादियोगः परिणामित्वात्क्षीरादिवत् रूपादिमत्त्वात्तद्वदेव, अनेकसमूहस्व-
भावत्वात् त्रिदण्डादिवत् सन्निवेशविशिष्टत्वाच्च बाह्यभूतवत्, चैतन्यशून्यं-
शरीरं शरीरत्वान्मृतशरीरवत्, न शरीरधर्मश्चैतन्यमयावद्द्रव्यभावित्वात्,
न च कण्ड्वादिभिर्व्यभिचारः तदुपजनापाययोर्निमित्तान्तरजन्यत्वदर्शनादिह
च तदभावाद्विशेषगुणत्वे सतीति वा विशेषणोपादानान्न व्यभिचारः, तद्विशेष-
गुणत्वे हि चैतन्यस्य रूपादिवत्तदवस्थानादविनाशप्रसङ्गः ।
(१) कन्दुकम्-'पजावा' इति प्रसिद्धः ।
आत्मन्याक्षेपः । १३
यत्तु मदशक्तिवदित्युक्तम् तत्र मदशक्तेर्दृष्टत्वादभ्युपगमो न ज्ञानस्य तत्र दर्शनम् ।
भूतचैतन्यवादनिरासः-
ननु ज्ञानमपि तदन्वयव्यतिरेकानुविधायि प्रायेण दृश्यते भूतेष्व-
न्नपानाद्युपयोगपुष्टेषु पट्वी चेतना भवति तद्विपर्यये विपर्ययः, ब्रा-
ह्मीघृताद्युपयोगसंस्कृते च कुमारशरीरे पटुप्रज्ञता जायते, वर्षासु च स्वेदा-
दिनाऽतिदवीयसैव कालेन दृष्याद्यवयवा एव चलन्तः पूतनादिक्रिमि-
रूपा उपलभ्यन्ते, चैतन्यगुरुलाघवव्यवहारोऽपि भूतातिशयसदसत्त्वकृतो-
भविष्यतीति भूतचैतन्यवादपक्ष एव युक्तियुक्तो लक्ष्यते,
नैतच्चारु--चेष्टेन्द्रियार्थाश्रयः शरीरं(१) वक्ष्यते तत्र तदनुग्रहादिन्द्रियानुग्रहे
सति पटुकरणत्वाद्विषयग्रहणपाटवं, न हि विषयग्रहणादन्यच्चैतन्यं नाम, एतेन
ब्राह्मीघृतोपयोगोऽपि व्याख्यातः, व्यापकत्वादात्मनः सर्वत्र भावे सति भोगायत-
नत्वेन कदा चित्केषां चिद् भूतावयवानां समुपादानतः शुक्रशोणितादिवृद्ध्यव-
यवान्विकृतानूपादास्यते तथा च स्वेदजादिभेदे बहुभेदो भूतसर्गः प्रवर्त्तते विचित्र-
कर्मपरिपाकापेक्षयेति यत्किंचिदेतत्, तस्मान्न सर्वथा भूतानां चैतन्यमिति सिद्धम् ।
इन्द्रियचैतन्यवादनिरासः-
नापीन्द्रियाणि यथोक्तस्य ज्ञानादेः कार्यस्याश्रयतां प्रतिपद्यन्ते दर्शनस्पर्शा-
नाभ्यामेकार्थग्रहणाद्(२) यमर्थमद्राक्षं चक्षुषा तमेवैतर्हि स्पर्शनेन स्पृशामि यम-
स्प्राक्षं स्पर्शनेन तमधुना चक्षुषा पश्यामीति कतरदिन्द्रियमेवमनुसन्दधीत न चक्षु
स्पर्शाविषयत्वात् , न त्वगिन्द्रियं रूपाविषयत्वात्तस्मादुभयविषयग्रहणसमर्थः
कश्चिदनुसंधाताऽस्तीति स इन्द्रियव्यतिरिक्तो गम्यते,
अमुनैव प्रसङ्गेन रूपादिव्यतिरेकिणः ।
वक्तव्या गुणिनः सिद्धिरेतद्बुद्धिनिबन्धना ॥
रूपादिषु स्वतन्त्रेषु न ह्येष प्रत्ययो भवेत् ।
न रूपमस्य विषयो न स्पर्शो न च तद् द्वयम् ॥
अतश्च न गुणव्यतिरिक्तो गुणी भेदेनाग्रहणादित्यसिद्धः परोक्तो हेतुः
भेदग्रहणस्य दर्शितत्वात् , वृत्तविकल्पादीनां तु प्रतिसमाधानं सामान्यसमर्थ-
नावसरे कथितमवयविसिद्धौ वक्ष्यते चेत्यलमवान्तरचिन्तया, इतश्च नेन्द्रि-
याणां चैतन्यं करणत्वाद्वास्यादिवत्, भौतिकानि चेन्द्रियाणि वर्णयिष्यामः,
तेन य एष भूतचैतन्यनिराकरणे न्यायो वर्णितः स तेष्वपि योजनीयोऽतश्चैव-
मिन्द्रियान्तरविकारात् ,(३)
( १ ) गौतमसूत्र अ० १ आ० १ सू० ११ ।
(२) गौ० सू० अ० ३ आ० १ सू० १ (३) गौ० सू० अ० ३ आ० १ सू० १२
१४ न्यायमञ्जर्याम्
आम्रे हि चक्षुषा दृष्टे रसनिष्यन्दसुन्दरे ।
रसनस्य विकारः स्यान्नुर्दन्तोदकविप्लवः ॥
बहूनामिन्द्रियाणां च भिन्नाभिप्रायता भवेत् ।
तेनैकत्रैव सन्ताने नानाचेतनता भवेत् ॥
अतितुच्छश्चायमिन्द्रियचैतन्यपक्ष इति किमत्र बहु लिख्यते ।
मनश्चैतन्यवादनिरासः-
ननु मनस्तर्हीच्छाऽऽदेरधिष्ठानं भविष्यति तद्धि नित्यमेकं सर्वविषयमभौतिक-
मिति न प्राक्तनदोषैः स्पृश्यते ? उच्यते-मनसोऽपि तदाश्रयत्वमनुपपन्नं, कुतो ?
ज्ञातुर्ज्ञानसाधनोपपत्तेः संज्ञाभेदमात्रम् मनसो हीच्छाऽऽद्याश्रयत्वे ज्ञानादौ कर्तृ-
त्वात्तस्यापि बाह्यगन्धादिविषयज्ञानायौगपद्यानुपपत्तेस्तद्ग्रहणे घ्राणाद्यधिष्ठान-
पटुना केन चिदान्तरसुखदुःखादिविषयग्राहिणा स्मृत्यादिक्रियाकारिणा च क-
रणेन भवितव्यमिति तत्रात्मसंज्ञा भवेदात्मनि च कर्तरि मनः संज्ञेति,
न चास्य बाह्यकरणैः सिध्यन्ति सकलाः क्रियाः ।
न च स्मृतिसुखेच्छाऽऽदौ (१) शक्ताः स्युश्चक्षुरादयः ॥
चैतन्याश्रयतयाऽऽत्मनः साधनम्-
तेनेच्छासुखकृतिदुःखवेदनानामाधारो न खलु मनो न चेन्द्रियाणि ।
देहोऽपि व्रजति न तत्समाश्रयत्वं तेनान्यं पुरुषमतः प्रकल्पयामः ॥
दिक्प्रदर्शनमिदं कृतमिच्छाद्वेषयत्नसुखदुःखमतीनाम् ।
लिङ्गताकथनमात्मनि तत्र त्वस्ति हेतुनिवहो बहुरन्यः ॥
कर्तृप्रयोज्यता खलु दृष्टा दात्रादिकरणजातस्य ।
त्वक्श्रोत्राद्यपि करणं तथैव कर्त्रा प्रयुज्येत ॥
हिताहितप्राप्तिविमर्शयोग्या चेष्टा च दृष्टा नियता शरीरे ।
तच्चेतनाधिष्ठितताममुष्य गन्त्रीरथादेरिव कल्पयामः ॥
प्राणादिमारुतानामन्तश्चलतां चलाचलगतीनाम् ।
सहजनिजकर्मविकृतौ कारणमनुमीयते किञ्चित् ॥
इदं च देहादितरत्र दुर्लभं निरीक्ष्य वृद्धिक्षतभग्नरोहणम् ।
ध्रुवं गृहस्येव गतिः प्रकल्पते निजाश्रमक्षेमपरायणो नरः ॥
युक्तं च नैवं मनसा ह्यनधिष्ठितानां स्वार्थप्रमाकरणकौशलमिन्द्रियाणाम् ।
स्यात्कश्चिदिष्टविषयानुगुणप्रयत्नो यत्प्रेरितं सदधितिष्ठति तानि चेतः ॥
ज्ञानप्रयत्नादिमतोऽथ कस्य दृष्टान्तता स्यात्करणादिलिङ्गे ।
कार्ये च नः पर्यनुयोग एष सामान्यमात्रस्य तवापि सिद्धेः ॥
(१) 'शक्तानिचक्षुरादीनि' ख० पु० पा० ।
आत्मन्याक्षेपः । १६
प्रत्यक्षादिप्रमाणैयों व्यवहारः स चात्मना ।
विना नित्येन नेत्येवं ततस्तस्य प्रकल्पकम् ॥
यत्प्रत्यक्षं प्रत्यभिज्ञास्वभावं ज्ञात्रन्यत्वेत्तस्य न ह्यात्मलाभः ।
ग्राह्यस्यैक्यं यद्वदर्थस्य तस्मात्सिद्धद्यत्येवं ग्राहकस्यापि पुंसः ॥
अविनाभावग्रहणं लिङ्गज्ञानं तदन्वयस्मरणम् ।
लिङ्गिप्रमितिरितीदं न बोद्धृभेदेऽनुमानं स्यात् ॥
ज्ञाते बनेचरमुखादतिदेशवाक्ये दृष्टे मृगे विपिनवर्त्तिनि गोसदृशे ।
तत्संज्ञतामितिफलं लभते प्रमातृभेदे न चेद् मुपमानमितिप्रतिष्ठम् ॥
वर्णानां श्रवणं क्रमेण समयस्मृत्या पदार्थग्रह-
स्तत्संस्कारजमन्त्यवर्णकलनाकाले तदालोचनम् ।
आकाङ्क्षादिनिबन्धनान्वयकृतं वाक्यार्थसम्पिण्डनं-
ज्ञातैकेन विनाऽतिदुर्घटमतो नित्यात्मसिद्धिर्भुवम् ॥
मयेदं पूर्वेद्युर्विहितमिदमन्येद्युरपरं विधातव्यं चेति श्रुतिकृषिवणिज्यादिषु जनाः ।
यदेवं चेष्टन्ते निपुणमनुसन्धाय तदमी ध्रुवं सर्वावस्थानुगतमवगच्छन्ति पुरुषम् ॥
इत्यादि लक्षणमवादि तदेतदिच्छाद्वेषप्रयत्नसुखदुःखमाश्रयत्वम् ।
तत्सङ्गिनं तदिह हेयतया व्यवस्येत्तद्विप्रयुक्तमधिगम्यतया मुमुक्षुः ॥
विज्ञानात्मवादिनः पूर्वपक्षः-
अथो तथागताः प्राहुः किं पुंसा कल्पितेन वा ।
ज्ञानमात्रेण पूर्वोक्तो व्यवहारोऽवकल्पते ॥
ज्ञानं किमात्मवन्नित्यं सौगतैरुपगम्यते ।
प्राग्दर्शितानुसन्धानस्मरणदिक्रियाक्षमम् ॥
ज्ञानं बौद्धगृहे तावत्कुतो नित्यं भविष्यति ।
अन्येऽपि सर्वे संस्काराः क्षणिका इति गृह्यताम् ॥
क्षणिकं चेष्यते कार्यं न क चित्किञ्चिदाश्रितम् ।
स्वतन्त्रं ज्ञानमेवातो नान्यस्तेनाऽनुमीयते ॥
ज्ञानस्यैव प्रभेदोऽयमिच्छाद्वेषसुखादिकः ।
न वस्त्वन्तरमित्येवं न ततोऽप्यन्यकल्पनम् ॥
गुणत्वमपि नास्त्यस्य यतोऽधिष्ठानकल्पना ।
न गुणव्यतिरिक्तश्च गुणी नामास्ति कश्चन ॥
निराश्रयेषु विज्ञानस्कन्धेषु क्षणभङ्गितु ।
कथं स्मृत्यादि कार्यं वा परलोकोऽपि वा कथम् ॥
सत्यपि वा परलोके कथमकृताभ्यागमकृतविप्रणाशौ पराक्रियेते, येन हि
१६ न्यायमञ्जर्याम्
ज्ञानेन चैत्यवन्दनादि कर्म कृतं तस्य विनाशान्न तत्फलापभोगा, यस्य च फलो-
पभोगः तेन न तत्कर्म कृतमिति, नैष दोषः-कार्यकारणभावस्य नियामकत्वा-
दनादिप्रबन्धप्रवृत्तो हि ज्ञानानां हेतुफलभावप्रवाहः, एष एव च सन्तान इत्यु-
च्यते, तत्कृतश्चायमनुसंधानादिकार्यनियमः, सन्तानानादित्वादविच्छेदाच्च
परलोकोऽपि न क्लिष्टकल्पनः, यद्यपि च सन्तत्यन्तरपतितज्ञानजन्यमपि सन्त-
त्यन्तरे ज्ञानं दृश्यते तथाऽपि न तादृशः कार्यकारणभावेन सन्तानव्यवहारः
प्रतिसन्धानादिकार्यनिर्वाहो वा किन्तुपादानरूपतद्विशेषणनिबन्धन एवैष निर्वहति
नियमः, तस्मिन्नेव सति स्वरूपसन्तानविभागोऽवकल्पते,
स्मृतिवत्परिहर्त्तव्यौ कृतनाशाकृतागमौ ।
तत्सन्तानोपसंक्रान्त्या कुसुमे बीजरागवत् ॥
आह च—
यस्मिन्नेव च सन्तान आहिता कर्मवासना ।
फलं तत्रैव बध्नाति कार्पासे रक्तता यथा ॥
नित्यस्त्वात्माऽभ्युपगम्यमानो यदि सुखादिजन्मना विकृतमनुभवति
तदयं नित्य एव धर्मादिवदुक्तः स्यात्, निर्विकारत्वे तु सताऽसता वा सुखदुः
खादिना कर्मफलेन कस्तस्य विशेष इति कर्मवैफल्यमेव, तदुक्तम्—
वर्षातपाभ्यां किं व्योम्नः चर्मण्यस्ति तयोः फलम् ।
चर्मोपमश्चेत्सोऽनित्यः खतुल्यश्चेदसत्समः ॥ इति ।
तस्मादुत्सृज्यतामेष मूर्धाभिषिक्तो प्रथमो मोहः आत्मग्रहो नाम, तन्नि-
वृत्त्या चात्मीयग्रहोऽपि विरंस्यति अहमेव न किं ममेति, तदिदमहंकारममका-
रग्रन्थिप्रहाणेन नैरात्म्यदर्शनमेव निर्वाणद्वारमालम्ब्यताम्, तस्य स मार्गः
क्षणिकपदार्थनिश्चयः, क्षणिकेषु हि सर्वभावेषु निराश्रयेषु ज्ञानस्याप्याश्रयविर-
हात्कुतस्त्यमात्मकल्पनमिति ।
सर्वभावानां क्षणिकत्वम्—
कथं पुनरेष सकलप्रमाऽतीतः क्षणिकपदार्थवादः शक्यते शाक्यैरभ्युपगन्तुम् ?
न खलु क्षणभङ्गित्वे भावानामनक्षजा मतिः ।
न भूमिरनुमानस्य विकल्पनियतस्थितेः ॥
स्मरणप्रत्यभिज्ञाने प्रत्युत स्थैर्यसाधके ।
एवं च वञ्चनामात्रामाशुनाशित्वदेशना ॥
उच्यते—प्रत्यक्षगम्यं क्षणिकत्वं भवति न भवत्येष करिष्यते विचारः,
अनुमानं तु संप्रत्येवमभिधीयते—सत्त्वात्क्षणिकाः पदार्था इति, सत्त्वं तावद-
र्थक्रियाकारित्वमुच्यते, यद्वाऽर्थक्रियासमर्थं यत्तदेव परमार्थसदिति, सत्प्रत्य-
सर्वभावानां क्षणिकत्वम् । १७
यद्गम्यत्वे हि सत्त्वे (१)केशोण्डुकादेरपि सत्त्वप्रसङ्गः, सत्तासंबन्धे सत्त्वे सामा-
न्यादीनां तदसंबन्धादसत्त्वं स्याद् , अर्थक्रियासामर्थ्यसत्त्वानुवर्ती च लौकिको-
व्यवहारः सत्यपि पुत्रे तत्कार्यादर्शनादपुत्रा वयमिति व्यपदिशन्ति लौकिकाः,
पुत्रादन्यस्मिन्नपि तत्कार्यकारिणि सति सपुत्रा वयमिति च ब्रुवते, तस्मादर्थ-
क्रियाकारित्वमेव सत्त्वम् , भवत्वेवं-तस्य तु कुत्र कथं वा क्षणिकत्वेन व्याप्ति-
ग्रहणम् ? कुत्रेति यत्पृच्छसि यत्र रोचते महाभागाय घटे पटे वा गृह्यतां व्याप्तिः,
किं साध्यधर्मिण्येव व्याप्तिग्रहणमुपपद्यते ? धीमन् ! कोऽत्र प्रमादः, न हि दैव-
निर्मितः कश्चित्साध्यधर्मी नाम, ग्रहीतुं शक्यते चेद्व्याप्तिः यत्र तत्र सा गृह्यता-
मिति, तदुच्यते-भावानां हि सत्त्वं
१८ न्यायमञ्जर्याम्
ण ? सहकार्यपेक्षया करोतीति चेद् न-असमर्थस्य सहकारिणा ऽपि सामर्थ्याधाना-
नुपपत्तेः, समर्थस्य स्वत एव सामर्थ्ये सति सहकारित्ववैयर्थ्यान्, सहकारिस-
न्निधानेऽपि चास्य स्वरूपेण वा कर्तृत्वं स्यात्पररूपेण वा ? स्वरूपस्य च प्रागपि
भावात्तस्य च कारकत्वात् किं सहकारिणा, पररूपेण कर्तृत्वे पूर्वरूपपरित्यागात्-
द्रूपान्तरापत्तेश्च क्षणिकत्वमुपपद्यते, एवं सहकार्यपि समर्थासमर्थतया विकल्प-
नीयः, स्वतोऽपि सामर्थ्ये किं परोपकरणदैन्येन, असमर्थस्य तु सचिवः
किमागत्यापि सर्वत्र कार्ये साचिव्यमुपगच्छेत् ?
किञ्चित्करश्चेद्वक्तव्यं किं करोतीति, उपकारमिति चेत्स उपक्रियमाणा-
द्भिन्नोऽभिन्नो वा ? अभिन्नश्चेत्स एव कृतः स्यात्, भेदे तस्य किमायातं-
यदसौ न पूर्ववदास्ते, कार्यादपि भेदाभेदाभ्यां चिन्त्य उपकारः, न कार्याद्भिन्नो-
ऽनुपलम्भाद् द्वयकारणभावाच्च, कार्याद्व्यतिरिक्ते तूपकारे सहकारिणा क्रि-
यमाणे कार्यमेव तेन कृतं स्यादिति मूलकारणानर्थक्यम्,
ननु चैक एव भावः कारकः स एव हि समर्थस्तदितरपदार्थसन्निधानं तु
स्वहेतुवशादुपनतमिति नापालम्भमर्हति,
नैतद्युक्तमेकस्य कदा चिदपि कारकत्वानुपलब्धेस्तत्सामर्थ्यस्य दुरधिगम-
त्वात्, एवं ह्यसौ समर्थ उच्यते यद्येकः कदा चित्कार्यमुत्पाद्यनश्येत न तु
विस्मृत्यापि दृश्यते,
अथ कार्यस्यायं स्वभावो यदेकस्मान्नोत्पद्यते कारणं तु शक्तमेवेति ?
तदप्ययुक्तम्—कार्यस्वभावपराधीनत्वेन कारणस्य सामर्थ्यविरहप्रज्ञान्,
एवं ह्यसौ समर्थः कथ्येत यदि कार्यस्वभावमनादृत्य स्वतन्त्र एक एव प्रसह्य
कार्यं जनयेन्न चैवं दृश्यत इति यत्किञ्चिदेतत्,
अथ समर्थमेव कारणं तस्य त्वयं स्वभावो यत्सहसैव कार्यं न करोति
कतिपयक्षणव्यवधाने तु करोतीति,
यद्येवं न कदाचित्कार्योत्पादः स्यात्, कार्योत्पादसमयेऽपि कतिपयक्षणव्य-
वहितकार्यजननस्वभावानपायात्, पुनः कतिपयक्षणाप्यवेक्षणं स्यात्, तेष्वपि क-
तिपयेषु क्षणेष्वतिक्रान्तेषु स एवास्य स्वभावस्तदवस्थ इति पुनरप्येवं भवेदिति
कदा नाम कार्यं जनयेत् ? तदेवमादिदोषोपहतत्वान्न क्रमेण भावानामर्थक्रिया-
सामर्थ्यम्,
नापि युगपद्, लोके तथा व्यवहारादर्शनात्, युगपत्कृतकस्यापि स्थिरस्य
पुनस्करणे हेत्वभावः, पुनश्च कुर्वन्नपि भावः कार्ये न तदेव कुर्यात्, कृतस्य
करणाऽयोगात्, कार्यान्तरकरणे तु स एवायं पुनः क्रमपक्ष आपतेदित्येवं क्रम-
यौगपद्ये नित्येभ्यः पदार्थेभ्यः निवर्तेते, ते च निवर्तमाने सत्त्वस्य व्यापके इति
सत्त्वं तेभ्य आदायैव निवर्त्तते, तेभ्यः प्रच्युतं सत्त्वं गत्यन्तरविरहात्क्षणिकेष्वेव
निविशते(१), अतो यद्यपि कार्ये हेतौ धूमाग्न्योरिव स्वभावहेतावपि वा क चिद्
वृक्षत्वशिंशपात्वयोरिव पूर्वमिह साध्यसाधनधर्मयोर्ग्रहणं धर्म्मन्तरे न वृत्तं तथा-
ऽपि साध्यधर्मिण्येव व्याप्तिग्रहणमुपपत्स्यते विपक्षाद्व्यावृत्तेः सुपरिनिश्चितत्वात् ,
यैव च विपक्षाद्व्यावृत्तिः स एव चास्य हेतोः स्वसाध्येनान्वयः, न ह्येवं संभ-
वति नित्येभ्यश्च व्यावृत्तं सत्त्वं क्षणिकेषु च न निष्ठमिति, तृतीयराश्यभावा-
न्निराश्रयत्वानुपपत्तेश्च, तदेवं क चिद्धर्म्मिणि व्याप्तौ गृहीतायां यदि स एव
कदा चित्परं प्रति दृष्टान्तीक्रियते तदैवं नाम भवतु को दोष इति,
ननु व्यापकानुपलब्धेरनुमानमनुमानेन चानुमानस्य व्याप्तिग्रहणे ऽनवस्था ?
नानवस्था, तावत्येव पर्यवसानात् , न हि व्यापकानुपलब्धेरनुमानान्तरा-
द्व्याप्तिनिश्चयः, किं तु प्रत्यक्षविकल्पादेव, तदनया व्याप्तिनिश्चयात्सिद्धमेतद्यत्स-
त्तत्क्षणिकमिति,
अन्ये तु नीत्यन्तरेण व्याप्तिनिश्चयमाचक्षते --विरुद्धयोरेकपरिच्छेदेऽन्य-
तरनिवृत्तिरवश्यंभाविना विरुद्धत्वादेव, विरुद्धे च सत्त्वनित्यत्वे पूर्वोक्तयैव नी-
त्या, (२)सत्त्वं च विस्पष्टमुपलभ्यते भावानामिति तदुपलम्भान्नित्यत्वनिवृत्तिः,
नित्यत्वनिवृत्तेरेव क्षणिकत्वनिश्चयः, प्रकारान्तराभावाद्,
ननु शीतोष्णयोः पृथगुपलम्भाद्विरोधनिश्चये युक्त एकग्रहणे द्वितीय-
व्युदासः, इह तु सत्त्वमेवोपलभ्यते न नित्यत्वमिति कथं तद्विरोधादितरव्यावृत्तिः ?
नैष दोषः, पृथगुभयानुपलम्भेऽपि सत्त्वबुद्ध्यैव नित्यत्वनिराससिद्धेः,
कथमन्यविषयबुद्धिरन्यमुदस्यति ? उच्यते-
द्विचन्द्रदर्शनस्यैकशशभृद्विम्बवेदिनी ।
धीरतद्विषयत्वेऽपि तद्व्यवच्छेदकारिणी ॥
सत्त्वं नानास्वभावत्वं स्थैर्यमेकस्वभावता ।
तयोर्विरोधो युक्त्याऽपि वक्तुं न हि न शक्यते ॥
तस्मात्सत्त्वप्रतीतेरेव नित्यत्वनिवृत्तिः, सैव च क्षणिकत्वव्याप्तिरिति सिद्धं
सत्त्वात्क्षणिकत्वम् ।
अपि च सर्वदा कार्यानुत्पादात्कारकावस्था नूनमेकक्षणस्थायिनी भावा-
( १ ) निविशत इति-अयम्भावः सत्त्वमर्थक्रियाकारित्वं न तु सत्तायोगित्वम्
सामान्यादौ सत्तायोगित्वाभावेनासत्त्वप्रसङ्गात् , तच्च क्रमयौगपद्याभ्यां व्याप्तं ते च
नित्येषु न सम्भवतः इतिसत्त्वव्यापकयोः क्रमयौगपद्योर्नित्येषु निवृत्त्या सत्त्वमपि निव-
र्त्तते इति क्षणिकेष्वेव सत्त्वं पर्यवस्यतीति ।
( २ ) नीत्येति । सत्त्वव्यापकयोः क्रमयौगपद्योर्नित्ये निवृत्त्या सत्त्वस्यापि
निवृत्तिरिति रीत्येत्यर्थः । तेन सत्त्वनित्ययोर्विरुद्धत्वमिति भावः ।
ौ - त्या - नु - मा - ना - दौ
Wait, 'शौ' or 'शै'?
It has an aa-matra and two ai-matras? That's 'शौ'!
Wait, in Sanskrit, is it 'शौत्य' or 'शैत्य'?
'शैत्य' comes from 'शीत' (शीतस्य भावः शैत्यम्).
Why does it look like 'शौ'?
Ah, look at the matra: there is a pṛṣṭhamātrā!
In old Devanagari typography, 'ऐ' can be written as one stroke before/after and one on top, or 'शौ' is printed.
Wait, look at 'श्रोत्रिया': line 1, 'श्रो' has one vertical and one top stroke.
Here in line 32: look at the letter:
It has: श + vertical stroke to the right + two slanted strokes on top! That spells 'शौ'!
Wait, or is it 'शै'? Some fonts write 'शै' with a vertical stroke on the left/right? No, 'शौ' is often a typo for 'शैत्य' or printed as 'शौत्य'. Let's look closely: it's definitely 'शौत्यानुमानादौ'.
L33:
"तस्य ह्यनन्यथासिद्धेरिह त्वेवं न युज्यते ॥"
Wait, let's read:
त - स्य
ह्य - न - न
प्रत्यभिज्ञायाः क्षणभङ्गपक्षेऽपि सदृशपरापरक्षणगणप्रसवप्रतारितमतीनामु-
पलभ्यमानत्वात् , एवं च सति—
यदि हि व्याप्तिशैथिल्यं सिद्धं किं प्रत्यभिज्ञया ।
अथ न व्याप्तिशैथिल्यं सिद्धं किं प्रत्यभिज्ञया ॥
न च प्रत्यभिज्ञैव व्याप्तिविप्लवकारणमितरेतराश्रयप्रसङ्गात् , व्याप्तिविप्लवे-
नानुमाने न्यग्भूते प्रत्यभिज्ञा प्रमाणं भवति तस्यां च प्रमाणीभूतायां व्याप्तिवै-
धुर्यादनुमानाप्रामाण्यम् , अनुमानप्रामाण्येऽपि समानो दोष इति चेन्न, तस्य
प्रतिबन्धमहिम्नैव प्रामाण्यसिद्धेः, न हि तस्य प्रतिभिज्ञादौर्बल्यनिबन्धनं
प्रामाण्यम् ।
प्रत्यभिज्ञास्वरूपनिरूपणम् ।
अपि च केयं प्रत्यभिज्ञा नामेति नैपुण्येन निरूपयितुमर्हन्त्यत्र भवन्तः, किं-
स एवायं कुम्भ इत्येकं ज्ञानमुत द्वे एते स्मृत्यनुभवज्ञाने ? यद्येकं तदस्य कारणं
वाच्यं यत उत्पद्यते? नेन्द्रियं स इत्यस्मिन्नंशे तस्यासामर्थ्यात् , न संस्कारस्तस्या-
प्ययमित्यंशे कौशलाभावात् ,
उभाभ्यां न च सम्भूय तज्ज्ञानमुपजन्यते ।
पृथक् पृथक् स्वकार्ये हि निर्ज्ञातं कौशलं तयोः ॥
संस्कारस्य स्मृतिरेव कार्यमिन्द्रियस्यनुभव एव, संभूय न ताभ्यामेकं का-
र्यमारभ्यते, न हि मृत्पिण्डतन्तुनिर्वर्त्यमेकं घटपटरूपं कार्यमुपलब्धम् , न चे-
न्द्रियं केवलमीदृशि कार्ये समर्थ, यथासन्निहिताकारमात्रग्राह्यविचारकमिन्द्रि-
यं प्रत्यभिज्ञानमातनोतीति विस्मयः ! तस्माद् द्वे एते ज्ञाने, स इति स्मरण-
मयमित्यनुभवः,
स्मृतिः स्मर्त्तव्यविषया ग्रहणं ग्राह्यगोचरम् ।
न तदैक्यपरामर्शि दृश्यते प्रत्ययान्तरम् ॥
यथा निरन्तरोत्पन्ने घटज्ञानपटस्मृती ।
न तुल्यविषये तद्वदेते अपि भविष्यतः ॥
यद्वा भवतु नामेदमेकमेव हि वेदनम् ।
तथाऽपि कीदृशं वस्तु स्पृशतीति परीक्ष्यताम् ॥
अतीतकालयुक्तं चेत्स्मरणान्न विशिष्यते ।
अनागतविशिष्टं चेत्सङ्कल्पप्रायमेव तत् ॥
वर्त्तमानैकनिष्ठं चेत्स्थिरत्वं तर्हि सुस्थितम् ।
कालत्रयपरीतं चेद्विरोधात्तु दुर्लभम् ॥
परस्परपरित्यागव्यवस्थितनिजात्मनाम् ।
एकत्र न समावेशः कथं चिदुपपद्यते ॥
| २२ | न्यायमञ्जर्याम् |
|---|
यथा हि—
नीलाभावाविनाभूतलौहित्याद्यपसारणम् ।
कुर्वता नीलबोधेन नीलं भवति निश्चितम् ॥
तद्वदिहापि—
तदभावाविनाभूतस्वस्वकालाद्यपोहनम् ।
वेद्यन्वर्तमानार्थज्ञानं तद्ग्राहिता भवेत् ॥
एतेन पूर्वज्ञानविशिष्टार्थग्राहित्वं प्रत्यभिज्ञायाः प्रत्युक्तम् ,
पूर्वज्ञानस्येदानीमसत्त्वेन विशेषणत्वानुपपत्तेः, अगृहीतविशेषणायाश्च विशि-
ष्टबुद्धेरभावाद्, अथोपजननापायरहितवस्तुस्वरूपग्राहिणी प्रत्यभिज्ञेत्युच्यते,
तदप्ययुक्तम् , वर्तमानैकनिष्ठतायाः प्रदर्शितत्वात् , भावानां च विनाश-
जन्मनोर्वर्तमानो वा कालः स्यादन्यो वा ? तदन्यस्तावद् ग्रहीतुमशक्य इत्युक्तम् ,
वर्तमाने तु तदुत्पादविनाशकाले कथ्यमाने तद्ग्रहणात्तदविनाभूतौ भावानामु-
त्पादविनाशावपि गृहीतौ स्याताम् ,
[L1
[Header] प्रत्यक्षं क्षणिकत्वम् । २३
अथ वर्तमानानुप्रवेशेन भूतभाविनोःकालयोर्ग्रहणं मन्यसे तत्र वर्तमाना-
नुप्रवेशाद्वर्तमान एव गृहीतः स्यान्न भूतो भावी वा, अथ न कश्चिदेव कालः
क चिद्गृह्यते, अर्थ एव प्रकाश्यः केवल इति,
तदयुक्तं, तदवच्छिन्नभावप्रतिभासस्य भवद्भिरेवाभ्युपगमात् ,
ननु कोऽयं कालो नाम शाक्यानाम ? न कश्चिद्वास्तवः, किं काल्पनिक एव
व्यवहारः—
सर्वथेन्द्रियजं ज्ञानं वर्तमानैकगोचरम् ।
पूर्वापरदशास्पर्शकौशलं नावलम्बते ॥
वर्त्तमानः कियान्काल एक एव क्षणस्ततः ।
पूर्वः क्षणोऽतीततां स्पृशत्युत्तरस्त्वनागतताम् ॥
ननु पचति पठतीति वर्तमनोऽपि वितत एव कालः प्रतीयते ?
नैतत्सारम्—
न ह्यस्ति कालावयवी नानाक्षणगणात्मकः ।
वर्तमानक्षणो दीर्घ इति बालिशभाषितम् ॥
क्षणसमुदायात्मकत्वं तु नानारूपत्वमेव तस्य भवेत्, अतीतानागतक्षणा-
त्पूर्वमूर्ध्वं वा तदस्तित्वान्नास्तित्वमपि न गृहीतमेवेति कथं क्षणिकत्वम् ? क-
एवमाह न गृहीतं नास्तित्वमनुपलब्ध एव नास्तित्वव्यवहारात् , उपलम्भो हि
भवेन्नासत्ताऽनुपलम्भाच्च नास्तित्वम् , दर्शनादर्शने एव सदसत्त्वयोर्लक्षणम् ;
तस्मात्क्षणान्तरं तदनुपलम्भाद् नास्तित्वमेवेत्येवं क्षणिकत्वग्राहि प्रत्यक्षमिति
स्थितम् ,
ननु च प्रत्यभिज्ञातो दीर्घकालत्वनिश्चयः ।
किमद्यापि न मुक्तोऽसि तत्प्रामारायकुतृष्णया ॥
परीक्षितं हि तस्याः स्वरूपं कार्यं कारणं च,
न शक्नोतीव सा स्थैर्यमुपपादयितुं निजम् ॥
न पूर्वा नोत्तरं ज्ञानं ग्राहि कालान्तरस्थितेः ।
तदिदं बोध्यमानोऽपि रागान्धो नावबुद्ध्यते ॥
पूर्वं हि ज्ञानं तत्कालमेव उत्तरमपि स्वकालमेव वस्तु गृह्णाति, मध्ये तु
नास्त्येव ग्रहणमग्रहणमेव मध्यमाहुः,
नन्वविच्छिन्नदृष्टीनां न हि त्रुट्यदवस्थितिः ।
स्तम्भादिरवभातीति कथमेतस्य भङ्गिता ॥
नैतदेवम् , तत्राप्येकक्षणवृत्तित्वाज्ज्ञानस्य, क्षणान्तरे तु ज्ञानमेव नास्ति,
कस्य विच्छिन्नसत्ता, कस्यात्रुटितसत्ता, कस्य वा बोधकम् ?
नन्वस्त्येव क्षणान्तरे तु ज्ञानमविच्छिन्नत्वाद् दृष्टेरिति चेद्,
मैवम्-बुद्धेर्दीर्घकालत्वाज्ज्ञानान्तरोत्पादन एवासावित्यवधारयत्वायुष्मान् ,
तस्माद्यथैव सन्तानवृत्त्या ज्ञानक्षणोदयः ।
तथैवोत्पाद्यतामेष स्तम्भक्षणपरम्परा ॥
सोऽयमविच्छिन्नदृष्टीनामत्रुटितपदार्थसत्ताग्रहणाभिमान इत्थमुत्थितः,
स्थिरेणापि न बोधेन दीर्घग्राहस्थितिग्रहः ।
न ह्यसन्निहितग्राहि प्रत्यक्षमिति वर्णितम् ॥
तत्काले सन्निधिर्नास्ति क्षणयोर्भूतभाविनोः ।
वर्तमानक्षणश्चैको न दीर्घत्वं प्रपद्यते ॥
तेन बुद्धिस्थिरत्वेऽपि स्थैर्यमर्थस्य दुर्वचम् ।
न त्वनन्तरया नीत्या तस्या अपि चिरं स्थितिः ॥
साऽपि हि स्वसंवेद्यत्वादेकक्षणपरीतैव प्रकाशत इति तस्मात्क्षणिकग्राहि प्र-
त्यक्षमिति सिद्धम् ।
क्षणिकत्वेऽनुमानस्याबाधकत्वकथनम् ।
ननु स्थैर्यं पदार्थानामनुमानात्प्रतीयते ।
[L
आत्मन्याक्षेपः । २५
तदेवमुपपन्नेयं गृह्यतां क्षणभङ्गिता ।
त्यज्यतां दीर्घसंसारकारिणः स्थिरताग्रहः(१) ॥
क्षणभङ्गनिरासः ।
अत्राभिधीयते नैव (२)प्रमाणद्वयमप्यदः ।
भावानां क्षणभङ्गित्त्वमुपपादयितुं क्षमम ॥
अर्थक्रियासमर्थत्वं सत्त्वं यत्तावदुच्यते ।
तदसत्कूटहेमादि(३)व्यभिचारावधारणात् ॥
किं त्वबाधितसद्बुद्धिगम्यता सत्त्वमिष्यते ।
सदसद्रूपदेशस्तु (४)पुत्रादावौपचारिकः ॥
( १ ) अयन्तावदत्र क्षणभङ्गवादिमतनिष्कर्षः ।
अर्थक्रियाकारित्वं सत्त्वं तच्च क्रमाक्रमाभ्यां व्याप्तम् क्रमाक्रमौ च क्षणिकत्व एव
सम्भवतः न तु स्थायित्वे ।
तथाहि—स्थायी पदार्थः सर्वाः क्रिया युगपत्कर्तुं न प्रभवति तथा सति द्वितीयक्षणे
कृत्याभावात् अर्थक्रियाकारित्वाभावादसल्लक्षणापत्तेः; नापि क्रमः सम्भवति स्थायी
भावो हि सर्वार्थक्रियासमर्थः किमिति कांचिदेवारभते नान्यां समर्थस्य विलम्बे कारणाभा-
वात् । नच सहकार्यपेक्षया विलम्बत इति वाच्यम् , अकिञ्चित्कराश्चेत्सहकारिणस्तदऽ-
नपेक्ष्याः, किञ्चित्कराश्चेत्तदा तैरेव क्रियते ते एव कारणं तदनन्तरं कार्यनिष्पत्तेः, त-
स्मात् नाक्षणिकस्य सत्ता सम्भवतीति सन्मात्रानुबन्धित्वं क्षणिकत्वस्य,
किञ्च यद्येषामवश्यंभावि न तत्र हेत्वन्तरापेक्षा कृतकानां च भावानामवश्यंभावी
विनाशः तेन सिद्धं घटादीनां क्षणिकत्वम् , तथाहि—ध्रुवभावित्वं हि हेत्वन्तरानपेक्षि-
त्वव्याप्तमग्न्युष्णत्वादिशूपलब्धमिति प्रकृते विनाशस्य ध्रुवभाविता सापेक्षत्वं प्रति-
क्षिपति निरपेक्षश्च विनाशः स्वाभाविकोजन्मान्तरमेव भवतीति सिद्धः क्षणभङ्गः ।
किञ्च प्रयत्न रक्षितानामपि घटादीनां मुसलादिप्रहारमन्तरेव कियतापि कालेन अव-
यवविश्लेषवशेन विनाश उपलभ्यते स चायमुत्पत्तिप्रभृति किञ्चित्किञ्चिदन्यथात्वमन्तरेण
नोपपद्यते, अभिनवपुराणावस्थयोश्च घटयोः प्रत्यक्षेणैवान्यथात्वमुपलभ्यते न चैकस्य
घटस्य नानारूपत्वं सम्भवति नानात्वैकत्वयोर्विरोधात तस्मात्प्रतिक्षणमन्यत्वं घटादेरिति
क्षणिकत्वसिद्धिरित्यलम् ।
( २ ) प्रमाणद्वयं-प्रत्यक्षमनुमानं चेत्यर्थः ।
( ३ ) कूटहेम-कृत्रिमहेम ।
( ४ ) ननु अर्थक्रियासामर्थ्यमेव सत्त्वमत एव सत्यपि पुत्रे तत्कार्यादर्शनादपुत्रा
वयमिति व्यपदिशन्ति लौकिकाः पुत्रादन्यस्मिन् पुत्रकार्यकारिणि सपुत्रा वयमिति च
ब्रुवते तस्मादबाधितसद्बुद्धिव्यस्त्वं न सत्त्वमित्यत आह—पुत्रादाविति । औपचा-
४ न्या०
( १ ) उपलब्धीति । सम(नानेकधर्मोपपत्तेरिति सूत्रे इत्यर्थः ।
Wait, on page line 2: "बाधकाभावपर्येषण(१)परायणम्" -> wait! (१) is on पर्येषण!
Line 5: "उपलब्धिव्यवस्थात(२)" -> (२) is on उपलब्धिव्यवस्थातः!
Line 15: "व्योम्नि(३) रोमन्थकेलिवत्" -> (३) is on व्योम्नि!
Wait, footnote (1) says: "( १ ) उपलब्धीति । सम(नानेकधर्मोपपत्तेरिति सूत्रे इत्यर्थः ।"
Footnote (2) says: "( २ ) पर्येषणम्-अन्वेषणम् ।"
The numbers in the footnotes are swapped or matched differently! (1) in footnote is for उपलब्धिव्यवस्थातः, (2) is for पर्येषणम्! But let's transcribe the footnotes exactly as printed!
Now back to line 29-30:
What are the exact characters at the end of line 29 and line 30?
Let's zoom into line 29 after इत्यभ्युपगमाद्, :
Character 1: looks like य or अ or वि?
Wait, look at: य दि
Wait, does it say यदि?
Then line