सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 202, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 202

१८० | न्यायमञ्जर्याम्


यदपि व्यभिचारोद्भावनमकृष्टजातैः स्थावरादिभिरकारि तदपि न चारु,
तेषां पक्षीकृतत्वात् पक्षेण च व्यभिचारचोदनायां सर्वानुमानोच्छेदप्रसङ्गः ।
ननु च पृथिव्यादेरुत्पत्तिकालस्य परोक्षत्वात्कर्त्ता न दृश्यते इति तदनुप-
लब्ध्या तदसत्त्वनिश्चयानुपपत्तेः कामं संशयो ऽस्तु, वनस्पतिप्रभृतीनां तु प्रस-
वकालमद्यत्वे न वयमेव पश्यामः, न च यत्नतो ऽप्यन्वेषमाणाः कर्त्तारमेषामुप-
लभामहे, तस्मादसौ दृश्यानुपलब्धेर्नास्त्येवेत्यवगच्छामः, अपि च येन येन वयं
व्यभिचारमुद्भावयिष्यामः तं तं चेत्पक्षीकरिष्यति भवान्सुतरामनुमानच्छेदः
सव्यभिचाराणामप्येवमनुमानत्वानपायात् ,
उच्यते, स्थावराणामुत्पत्तिप्रत्यक्षत्वे ऽपि कर्त्तुरदृश्यत्वमेवाशरीरत्वनिश्च-
यात् , अशरीरस्य तर्हि तदुत्पत्तावव्याप्रियमाणत्वात्कर्तृत्वमपि कथमिति चेद्
एतदग्रतो निर्णेष्यते, अदृश्यस्य च कर्तुरनुपलब्धितो नास्तित्वनिश्चयानुपपत्तेः
नाकृष्टजातवनस्पतीनामकर्तृकत्वमिति विपक्षता ।
यत्तूक्तं परिदृश्यमानक्षितिसलिलादिकारणकार्यत्वात्स्थावराणां किमदृश्य-
मानकर्तृकल्पनयेति चेत् तदपेशलम् , परलोकवादिभिरदृश्यमानानां कर्मणाम-
पि कारणत्वाभ्युपगमात् , बार्हस्पत्यानां तु तत्समर्थनमेव समाधिः,
अथ जगद्वैचित्र्यं कर्मव्यतिरेकेण न घटते इति कर्मणामदृश्यमानानामपि
कारणत्वं कल्प्यते तत्र यद्येवमचेतनेभ्यः कारकेभ्यश्चेतनानधिष्ठितेभ्यः कार्योत्पा-
द्यानुपपत्तेः कर्त्ता ऽपि चेतनस्तेषामधिष्ठाता कल्प्यताम् , तस्मात्स्थावराणामक-
र्तृकत्वाभावान्न विपक्षता इति न तैर्व्यभिचारः ।
यदप्युक्तम् , येन येन व्यभिचार उद्भाव्यते स चेत्पक्षेन्तर्भावयिष्यते क इ-
दानीमनुमानस्य नियम इत्येतदपि न साधु, यदि हि भवान्निश्चिते विपक्षे वृत्ति-
मुपदर्शयेत्तस्तं पक्षेऽन्तर्भावयेत् , न हि विप्रत्वे पुंस्त्वस्य नित्यतायां वा प्रमेय-
त्वस्य व्यभिचारे चोद्यमाने वेधसा ऽपि विपक्षः पक्षीकर्तुं शक्यः, वादीच्छया
वस्तुव्यवस्थाया अभावात् , इह तु स्थावरादौ कर्त्रभावनिश्चयो नास्तीत्युक्तम् ।
ननु स्थावरेषु पक्षीकृतेष्वपि व्यभिचारो न निवर्त्तते एव न हि सपक्षविप-
क्षाव्यतिरेकेण तात्विकः पक्षो नाम कश्चिदस्ति वस्तुनो द्वैरूप्यानुपपत्तेः, वस्तु-
स्थित्या सकर्तृकाश्चेद्वनस्पतिप्रभृतयः सपक्षा एव ते न चेत्तर्हि विपक्षा एव न
राश्यन्तरं समस्तीति ।
उच्यते, पक्षाभावे सपक्षविपक्षभावोक्तिरेव तावत्किमपेक्ष्य पक्षानुकूलो
हि सपक्ष उच्यते तत्प्रतिकूलश्च विपक्ष इति ।
यद्येवं वक्तव्यं तर्हि को ऽयं पक्षो नामेति--
साध्यधर्मान्वितत्वेन द्वाभ्यामप्यवधारितः ।
सपक्षस्तदभावेन निश्चितस्य विपक्षता ॥