न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 432, कुल 654 में से
संदर्भ में पढ़ें१८ न्यायमञ्जर्याम्
ण ? सहकार्यपेक्षया करोतीति चेद् न-असमर्थस्य सहकारिणा ऽपि सामर्थ्याधाना-
नुपपत्तेः, समर्थस्य स्वत एव सामर्थ्ये सति सहकारित्ववैयर्थ्यान्, सहकारिस-
न्निधानेऽपि चास्य स्वरूपेण वा कर्तृत्वं स्यात्पररूपेण वा ? स्वरूपस्य च प्रागपि
भावात्तस्य च कारकत्वात् किं सहकारिणा, पररूपेण कर्तृत्वे पूर्वरूपपरित्यागात्-
द्रूपान्तरापत्तेश्च क्षणिकत्वमुपपद्यते, एवं सहकार्यपि समर्थासमर्थतया विकल्प-
नीयः, स्वतोऽपि सामर्थ्ये किं परोपकरणदैन्येन, असमर्थस्य तु सचिवः
किमागत्यापि सर्वत्र कार्ये साचिव्यमुपगच्छेत् ?
किञ्चित्करश्चेद्वक्तव्यं किं करोतीति, उपकारमिति चेत्स उपक्रियमाणा-
द्भिन्नोऽभिन्नो वा ? अभिन्नश्चेत्स एव कृतः स्यात्, भेदे तस्य किमायातं-
यदसौ न पूर्ववदास्ते, कार्यादपि भेदाभेदाभ्यां चिन्त्य उपकारः, न कार्याद्भिन्नो-
ऽनुपलम्भाद् द्वयकारणभावाच्च, कार्याद्व्यतिरिक्ते तूपकारे सहकारिणा क्रि-
यमाणे कार्यमेव तेन कृतं स्यादिति मूलकारणानर्थक्यम्,
ननु चैक एव भावः कारकः स एव हि समर्थस्तदितरपदार्थसन्निधानं तु
स्वहेतुवशादुपनतमिति नापालम्भमर्हति,
नैतद्युक्तमेकस्य कदा चिदपि कारकत्वानुपलब्धेस्तत्सामर्थ्यस्य दुरधिगम-
त्वात्, एवं ह्यसौ समर्थ उच्यते यद्येकः कदा चित्कार्यमुत्पाद्यनश्येत न तु
विस्मृत्यापि दृश्यते,
अथ कार्यस्यायं स्वभावो यदेकस्मान्नोत्पद्यते कारणं तु शक्तमेवेति ?
तदप्ययुक्तम्—कार्यस्वभावपराधीनत्वेन कारणस्य सामर्थ्यविरहप्रज्ञान्,
एवं ह्यसौ समर्थः कथ्येत यदि कार्यस्वभावमनादृत्य स्वतन्त्र एक एव प्रसह्य
कार्यं जनयेन्न चैवं दृश्यत इति यत्किञ्चिदेतत्,
अथ समर्थमेव कारणं तस्य त्वयं स्वभावो यत्सहसैव कार्यं न करोति
कतिपयक्षणव्यवधाने तु करोतीति,
यद्येवं न कदाचित्कार्योत्पादः स्यात्, कार्योत्पादसमयेऽपि कतिपयक्षणव्य-
वहितकार्यजननस्वभावानपायात्, पुनः कतिपयक्षणाप्यवेक्षणं स्यात्, तेष्वपि क-
तिपयेषु क्षणेष्वतिक्रान्तेषु स एवास्य स्वभावस्तदवस्थ इति पुनरप्येवं भवेदिति
कदा नाम कार्यं जनयेत् ? तदेवमादिदोषोपहतत्वान्न क्रमेण भावानामर्थक्रिया-
सामर्थ्यम्,
नापि युगपद्, लोके तथा व्यवहारादर्शनात्, युगपत्कृतकस्यापि स्थिरस्य
पुनस्करणे हेत्वभावः, पुनश्च कुर्वन्नपि भावः कार्ये न तदेव कुर्यात्, कृतस्य
करणाऽयोगात्, कार्यान्तरकरणे तु स एवायं पुनः क्रमपक्ष आपतेदित्येवं क्रम-
यौगपद्ये नित्येभ्यः पदार्थेभ्यः निवर्तेते, ते च निवर्तमाने सत्त्वस्य व्यापके इति
सत्त्वं तेभ्य आदायैव निवर्त्तते, तेभ्यः प्रच्युतं सत्त्वं गत्यन्तरविरहात्क्षणिकेष्वेव