न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 425, कुल 654 में से
संदर्भ में पढ़ेंनन्ववस्थामात्रमेव भिन्नमवस्थातृशरीरस्वरूपमभिन्नमेव प्रत्यभिज्ञाप्रत्यय-
प्रामाण्यादवगम्यते, न चेयं प्रत्यभिज्ञा लूनपुनर्जातनखादिप्रत्यभिज्ञावदन्यथा-
सिद्धो विनाशास्यासम्भवात्, स्तम्बादौ हि क्षणभङ्गित्त्वप्रतिषेधः प्रत्यभिज्ञयैव
करिष्यते सा चेहापि तादृश्येव, तदयुक्तम्-स्तम्बादौ नानात्वकारणाग्रहणाद् इह
तु रूपपरिमाणपरिवेशाद्यन्यत्वदर्शनात्साद्दश्यनिबन्धनेयं भ्रान्तिरेव प्रत्यभिज्ञा
न खलु शिशुशरीरे तरुणशरीरे जरच्छरीरे च तुल्यमेव परिमाणमुपलभ्यते,
आहारपरिणामाच्च देहभेदोऽवगम्यते ।
पाकजोत्पत्तिमार्गेण न जीर्येतान्नमन्यथा ॥
न भवेत्परिपोषो हि दधिक्षीरादिभक्षणे ।
काञ्चनाद्युपयोगेन दृश्यते तस्य रक्तता ॥
क्षीणैरवयवैः कैश्चित्कैश्चित्तच्चाभिनवोद्गतैः ।
अभिन्न एवावयवी कथ