न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 437, कुल 654 में से
संदर्भ में पढ़ें[Header] प्रत्यक्षं क्षणिकत्वम् । २३
अथ वर्तमानानुप्रवेशेन भूतभाविनोःकालयोर्ग्रहणं मन्यसे तत्र वर्तमाना-
नुप्रवेशाद्वर्तमान एव गृहीतः स्यान्न भूतो भावी वा, अथ न कश्चिदेव कालः
क चिद्गृह्यते, अर्थ एव प्रकाश्यः केवल इति,
तदयुक्तं, तदवच्छिन्नभावप्रतिभासस्य भवद्भिरेवाभ्युपगमात् ,
ननु कोऽयं कालो नाम शाक्यानाम ? न कश्चिद्वास्तवः, किं काल्पनिक एव
व्यवहारः—
सर्वथेन्द्रियजं ज्ञानं वर्तमानैकगोचरम् ।
पूर्वापरदशास्पर्शकौशलं नावलम्बते ॥
वर्त्तमानः कियान्काल एक एव क्षणस्ततः ।
पूर्वः क्षणोऽतीततां स्पृशत्युत्तरस्त्वनागतताम् ॥
ननु पचति पठतीति वर्तमनोऽपि वितत एव कालः प्रतीयते ?
नैतत्सारम्—
न ह्यस्ति कालावयवी नानाक्षणगणात्मकः ।
वर्तमानक्षणो दीर्घ इति बालिशभाषितम् ॥
क्षणसमुदायात्मकत्वं तु नानारूपत्वमेव तस्य भवेत्, अतीतानागतक्षणा-
त्पूर्वमूर्ध्वं वा तदस्तित्वान्नास्तित्वमपि न गृहीतमेवेति कथं क्षणिकत्वम् ? क-
एवमाह न गृहीतं नास्तित्वमनुपलब्ध एव नास्तित्वव्यवहारात् , उपलम्भो हि
भवेन्नासत्ताऽनुपलम्भाच्च नास्तित्वम् , दर्शनादर्शने एव सदसत्त्वयोर्लक्षणम् ;
तस्मात्क्षणान्तरं तदनुपलम्भाद् नास्तित्वमेवेत्येवं क्षणिकत्वग्राहि प्रत्यक्षमिति
स्थितम् ,
ननु च प्रत्यभिज्ञातो दीर्घकालत्वनिश्चयः ।
किमद्यापि न मुक्तोऽसि तत्प्रामारायकुतृष्णया ॥
परीक्षितं हि तस्याः स्वरूपं कार्यं कारणं च,
न शक्नोतीव सा स्थैर्यमुपपादयितुं निजम् ॥
न पूर्वा नोत्तरं ज्ञानं ग्राहि कालान्तरस्थितेः ।
तदिदं बोध्यमानोऽपि रागान्धो नावबुद्ध्यते ॥
पूर्वं हि ज्ञानं तत्कालमेव उत्तरमपि स्वकालमेव वस्तु गृह्णाति, मध्ये तु
नास्त्येव ग्रहणमग्रहणमेव मध्यमाहुः,
नन्वविच्छिन्नदृष्टीनां न हि त्रुट्यदवस्थितिः ।
स्तम्भादिरवभातीति कथमेतस्य भङ्गिता ॥
नैतदेवम् , तत्राप्येकक्षणवृत्तित्वाज्ज्ञानस्य, क्षणान्तरे तु ज्ञानमेव नास्ति,
कस्य विच्छिन्नसत्ता, कस्यात्रुटितसत्ता, कस्य वा बोधकम् ?
नन्वस्त्येव क्षणान्तरे तु ज्ञानमविच्छिन्नत्वाद् दृष्टेरिति चेद्,