न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
१७८ न्यायमञ्जर्याम्
तत्प्रामाण्याच्च तत्सिद्धिरित्योऽन्याश्रयं भवेत् ॥
अन्यथाऽनुपपत्त्या तु न शक्यो लब्धुमीश्वरः ।
न हि तद् दृश्यते कार्यं तं विना यन्न सिद्धयति ॥
तस्मात्सर्वसद्विषयप्रमाणानवगम्यमानस्वरूपत्वादभाव एवेश्वरस्येति सिद्धम्।
न च प्रसिद्धमात्रेण युक्तमेतस्य कल्पनम् ।
निर्मूलत्वात्तथा चोक्तं प्रसिद्धिर्वटयक्षवत् ॥
अत एव निरीक्ष्य दुर्घटं जगतो जन्मविनाशडम्बरम् ।
न कदा चिदनीदृशं जगत्कथितं नीतिरहस्यवेदिभिः ॥
ईश्वरसत्त्वसमर्थनम् ।
अत्र वदामः, यत्तावदिदमगादि नगादिनिर्माणनिपुणपुरुषपरिच्छेददक्षं
प्रत्यक्षं न भवतीति तदेवमेव, प्रत्यक्षपूर्वकमनुमानमपि तेनैव पथा प्रतिष्ठित-
मिति तदप्यास्ताम् ।
सामान्यतोदृष्टं तु लिङ्गमीश्वरसत्तायामिदं ब्रूमहे पृथिव्यादि कार्यं धर्मि
तदुत्पत्तिप्रकारप्रयोजनाद्यभिज्ञकर्तृपूर्वकमिति साध्यो धर्मः कार्यत्वादू घटादिवत्।
ईश्वरानुमानानुपपत्तिपरिहारौ ।
ननु कार्यत्वमसिद्धमित्युक्तम्, क एवमाचष्टे चार्वाकः शाक्यो मीमांसको वा।
चार्वाकस्तावद्देहरचनाया रचनान्तरविलक्षणाया अपि कार्यत्वमभ्युपग-
च्छति यः स कथं पृथ्व्यादिरचनायाः कार्यत्वमपह्नुवीत ।
मीमांसको ऽपिन कार्यत्वमपह्रोतुमर्हति यत एवमाह येषामप्यनवगतोत्प-
त्तीनां रूपमुपलभ्यते तन्तुव्यतिषक्तजनितोऽयं पटस्तद्द्रव्यतिषङ्गविमोचनात्तन्तुवि-
नाशाद्वा नङ्क्ष्यतीति कल्प्यते इति एवमवयवसंयोगनिर्वर्त्यमानवपुषः क्षितिध-
रादेरपि नाशसम्प्रत्ययः सम्भवत्येव, दृश्यते च क चिद्दिनाशप्रतीतिः प्रावृषेण्य-
जलधरधारासारनिर्लुंठित एव पर्वतैकदेशो पर्वतस्य खण्डः पतित इति, वस्तुग-
तयोश्च कार्यत्वविनाशित्वयोः समव्याप्तिकता वार्तिककृता ऽप्युक्तैव—
तेन यत्राप्युभौ धर्मौ व्याप्यव्यापकसम्मतौ ।
तत्रापि व्याप्यतैव स्यादङ्गं न व्यापिता मितेरिति(१) ॥
( १ ) श्लोकवार्तिके अनुमानग्रन्थे श्लो० ९ । अयमर्थः—यत्र हि न्यूनाधिकभावेन
व्याप्यव्यापकभावोऽसंकीर्णः यथा गोत्वविषाणित्वयोः तत्र व्याप्यमेव गोत्वं विषाणि-
त्वमनुमापयति न तु व्यापिका विषाणिता गोत्वम् , अतः समोदाहरणेऽपि व्याप्यतैव
मितेरनुमानस्याङ्गं न व्यापकतेति । इति न्यायरत्नाकरे पार्थसारथिमिश्राः ।
वदता, तस्माद्विनाशित्वेनापि कार्यत्वानुमानात्तन्मते ऽपि न कार्यत्वम-
सिद्धम् ।
शाक्योऽपि कार्यत्वस्य कथमसिद्धतामभिदधीत येन नित्यो नाम पदार्थः
प्रणयकेलिष्वपि न विषह्यते, तस्मात्सर्ववादिभिरप्रणोद्यं पृथिव्यादेः कार्यत्वम् ,
अथ वा सन्निवेशविशिष्टत्वमेव हेतुमभिदध्महे यस्मिन् प्रत्यक्षत उपलभ्यमाने
सर्वोपलापलम्पटा अपि न के चन विप्रतिपत्तुमुत्सहन्ते, तस्मान्नासिद्धो हेतुः।
ननु कर्तृविनाभावितया यथाविधस्य सन्निवेशस्य शरावादिषु दर्शनं तादृ-
शमेव सन्निवेशमुपलभ्य क चिदनुपलभ्यमानकर्तृके कलशादौ कर्त्रनुमानमिति
युक्तम्, अयं त्वन्य एव कलशादिसन्निवेशात्पर्वतादिसन्निवेशः, नात्र सन्निवेश-
सामान्यं किं चिदुपलभन्ते लौकिकाः, सन्निवेशशब्दमेव साधारणं प्रयुञ्जते, न
च वस्तुनोरत्यन्तभेदे सति शब्दसाधारणतामात्रेण तदनुमानमुपपद्यते, न हि
पाण्डुतामात्रसाधारण्येन धूमादिवन्मुकुलरजोराशेरपि कृशानुरनुमातुं शक्यते
इति तदुक्तम्-
सिद्धं यादृगधिष्ठातृ भावाभावानुवृत्तिमत् ।
सन्निवेशादि तत्तस्माद्युक्तं यदनुमीयते ॥
वस्तुभेदप्रसिद्धस्य शब्दसाम्यादभेदिनः ।
न युक्ता ऽनुमितिः पाण्डुद्रव्यादिव हुताशने ॥ इति ।
उच्यते, यादृगिति न बुद्ध्यामहे धूमो हि महानसे कुम्भदासीफूत्कारमारुत-
सन्धुक्ष्यमाणमन्दज्वलनजन्मा कुशप्रायप्रकृतिरुपलब्धः स यदि पर्वते प्रबलसमी-
रणोल्लसितहुतवहप्लुष्यमाणमहामहीरुहस्कन्धेन्धनप्रभवो बहलबहलः खमण्ड-
लमखिलमाक्रामन्नुपलभ्यते तत्किमिदानीमनलप्रमितिर्मा कार्षीत्, अथ विशे-
षरहितं धूममात्रमग्निमात्रेण व्याप्तमवगतमिति ततस्तदनुमानम् इहापि सन्निवे-
शमात्रं कर्तृमात्रेण व्याप्तमिति ततो ऽपि तदनुमीयताम् ।
ननु सन्निवेशशब्दसाधारण्यमात्रमत्र न वस्तुसामान्यं किञ्चिदस्ति भिक्षो
धूमेऽपि भवद्दर्शने किं वस्तुसामान्यमस्ति, मा भूद्वस्तुसामान्यमाकाशाकालादि-
व्यावृत्तिरूपं तु संव्यवहारकारणमस्त्येव, हन्त तर्हि प्रकृते ऽपि असन्निवेशव्या-
वृत्तिरूपं भवतु सामान्यमाकाशाकालादिविलक्षणरूपत्वात् पृथिव्यादेः ।
ननु तत्र धूमो धूम इत्यनुवृत्तविकल्पबलेन कल्पितमपोहस्वभावं सामान्य-
मभ्युपगतम्, इहापि सन्निवेशविकल्पानुवृत्तेः त्वत्कल्पितमपोहरूपमेव सामा-
न्यमिष्यताम्, अपि च सकर्तृकत्वाभिमतेष्वपि संस्थानेषु न सर्वात्मना तुल्यत्वं
प्रतीयते, न हि घटसंस्थानं पटसंस्थानं चतुः शालसंस्थानं च सुसदृश-
मिति संस्थानसामान्यं तु पर्वतादावपि विद्यते एवेति सर्वथा यादृगित्या-
वाचको ग्रन्थः ।
१८० | न्यायमञ्जर्याम्
यदपि व्यभिचारोद्भावनमकृष्टजातैः स्थावरादिभिरकारि तदपि न चारु,
तेषां पक्षीकृतत्वात् पक्षेण च व्यभिचारचोदनायां सर्वानुमानोच्छेदप्रसङ्गः ।
ननु च पृथिव्यादेरुत्पत्तिकालस्य परोक्षत्वात्कर्त्ता न दृश्यते इति तदनुप-
लब्ध्या तदसत्त्वनिश्चयानुपपत्तेः कामं संशयो ऽस्तु, वनस्पतिप्रभृतीनां तु प्रस-
वकालमद्यत्वे न वयमेव पश्यामः, न च यत्नतो ऽप्यन्वेषमाणाः कर्त्तारमेषामुप-
लभामहे, तस्मादसौ दृश्यानुपलब्धेर्नास्त्येवेत्यवगच्छामः, अपि च येन येन वयं
व्यभिचारमुद्भावयिष्यामः तं तं चेत्पक्षीकरिष्यति भवान्सुतरामनुमानच्छेदः
सव्यभिचाराणामप्येवमनुमानत्वानपायात् ,
उच्यते, स्थावराणामुत्पत्तिप्रत्यक्षत्वे ऽपि कर्त्तुरदृश्यत्वमेवाशरीरत्वनिश्च-
यात् , अशरीरस्य तर्हि तदुत्पत्तावव्याप्रियमाणत्वात्कर्तृत्वमपि कथमिति चेद्
एतदग्रतो निर्णेष्यते, अदृश्यस्य च कर्तुरनुपलब्धितो नास्तित्वनिश्चयानुपपत्तेः
नाकृष्टजातवनस्पतीनामकर्तृकत्वमिति विपक्षता ।
यत्तूक्तं परिदृश्यमानक्षितिसलिलादिकारणकार्यत्वात्स्थावराणां किमदृश्य-
मानकर्तृकल्पनयेति चेत् तदपेशलम् , परलोकवादिभिरदृश्यमानानां कर्मणाम-
पि कारणत्वाभ्युपगमात् , बार्हस्पत्यानां तु तत्समर्थनमेव समाधिः,
अथ जगद्वैचित्र्यं कर्मव्यतिरेकेण न घटते इति कर्मणामदृश्यमानानामपि
कारणत्वं कल्प्यते तत्र यद्येवमचेतनेभ्यः कारकेभ्यश्चेतनानधिष्ठितेभ्यः कार्योत्पा-
द्यानुपपत्तेः कर्त्ता ऽपि चेतनस्तेषामधिष्ठाता कल्प्यताम् , तस्मात्स्थावराणामक-
र्तृकत्वाभावान्न विपक्षता इति न तैर्व्यभिचारः ।
यदप्युक्तम् , येन येन व्यभिचार उद्भाव्यते स चेत्पक्षेन्तर्भावयिष्यते क इ-
दानीमनुमानस्य नियम इत्येतदपि न साधु, यदि हि भवान्निश्चिते विपक्षे वृत्ति-
मुपदर्शयेत्तस्तं पक्षेऽन्तर्भावयेत् , न हि विप्रत्वे पुंस्त्वस्य नित्यतायां वा प्रमेय-
त्वस्य व्यभिचारे चोद्यमाने वेधसा ऽपि विपक्षः पक्षीकर्तुं शक्यः, वादीच्छया
वस्तुव्यवस्थाया अभावात् , इह तु स्थावरादौ कर्त्रभावनिश्चयो नास्तीत्युक्तम् ।
ननु स्थावरेषु पक्षीकृतेष्वपि व्यभिचारो न निवर्त्तते एव न हि सपक्षविप-
क्षाव्यतिरेकेण तात्विकः पक्षो नाम कश्चिदस्ति वस्तुनो द्वैरूप्यानुपपत्तेः, वस्तु-
स्थित्या सकर्तृकाश्चेद्वनस्पतिप्रभृतयः सपक्षा एव ते न चेत्तर्हि विपक्षा एव न
राश्यन्तरं समस्तीति ।
उच्यते, पक्षाभावे सपक्षविपक्षभावोक्तिरेव तावत्किमपेक्ष्य पक्षानुकूलो
हि सपक्ष उच्यते तत्प्रतिकूलश्च विपक्ष इति ।
यद्येवं वक्तव्यं तर्हि को ऽयं पक्षो नामेति--
साध्यधर्मान्वितत्वेन द्वाभ्यामप्यवधारितः ।
सपक्षस्तदभावेन निश्चितस्य विपक्षता ॥
प्रमाणप्रकरणम् . १८१
विमतो यत्र तु तयोस्तं पक्षं सम्प्रचक्ष्महे ।
वस्तुनो द्व्यात्मकत्वं तु नानुमन्यामहे वयम् ॥
वादिबुद्ध्यनुसारेण स्थितिः पक्षस्य यद्यपि ।
तथा ऽपि व्यवहारो ऽस्ति वस्तुनस्तन्निबन्धनः ॥
संदिग्धे हि न्यायः प्रवर्त्तते नानुपलब्धे न निर्णीते इत्युक्तमेतत् । संदिग्ध-
मान एव चार्थः पक्ष उच्यते किंचित्कालं तस्य पक्षत्वं यावनिर्णयो नोत्पन्नः,
तदुत्पादे तु नूनं सपक्षविपक्षयोरन्यतरत्रानुप्रवेक्ष्यत्यसौ, अतश्च पक्षावस्थायां
तेन व्यभिचारोद्भावनमसमीचीनम् ,
ननु निश्चितविपक्षवृत्तिरिव संदिग्धविपक्षवृत्तिरपि न हेतुरेव तदेवं वीरुदा-
दिषु संदिग्धे ऽपि कर्त्तरि संनिवेशस्य दर्शनाद् अहेतुत्वात् , नैतत्सारम् ,
सदसत्पावकतया पर्वते संदिग्धे विपक्षे वर्त्तमानस्य धूमस्याहेतुत्वप्रसङ्गात् ,
सर्वएव च साध्यांशसंशयाद्विपक्षा एव जाता इति पक्षवृत्तयो हेतव इदानीं
विपक्षगामिनो भवेयुरित्यनुमानोच्छेदः ।
अथ पक्षीकृते ऽपि धर्मिणि सदसत्साध्यधर्मतया सन्दिग्धे वर्त्तमानो धू-
मादिरन्यत्र व्याप्तिनिश्चयाद् गमक इष्यते तर्हि सदसत्कर्तृकतया संदिग्धे ऽपि
वसुंधरावनस्पत्यादौ वर्त्तमानं कार्यत्वमन्यत्र व्याप्तिनिश्चयाद् गमकमिष्यताम् ,
विशेषो वा वक्तव्यः ।
अन्ये मन्यन्ते किमकृष्टजातस्थावरादिव्यभिचारस्थानान्वेषणेन पृथिव्या-
दिभिरेवात्र व्यभिचारः, अस्य व्याप्तिग्रहणस्य प्रतीघातात् , व्याप्तिर्हि गृह्यमा-
माणा सकलसपक्षविपक्षक्रोडीकारेण गृह्यते, इत्थं च तस्यां गृह्यमाणायामेव
यद्यत् संनिवेशविशिष्टं तत्तद्बुद्धिमत्कर्तृकमित्यस्मिन्नेवावसरे संनिवेशवन्तो
ऽपि कर्तृशून्यतया शैलादयश्चेतसि स्फुरन्ति, यथा कृतकत्वेन वह्नेरनुष्ण-
ताऽनुमाने यद्यत्कृतकं तत्तदनुष्णमिति व्याप्तिपरिच्छेदवेलायामेव वह्निरुष्णो
ऽकृतक इति हृदयपथमवतरति, तत्र क्षतव्याप्तौ गृह्यमाणायां ततो हेतोः षण्ढा-
दिव पुत्रजननमघटमानमेव वन्ध्याऽनुमानमिति ।
तदेतदनुपपन्नम्--विशेषोल्लेखरहितसामान्यमात्रप्रतिष्ठितस्य व्याप्तिपरि-
च्छेदस्यानुमानलक्षणे निर्णीतत्वात् , अग्न्यनुष्णताऽनुमाने हि न व्याप्तिग्रहणप्र-
तिघातादप्रामाण्यमपि तु प्रत्यक्षविरोधादित्युक्तमेतत् , अपि चायं पृथिव्यादौ
कर्तृनुमाननिरासप्रकारः शब्दाद्युपलब्धयः करणपूर्विकाः क्रियात्वाच् छिदिक्रि-
यावदित्यत्र श्रोत्रादिकरणानुमाने ऽपि समानः, प्रतिबन्धावधारणवेलायामेव
करणशून्यानां शब्दाद्युपलब्धिक्रियाणामवधारणात्ताभिरेव व्यभिचारापत्तेर्न च
पृथिव्यादिना व्यभिचारचोदनमत्यन्तमलौकिकम्-
ननु वस्तुस्थित्या पर्वतादयो ऽपि विपक्षा एव त्वया तु तेषां पक्ष इति नाम
१८२ न्यायमञ्जर्याम्
कृतं न च त्वदिच्छया वस्तुस्थितिर्विपरिवर्तते ।
नन्वेवं शब्दाद्युपलब्धयो ऽपि वस्तुस्थित्या विपक्षा एव तासामपि पक्ष
इति नामकरणमेव स्यात् , न तासां करणभावनिश्चयानुत्पादान्न विपक्षत्वम् ,
पर्वतादावपि कर्त्रभावनिश्चयानुत्पादान्न विपक्षत्वम्, तेषु कर्त्ता नोपलभ्यते इति
चेत् शब्दाद्युपलब्धिकारणमपि नोपलभ्यते एव, कारणमदृश्यमानत्वादेव नोप-
लभ्यते न नास्तित्वादिति चेत् कर्त्ता ऽप्यदृश्यत्वादेव नोपलभ्यते न नास्ति-
त्वात् , अनुमानात्करणमुपलभ्यते तद्व्यतिरेकेण क्रियाऽनुपपत्तेरिति चेत्
कर्त्ता ऽप्यनुमानादुपलभ्यते कर्त्तारमन्तरेण कार्यानुपपत्तेः ।
तेनानुमानगम्यत्वान्न कर्तुर्नास्तिताग्रहः ।
तदभावाद्विपक्षत्वं क्षित्यादेरपि दुर्भणम् ॥
लिङ्गात्पूर्वं तु
दाहरिष्यामः, नापि सत्प्रतिपक्षो ऽयं हेतुः संशयबीजस्य विशेषाग्रहणादेरिह
हेतुत्वेनानुपादानात्, नाप्ययमप्रयोजको हेतुः यथा परमाणूनामनित्यत्वे साध्ये
मूर्त्तत्वमभिधास्यते न हि मूर्त्तत्वप्रयुक्तमनित्यत्वमिह तु कार्यत्वप्रयुक्तमेव सक-
र्तृत्वं तत्र तत्रोपलब्धमित्यत एवानुमानविरोधस्येष्टविघातकृतश्च न कश्चिद्वि-
हावसरः, प्रयोजके हेतौ प्रयुक्ते तथाविधपांसुप्रक्षेपप्रयोगानवकाशात् तस्मात्परो-
दीरिताशेषदोषविकलकार्यानुमानमहिम्ना नूनमीश्वरः कल्पनीयः सकललोकसा-
क्षिकमनुमानप्रामाण्यमपीक्षणीयम्, अनुमानप्रामाण्यरक्षणे च कृत एव परि-
करबन्धः प्रागिति सिद्ध एवेश्वरः, अन्यदपि तदनुमानमन्यैरुक्तम् , महाभूता-
दिकव्यक्तं चेतनाधिष्ठितं सत्सुखदुःखे जनयति रूपादिमत्त्वात्तूर्यादिवत्, तथा
पृथिव्यादीनि भूतानि चेतनाधिष्ठितानि सन्ति धारणादिक्रियां कुर्वन्ति युग्या-
दिवदिति, अत्रापि दोषाः पूर्ववदेव परिहर्त्तव्याः ।
यत्पुनरवादि 'कर्तृसामान्यसिद्धौ वा विशेषावगतिः कुत' इति तत्र के चि-
दागमाद्विशेषप्रतिपत्तिमाहुः—
विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतो बाहुरुत विश्वतस्पात् ।
सम्बाहुभ्यां धमति संपतत्रैर्द्यावाभूमी जनयन् देव एक(१)इति ।
तथा
अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः ।
स वेत्ति सर्व्वं न हि तस्य वेत्ता तमाहुरग्र्यं पुरुषं महान्तमिति(२) ॥
श्रुतौ पठ्यते, ततः सर्व्वस्य कर्त्ता सर्व्वज्ञ ईश्वरो ज्ञाप्यते, न च कार्ये एवार्थे
: वेदः प्रमाणमिति मन्त्रार्थवादानामत्परत्वमभिधातुमूचितं कार्ये इव सिद्धे
ऽप्यर्थे वेदप्रामाण्यस्य वक्ष्यमाणत्वात्, न चेतरेतराश्रयम् आगमैकशरणत्वा-
भावादीश्वरसिद्धेः ।
अन्ये त्वन्वयव्यतिरेकिहेतुमूलकेवलव्यतिरेकिबलेन विशेषसिद्धिमभि-
दधति, देहादिव्यतिरिक्तात्मकल्पनमिव सुखदुःखादिगतेन कार्यत्वेन वर्णयि-
ष्यते पृथिव्यादिकार्यमस्मदादिविलक्षणसर्व्वज्ञैककर्त्तृकम अस्मदादिषु बाधको-
त्पत्तौ सत्यां कार्यत्वादिति ।
अपरे पक्षधर्मताबलादेव विशेषलाभमभ्युपगच्छन्ति न हीदृशं परिदृश्यमा-
नमनेकरूपमपरिमितमनन्तप्राणिगतविचित्रसुखदुःखसाधनं भुवनादि कार्यमन-
तिशयेन पुंसा कर्त्तुं शक्यमिति, यथा चन्दनधूममितरधूमविसदृशमवलोक्य
चन्दनएव वह्निरनुमीयते तथा विलक्षणात्कार्याद्विलक्षण एव कर्त्ता ऽनुमा-
( १ ) नारायणोपनिषदि खण्डः ३ मन्त्रः २ ।
( २ ) श्वेताश्वतरोपनिषदि अ. ३ मन्त्रः १९ ।
स्यते, यथा सुचेलकेभ्य इव तत्कुशलः कुविन्दः, यथा च कुजालः सकलकल-
शादिकार्यकलापोत्पत्तिसंविधानप्रयोजनाद्यभिज्ञो भवंस्तस्य कार्यचक्रस्य कर्त्ता
तथेयतस्त्रैलोक्यस्य निरवधिप्राणिसुखदुःखसाधनस्य सृष्टिसंहारसंविधानं सप्र-
योजनं बहुशाखं जानन्नेव स्रष्टा भवितुमर्हति महेश्वरस्तस्मात्सर्वज्ञः।
अपि च यथा नियतविषयवृत्तीनां चक्षुरादीन्द्रियाणामधिष्ठाता क्षेत्रज्ञस्त-
दपेक्षया सर्वज्ञः एवं सकलक्षेत्रज्ञकर्मविनियोगेषु प्रभवन्नीश्वरस्तदपेक्षया सर्वज्ञः,
तथा चाह व्यासः (१)—
द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च।
क्षरः सर्वाणि भूतानि कूटस्थो ऽक्षर उच्यते॥
उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः।
यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः॥
मन्त्रश्च तदर्थानुवादी पठ्यते(२)।
द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते।
तयोरेकः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति॥ इति।
अतश्च सर्वज्ञ ईश्वरः।
पुंसामसर्ववित्त्वं हि रागादिमलवन्धनम्।
न च रागादिभिः स्पृष्टो भगवानिति सर्ववित्॥
इष्टानिष्टार्थसंभोगप्रभवाः खलु देहिनाम्।
रागादयः कथं ते स्युर्नित्यानन्दात्मके शिवे॥
मिथ्याज्ञानमूलाश्च रागादयो दोषास्ते कथं नित्यनिर्मलज्ञानवतीश्वरे भवेयुः।
ईश्वरज्ञानादेर्नित्यत्वम्।
नित्यं तज्ज्ञानं कथमिति चेत् तस्मिन् क्षणमप्यज्ञातरि सति तदिच्छाप्रेर्य-
माणकर्माधीननानाप्रकारव्यवहारविरामप्रसङ्गात्, प्रलयवेलायां तर्हि कुतस्तन्नि-
त्यत्वकल्पना इति चेन्मैवम् आप्रलयातत्सिद्धे नित्यत्वे तदा विनाशकारणाभावाद्-
स्यात्मन इव तज्ज्ञानस्य नित्यत्वं सेत्स्यति, पुनश्च सर्गकाले तदुत्पत्तिकारणाभा-
वादपि नित्यत्वं तज्ज्ञानानाम्, एवं च तदतीतानागतसूक्ष्मव्यवहितादिसमस्त-
वस्तुविषयं न भिन्नं क्रमयोगपद्यविकल्पानुपपत्तेः, क्रमाश्रयणे क चिदज्ञातृत्वं
स्यादिति व्यवहारलोपः, यौगपद्येन सर्वज्ञातृत्वे कुतस्तस्यो ज्ञानभेदः, प्रत्यक्षसाध-
र्म्याच्च तज्ज्ञानं प्रत्यक्षमुच्यते न पुनरिन्द्रियार्थसन्निकर्षात्पन्नत्वमस्यास्ति अजन-
कानामेवार्थानं सवितृप्रकाशेनेव ग्रहणात्, ज्ञानवदन्ये ऽप्यात्मगुणा ये ऽस्य
( १ ) भगवद्गीतायाम् । अ. १५ श्लो. १६ ।
( २ ) मुण्डकोपनिषदि मु०३ मन्त्र १ ।
सन्ति ते नित्या एव मनः संयोगानपेक्षजन्मत्वात् ।
दुःखद्वेषास्तस्य तावन्न सन्त्येव, भावनाख्येन संस्कारेणापि न प्रयोजनम् ,
सर्वदा सर्वार्थदर्शित्वेन स्मृत्यभावात् , अत एव न तस्यानुमानिकं ज्ञानमि-
ष्यते, धर्मस्तु भूतानुग्रहवतो वस्तुस्वाभाव्याद्भवन्न वार्यते तस्य च फलं परमार्थ-
निष्पत्तिरेव, सुखं त्वस्य नित्यमेव नित्यानन्दत्वेनागमात्प्रतीतेः, असुखितस्य
चैवंविधकार्यारम्भयोग्यताऽभावात् ।
ननु ज्ञानानन्दवदिच्छाऽपि नित्या चेदीश्वरस्य तर्हि सर्वदा तदिच्छासम्भ-
वात्सर्वदा जगदुत्पत्तिरिति जगदानन्त्यप्रसङ्गः, सर्गेच्छानित्यत्वाच्च संहारो न
प्राप्नोति, संहारेच्छाया अपि नित्यत्वाभ्युपगमेन नक्तंदिनं प्रलयप्रबन्धो न
विरमेदेव जगतामिति, नैष दोषः, अनात्ममनःसंयोगजत्वादिच्छा स्वरूपमात्रेण
नित्या ऽपि कदाचित्सर्गेण कदाचित्संहारेण वा विषयेणानुरज्यते सर्गसंहार-
योरन्तराले तु जगतः स्थित्यवस्थायामस्मात्कर्मण इदमस्य सम्पद्यतामितीच्छा
भवति प्रजापतेः, प्रयत्नस्तस्य सङ्कल्पविशेषात्मक एव, तथा चागमः, सत्य-
कामः सत्यसङ्कल्प इति, काम इतीच्छा उच्यते सङ्कल्प इति प्रयत्नः, तदेवं
नवभ्य आत्मगुणेभ्यः पञ्च ज्ञानसुखेच्छाप्रयत्नधर्माः सन्तीश्वरे, चत्वारस्तु
दुःखद्वेषाधर्मसंस्कारा न सन्तीत्यात्मविशेष एवेश्वरो न द्रव्यान्तरम्, आह च
पतञ्जलिः, ‘क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वर’ इति, सो ऽयमा-
गमादनुमानात्पक्षधर्मता वा विशेषलाभ इति स्थितम् ।
ईश्वरस्याशरीरत्वम् ।
यत्पुनर्विकल्पितं सशरीर ईश्वरः सृजति जगद् अशरीरो वेति तत्राशरी-
रस्यैव स्रष्टृत्वमस्याभ्युपगच्छामः ।
ननु क्रियावेशनिबन्धनं कर्तृत्वं न पारिभाषिकं तदशरीरस्य क्रियाविरहा-
त्कथं भवेत्, कस्य च कुत्राशरीरस्य कर्तृत्वं दृष्टमिति, उच्यते, ज्ञानचिकीर्षा-
प्रयत्नयोगित्वं कर्तृत्वमाचक्षते तच्चेश्वरे विद्यते एवेत्युक्तमेतत् , स्वशरीरप्रेरणे
च दृष्टमशरीरस्याप्यात्मनः कर्तृत्वम् इच्छामात्रेण च तस्य कर्तृत्वादनेकव्यापा-
रनिर्वर्त्तनोपात्तदुर्वहक्लेशकालुष्यविकल्पो ऽपि प्रत्युक्तः ।
नन्वत्रोक्तम्—
कुलालवच्च नैतस्य व्यापारो यदि कल्प्यते ।
अचेतनः कथं भावस्तदिच्छामनुवर्त्तते ॥ इति ।
अस्माभिरप्युक्तमेव—
यथा ह्यचेतनः काय आत्मेच्छामनुवर्त्तते ।
तदिच्छामनुवर्त्स्यन्ते तथैव परमाणवः ॥
२४ न्या०
१८६ न्यायमञ्जरीम्
यस्तु प्रयोजनविकल्पः किमर्थं सृजति जगन्ति भगवानिति सो ऽपि न पेश-
लः, स्वभाव एवैष भगवतो यत्कदा चित्सृजति कदा चिच्चसंहरति विश्वमिति,
कथं पुनर्नियतकाल एषो ऽस्य स्वभाव इति चेद् आदित्यं पश्यतु देवानां प्रियः
यो नियतकालमुदेत्यस्तमेति च, प्राणिकर्मसापेक्षमेतद्विवस्वतो रूपमिति चेद्
ईश्वरे ऽपि तुल्यः समाधिः ।
क्रीडार्थे ऽपि जगत्सर्गे न हीयेत क्रियार्थता ।
प्रवर्त्तमाना दृश्यन्ते न हि क्रीडासु दुःखिताः ॥
अथ वा ऽनुकम्पयैव सर्गसंहारावारभतामीश्वरः ।
नन्वत्र चोदितम् अनुपपन्नं तु अनादित्वात्संसारस्य शुभाशुभसंस्कारानु-
विद्धा एवात्मानस्ते च धर्माधर्मनिगडसंवृतत्वादपवर्गपुरद्वारप्रवेशमलभमानाः
कथं नानुकम्प्याः, अनुपभुक्तफलानां कर्मणां न प्रक्षयः सर्गान्तरेण च तत्फल-
भोगाय नरकादिसृष्टिमारभते दयालुरेव भगवान्, उपभोगप्रबन्धेन परिश्रान्ता-
नामन्तरान्तरा विश्रान्तये जन्तूनां भुवनोपसंहारमपि करोतीति सर्वमेतत्कृपा-
निवन्धनमेव ।
ननु च युगपदेव सकलजगतप्रलयकरणमनुपपन्नम् अविनाशिनां कर्मणां
फलोपभोगप्रतिबन्धासम्भवादिति चोदितम्, न युक्तमेतत्, ईश्वरेच्छाप्रतिबद्धानां
कर्मणां स्तिमितशक्तीनामवस्थानात् , तदिच्छाप्रेरितानि कर्माणि फलमादधति
तदिच्छाप्रतिबद्धानि च तत्रोदासते, कस्मादेवमिति चेत्, अचेतनानां चेतनान-
धिष्ठितानां स्वकार्यकरणानुपलब्धेः ।
ननु तेषामेव कर्मणां कर्त्तार आत्मानश्चेतना अधिष्ठातारो भविष्यन्ति,
यथा ऽऽह भट्टः(१)कर्मभिः सर्वजीवानां तत्सिद्धे सिद्धसाधनमिति, नैतदेवम्,
नैते अधिष्ठातारो भवितुमर्हन्ति, बहुत्वाद्विरुद्धाभिप्रायत्वाच्च, तथा ह्येक एव
कश्चित्स्थावरादिविशेषो राजादिविशेषो वा प्राणिकोटीना मनेकविधसुखदुःखो-
पभोगस्य हेतुः स तैर्बहुभिर्व्यवस्थिताभिप्रायैः कथमारभ्येत तेषामेकत्र संमा-
नाभावात्, शठपरिषदो ऽपि क्व चिदेव सकलधारणोपकारिणि कार्ये भवत्यै-
कमत्यम् न सर्वत्र महाप्रासादाद्यारम्भे बहूनां तक्षादीनामेकस्थपत्याशयानुव-
र्त्तित्वं दृश्यते, पिपीलिकानामपि मृत्कूटकरणे तुल्यः कश्चिदुपकारः प्रवर्त्तकः
( १ ) श्लोकवार्तिके सम्बन्धाक्षेपे श्लो० ७६ । यदि हेतुत्वमात्रमधिष्ठातृत्वं तदा
सर्वषां जीवानां कर्मभिर्द्वारभूतैस्तस्यैव सर्वं कार्यजातं प्रति हेतुत्वं कर्मनिमित्तं हि
सर्वं कार्यं सिद्धं च पृथिव्यादेरपि खननपूरणादिभिः कथं चिन्नाशोत्पादवत्त्वमिति
सिद्धस्यैव साधनमिति अतो नानुमानेन कृत्स्नस्यैकेन सर्वज्ञेन निष्पत्तिः युगपत्सेद्धु-
मर्हतीति भावः ।
प्रमाणप्रकरणम् १८७
स्थपतिवदेकाशयानुवर्त्तित्वं वा कल्प्यम, इह तु तत्स्थावरं शरीरं केषां चिदु-
पकारकारणमितरेषामपि भूयसामपकारकारणमिति कथं तैः संभूय सृज्यते
अनधिष्ठितानां त्वचेतनानामारम्भकत्वमयुक्तमेव तस्मादवश्यमेकस्तेषां कमेणा-
मधिष्ठाता कल्पनीयः, यदिच्छामन्तरेण भवन्त्यपि कर्माणि न फलजन्मने
प्रभवन्ति ।
अत एवैक ईश्वर इष्यते न द्वौ बहवो वा भिन्नाभिप्रायतया लोकानुग्रहो-
पघातवैशसप्रङ्गात्, इच्छाविसंवादसंभवेन च ततः कस्य चित्संकल्पविघातद्वा-
रकानैश्वर्यप्रसङ्गाद् इत्येक एवेश्वरः, तदिच्छाया कर्माणि कार्येषु प्रवर्त्तन्ते
इत्युपपन्नः सर्गः, तदिच्छाप्रतिबन्धात्स्तिमितशक्तीनि कर्माण्युदासते इत्युपपन्नः
प्रलयः, एवं च यदुक्तं-
तस्मादद्यवदेवात्र सर्गप्रलयकल्पना ।
समस्तक्षयजन्माभ्यां न सिद्ध्यत्यप्रमाणिका(१) ॥
इत्येतदपि न सांप्रतम्, तिष्ठतु वा सर्गप्रलयकालः अद्यत्वेऽपि यथोक्तन-
येन तदिच्छामन्तरेण प्राणिनां कर्मविपाकानुपपत्तेरवश्यमीश्वरो ऽभ्युपगन्तव्यः
इतरथा सर्वव्यवहारविप्रलोपः, तदुक्तम्-
अज्ञो जन्तुरनीशो ऽयमात्मनः सुखदुःखयोः ।
ईश्वरप्रेरितो गच्छेत्स्वर्गं वा श्वभ्रमेव वेति(२) ॥
नन्वेवं तर्हि ईश्वरच्छैव भवतु कर्त्री संहर्त्री च किं कर्मभिः, मैवम् कर्म-
भिर्विना जगद्वैचित्र्यानुपपत्तेः कर्मनैरपेक्ष्यपक्षे ऽपि त्रयो दोषा दर्शिता एवेश्व-
रस्य निर्दयकर्मचोदनार्थक्यमनिर्मोक्षप्रसङ्गश्चेति, तस्मात्कर्मणामेव नियोजने
स्वातन्त्र्यमीश्वरस्य न तन्निरपेक्षम्, किं तादृशेश्वर्येण प्रयोजनमिति चेन्न, न
प्रयोजनानुवर्त्ति प्रमाणं भवितुमर्हति, किं वा भगवतः कर्मापेक्षिणो ऽपि न
प्रभुत्वमित्यलं कुतर्कलवलिप्तमुखनास्तिकालापपरिमर्देन ।
तस्मात्कुतार्किकोद्गीतदूषणाभासवारणात् ।
सिद्धस्त्रैलोक्यनिर्माणनिपुणः परमेश्वरः ॥
ये त्वीश्वरं निरपवाददृढप्रमाण-
सिद्धस्वरूपमपि नाभ्युपयन्ति मूढाः ।
( १ ) श्लोकवार्तिके सम्बन्धाक्षेपे श्लो० ११३ । सृष्टिप्रलयवादस्य दैवप्रभाव-
कथनार्थत्वं तथाहि समस्तपुरुषकाराभावेऽपि सृष्टिकाले दैववशेन सर्वं प्रवर्त्तते प्रलय-
काले च सत्यपि पुरुषकारे दैवोपरमाद्व्युपरमति तस्माद्धर्मानुष्ठान एव यतितव्यमि-
त्येवं परं सृष्टिप्रलयवचनम् इति पू० संदर्भार्थः तस्मादित्यनेन परामृश्यते इति ध्येयम् ।
( २ ) महाभारते वनपर्वणि अ० ३० श्लो० २८ ।
१८८ न्यायमञ्जर्याम्
पापाय तैः सह कथा ऽपि वितन्यमाना
जायेत नूनमिति युक्तमतो विरन्तुम् ।
यस्येच्छयैव भुवनानि समुद्भवन्ति
तिष्ठन्ति यान्ति च पुनर्विलयं युगान्ते ।
तस्मै समस्तफलभोगनिबन्धनाय ।
नित्यप्रबुद्धमुदिताय नमः शिवाय ॥
शब्दनित्यमीमांसकाभिमतनिरूपणम् ।
ननु त्रैलोक्यनिर्माणनिपुणे परमेश्वरे ।
सिद्धे ऽपि तत्प्रणीतत्वं न वेदस्यावकल्पते ॥
पदे शब्दार्थसम्बन्धे वेदस्य रचनासु वा ।
कर्तृत्वमस्याशङ्केत तच्च सर्वत्र दुर्वचम् ।
वर्णराशिः क्रमव्यक्तः पदमित्यभिधीयते ॥
वर्णानां चाविनाशित्वात्कथमीश्वरकार्यता ।
सम्बन्धो ऽपि न तत्कार्यः स हि शक्तिस्वभावकः ॥
शब्दे वाचकशक्तिश्च नित्यैवाप्ताविवोषिता ।
रचना अपि वैदिक्यो नैताः पुरुषनिर्मिताः ॥
कविप्रणीतकाव्यादिरचनाभ्यो विलक्षणाः ।
एवं च वेदे स्वातन्त्र्यमीश्वरस्य न कुत्र चित् ॥
कामं तु पर्वतानेष विदधातु भिनत्तु वा ।
स्वतः प्रामाण्यसिद्धौ तु वेदे वक्त्रनपेक्षताम् ॥
वदामो न तु सर्वत्र पुरुषद्वेषिणो वयम् ।
अनपेक्षत्वमेवातो वेदप्रामाण्यकारणम् ॥
युक्तं वक्तापि वेदस्य कुर्वन्नपि करोतु किम् ।
कथं पुनरमी वर्णाः श्रुतमात्रतिरोहिताः ॥
नित्या भवन्तु को ऽयं वा शब्दस्वातन्त्र्यदोहदः ॥
उच्यते—
शब्दनित्यत्वाक्षेपः ।
शब्दस्य न ह्यनित्यत्वे युक्तिः स्फुटति का चन ।
प्रत्यक्षमर्थापत्तिश्च नित्यतां त्वभिगच्छतः ॥
तथाहि, अनित्यहेतव इमे किल कथ्यन्ते प्रयत्नानन्तरमुपलब्धेः कार्यः
शब्द इति, कार्यत्वानित्यत्वयोः परस्पराविनाभावादेकतरसिद्धावन्यतरसिद्धि-
प्रमाणप्रकरणम् | १८९
र्भवत्येवेति क चित्किञ्चित्साधनमुच्यते प्रयत्नप्रेरितकोष्ठमारुतसंयोगविभा-
गानन्तरमुपलभ्यमानः शब्दस्तत्कार्यः एवेति गम्यते, उच्चारणादूर्ध्वमनुपलब्धेः
अनित्यः शब्दः न ह्येनमुच्चरितं मुहूर्त मप्युपलभामहे तस्माद्विनष्ट इत्यवग-
च्छामः, करोतिशब्दव्यपदेशाच्च कार्यः शब्दः शब्दं कुरु शब्दं मा कार्षीरिति
व्यवहर्तारः प्रयुञ्जते ते नूनमवगच्छन्ति कार्यः शब्द इति, नानादेशेषु च
युगपदुपलम्भात् , तेषु तेषु देशेषु क्रियमाणानामुपपद्यते ऽनेकदेशसम्बन्ध इति,
शब्दान्तरविकार्यत्वाच्च अनित्यः शब्दः दध्यत्रेति इकार एव यकारीभवति
सादृश्यात् स्मृतेश्चावगम्यते, विकार्यत्वाच्च द्राक्षेक्षुरसादिवदनित्यत्वमस्येति, का-
रणवृद्ध्या च वर्धमानत्वात्, बहुभिर्महाप्रयत्नैरुच्चार्यमाणे महान् गोशब्द उप-
लभ्यते अल्पैरल्पप्रयत्नैरुच्चार्यमाणे ऽल्प इत्येतच्च तन्तुवृद्ध्या वर्धमानः पटः
ज्ञातः, सिद्धे नित्यत्वे प्रयत्नानन्तरमुपलम्भादभिव्यक्तिः प्रयत्नकार्या शब्दस्य
नोत्पत्तिरिति गम्यते, तदेवं व्यञ्जके ऽपि प्रयत्नानन्तरमुपलम्भसम्भवादनैकान्ति-
कत्वम्, अभिव्यञ्जकानां च पवनसंयोगविभागानामचिरस्थायित्वान्न चिरमु-
च्चारणादूर्ध्वमुपलभ्यते शब्दः, प्रयोगाभिप्रायश्च करोतिशब्दव्यपदेशो ऽस्य
भविष्यति गोमयानि कुरु काष्ठानि कुर्वितिवत् , तस्मात्सो ऽपि नैकान्तिकः, ना-
नादेशेषु युगपदुपलम्भनमनेकस्य स्थिरस्यापि शब्दस्य विवस्वत इव सेत्स्यति,
विकार्यत्वं त्वसिद्धमेव शब्दान्तरत्वात्, दधिशब्द इकारान्तः संहिताव्यतिरि-
क्तविषयवृत्तिः यकारस्त्वयमन्य एवाचि परतः संहिताविषये प्रयुज्यमानः, न
पुनरिकार एवायं यकारीभूतः क्षीरमिव दधिभूतमुपलभ्यते, न हीचुयशस्ता-
लव्या इति स्थानसादृश्यमात्रेण तद्विकारत्ववर्णनमुचितम्, अप्रकृतिविकार-
योरपि नयनोत्पलपल्लवयोः सादृश्यदर्शनात्, इको यणचीति पाणिनिस्मृतेरपि
नायमर्थः इकारो यकारीभवति क्षीरमिव दधीभवति किं त्वस्मिन्विषये ऽयं वर्णः
प्रयोक्तव्यो ऽस्मिन्नयमिति सूत्रार्थः, सिद्धे शब्दे ऽर्थे सम्बन्धे च तच्छास्त्रं प्रवृ-
त्तमिति, अपि च क्षीरं दधित्वमुपैति न तु दधि क्षीरताम् इह तु यकारो ऽपि
क्व चिदिकारतामुपैति विध्यतीति संप्रसारणे सति, तस्मादसिद्ध एव वर्णानां
प्रकृतिविकारभावः नापि कारणवृद्ध्या वर्धते शब्दःबलवता ऽप्युच्चार्यमाणानि
बहुभिश्च तावन्त्येवाक्षराणि ध्वनय एव तथा तत्र प्रवृद्धा उपलभ्यन्ते न
वर्णा इति ।
शब्दनित्यत्वसाधनार्थापत्तिप्रमाणोपन्यासः ।
तस्मादनित्यतासिद्धिर्नैवं प्रायैरसाधनैः ।
शब्दस्य नित्यतायां तु सैषा ऽर्थापत्तिरुच्यते ॥
शब्दस्योच्चारणं तावदर्थगत्यर्थमिष्यते ।
१२० न्यायमञ्जर्याम्
न चोच्चारितनष्टो ऽयमथं गमयितुं क्षमः ॥
सर्वेषामविवादो ऽत्र शब्दार्थव्यवहारिणाम् ।
यदि विज्ञातसम्बन्धः शब्दो नार्थस्य वाचकः ॥
वेद्यमानः स सम्बन्धः स्थविरव्यवहारतः ।
द्राघीयसा न कालेन विना शक्येत वेदितुम् ॥
तथा हि गां शुक्लामानयेत्येकवृद्धप्रयुक्तशब्दश्रवणे सति चेष्टमानमितरं
वृद्धमवलोकयन् बालस्तटस्थः तस्यार्थप्रतीतिं तावत्कल्पयति आत्मनि तत्पूर्व-
कायाश्चेष्टाया दृष्टत्वात् , प्रमाणान्तरासन्निधानादेतद्वृद्धप्रयुक्तशब्दसमनन्तरं च
प्रवृत्तेः तत एव शब्दात्किमप्यनेन प्रतिपन्नमिति मन्यते, ततः क्षणान्तरे त-
मर्थं तेन वृद्धेनानीयमानमुपलभमान एव बुध्यते अयमर्थो ऽमुतः शब्दादनेना-
वगत इति, स चार्थो ऽनेकगुणक्रियाजातिव्यक्त्यादिरूपसंकुल उपलभ्यते,
शब्दो ऽप्यनेकपदकदम्बकात्मा श्रुतः तत्कतमस्य वाक्यांशस्य कतमो ऽर्थांशो
वाच्य इत्यावापोद्वापयोगेन बहुकृत्वः शृण्वन् गुणक्रियादिपरिहारेण गोत्वसा-
मान्यमस्मन्मते त्वन्मते वा तद्वन्मात्रं गोशब्दस्याभिधेयं निर्धारयतीति ।
एवं दीर्घाध्वसापेक्षसम्बन्धाधिगमावधि ।
शब्दस्य जीवितं सिद्धमिति नाशुविनाशिता ॥
भवतु वा नश्वरस्यापि शब्दस्य सम्बन्धग्रहणं तथा ऽपि तस्मिन् गृहीत-
सम्बन्धे शब्दे विनष्टे सति कथमनवगतसम्बन्धादभिनवादिदानीमन्यस्माच्छ-
ब्दार्थप्रतिपत्तिः ।
अन्यस्मिन् जातसम्बन्धे यद्यन्यो वाचको भवेत् ।
वाचकाः सर्वशब्दाः स्युरेकस्मिन् जातसंगतौ ॥
न च वक्ता व्यवहरमाणः तदैव शब्दं चोच्चारयति सम्बन्धं करोति चैतं
च व्युत्पादयति परं च व्यवहारयतीति, न हि युगपदिमाः क्रियाः भवितुमर्हन्ति
एवमदर्शनात् , अथादौ सम्बन्धग्रहणे वृत्ते तस्मिन्विनष्टे ऽपि गोशब्दः स एवे-
ति, न च भूयोऽवयवसामान्ययोगरूपसादृश्यं वर्णानामनवयवानामुपपद्यते
अभिनवस्य शब्दस्य स्वयमर्थवत्ताऽनवधारणात्कथमयममुतः श्रोता प्रतिपद्येते-
ति शङ्कमानो वक्ता कथं प्रयोगं कुर्यात् , अथ सो ऽप्यर्थवत्सदृशस्तमसौ प्रयु-
ङ्क्ते तस्याप्यन्यसादृश्यादेवार्थवत्तेति जगत्सर्गकालकृतस्य मूलभूतस्यार्थवतः
शब्दस्य स्मरणं तन्मूलत्वाद् व्यवहारस्य न चैवमस्ति, न च ततः प्रभृत्यद्य या-
वत्साद्दृश्यमनुवर्त्तते तत्सदृशसदृशकल्पनायां मूलसादृश्यविनाशात् , विशेषत-
स्तु शब्दानाम् ।
भिन्नवक्तृमुखस्थानप्रयत्नकरणादिभिः ।
न निर्वहति सादृश्यं शब्दानां दूरवर्त्तिनाम् ॥
? It is तस्मात्साहश्य! Wait, should I transcribe it as तस्मात्साहश्यorतस्मात्सादृश्य? "Faithful transcription of the text... keep original typos/idiosyncrasies if that's what's printed, or standard?" Usually, if it's clearly a typo for सादृश्य, wait, is it really ह? Wait, look at दृin line 16:वृद्धे. In वृद्धे, वृisवwithृ. In line 19: दृष्टा. दृhasदwithृbelow it. In line 3, is thatह? Wait! Look at सादृश्यin line 3: Wait, could it beह? Yes, it looks like ह. But wait, could the printer have used हby accident? Yes! Wait, let me look at line 3 again. Does it have an 'r' loop? No. It really looks likeह. Wait, let's check whether it's तस्मात्सादृश्यorतस्मात्साहश्य: In many transcription tasks, people transcribe what is intended or what is seen. But let's look closer: wait, is it ह`?
Wait, look at the loop:
Top bar, down, right loop, then bottom hook to the left
इति, एवं हि कल्पना लघीयसी भवति, तस्मान्न नानागकारवृत्ति गत्वसामान्यं
नाम किं चिदस्ति ।
अपि च गोगुरुगोहादौ भिन्नाजुपश्लेषकारित एव व्यञ्जनेषु बुद्धिभेदः
परोपाधिरवधार्यते सो ऽयमद्वपि परोपाधिरेव भवितुमर्हति, वर्णाश्रितत्वा-
द्व्यञ्जकभेदप्रत्ययवदिति, तस्माद्गत्ववदत्वसामान्यमपि नास्ति, यत्पुनरष्टा-
दशभेदमवर्णकुलमुच्यते तदौपाधिकमेव ह्रस्वदीर्घप्लुतसंवृतविवृतादिबुद्धीनां
ध्वनिभेदानुविधायित्वात् ।
विवृतः संवृतादन्यो न गकाराद्गकारवत् ।
अपि त्वकार एवासौ प्रतिभाति यथा तथा ॥
कथं तर्हि शब्दभेदाभावे भिन्ने अर्थप्रतिपत्ती अरण्यमारण्यमिति ध्वनि
कृते एव ते भविष्यतः, अशब्दधर्मस्य दोर्घत्वादेः कथमर्थप्रतीत्यङ्गत्वमिति चेत्
तुरगवेगवद्भवष्यति ।
यथा तुरगदेहस्थो वेगः पुंसो ऽर्थसिद्धये ।
परधर्मो ऽपि दीर्घादिरेवं तस्योपकारकः ॥
इतश्चैतदकारसामान्यमनुपपन्नम् , अत्वं हि न दीर्घप्लुतयोरनुगतं भवति
आत्वं न ह्रस्वदीर्घयोरिति, तस्मादेकत्वाद्वर्णानां नावान्तरजातयः सम्भवन्ति
शब्दत्वं तु नियतार्थप्रतिपत्तौ व्यभिचारीत्यतो नात्र धूमादिन्यायः ।
तेनार्थप्रत्ययः शब्दादन्यथा नोपपद्यते ।
न चेद् नित्यत्वमित्यस्मिन्नर्थापत्तेः प्रमाणता ॥
अनुमानादन्यथात्वमर्थापत्तेर्न दृश्यते ।
तेनानुमानमप्येतत्प्रयोक्तुं न न शक्यते ॥
तदिदमुच्यते शब्दो धर्मी नित्य इति साध्यो धर्मः सम्बन्धग्रहणसापेक्षार्थ-
प्रतिपादकत्वाद् धूमादिजातितवत् , तदिदमुक्तं “नित्यत्वं तु स्याद्दर्शनस्य परार्थ-
त्वादिति”(१), एवं सम्बन्धग्रहणात्प्रभृत्यार्थप्रतिपत्तेरवस्थितस्य विनाशहेत्वभा-
वादात्मादिवन्नित्यत्वम् , न ह्ययमवयवविनाशान्नश्यति शब्दो निरवयवत्वात् ,
तदेव कथमिति चेद् उच्यते—
स्वल्पेनापि प्रयत्नेन यदि वर्णः प्रयुज्यते ।
यदि वा नानुभूयेत शकलो नानुभूयते ॥
( १ ) जैमिनिसू० अ० १ पा० १ सू० १८ नित्यस्तु स्यादिति पाठः । तुशब्दो-
ऽवधारणे शब्दः नित्य एव स्यात् दर्शनस्य दृश्यते श्रूयतेऽनेनेति दर्शनमुच्चारणं तस्य
परार्थत्वात् परं प्रति अर्थप्रत्यायनार्थत्वात् शब्दस्य अनित्यत्वे च अर्थप्रतीतिपर्यन्त-
मनवस्थानात् परस्यार्थप्रतीतिरेव न स्यादिति तदर्थः इति मत्प्रणीतायां जैमिनिसूत्रौ
प्रभायाम् ।
प्रमाणप्रकरणम् १९३
सावयवे हि वस्तुनि द्विधा ऽवयवा दृश्यन्ते आरब्धकार्याअनारब्धकार्या-
श्चेति, इह पुनरारब्धकार्या अनारब्धकार्या वा पटे तन्त्वादय इव वर्णे न केचि-
दवयवा उपलभ्यन्ते न चानुमीयन्ते लिङ्गाभावात् , नाप्याश्रयविनाशाद्विनाशः
शब्दस्याश्मादिवदनाश्रितत्वात् , आकाशाश्रितत्वपक्षे वा तन्नित्यत्वात्, न चान्यः-
तस्मात्तिरोहितो ऽप्यास्ते यदि शब्दः क्षणान्तरम् ।
मृत्योर्दुःखादपक्रान्तः पुनः केनैष हन्यते ॥
अतश्च नित्यः शब्दः संख्याभावाद् , अष्टकृत्वो गोशब्दः प्रयुक्त इति वद-
न्ति न त्वष्टौ गोशब्दा इति तेनैकत्वमवगम्यते, यो ऽयं क्रियाभ्यावृत्तिगणने
विहितः कृत्वसुच्प्रत्ययः स क्रियावतामभेदे भवति तेनोच्चारणावृत्तिमात्रं,
तदुक्तम्-
क्रियावतामभेदे हि क्रियावृत्तिषु कृत्वसुच् ।
तत्प्रयोगाद् ध्रुवं तस्य शब्दस्यावर्त्तते क्रियेति(१) ॥
संख्यावताम् ।
संख्याभिधायिनः शब्दात्कृत्वसुच्प्रत्ययं विदुः ।
तदनेन प्रकारेण प्रत्यभिज्ञानमुच्यते ॥
प्रमाणं शब्दनित्यत्वे सकलश्रोतृसाक्षिकम् ।
तथा ह्यस्ति स एवायं गोशब्द इति वेदनम् ॥
श्रोत्रं करणकालुष्यबाधसन्देहवर्जितम् ॥
श्रोत्रेन्द्रियव्यापारान्वयव्यतिरेकानुविधानाच्छ्रौत्रमिदं विज्ञानन्, न चैत-
ज्जनकस्य करणस्य किमपि दौर्बल्यमुपलभ्यते, न च किं स्विदिति कोटिद्वय-
संस्पर्शितायेदं विज्ञानमुपजायते नच नैतदेवमिति प्रत्ययान्तरमस्मिन्बाधकमु-
त्पश्यामः, इदानींतनास्तित्वप्रमेयाधिक्यग्रहणाच्चेदमनधिगतार्थग्राह्यपि भवि-
तुमर्हति, भवन्मते च गृहीतग्राहित्वे ऽपि प्रत्यभिज्ञायाः प्रामाण्यमिष्यते न हि
तदप्रामाण्यं वक्तुं शक्यते शाक्यैरिव भवद्भिः क्षणिकपदार्थानभ्युपगमात् ।
न सादृश्यनिमित्तत्वं वक्तुं तस्याश्च युज्यते ।
सामान्यविषयत्वं वा द्रव्यस्यापि निषेधनात् ॥
कैश्चित्तिरोहिते भावादित्यप्रामाण्यमुच्यते ।
तदसत्प्रतीत्यैव तिरोधाननिषेधनात् ॥
(१) श्लोकवार्तिके शब्दाधिकरणे श्लोक ३६२ । “अष्टकृत्वो गोशब्द उच्चरितः
इति हि वदन्ति नाष्टौ गोशब्दा' 'इति शाबरभाष्यस्याभिप्रायमाह--क्रियावतामिति ।
क्रियावतामभेदे क्रियाभ्यावृत्तिगणने कृत्वसुच् विहितः तेन शब्दस्य उच्चारणक्रिया आ-
वर्तते न शब्द इत्यर्थः ।
२५ न्या०
जीवति तन्मते ऽप्येष शब्दस्त्रिचतुरान् क्षणान् ।
प्रत्यभिज्ञा च कालेन तावता न न सिद्ध्यति ॥
एकक्षणायुषि तस्मिन्प्रतीतिरतिदुर्लभा ।
न खल्वजनकं किं चिद्वस्तु ज्ञानेन गृह्यते, इति ॥
क्षणभङ्गभङ्गे वक्ष्यते, अपि च—
यथा निशीथे रोलम्बश्यामलाम्बुदडम्बरे ।
प्रत्यभिज्ञायते किं चिदचिरद्युतिधामभिः ॥
तथा ऽविरतसंयोगविभागक्रमजन्मभिः ।
प्रत्यभिज्ञायते शब्दः क्षणिकैरपि मारुतैः ॥
शब्दाभिव्यक्तावनुपपत्तिप्रदर्शनम्
अत्राह, मारुतैरित्युपोद्घातेन साधु स्मृतम्, तिष्ठतु तावत्प्रत्यभिज्ञानं
प्रथममेव शब्दस्य यन्नियतग्रहणं तदभिव्यक्तिपक्षे दुर्घटम् ।
नित्यत्वाद्यापकत्वाच्च सर्वे सर्वत्र सर्वदा ।
शब्दाः सन्तीति भेदेन ग्रहणे किं नियामकम् ॥
ध्वनयो हि नाम संयोगविभागविशेषिता वायवः वायुवृत्तयो वा संयोगवि-
भागास्ते हि शब्दस्य व्यञ्जका इष्यन्ते तैश्च करणं वा संस्क्रियते कर्म वा द्वयं
वा सर्वथा च प्रमादः ।
करणे संस्कृते तावत्सर्वशब्दश्रुतिर्भवेत् ।
गकारायैव संस्कार इत्येष नियमः कुतः ॥
अपि च—स्तिमितसमीरणापसरणमेव करणस्य संस्कारः स चायं तद्देश-
व्यवस्थितसकलतद्विषयसाधारण एव ।
यथा जवनिकापायप्राप्तप्रसरमीक्षणम् ।
रङ्गभूमिषु तद्देशमशेषं वस्तु पश्यति ॥
तथा प्रसरसंरोधिसमीरोत्सारणे सति ।
श्रोत्रं तद्देशनिःशेषशब्दग्राहि भविष्यति ॥
आकाशं च श्रोत्रमाचक्षते भवन्तः तच्च विभु निरवयवं चेति क्व चिदेव
तस्मिन्संस्कृते सति सर्वे च तदैव संस्कृतकरणाः प्राणिनः संपन्ना इति सर्व एव
शृणुयुः, विषये तु संस्क्रियमाणे तस्यानवयवस्य व्यापिनश्च संस्कृतत्वात्सर्वत्र
श्रवणमिति मद्रेष्वभिव्यक्तो गोशब्दः कश्मीरेष्वपि श्रूयेत, न हि तस्याधारद्वा-
रकः संस्कारः आकाशवदनाश्रितत्वात्, आकाशाश्रितत्वपक्षे ऽपि तदेकत्वात्,
नापि भागशः संस्क्रियते गोशब्दः, तस्य निरवयवत्वात् उक्तं हि—
प्रमाणप्रकरणम् १९५
अल्पीयसा प्रयत्नेन शब्दमुच्चारितं मतिः ।
यदि वा नैव गृह्णाति वर्णं वा सकलं स्फुटमिति (१) ॥
उभयसंस्कारपक्षे तु दोषद्वयस्याप्यनतिवृत्तिः सर्वेषां ग्रहणं सर्वत्र श्रवण-
मिति, न च समानदेशानां समानेन्द्रियग्राह्याणां च भावानां प्रतिनियतव्यञ्जक-
व्यङ्ग्यत्वमुपलब्धम् ।
गृहे दधिघटीं द्रष्टुमानीयतो गृहमेधिना ।
अपूपानपि तद्देशान् प्रकाशयति दीपकः ॥
तस्मात्कृतकपक्षे एव नियतदेशं शब्दस्य ग्रहणं परिकल्पते नाभिव्यक्ति-
पक्षे इति, अपि च, अभिव्यक्तिपक्षे तीव्रमन्दविभागे ऽभिभवश्च शब्दस्य
शब्दान्तरेण न प्राप्नोति, न हि शब्दस्तीव्रो मन्दो वा कश्चित् स्वतस्तस्य भेदा-
भावात्, संस्कारस्य च तदभिव्यक्तिहेतोर्न का चन तीव्रता मन्दता वा यदनु-
सारेण विषये तथा बुद्धिः स्यात्, पवनधर्मा वा तीव्रादिर्भवन्कथं श्रोत्रेण गृह्येत,
सावयवे हि वस्तुनि सकलविशेषग्रहणाग्रहणसंभवात्तदपेक्षया प्रतीतिभेदो भवेत्,
इह तु निरवयवे शब्दे न तथोपपद्यते इति, तस्मात्कृतकपक्ष एव श्रेयानिति ।
शब्दाभिव्यक्तिपक्षानुपपत्तिपरिहरणम्
अत्रोच्यते, करणसंस्कारपक्ष एव तावदस्तु, तच्च करणं किं चिदेव मरु-
द्भिरुपाहितसंस्कारं कं चिदेव शब्दं गृह्णाति ।
यथा ताल्वादिसंयोगविभागाः के चिदेव नः ।
कस्य चिद्ग्रहणे शक्तं श्रोत्रं कुर्वन्ति संस्कृतम् ॥
यथा च तेषामुत्पत्तौ सामर्थ्यनियमस्तव ।
तथैवैषामभिव्यक्तौ सामर्थ्यनियमो मम ॥
व्यञ्जकानां नियमो न दृष्ट इति चेत् क एवमाह सहस्राक्षः, तथा
हि पृथिव्यामेव वर्त्तमानो गन्धः समानदेशो भवति समानेन्द्रियग्राह्यश्च घ्राणै-
कविषयत्वात् तस्य च नियतस्तत्तद्व्यञ्जकव्यङ्ग्यता दृश्यते एव ।
क चित्पावकसम्पर्कादर्कांशुस्पर्शतः क चित् ।
क चित्सलिलसेकाद्गन्धो ऽभिव्यज्यते भुवः ॥
न च स्तिमितपवनापनोदनमात्रं करणस्य संस्कार इष्यते यः सर्वसाधारणः
स्यात्, किं त्वन्य एव नियतः प्रतिविषयं योग्यतालक्षणः ।
( १ ) श्लोकवार्तिके स्फोटग्रन्थे श्लोक १० । अयमाशयः- 'ते च श्रोत्रग्रहणाः'
इति भाष्ये गकारादीनामेव श्रोत्रत्ववचनात्तदवयवानां तत्समुदायस्य च श्रोत्रत्वं नि-
राकृतं साकल्यवैकल्यग्रहणे हि स्यादवयवसिद्धिः न तु तदस्ति मतिः प्रत्येकं सकलं वि-
कलं वा न गृह्णाति इति ।
१२६ न्यायमञ्जर्याम्
यत्पुनरभ्यधायि नभसि श्रोत्रे ऽभ्युपगम्यमाने सर्वप्राणिनामेकमेव श्रोत्रं
भवेदिति तदप्यसाधु धर्माधर्मयोर्नियामकत्वात्, आकाशस्यापि घटाकाशवद्-
न्यावच्छेदोपपत्तेः धर्माधर्मनिबन्धन एव वधिरेतरविभागः, अपि च भवतामे-
वैष दोषो येषामाकाशमेव श्रोत्रमित्यभ्युपगमनियमः मीमांसकानां तु नावश्यमा-
काशमेव श्रोत्रं कार्यार्थापत्तिकल्पितं तु किमपि करणमात्रं प्रतिपुरुषनियतं
श्रोत्रमिति नातिप्रसङ्गः, तथा च भर्तृमित्रः पवनजनितसंस्कारपक्षो भवतु तथा
ऽपि नातिप्रसङ्गः नियतदेशस्यैव तत्र संस्कारात्, न चास्य भागशः संस्कारो
निरवयत्वात्, तथा ऽपि जातिवदस्य ग्रहणनियमो भविष्यति तथा च भव-
तामेव पक्षे—
यथा सर्वगता जातिः पिण्डदेशैव गृह्यते ।
न च कार्त्स्न्यगृहीता ऽपि पिण्डे ऽन्यत्र न दृश्यते ॥
तथा सर्वगतः शब्दो नादशेषेषु(१) गृह्यते ।
कार्त्स्न्येन च गृहीतो ऽपि पुनरन्यत्र गृह्यते ॥
पिण्डो ऽभिव्यञ्जको जातेः शब्दस्य व्यञ्जको ध्वनिः ।
आश्रितानाश्रितत्वादिविशेषः कोपयुज्यते ॥
सर्वगतत्वनिरवयवत्वाविशेषात् तीव्रमन्दत्वादयश्च ध्वनिधर्मा अपि भव-
न्तः शब्दवृत्तितया ऽवभान्ति, यथा स्थूलत्वकृशत्वादयः पिण्डधर्मा अपि जाति-
वृत्तित्वेन क चिद् गृह्यन्ते अगृहीतशाबलेयादिविशेषस्य कृशा गाव इत्यादिप्र-
तिभासदर्शनात् ।
यद्वा न तीव्रमन्दादेर्वर्णधर्मतया ग्रहः ।
बुद्धिरेव तथोदेति व्यञ्जकाऽनुविधायिनी ॥
तावन्त एव ते वर्णाः प्रचयापचयस्पृशः ।
एवं चाभिभवो ऽप्येषां स्वतो नास्ति परस्परम् ॥
महद्भिरभिभूयन्ते मारुता एव दुर्बलाः ।
तेजोभिरिव दीप्तांशोर्दिवा दीपप्रभादयः ॥
द्वयसंस्कारपक्षो ऽप्येवं समाहितो भवति उभयेषामपि दोषाणामुत्सारणात्,
तस्मात्प्रत्यभिज्ञाप्रत्ययप्रभावसिद्धनित्यत्वस्य शब्दस्याभिव्यक्तिरेव साधीयसी ।
कार्यशब्दपक्षापेक्षयाभिव्यङ्ग्यशब्दपक्षे लाघवप्रदर्शनम्
इदं चालोच्यतामार्याः कार्याभिव्यङ्ग्यपक्षयोः ।
शब्दस्य ग्रहणे गुर्वी लघ्वी वा कुत्र कल्पना ॥
( १ ) नाददेशेष्विति युक्तः पाठः ।
प्रमाणप्रकरणम् १९७
तथा हि भवन्तो वैशेषिकाः सांख्या जैनाः सौगताश्च कार्यशब्दवादिनः,
चार्वाकास्तु वराकाः कस्यैवं विधासु गोष्ठीषु स्मृतिपथमुपयान्ति,
तत्रभवतां वैशेषिकाणां शब्दस्य श्रवणे तावदेषा तुल्यैव कल्पना, संयोगा-
द्विभागाद्वा शब्दउपजायते जातश्चासौ तिर्यगूर्ध्वमधश्च सर्वतोदिक्कानि कदम्बगो-
ळकाकारेण सजातीयनिकटदेशानि शब्दान्तराण्यारभते तान्यपि तथेत्येवं वी-
चीसन्तानवृत्त्यारम्भप्रबन्धप्राप्तो ऽन्त्यः श्रोत्राकाशजन्मा शब्दस्तत्समवेतस्तेनैव
गृह्यते इति तदियं तावदतिघर्घरा कल्पना ।
शब्दः शब्दान्तरं सूते इति तावदलौकिकम् ।
कार्यकारणभावे हि न दृष्टस्तेषु बुद्धिवत् ॥
जन्यन्ते ऽनन्तरे देशे शब्दैः स्वसदृशाश्च ते ।
तिर्यगूर्ध्वमधश्चेति केयं वा श्रद्दधानता ॥
शब्दान्तराणि कुर्वन्तः कथं च विरमन्ति ते ।
न हि वेगक्षयस्तेषां मरुतामिव कल्पते ॥
कुड्यादिव्यवधाने च शब्दस्यावरणं कथम् ।
व्योम्नः सर्वगतत्वाद्वि कुड्यमध्ये व्यवस्थितिः ॥
अथावरणात्मककुड्यादिद्रव्यसंयोगरहितमाकाशं शब्दजन्मनि समवायि-
कारणमिष्यते तदत्र प्रमाणं विशेषे वक्तव्यम् ।
तुल्यारम्भे च मन्देन तीव्रस्य जननं कथम् ।
श्रूयते चान्तिकात्तीव्रःशब्दो मन्दस्तु दूरतः ॥
वीचीसन्तानतुल्यत्वमपि शब्दे सुदुर्वचम् ।
मूर्तिमत्त्वक्रियायोगवेगविरहितात्मसु ॥
यदप्युच्यते सजातीयजनकः शब्दः गुणत्वादूपादिवदिति तदिदमसिद्धम-
सिद्धेन साध्यं गुणत्वस्यासिद्धत्वात् ।
न शब्दः पारतन्त्र्येण कदा चिदुपलभ्यते ।
द्रव्यस्थ इव रूपादेरतो ऽस्य गुणता कुतः ॥
अपि च-न शब्दान्तरारम्भकः शब्दो गुणत्वाद् रूपवत् , शब्दः शब्दं
नारभते शब्दत्वाच्छ्रोत्रशब्दवत् , न संयोगविभागौ शब्दस्य जनको संयोग
विभागत्वादन्यसंयोगविभागवद् इत्यादयः प्रतिहेतवो ऽप्यत्र सुलभा इति
यत् किं चिदेतत् ।
कापिलास्तु ब्रुवते श्रोत्रवृत्तिः शब्ददेशं गच्छति सा शब्देन विक्रियते इति
तत्र श्रोत्रस्य व्यापित्वान्नकटदेशेनेव शब्देन तद्वृत्तिर्विक्रियते न दूरदेशेने-
त्यत्र को नियमः, नियमाभावाच्च कान्यकुब्जप्रयुक्तो गोशब्दो गोरमूलके ऽपि