सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 435, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 435

प्रत्यभिज्ञायाः क्षणभङ्गपक्षेऽपि सदृशपरापरक्षणगणप्रसवप्रतारितमतीनामु-
पलभ्यमानत्वात् , एवं च सति—
यदि हि व्याप्तिशैथिल्यं सिद्धं किं प्रत्यभिज्ञया ।
अथ न व्याप्तिशैथिल्यं सिद्धं किं प्रत्यभिज्ञया ॥
न च प्रत्यभिज्ञैव व्याप्तिविप्लवकारणमितरेतराश्रयप्रसङ्गात् , व्याप्तिविप्लवे-
नानुमाने न्यग्भूते प्रत्यभिज्ञा प्रमाणं भवति तस्यां च प्रमाणीभूतायां व्याप्तिवै-
धुर्यादनुमानाप्रामाण्यम् , अनुमानप्रामाण्येऽपि समानो दोष इति चेन्न, तस्य
प्रतिबन्धमहिम्नैव प्रामाण्यसिद्धेः, न हि तस्य प्रतिभिज्ञादौर्बल्यनिबन्धनं
प्रामाण्यम् ।
प्रत्यभिज्ञास्वरूपनिरूपणम् ।
अपि च केयं प्रत्यभिज्ञा नामेति नैपुण्येन निरूपयितुमर्हन्त्यत्र भवन्तः, किं-
स एवायं कुम्भ इत्येकं ज्ञानमुत द्वे एते स्मृत्यनुभवज्ञाने ? यद्येकं तदस्य कारणं
वाच्यं यत उत्पद्यते? नेन्द्रियं स इत्यस्मिन्नंशे तस्यासामर्थ्यात् , न संस्कारस्तस्या-
प्ययमित्यंशे कौशलाभावात् ,
उभाभ्यां न च सम्भूय तज्ज्ञानमुपजन्यते ।
पृथक् पृथक् स्वकार्ये हि निर्ज्ञातं कौशलं तयोः ॥
संस्कारस्य स्मृतिरेव कार्यमिन्द्रियस्यनुभव एव, संभूय न ताभ्यामेकं का-
र्यमारभ्यते, न हि मृत्पिण्डतन्तुनिर्वर्त्यमेकं घटपटरूपं कार्यमुपलब्धम् , न चे-
न्द्रियं केवलमीदृशि कार्ये समर्थ, यथासन्निहिताकारमात्रग्राह्यविचारकमिन्द्रि-
यं प्रत्यभिज्ञानमातनोतीति विस्मयः ! तस्माद् द्वे एते ज्ञाने, स इति स्मरण-
मयमित्यनुभवः,
स्मृतिः स्मर्त्तव्यविषया ग्रहणं ग्राह्यगोचरम् ।
न तदैक्यपरामर्शि दृश्यते प्रत्ययान्तरम् ॥
यथा निरन्तरोत्पन्ने घटज्ञानपटस्मृती ।
न तुल्यविषये तद्वदेते अपि भविष्यतः ॥
यद्वा भवतु नामेदमेकमेव हि वेदनम् ।
तथाऽपि कीदृशं वस्तु स्पृशतीति परीक्ष्यताम् ॥
अतीतकालयुक्तं चेत्स्मरणान्न विशिष्यते ।
अनागतविशिष्टं चेत्सङ्कल्पप्रायमेव तत् ॥
वर्त्तमानैकनिष्ठं चेत्स्थिरत्वं तर्हि सुस्थितम् ।
कालत्रयपरीतं चेद्विरोधात्तु दुर्लभम् ॥
परस्परपरित्यागव्यवस्थितनिजात्मनाम् ।
एकत्र न समावेशः कथं चिदुपपद्यते ॥