न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 426, कुल 654 में से
संदर्भ में पढ़ें१२ न्यायमञ्जर्याम्
ष्पन्नपानादिषु रसमलधातुभावेन परिणाममुपगच्छत्सु प्रायेण प्रतिक्षणमुत्पाद-
विनाशौ सम्भवत इति स्थैर्याभावात्कथमनुसन्धानादिकार्ययोगोऽस्येति ।
पिठरपाकवादिमतम्-
अपरे-पुनः प्रत्यक्षबलवत्तया घटादेरविनाशमेव पच्यमानस्य मन्यन्ते सुषिर-
रद्रव्यारम्भाच्चान्तर्बहिश्च पाकोऽप्युपपद्यते दृश्यते च पक्केऽपि कलशे निषि-
क्तानामपां बहिः शीतस्पर्शग्रहणमतश्च पाककाले ज्वलदनलशिखाकलापानुप्रवे-
शकृतविनाशबलादपि शिशिरतरनीरकरणनिकरानुप्रवेशकृतनाशप्रसङ्गः, न चेदृशी
प्रमाणदृष्टिरतः प्रकृतिसुषिरतयैव कार्यद्रव्यस्य घटादेरारम्भदान्तरन्तस्तेजःक-
णानुप्रवेशकृतपाकोपपत्तेरलं विनाशकल्पनया पिठरपाकपक्ष एव पेशलः,
यादृगेव हि निक्षिप्तो घटः पाकाय कन्दुके(१) ।
पाकेऽपि तादृगेवासावुद्गतो दृश्यते ततः ॥
क्व चित्तु संनिवेशान्तरदर्शनं काष्ठाद्यभिघातकृतमुपपत्स्यते पावकसंपर्क-
स्य तत्कारित्वे तु सर्वत्र तथाभावः स्यात्, तस्मादविनष्टा एव घटादयः पच्य-
न्ते सोऽयं तु घटादिन्यायः शरीरे नेष्यते,
न ह्यन्नपाकस्थैर्येऽपि तत्र कुम्भादिपाकवत् ।
चयापचययुक्तं हि शरीरमुपलभ्यते ॥
तस्मात्परिमाणादिभेददर्शनान्नैकं शरीरमिति ज्वालाऽऽदिप्रत्यभिज्ञावत्तत्प्र-
त्यभिज्ञेति स्थितम् ।
यदप्युच्यते-अवस्थानामेव नानात्वमवस्थाता पुनरेक एव देहाख्य इति तद-
प्ययुक्तम्, भेदाभेदविकल्पानुपपत्तेः, यदि शरीरादव्यतिरिक्ता एव तदवस्थाः तदा-
ऽवस्थानामप्यन्योन्यं भेदो न स्याद्, अथ व्यतिरिक्ताः शरीरादवस्थाः तर्हि भेदेन
तदुपग्रहो दर्शयितव्यः, न चासावस्ति गोत्वादावनुवृत्त्या बुद्धिरनन्यथासिद्धा
सती न केन चित्प्रतिहन्यते, इह पुनरवस्थान्तरैकत्वग्राहिणी बुद्धिः पूर्वनि त्या
प्रमाणबाधितत्वाद् भ्रान्तेति, तस्माच्छरीरस्य भिन्नत्वात्संतानान्तरवत् स्मृत्यनु-
संधानादिकार्ययोगो दुर्घट इति न तस्येच्छाऽऽदिकार्याश्रयत्वम्, इतश्च न शरीर-
स्य ज्ञानादियोगः परिणामित्वात्क्षीरादिवत् रूपादिमत्त्वात्तद्वदेव, अनेकसमूहस्व-
भावत्वात् त्रिदण्डादिवत् सन्निवेशविशिष्टत्वाच्च बाह्यभूतवत्, चैतन्यशून्यं-
शरीरं शरीरत्वान्मृतशरीरवत्, न शरीरधर्मश्चैतन्यमयावद्द्रव्यभावित्वात्,
न च कण्ड्वादिभिर्व्यभिचारः तदुपजनापाययोर्निमित्तान्तरजन्यत्वदर्शनादिह
च तदभावाद्विशेषगुणत्वे सतीति वा विशेषणोपादानान्न व्यभिचारः, तद्विशेष-
गुणत्वे हि चैतन्यस्य रूपादिवत्तदवस्थानादविनाशप्रसङ्गः ।
(१) कन्दुकम्-'पजावा' इति प्रसिद्धः ।