सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 431, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 431

सर्वभावानां क्षणिकत्वम् । १७
यद्गम्यत्वे हि सत्त्वे (१)केशोण्डुकादेरपि सत्त्वप्रसङ्गः, सत्तासंबन्धे सत्त्वे सामा-
न्यादीनां तदसंबन्धादसत्त्वं स्याद् , अर्थक्रियासामर्थ्यसत्त्वानुवर्ती च लौकिको-
व्यवहारः सत्यपि पुत्रे तत्कार्यादर्शनादपुत्रा वयमिति व्यपदिशन्ति लौकिकाः,
पुत्रादन्यस्मिन्नपि तत्कार्यकारिणि सति सपुत्रा वयमिति च ब्रुवते, तस्मादर्थ-
क्रियाकारित्वमेव सत्त्वम् , भवत्वेवं-तस्य तु कुत्र कथं वा क्षणिकत्वेन व्याप्ति-
ग्रहणम् ? कुत्रेति यत्पृच्छसि यत्र रोचते महाभागाय घटे पटे वा गृह्यतां व्याप्तिः,
किं साध्यधर्मिण्येव व्याप्तिग्रहणमुपपद्यते ? धीमन् ! कोऽत्र प्रमादः, न हि दैव-
निर्मितः कश्चित्साध्यधर्मी नाम, ग्रहीतुं शक्यते चेद्व्याप्तिः यत्र तत्र सा गृह्यता-
मिति, तदुच्यते-भावानां हि सत्त्वं