न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 438, कुल 654 में से
संदर्भ में पढ़ेंमैवम्-बुद्धेर्दीर्घकालत्वाज्ज्ञानान्तरोत्पादन एवासावित्यवधारयत्वायुष्मान् ,
तस्माद्यथैव सन्तानवृत्त्या ज्ञानक्षणोदयः ।
तथैवोत्पाद्यतामेष स्तम्भक्षणपरम्परा ॥
सोऽयमविच्छिन्नदृष्टीनामत्रुटितपदार्थसत्ताग्रहणाभिमान इत्थमुत्थितः,
स्थिरेणापि न बोधेन दीर्घग्राहस्थितिग्रहः ।
न ह्यसन्निहितग्राहि प्रत्यक्षमिति वर्णितम् ॥
तत्काले सन्निधिर्नास्ति क्षणयोर्भूतभाविनोः ।
वर्तमानक्षणश्चैको न दीर्घत्वं प्रपद्यते ॥
तेन बुद्धिस्थिरत्वेऽपि स्थैर्यमर्थस्य दुर्वचम् ।
न त्वनन्तरया नीत्या तस्या अपि चिरं स्थितिः ॥
साऽपि हि स्वसंवेद्यत्वादेकक्षणपरीतैव प्रकाशत इति तस्मात्क्षणिकग्राहि प्र-
त्यक्षमिति सिद्धम् ।
क्षणिकत्वेऽनुमानस्याबाधकत्वकथनम् ।
ननु स्थैर्यं पदार्थानामनुमानात्प्रतीयते ।
[L