सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 218, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 218

१२६ न्यायमञ्जर्याम्
यत्पुनरभ्यधायि नभसि श्रोत्रे ऽभ्युपगम्यमाने सर्वप्राणिनामेकमेव श्रोत्रं
भवेदिति तदप्यसाधु धर्माधर्मयोर्नियामकत्वात्, आकाशस्यापि घटाकाशवद्-
न्यावच्छेदोपपत्तेः धर्माधर्मनिबन्धन एव वधिरेतरविभागः, अपि च भवतामे-
वैष दोषो येषामाकाशमेव श्रोत्रमित्यभ्युपगमनियमः मीमांसकानां तु नावश्यमा-
काशमेव श्रोत्रं कार्यार्थापत्तिकल्पितं तु किमपि करणमात्रं प्रतिपुरुषनियतं
श्रोत्रमिति नातिप्रसङ्गः, तथा च भर्तृमित्रः पवनजनितसंस्कारपक्षो भवतु तथा
ऽपि नातिप्रसङ्गः नियतदेशस्यैव तत्र संस्कारात्, न चास्य भागशः संस्कारो
निरवयत्वात्, तथा ऽपि जातिवदस्य ग्रहणनियमो भविष्यति तथा च भव-
तामेव पक्षे—
यथा सर्वगता जातिः पिण्डदेशैव गृह्यते ।
न च कार्त्स्न्यगृहीता ऽपि पिण्डे ऽन्यत्र न दृश्यते ॥
तथा सर्वगतः शब्दो नादशेषेषु(१) गृह्यते ।
कार्त्स्न्येन च गृहीतो ऽपि पुनरन्यत्र गृह्यते ॥
पिण्डो ऽभिव्यञ्जको जातेः शब्दस्य व्यञ्जको ध्वनिः ।
आश्रितानाश्रितत्वादिविशेषः कोपयुज्यते ॥
सर्वगतत्वनिरवयवत्वाविशेषात् तीव्रमन्दत्वादयश्च ध्वनिधर्मा अपि भव-
न्तः शब्दवृत्तितया ऽवभान्ति, यथा स्थूलत्वकृशत्वादयः पिण्डधर्मा अपि जाति-
वृत्तित्वेन क चिद् गृह्यन्ते अगृहीतशाबलेयादिविशेषस्य कृशा गाव इत्यादिप्र-
तिभासदर्शनात् ।
यद्वा न तीव्रमन्दादेर्वर्णधर्मतया ग्रहः ।
बुद्धिरेव तथोदेति व्यञ्जकाऽनुविधायिनी ॥
तावन्त एव ते वर्णाः प्रचयापचयस्पृशः ।
एवं चाभिभवो ऽप्येषां स्वतो नास्ति परस्परम् ॥
महद्भिरभिभूयन्ते मारुता एव दुर्बलाः ।
तेजोभिरिव दीप्तांशोर्दिवा दीपप्रभादयः ॥
द्वयसंस्कारपक्षो ऽप्येवं समाहितो भवति उभयेषामपि दोषाणामुत्सारणात्,
तस्मात्प्रत्यभिज्ञाप्रत्ययप्रभावसिद्धनित्यत्वस्य शब्दस्याभिव्यक्तिरेव साधीयसी ।
कार्यशब्दपक्षापेक्षयाभिव्यङ्ग्यशब्दपक्षे लाघवप्रदर्शनम्
इदं चालोच्यतामार्याः कार्याभिव्यङ्ग्यपक्षयोः ।
शब्दस्य ग्रहणे गुर्वी लघ्वी वा कुत्र कल्पना ॥
( १ ) नाददेशेष्विति युक्तः पाठः ।