न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 421, कुल 654 में से
संदर्भ में पढ़ेंआत्मनोऽनुमानागम्यत्वम् । ७
न जडत्वाविशेषेऽपि कर्मादौ समवैति चेत् ।
न द्रव्यत्वाविशेषेऽपि गन्धः स्पृशति पावकम् ॥
तस्मान्न प्रत्यक्ष आत्मा नापि स्वतश्चेतयितेति स्थितम् ।
नैयायिकमतेनात्मनः प्रत्यक्षत्वोपपादनम्-
स्वयूथ्यास्तु के चिदाचक्षते—यदेकस्य कर्तृत्वकर्मत्वमनुपपन्नमित्यप्रत्यक्ष-
आत्मेष्यते तदयमनुमानेनापि कथं ग्रहीष्यते ?
आत्मानमात्मनाऽऽत्मैव लिङ्गादनुमिनोति हि ।
तत्र नूनमुपेतव्या कर्तृता कर्मताऽस्य च ॥
तत्रानुमानज्ञानस्य यथाऽऽत्मा याति कर्मताम् ।
तथाऽहंप्रत्ययस्यैव प्रत्यक्षस्यापि गच्छतु ॥
देहादिव्यतिरिक्तश्च यथा लिङ्गेन गम्यते ।
तथाऽहंप्रत्ययेनापि गम्यतां तद्विलक्षणः ॥
न चात्मनः किं रूपं यत्प्रत्यक्षेण साक्षात्क्रियते ? यद्येवं सुखादेरपि किं रूपं-
यन्मानसप्रत्यक्षसमधिगम्यमिष्यते ?
नन्वानन्दादिस्वभावरूपं प्रसिद्धमेव सुखादेः, तर्हि तदाधारत्वमात्मनोऽपि
रूपमवगच्छतु भवान्,
सुखादि चेत्यमानं हि स्वतन्त्रं नानुभूयते ।
मतुबर्थानुवेधात्तु सिद्धं ग्रहणमात्मनः ॥
इदं सुखमिति ज्ञानं दृश्यते न घटादिवत् ।
अहं सुखीति तु ज्ञप्तिरात्मनोऽपि प्रकाशिका ॥
अपि च—
ज्ञातृज्ञानविशिष्टार्थग्रहणं किल भाष्यकृत् ।
स्वयं प्रादीदृशत्तच्च किं वा युक्तमुपेक्षितुम् ॥
विशेष्यबुद्धिमिच्छन्ति नागृहीतविशेषणाम् ।
पूर्वं चाननुभूतस्य स्मरणं नावकल्पते ॥
न चानुमानतः पूर्वं ज्ञात्वाऽऽत्मानं विशेषणम् ।
तद्विशिष्टार्थबुद्धिःस्यात् स्मरणानवधारणात् ॥
तस्मात्प्रत्यक्ष आत्मा ।
सामानाधिकरण्यं च स्मरणानुभवादिषु ।
अनुसन्धीयमानं यद् दृश्यते तत्कथं भवेत् ॥
आत्मनोऽनुमानगम्यत्वनिरूपणम् -
पूर्वमहममुमर्थमनुभूतवानहमेवाद्य पुनरनुभवामीति तुल्यविषयतावत्तु-
ल्यकर्तृकताऽपि तत्र प्रकाशते, इतरथा त्वनुमातुमप्यात्मा न शक्यते