सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 206, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 206

स्यते, यथा सुचेलकेभ्य इव तत्कुशलः कुविन्दः, यथा च कुजालः सकलकल-
शादिकार्यकलापोत्पत्तिसंविधानप्रयोजनाद्यभिज्ञो भवंस्तस्य कार्यचक्रस्य कर्त्ता
तथेयतस्त्रैलोक्यस्य निरवधिप्राणिसुखदुःखसाधनस्य सृष्टिसंहारसंविधानं सप्र-
योजनं बहुशाखं जानन्नेव स्रष्टा भवितुमर्हति महेश्वरस्तस्मात्सर्वज्ञः।
अपि च यथा नियतविषयवृत्तीनां चक्षुरादीन्द्रियाणामधिष्ठाता क्षेत्रज्ञस्त-
दपेक्षया सर्वज्ञः एवं सकलक्षेत्रज्ञकर्मविनियोगेषु प्रभवन्नीश्वरस्तदपेक्षया सर्वज्ञः,
तथा चाह व्यासः (१)—
द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च।
क्षरः सर्वाणि भूतानि कूटस्थो ऽक्षर उच्यते॥
उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः।
यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः॥
मन्त्रश्च तदर्थानुवादी पठ्यते(२)।
द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते।
तयोरेकः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति॥ इति।
अतश्च सर्वज्ञ ईश्वरः।
पुंसामसर्ववित्त्वं हि रागादिमलवन्धनम्।
न च रागादिभिः स्पृष्टो भगवानिति सर्ववित्॥
इष्टानिष्टार्थसंभोगप्रभवाः खलु देहिनाम्।
रागादयः कथं ते स्युर्नित्यानन्दात्मके शिवे॥
मिथ्याज्ञानमूलाश्च रागादयो दोषास्ते कथं नित्यनिर्मलज्ञानवतीश्वरे भवेयुः।
ईश्वरज्ञानादेर्नित्यत्वम्।
नित्यं तज्ज्ञानं कथमिति चेत् तस्मिन् क्षणमप्यज्ञातरि सति तदिच्छाप्रेर्य-
माणकर्माधीननानाप्रकारव्यवहारविरामप्रसङ्गात्, प्रलयवेलायां तर्हि कुतस्तन्नि-
त्यत्वकल्पना इति चेन्मैवम् आप्रलयातत्सिद्धे नित्यत्वे तदा विनाशकारणाभावाद्-
स्यात्मन इव तज्ज्ञानस्य नित्यत्वं सेत्स्यति, पुनश्च सर्गकाले तदुत्पत्तिकारणाभा-
वादपि नित्यत्वं तज्ज्ञानानाम्, एवं च तदतीतानागतसूक्ष्मव्यवहितादिसमस्त-
वस्तुविषयं न भिन्नं क्रमयोगपद्यविकल्पानुपपत्तेः, क्रमाश्रयणे क चिदज्ञातृत्वं
स्यादिति व्यवहारलोपः, यौगपद्येन सर्वज्ञातृत्वे कुतस्तस्यो ज्ञानभेदः, प्रत्यक्षसाध-
र्म्याच्च तज्ज्ञानं प्रत्यक्षमुच्यते न पुनरिन्द्रियार्थसन्निकर्षात्पन्नत्वमस्यास्ति अजन-
कानामेवार्थानं सवितृप्रकाशेनेव ग्रहणात्, ज्ञानवदन्ये ऽप्यात्मगुणा ये ऽस्य
( १ ) भगवद्गीतायाम् । अ. १५ श्लो. १६ ।
( २ ) मुण्डकोपनिषदि मु०३ मन्त्र १ ।