सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

क्षणभङ्गनिरासः । ३७

एवमनन्तरनिगदितदूषणनिकुरुम्ब(१)विनिहतप्रसरम् ।
नाध्यक्षं क्षणिकत्वे न चानुमानप्रमाणं तत् ॥
क्षणभङ्गे निरस्ते च कार्यमाधारवद् ध्रुवम् ।
अतो ज्ञानादिकार्येण युक्तमाश्रयकल्पनम् ॥
सुखादेरपि कार्यस्य विज्ञानाद्व्यतिरिक्तता ।
प्रागुक्तेति तद्प्यन्यद्भवत्यस्यानुमापकम् ॥
किं च नाङ्गीकरोषि त्वमात्मानं पारलौकिकम् ।
उपैषि परलोकं च किमिदं ते बकव्रतम् ॥
कर्म सन्तानिनाऽन्येन यत्कृतं चैत्यवन्दनम् ।
ततोऽद्य फलमन्येन भुज्यतेऽकृतकर्मणा ॥
न वा निर्वृतिरप्येति चैत्यवन्दनकर्मणा ।
ज्ञानक्षणेन नैकेन किञ्चित्कर्म समाप्यते ॥
कार्यकारणभावश्च यस्त्वदुक्तः स दूषितः ॥
कार्यकारणभावे हि न हन्तृत्वं निवर्तते ।
अनैकान्तिकता चास्य सन्तानान्तरबुद्धिभिः ।
उपादानत्वरूपोऽपि विशेषः प्राङ् निराकृतः ॥
कार्पासरागसंक्रान्तिदृष्टान्तो यश्च वर्णितः ।
सोऽप्ययुक्तः स्वरूपेण तत्र तस्यैव दर्शनात् ॥
य एव रागः कापासे बीजे समुपकल्पितः ।
स एव दृश्यते पुष्पे न तु तस्मात्फलान्तरम् ॥
एवं कर्मानुवृत्तिः स्यात्फलभोगस्तु दुर्घटः ।
कर्मानुवृत्तिरप्येषा न चैकस्यास्ति कस्य चित् ॥
कार्यकारणयोर्भेदात्कार्पासकुसुमादिवत् ।
अन्यत्रैव हि कर्म स्यादन्यत्रैव च तत्फलम् ॥
न च सन्तानभोगाय कश्चित्कर्मानुतिष्ठति ।
फलमस्मन्ममैव स्यादिति सर्वः प्रवर्तते ॥
सर्वथा शाक्यभिक्षूणां परलोको विसंष्ठुलः ।
न तत्प्रसाधने तेषां का चिद्गमनिका ऽस्ति वा ॥
गर्भादौ प्रथमं ज्ञानं विज्ञानान्तरपूर्वकम् ।
ज्ञानत्वादित्ययं हेतुर्प्रयोजक इष्यते ॥
मूर्छाद्यनन्तरोद्भूतज्ञानैश्च व्यभिचार्ययम् ।
मूर्छितस्यापि विज्ञानमस्तीत्येतत्तु कौतुकम् ॥


( १ ) दूषणनिकुरुम्बः-दूषणसमूहः ।

[३८]
न्यायमञ्जर्याम्

न ह्यर्थावगतेरन्यद्रूपं ज्ञानस्य किं चन ।
मूर्च्छादिषु कुतस्तस्याःकुतो वा कललादिषु ॥
कललादिदशायां वा यदि विज्ञानमिष्यते ।
मातापितृस्थयोरस्ति शुक्रशोणितयोरपि ॥
ततश्चैकत्र संताने चैतन्यद्वयमापतेत् ।
चेतनानां बहुत्वं वा दम्पत्योर्बहुपुत्रयोः ॥
न चैष नियमो लोके सदृशात्सदृशोद्भवः ।
वृश्चिकादेः समुत्पादो गोमयादपि दृश्यते ॥
शरीरान्तरसंचारचातुर्यं च धियां कथम् ।
ज्वालादिवन्न मूर्तत्वं न च व्यापकताऽऽत्मवत् ॥
आतिवाहिकदेहेन नीयन्ते चेद्भवान्तरम् ।
नन्वातिवाहिकेऽप्यासां कथं संचारसंभवः ॥
आस्तामिवैष वा जीवद्देहेऽपि पथि गच्छताम् ।
प्रदेशान्तरसंचारो ज्ञानानां भवतः कथम् ॥
न ह्ये

चार्वाकमतखण्डनम् ॥ ३९
न हि नरकनिमग्नो मन्यते कश्चिदेवम् ।
किल यदहमकार्षं प्राग्भवे कर्म पापं
फलमुपनतमस्माद् भुज्यते तन्मयेति ॥
कार्योपभोगसमये किमनेन कृत्यं नास्य प्रवृत्तिरधुना न निवृत्तिरस्मात् ।
यस्तु प्रवृत्तिजननौपयिकोऽवमर्शः शास्त्रादसौ भवति शास्त्रविदामवश्यम् ॥
विमर्शोऽयं पश्चादपि भवति दृष्टे तु विषये
मया यूना यत्तत्किमपि सदसद्वा कृतमभूत् ।
ततो वृद्धोऽद्याहं फलमनुभवामीति तदयं
पुमानस्ति स्थायी सुकृतफलभोगादिनिपुणः ॥
नास्त्यात्मा फलभोगमात्रमथ च स्वर्गाय चैत्यार्चनं
संस्काराः क्षणिका युगस्थितिभृतश्चैते विहाराः कृताः ।
सर्वं शून्यमिदं वसूनि गुरवे देहीति चादिश्यते
बौद्धानां चरितं किमन्यदियती दम्भस्य भूमिः परा ॥
चार्वाकमतेन पूर्वपक्षः ।
अत्र सुशिक्षिताश्चार्वाका आहुः--यावच्छरीरमवस्थितमेकं प्रमातृतत्त्वम-
नुसंधानादिव्यवहारसमर्थमस्तु नाम कस्तत्र कलहायते शरीरादूर्ध्वं तु तदस्तीति
किमत्र प्रमाणम् , न च पूर्वशरीरमपहाय शरीरान्तरं संक्रामति प्रमाता, यदि
ह्येवं भवेत्तदिह शरीरे शैशवदशानुभूतपदार्थस्मरणवदतीतजन्मानुभूतपदार्थ-
स्मरणमपि तस्य भवेन्न हि तस्य नित्यत्वाविशेषे च शरीरभेदाविशेषे च स्मर-
णविशेषे कारणमुत्पश्यामो यदिह जन्मन्येवानुभूतं स्मरति नान्यजन्मानुभूत-
मिति, तस्मादूर्ध्वं देहान्नास्त्येव प्रमातेति नित्यात्मवादमूलपरलोककथाकुरुक्कु-
चीमपास्य यथासुखमास्यताम् , यथाऽऽह—
यावज्जीवं सुखं जीवेन्नास्ति मृत्योरगोचरः ।
भस्मीभूतस्य शान्तस्य पुनरागमनं कुत इति ॥
चार्वाकमतनिगमः ।
अत्रोच्यते—न खलु निपुणमिव सुशिक्षितमायुष्मता चार्वाकाचार्यचातु-
र्यम् , यावच्छरीरमेकमनुयायि प्रमातृतत्त्वमस्तीति यदुक्तवानसि तन्न विस्मर्तु-
मर्हसि, न चास्तित्वाविनाभावी भावानां विनाशः स्वाभाविकः किन्तु हेत्वन्त-
रनिमित्तक इति सौगतैः सह कलहमतिमात्रमधुनैव कृत्वा समर्थितोऽयमर्थः,
न च विनाशहेतुः प्रमातरि चिरमपि विचार्यमाणः कश्चित्कुतश्चिदवाप्यते, न
चानुपलभ्यमानोऽप्यसौ कल्पयितुं पार्यते, न ह्यात्मा पटादिरिव सावयव उप-
लभ्यते यदवयवविभागादिना नङ्क्ष्यतीति गम्यते, उत्पत्तिर्नात्मनो दृष्टा यत-

स्तदविनाभाविनो निरवयवस्यापि कर्मादेरिव विनाशः प्रतीयेत, न चैष कस्य-
चिदात्मा गुणो येनाश्रयविनाशाद्वा विरोधिगुणान्तरप्रादुर्भावाद्वा प्रध्वंसमासा-
दयेत्, न चैवं शक्यते वक्तुं किं विनाशहेत्वनुमानेन प्रत्यक्ष एवास्य विनाशो
दृश्यत इति, यतो न शरीरवदसौ दह्यमानः शकुनिभिरवलुप्यमानो वा कदा-
चिदुपलब्ध इति, तस्माद्विनाशादर्शनाद्विनाशहेत्वनुमानासंभवाच्च अस्ति चेदात्मा
नित्य एवेत्यवधार्यताम्, तस्माद् भूतचैतन्यमेव चिरंतरचार्वाकाचार्यवत्परलोका-
पलापपरितोषालम्बितयत्किञ्चनकारित्वसुलभसुखासिकासक्तहृदयैर्वरमाश्रितम् । आ-
शरीरमवस्थिते तु प्रमातृतत्त्वे सति न फलन्त्येते परलोकापलापमनोरथाः, भू-
तचैतन्यपक्षोऽपि च पुरा पराकृत एव तस्मादस्ति नित्यः परलोके प्रमातेति,
नित्यत्वे सति पूर्वदेहसंबन्धो भविष्यद्देहान्तरसंबन्धश्चास्य न दुरुपपादः, शरी-
रान्तरसंचारस्तस्य नास्तीति यदुक्तं तद्युक्तमेव व्यापिनः सर्वत्र विद्यमानस्या-
त्मनः कः संचारार्थः, व्यापित्व एव किं प्रमाणमिति चेत्सर्वत्र कार्योपलम्भः
प्रमाणम्, यतो वाराणसीमपि गतस्य मे भवत्येव स्मरणेच्छाऽऽदिकार्ययोगः स
चात्मैकप्रभवः आत्मनश्च शरीरस्येव न तत्र गमनममूर्तत्वान्न शरीरगुणवत्त-
दनाश्रितत्वान्न प्राणादिवदन्तःशरीरवर्त्तित्वाभावात्, अन्तःशरीरवृत्तित्वे हि
द्वयी गतिरेकदेशवृत्तित्वं सर्वशरीरमापूर्य वा तत्र सर्वशरीरापूरकत्वे शरीरप-
रिमाणानुविधयत्वाद् बालशरीरयुवस्थविरशरीरवत्पूर्वनीत्या परिमाणान्यत्वेन
तदन्यत्वात्पुनरपि प्रतिसन्धानादिकार्यवैधुर्यप्रसङ्गः, करिमशकशरीरयोगे च
कर्मपरिणामोपनते तस्य संकोचविकासौ प्राप्नुतः तौ च नित्यस्य विरुध्येते,
एकदेशवृत्तित्वे तु तदनधिष्ठितानामवयवानामात्मकत्वान्मृतशरीरावयववदय-
थेष्टविनियोज्यता कुण्ठीभावः स्यात्, प्रदीपवदेतद्देहवृत्तेरप्यात्मनः सकलशरीरा-
धिष्ठातृत्वमिति चेत्, वर्त्तिप्रदेशोपचिततेजःपिण्डवदेकत्र शरीरावयवे सविशे-
षचैतन्यसंवित्तिः स्यात्, अस्त्येव हृदयदेशे तदतिशय इति चेन्न, अनुपलब्भात्,
दहनहिमकृपाणादिस्पर्शं हि न हृदयस्य प्रदेशान्तरस्य, वा शरीरवेदनाविशेषं
पश्यामः, तस्मान्न हृत्पुण्डरीके यावदवस्थानमात्मनः अत एव 'ङ्गुष्ठमात्रं पुरुषं
निश्चकर्ष बलाद्यम' इति व्यासवचनमनेवंपरमवगन्तव्यम्, यदि तु मनोवदे-
कदेशवृत्तेरणुपरिमाणस्याशु संचरतः शरीराधिष्ठातृत्वमात्मनः कथ्यते, तथाऽपि
सहसैव चिरप्रोषितगतागतदयितजनदर्शनोद्गतसकलशरीरव्यापिस्वेदरोमाञ्चा-
दिदर्शनं विरुध्यते, न च द्वयोरण्वोरात्ममनसोः कर्तृकरणव्यवस्थाऽपि निर्व-
हतीति, तस्मान्नाणुरात्मा न च शरीरपरिमाण इति व्यापक एवावशिष्यते,
तदेवं वाराणस्यामप्ययमात्मा विद्यत एवेति तत्र तत्र तत्कार्यदर्शनमवकल्पते
नान्येन गमनादिप्रकारेणेति ।
ननु सर्वत्र सुखदुःखज्ञानादिकार्यदर्शनात्सर्वप्राणिनामेक एवात्मा भवेत्,

आत्मनित्यत्वसाधनम् । ४१
न सुखदुःखव्यवस्थादर्शनाद् बन्धमुक्तविभागोपपत्तेश्चात्मभेदस्य दर्शयिष्य-
माणत्वात्, व्यापिनः कथं कर्तृत्वमिति चेत्, ज्ञानचिकीर्षाप्रयत्नसमवाय-
एवास्य कर्तृत्वं न व्यापारयोग इति निर्णीतमेतत् ।
ननु व्यापिन्यात्मनि कथं शरीरबहिरणवपि(१) कार्यं न दृश्यते कर्माक्षिप्तशरी-
रेन्द्रियादिसहकारिसन्निधाननिबन्धो हि तत्कार्योत्पादः स कथं बहिर्भवेद् इति।
तस्मादनन्तरोक्तेन प्रक्रमेणोपपाद्यते ।
नित्यत्वाद्द्ब्यापकत्वाच्च परलोकित्वमात्मनः ॥
सूत्रकारस्तु पारलौकिकत्वसिद्धये हेत्वन्तराणि प्रत्यपादयत्, सद्यो जातस्य
बालस्य वदनविकासरोदनाद्यनुमितो हर्षशोकादियोगस्तावदस्ति, युवशरीरादौ
रोदनादि शोकादिकारणमवगतमिदमाननविकासादि हर्षहेतुकमेवं शिशोरपि
तन्निबन्धनस्तदुत्पादः, तौ च हर्षशोकौ सुखदुःखसाधनाधिगभतदनुस्मरणा-
न्यतरकारणौ भवितुमर्हतस्तथा दृष्टत्वात्, इह चास्य न सुखदुःखसाधनपदा-
र्थानुभवः तदानीमस्तीति तदनुस्मरणमेव हर्षशोकहेतुर्भवेन, स्मरणमपि तदनु-
भवप्रभवमनुभवश्चेह जन्मनि सद्यो जातस्य न समस्तीति(२) जन्मान्तरानुभ-
वसुखदुःखसाधनानुस्मरणनिमित्त एवास्य हर्षशोकसमुत्पाद इति जन्मान्तरा-
नुगमाश्रित्य आत्मा,
नन्वभिनवजीवलोकावलोकाह्लादनिबन्धन एवास्य मुखविकासस्तथा यो-
निद्वारनिर्गमनोद्गतनिर्गलक्लेशपीडितस्य तस्य रोदनमिति न जन्मान्तरानुभूत-
स्मरणं कल्पयितुं युक्तमतिप्रसङ्गात्,
मैवं, सुखदुःखहेतुमीदृशमननुभवतोऽप्यकस्मादेव हर्षशोकदर्शनात् ।
ननु कमलमुकुलविकासादिवत्स्वाभाविकमेव शिशोर्मुखविकाशादिकार्यं
स्यात्, स्वाभाविकं नाम किमुच्यते किमहेतुकमविज्ञातहेतुकमनियतहेतुकं वा ?
न तावदहेतुकं कार्यं सम्भवति कार्यत्वहानिप्रसङ्गात्, नाप्यविज्ञातहेतुकं तद्भा-
वयितुं युक्तं कार्यमुपलभ्यत इति तद्धेतुपरिज्ञाने यततां भवान् किमुदास्ते न चासौ .
ज्ञातुमशक्यः कार्यस्यैव तत्र ज्ञापकत्वात्, नाप्यनियतहेतुकं कार्यं किंचिदस्ति
कार्योत्पादननियमेनैव हेतुनियमसिद्धेरत एव तत्कार्यमुपपादयितुकामास्तन्निय-
तमेव कारणमुपाददते लौकिकाः,
यत्राप्यनियतो हेतुर्वृश्चिके गोमयादिकः ।
अभियुक्तस्तत्रापि विशेषं न न मन्वते ॥
तदेवं कारणनियमोऽपि कार्यविशेषदर्शनाद् दुरुपह्नव इति मुखविकासस्य
हर्ष एव कारणमवगम्यते सहस्रकृत्वस्तथा दर्शनान्, अचेतनानां तु तामरसादी-
(१) अण्वपि-किञ्चिदपीत्यर्थः । (२) समस्ति-सम्भवतीत्यर्थः

४२ न्यायमञ्जर्याम्
नां(१) विकासकारणं तरणिकिरणनिकरपरिष्वङ्गाद्युपलब्धम् इति तदपि न
स्वाभाविकम् ,
तस्मान्मुखविकासस्य हर्षो हर्षस्य च स्मृतिः ।
स्मृतेरनुभवो हेतुः स च जन्मान्तरे शिशोः ॥
ननु शिशोर्जन्मान्तरानुभूतस्मरणे सर्वदा सर्वस्मरणप्रसङ्गः, न यावत्कार्यं
कारणकल्पनान्न सर्वदा सर्वस्मरणं संवेद्यते न च तत्कल्पनायां कारणमुपलभ्य-
ते न चैकदर्शनात्सर्वं कल्प्यं दृष्टमपि वा निह्नोतव्यमिति परीक्षकाणामुचित-
एव पन्था इत्यसकृदुक्तम् ,
अपि च पयस्तृप्तिहेतुत्वमनुस्मरन्बालकः स्तन्याभिलाषेण मातुः स्तनतटे
दृष्टिं निदधाति न चाद्य तेन तस्य तत्साधनत्वमवगतमिति जन्मान्तरे सम्ब-
न्धग्रहणस्य वृत्तमिति मन्यामहे,
न चायस्कान्तदृष्टान्तसमाश्रयेण स्वाभाविकमेतद्बालकस्य कुचकलशनिमि-
त्तोपसर्पणमिति वक्तुमुचितमनन्तरमेव निरस्तत्वात् ,
ननु च गर्भशय्याशायिनोऽप्यपरितोषदर्शनात्तत्साधनोपादाने तदनुस्मरण-
मेव प्राप्नोति यदि कार्यमवगम्यते तत्रापि तत्कारणं कल्प्यतां को दोषः, तत्र
तु जनयित्रीजठरपतितान्नपानपरिपाकसंक्रान्त्या तत्परिपोषमायुर्वेदविदो वद-
न्तीति कथं तत्र स्मरणादिकल्पना, कल्पनायां वा प्रथमं निषेकानन्तरमेव क-
ललादिशुक्रशोणितविकारसम्भवात्तद्दशास्वपि स्मरणकल्पनाप्रसङ्गः, न ताव-
त्कल्पनायामपि काचिदस्माकं क्षतिः अयं तु स्तन्याभिलाषेण कुचक्षीरकलशा-
वलोकनॊपसर्पणादरो दारकस्य(२) तदनुस्मरणकृत एवेति सर्वथा जन्मान्तरस-
म्बन्धानुमानान्नित्य आत्मेति, अतश्चैवं ‘वीतरागजन्मादर्शनात्’ ( गो०३अ०१
आ०२१सू० ) रागादिवासनाभ्यासेन सुदृढप्ररूढेनानादिप्रबन्धप्रवृत्तेन परिह्ला-
द्यमानाः सरागा एव जन्तवो जायन्ते न खलु लोके कश्चन तादृशो दृश्यते
प्राणी यो जातो वीतरागश्चेति स एष सरागो जायमानः पूर्वोपचितां रागादि-
वासनामनुसरतीति सिद्धो जन्मान्तरसम्बन्धः ।
अदृष्टसाधनम् ।
तथा च केचिज्जायन्ते लोभमात्रपरायणाः ।
द्रव्यसंग्रहणैकाग्रमनसो मूषिकादयः ॥
मनोभवमयाः केचित्सन्ति पारावतादयः ।
कूजत्प्रियतमाचञ्चुचुम्बनासक्तचेतसः ॥
केचित्क्रोधप्रधानाश्च भवन्ति भुजगादयः ।
( १ ) तामरसादीनां-कमलानाम् । ( २ ) दारकस्य-बालकस्य ।

आत्मनित्यत्वोपसंहारः । ४१
ज्वलद्विषानलज्वालाजालपल्लविताननाः ॥
जगतो यच्च वैचित्र्यं सुखदुःखादिभेदतः ।
कृषिसेवादिसाम्येऽपि विलक्षणफलोदयः ॥
अकस्मान्निधिलाभश्च विद्युत्पातश्च कस्य चित् ।
क चित्फलमयत्नेऽपि यत्नेऽप्यफलता क चित् ॥
तदेतद् दुर्घटं दृष्टात्करणाद्व्यभिचारिणः ।
तेनादृष्टमुपेतव्यमस्य किं चन कारणम् ॥
अदृष्टो भूतधर्मस्तु जगद्वैचित्र्यकारणम् ।
यदि कश्चिदुपयेत को दोषः कर्मकल्पने ॥
संज्ञामात्रे विवादश्च तथा सत्यावयोर्भवेत् ।
भूतवद्भूतधर्मस्य न चादृश्यत्वसम्भवः ॥
दृष्टश्च साध्वीसुतयोर्यमयोस्तुल्यजन्मनोः ।
विशेषो वीर्यविज्ञानसौभाग्यारोग्यसम्पदाम् ॥
स्वाभाविकत्वं कार्याणामधुनैव निराकृतम् ।
तस्मात्कर्मभ्य एवैष विचित्र

तस्मात्कल्प्यानि कर्माणि दृष्टकार्योपपत्तये ।
एवं च क्षणभङ्गित्वात्संस्कारद्वारिका स्थितिः ॥
स कर्मजन्यसंस्कारो धर्माधर्मगिरोच्यते ।
नित्यात्मसाधनम् ।
विना च नित्यमात्मानं न धर्माधर्मयोः स्थितिः ॥
नित्यस्तस्माद्भवति पुरुषः स्वप्रणीतानुगच्छ-
द्धर्माधर्मक्रमपरिणतानन्ततापोपभोगः ।
प्रामाण्यं च स्फुटमभिहितं पूर्वमेवागमानां-
तेभ्योऽप्यात्मा जनननिधनातीततत्त्वः प्रसिद्धः ॥
[१] यद्विज्ञानघनादिवेदवचनं तत्पूर्वपक्षे स्थितं-
पौर्वापर्यविमर्शशून्यहृदयैः सोऽर्थो गृहीतस्तदा ।
मैत्रेय्या परिचोदितस्तु भगवान्याज्ञवल्क्योऽब्रवी-
दात्मा नैव विनश्यतीति तदिदं सिद्धान्तसारं वचः ॥
तेनात्मनित्यत्वसमर्थनेन सुस्पष्टसिद्धः परलोकमार्गः ।
य एव देहान्तरसङ्गमोऽस्य तमेव तज्ज्ञाः परलोकमाहुः ॥
इति कवलने मांस्पाकानां परस्वपरिग्रहे
कितवजनतागोष्ठ्यां वेश्यामुखाम्बुजचुम्बने ।
गतमतिरभूद् धूर्तो मत्वा भवान्तरनास्तितां
तदयमधुना तत्संसिद्धेरहो बत दूयते ॥
(२)तस्मान्नित्योऽयमात्मा न च कलुषफलस्तस्य नैसर्गिकॊऽयं
रागद्वेषादियोगोऽपि तु सकलगुणापोढमेवास्य रूपम् ।
( १ ) बृहदारण्यके ( ४-अ ५ ब्रा० ) याज्ञवल्क्यस्य द्वे भार्ये मैत्रेयी कात्या-
यनी च तत्र मैत्रेयी 'येनाहं नामृता स्यां किमहं तेन कुर्यां यदेव भगवान् वेद तदेव मे
विब्रूहि' इति पृष्टवती ततः 'स यथा सैन्धवघनोऽनन्तरोऽबाह्यः कृत्स्नो रसघन एवैवं वा -
ऽरेऽहमात्माऽनन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्ये-
वानु विनश्यति न प्रेत्य संज्ञास्तीत्यरे ब्रवीमीति होवाच याज्ञवल्क्यः' इति एतन्मूलक
एव देहात्मवादपक्षः स च पूर्वपक्षभूतः, सिद्धान्तस्तु सा होवाच मैत्रेय्यत्रैव माभग-
वान्मोहान्तमापीपन्नवा अहमिमं विजानामीति स होवाच न वा अरेऽहं मोहं ब्रवीम्य
विनाशी वा अरेऽयमात्माऽनुच्छित्तिधर्मा' इति । तदेवाह—यद्विज्ञानघनादीति ।
( २ ) तस्मादिति । आत्मा नित्यः तस्य कलुषफलः दुःखादिफलः रागद्वेषा-
दियोगः नैसर्गिकः स्वाभाविकॊ न किन्तु अस्य आत्मनः सकलगुणापोढं सकलगुणर-
हितमेव रूपमस्ति तेन अनादिप्रबन्धेन अनादिसंसारप्रवाहेण उपचितो जायमानः परि-
णमन् यः कर्मपाकः तेनोपचितं दुखं त्यक्त्वा सर्वभयरहितं निःश्रेयसमाप्तुं यतेतेत्यर्थः ।

तेनानादिप्रबन्धोपचितपरिणमत्कर्मपाकोपनीतं
दुःखं संत्यज्य निःश्रेयसमखिलभयातीतमाप्तुं यतेत ॥
इति श्रीजयन्तकृतौ न्यायमञ्जर्य्यां सप्तममाह्निकम् ॥
शरीरनिरूपणम् ।
आत्मानन्तरं विभागसूत्रे शरीरनिर्देशात्तदनुक्रमेण तत्स्वरूपनिरूप-
णार्थमाह—
चेष्टेन्द्रियार्थाश्रयः शरीरम् ॥ (गौ० अ० १ आ० सू० ११)
शरीरस्य यल्लक्षणं येन च रूपेण भाव्यमानस्यापवर्गोपयोगिता तदुभय-
मपि प्रतिपाद्यते, तत्र शरीरत्वमेव तावत्प्रथमं शरीरस्य लक्षणं तेन हि समा-
नासमानजातीयेभ्यस्तद् व्यवच्छिद्यते , तस्मिन्सत्यपि चेष्टेन्द्रियार्थाश्रयत्वं य-
दस्य लक्षणमुच्यते तत्तेन रूपेणात्मनो भोगायतनं शरीरमिति ज्ञापयितुम् ,
चेष्टेन्द्रियार्थाश्रयतया हि शरीरमात्मना भोगायतनं भवति मुमुक्षुणा च सुख-
दुःखोपभोगरहितात्मतत्त्वस्वभावनिःश्रेयसाधिगमविनिहितमनसा तथा भोगा-
धिष्ठानतया शरीरं भावयता तत्परिहरणे यत्नः कार्य इत्याचार्यश्चेष्टेन्द्रियार्था-
श्रयत्वमस्य लक्षणमुक्तवान् ।
ननु चेष्टा क्रिया क्रियाश्रयत्वे च सत्यपि न वृक्षादीनां शरीरत्वमित्यतिव्याप-
कं लक्षणम्, नविशिष्टचेष्टाश्रयत्वस्य (१)विशिष्टप्रमेयलक्षणप्रक्रमतोऽवसीयमान-
त्वात् , हिताहितप्राप्तिपरिहारयोग्यव्यापाराधिकरणं शरीरमुच्यते न चेष्टामात्र-
स्याधिष्ठानम् , रथादिनाऽपि नातिव्याप्तिर्यथोक्तप्रक्रमवशा(२)देवान्येन प्रेरणाया-
मसत्यामिति विशेषलाभात् , आत्मप्रयत्नातिरिक्तप्रेरकनिरपेक्षहिताहितोपादा-
नपरित्यागोपाधिकचेष्टाविशेषाश्रयः शरीरमित्यर्थः, ननु पाषाणान्तर्गतमण्डू-
कादिशरीरेषु तदाश्रयत्वादर्शनादव्याप्तिः, न योग्यतायास्तत्रापि भावात् , स-
त्यामपि क्रियायोग्यतायां सर्वतो निर्विवरनिचितदृषत्कर्परोपरोद्धावकाशतया च-
लितुमसौ न प्रभवति भेको वराकः, तथा च स्फुटिते तस्मिन्नेवाश्मनि तत्तक्षण-
मेवासौ चलन् दृश्यते इति निबिडपाशसंयतशरीरवत्तदानीं चेष्टाया अदर्शने-
ऽपि नाव्‍याप्तिः ।
मुमुक्षुशरीरमेव लक्ष्यतामित्येके—तेन न मण्डूकशरीरादिभिरव्याप्तिरल-
ङ्कणीयास्तेषामिति, तदयुक्तं नियतस्य मुमुक्षूणां शरीरस्याभावात् , तादृशि च
( १ ) विशिष्टचेष्टाश्रयत्वस्य—हिताहितप्राप्तिपरिहारयोग्यव्यापाराधिकरणत्व-
रूपस्य ।
( २ ) यथोक्तप्रक्रमवशात्-प्रकरणवशात् अन्येन प्रेरणायाम सत्यां हिताहितप्राप्ति-
परिहारयोग्यव्यापाराधिकरणत्वं शरीरलक्षणं पर्यवसन्नमित्यर्थः ।

[४६] न्यायमञ्जर्याम्

भेकादिशरीराणि नितरां निर्वेदकारीणि भवन्ति, मुमुक्षुरपि च कर्मविपाकम्-
नेकप्रकारमाकलयन्मण्डूकीभावमात्मनोऽपि न शङ्कते प्रत्यासन्नापवर्गपुरप्रवेशं-
विपश्चित्तममपश्चिमजन्मानं मुमुक्षुं प्रति लक्षणाद्युपदेश एव कोपयुज्यते इत्यतः
पूर्वोक्त एवान्याप्तिपरिहारः श्रेयान् ।
भवत्वेवं चेष्टाश्रयत्वं शरीरलक्षणम् इन्द्रियाश्रयत्वं तु कथम् ? भौतिकानि
हीन्द्रियाणि स्वावयवसमाश्रितानि घ्राणनयनस्पर्शनरसनानि, श्रोत्रमनसी तु
नित्यद्रव्यत्वादनारिते एवेति कथमिन्र्द्रियाश्रयता शरीरस्येति,
उच्यते नात्राधाराधेयभाव आश्रयार्थः किन्तु तदनुग्राह्यत्वात्तदाश्रितानी-
न्द्रियाण्युच्यन्ते, देशकालदशानुकूलपथ्यभोजनाभ्यङ्गव्यायाममर्दनाभ्युपचारो-
पचितशरीरस्य हि पुंसः पटुतराणि स्वविषयपुरन्ध्रिग्रहणे भवन्तीन्द्रियाणि दी-
र्घाध्वलङ्घनकदशनशुष्कजरत्सक्तुसेवनादिक्क्लिष्टशरीरस्य हि पुंसो मन्दशक्तीनि
भवन्तीति तदनुग्राहकत्वादिन्र्द्रियाणामाश्रयः शरीरम् ।
अर्थानां तु रूपरसगन्धादीनां केषां चिदाश्रयः शरीरं भवत्येव तत्समवायिनां
न तु तावता किं चिद्भोगायतनत्वोपयोगि रूपमभिहितं भवति । लक्षणमपि त-
द्वतिव्यापकं रूपरसादिसमवायस्य वृक्षादावपि भावात्तस्मात्तदर्थाश्रयत्वमीदृश-
मत्र विवक्षितं यदेते वरवनितादिशरीरवर्तिनः, (१)प्रविकचमुचुकुन्दकुन्दकन्दल-
कमलादिवाह्यविषयसमवायिनश्च रूपरसादयोऽर्था रमणीयतामादधाना रागद्वे-
षहेतवो भवन्ति भोक्तुरात्मनः शरीरे सति न शरीररहितस्येत्यर्थानां भोगसा-
धनभावादाश्रयः शरीरमतः सुष्ठूक्तं चेष्टेन्द्रियार्थाश्रयः शरीरमिति, तदित्थं भो-
गायतनत्वेन बन्धहेतुत्वाद्धेयमित्यर्थः ।

शरीरपरीक्षा

तदिदानीमस्मदादिशरीरं किं पार्थिवमेव किं वा नानाभूतनिर्मितमिति परी-
क्ष्यते, ननु किमनया परीक्षया प्रयोजनम् ।
निःश्रेयसोपयोगो हि यः शरीरस्य दर्शितः ।
नानैकप्रकृतत्वे हि न स तस्य विशिष्यते ॥
मैवं वोचः—
प्रतिपन्नस्वरूपस्य चिन्त्याकारोपयोगिता ।
कार्यः कार्यार्थिनाऽप्यादौ यत्नस्तद्रूपनिर्णये ॥
तथा चेन्द्रियाणि भौतिकत्वाहङ्कारिकत्वविवेकेन परीक्षिप्यन्ते, अर्था अपि
कति किंगुणा इति, बुद्धिरपि किं प्रधानस्य प्रथमो विकारो महच्छब्दवाच्य-
उतात्मन एव धर्मो ज्ञानाख्यः क्षणिक इत्येवं द्रष्टव्यम् ।


( १ ) प्रविकचमुचुकुन्द—विकसितपुष्पविशेषत्यर्थः ।

शरीरपरीक्षा । ४७

शरीरपरीक्षार्थं विप्रतिपत्तयः ।

तत्र पार्थिवमेवास्मदादिशरीरमिति के चित्, साधारणो हि धरणिधर्मो ग-
न्धस्तस्मिन्नुपलभ्यते इति ।
पृथिव्युदककारणमित्यन्ये, क्लेदस्यापि तस्मिन्दर्शनादसति हि सलिलसं-
सर्गे न पार्थिवाः क्लेदमनुभवन्तीति ।
क्षितिजलज्वलनजनितमित्यपरे, गन्धक्लेदवदूष्मणोऽपि तत्रोपलम्भादिति,
वसुमतीसलिलसितेतररश्मिसमीरणावरचितमिति चान्ये, रचनाविशेषस्य
पवनकार्यस्य तत्रावधारणादिति ।
अवनि(१)वनदहनपवनगगनविनिर्मितमिति चापरे, गन्धादिवदवकाशस्या-
प्याकाशकार्यस्य तत्र दर्शनात्सुषिरं हि शरीरमुपलभ्यते अवकाशे चाकाशैकदे-
शेऽप्यवच्छेदाभिप्रायेण श्रोत्रवद्गत्या तत्कार्यत्वव्यपदेश इति ।

शरीरस्य पार्थिवत्वम् ।

तदत्र किं तत्त्वं पार्थिवमेवास्मदादिशरीरमिति विजातीयकार्यस्यावयवि-
नोपपत्तेः, पार्थिवावयवसमवेतशरीरावयवग्राहिणाश्वाभेदप्रत्ययस्य तृणपर्णपा-
षामूलकाद्यभेदप्रत्ययवदपवादासम्भवात् , न च वयमिह भूतान्तराणां कार-
णभावनिषेधं विद्मः केवलपार्थिवतया निर्विवादसिद्धेऽपि कुम्भादावम्भःप्रभृ-
तीनां कारणत्वानपायात्तद्व्यतिरेकेण घटादेर्घटयितुमशक्यत्वान , किन्तु घट-
इव शरीरेऽपि समवायिकारणतां पृथिव्यवयवानामेवाचक्ष्महे तदाश्रितत्वस्था-
स्य प्रत्यक्षेण ग्रहात्सहकारिकारणत्वानुपविष्टभूतान्तरसम्बन्धनिबन्धनस्ततः सि-
द्धः क्लेदोष्मव्यूहावकाशसम्प्रत्ययस्तत्तथागमपठितेषु वरुणलोकादौ केवलजला-
दिजन्येषु सहकारित्वानुपविष्टपार्थिवावयवावष्टम्भवशेन स्थैर्याद्युपलम्भ इति , त-
स्मादस्मदादिशरीरं पार्थिवम् ।
वेदे च(२) तथैव व्यवहारो दृश्यते अग्नीषोमीयादिपशोः प्रलयकाले यजमा-
नस्य वा प्रेतस्य[३] पात्रचयनकर्मणि ‘सूर्य चक्षुर्गमयतादि’त्याद्युपक्रम्य ‘पृथिवी
ते शरीरमि’ति पठ्यते, तच्च प्रकृतिगामित्ववचनं यद्यतः प्रकृतेरुत्थितं तत्तस्यामे-
वास्य लीयतामित्यर्थः । तत्र यथा तैजसं चक्षुरिति सूर्याख्ये तेजसि उद्गमनमुप-
दिष्टमेवं पृथिव्यां शरीरस्येति तस्मात्पृथिव्यवयवैरयमस्मदादिदेहं निबद्ध इति
नात्र सतां विवादः ।


( १ ) अवनिः पृथ्वो, वनं-जलं, दहनः-अग्निः ।
( २ ) वेदे च-वेदेपीत्यर्थः । ( ३ ) प्रेतस्य-मृतस्य ।

४८ न्यायमञ्जर्याम्
इन्द्रियपरीक्षा ।
घ्राणरसनचक्षुस्त्वक्श्रोत्राणीन्द्रियाणि
भूतेभ्यः ॥ ( गौ० १ अ० १ आ० १२ सू० )
अत्रेन्द्रियाणां विषयोपलब्धिकारणत्वं सामान्यलक्षणं प्रसिद्धमेव विभा-
गोऽपि पञ्चबाह्येन्द्रियाणां त्वेष सूत्रित एव स चानन्तरमेव, तीर्थान्तरकथित-
कर्मेन्द्रियनिषेधात्साधयिष्यते ।
विशेषलक्षणानि तु पञ्चानां पञ्च समाख्यानिर्वचनसामर्थ्यात्प्रमाणवदव-
गन्तव्यानि । जिघ्रत्यनेनेति घ्राणं घ्रेयं गृह्णातीति गन्धोपलब्धावसाधारणं क-
रणं घ्राणं, चक्षुः ईक्षणं लोचनं तदुच्यते, स्पृशत्यनेन स्पर्शनं स्पर्शं गृह्णातीति
स्पर्शोपलब्धावसाधारणं कारणं स्पर्शनं, स्पर्शनमिति वक्तव्ये त्वग्ग्रहणमुपचा-
रान्मञ्चाः क्रोशन्तीति तदधिष्ठानत्वं दर्शयितुम्—यथा त्रिपुटिकाधिष्ठानं घ्राणं
जिह्वाधिष्ठानं रसनं गोलकाधिष्ठानं चक्षुः तथा सकलत्वगधिष्ठानं स्पर्शनं शि-
रःप्रभृत्यापादाङ्गुष्ठं स्पर्शोपलम्भात्, त्वगिति च न बाह्यमेव चर्म केवलमुच्यते
अपि तु सकलशरीरव्यापि तुहिनकणशिशिरसलिलपानसमयेऽन्तर्हृदयेऽपि शी-
तस्पर्शोपलम्भादिति, स्वावयवसमवायित्वे चेन्द्रियाणां त्रिपुटिकाद्याश्रयत्व-
माश्रयमात्रापेक्षयोच्यते न समवायित्वादिति, शृणोत्यनेनेति श्रोत्रं शब्दं गृह्णा-
तीति शब्दोपलब्धावसाधारणं करणं श्रोत्रम्, तच्चाकाशैकदेशत्वादनाश्रितमपि
कर्णशष्कुल्यधिष्ठानमुच्यते,
तदेवं विशेषलक्षणानि पञ्च पञ्चानामुक्तानि, भवन्ति तानीमानीन्द्रि-
याणि स्वविषयग्रहणलक्षणान्यात्मनो भोगसाधनत्वात्संसारकारणानीति हेय-
तया भावयितव्यानि, तथा भाव्यमानानि निर्वेदोत्पादनाद्द्वारेणापवर्गाय
कल्पिष्यन्ते इति ।
भूतेभ्य इति किमर्थम् ? उक्तं हीन्द्रियाणां स्वविषयग्रहणं भूतप्रकृतित्वे
सति निर्वहति नान्यथेति तत्तद्विनिश्चयार्थं यथाप्तोपदेशः शब्द इत्याप्तग्रहणम् ।
विषयोपलब्धिलक्षणत्वं हीन्द्रियाणां भूतप्रकृतित्वे सति निर्वहति नान्यथेति,
तानि पुनरिन्द्रियकारणानि पृथिव्यप्तेजोवायुराकाशमिति भूतानि, भूतेभ्यः प-
ञ्चभ्यो यथासङ्ख्यं घ्राणरसनचक्षुस्त्वक्श्रोत्राणि पञ्चेन्द्रियाणि भवन्ति भूतप्र-
कृतित्वमिति भूतस्वभावत्वं व्याख्यावसानम् (दिवादिभ्यो भूतेभ्यः सम्भवति त-
द्वन्तौ पञ्चस्वपि सम्भवति)(१) भूतकारणकत्वं त्वन्येषु चतुर्ष्वपि तथैव श्रोत्रे
तु कथञ्चित्कर्णशष्कुल्यवच्छिन्ननभोभागाभिप्रायेण व्यवहारतः समर्थनीयम्
( १ ) अयं पाठः कथञ्चिदपि न समन्वेतीति व्यर्थ एवेति बोध्यम् ।

एवं भौतिकानीन्द्रियाणि स्वं स्वं विषयमधिगन्तुमुत्सहन्त इति तल्लक्षणत्वमेषां
सिध्यतीति अतो भूतेभ्य इत्युक्तम् ।
साङ्ख्यमतेनेन्द्रियाणामाहङ्कारिकत्वम् ।
तत्रैतत्परीक्षणीयं वर्तते किं भौतिकानामिन्द्रियाणां स्वविषयग्रहणकरण-
त्वमुतान्यथेति, एवं हि साङ्ख्याः सम्प्रवदन्ते आहङ्कारिकाणीन्द्रियाण्यर्थं
साधयितुमर्हन्ति नान्यथा, तथा हि कारकं कारकत्वादेव प्राप्यकारि भवति
भौतिकानि चेन्द्रियाणि कथं प्राप्यकारीणि दूरवर्तिनि विषये भवेयुः आहङ्का-
रिकाणां तु तेषां व्यापकत्वाद्द्विषयाकारपरिणामात्मिका वृत्तिर्वृत्तिमतो नान्या
सती सम्भवत्येवेति सुवचं प्राप्यकारित्वम्, अपि च महदणुग्रहणमाहङ्कारिकत्वे
तेषां कल्पते न भौतिकत्वे, भौतिकत्वे हि यत्परिमाणं ग्रहणं तत्परिमाणं ग्राह्यं
गृह्णीयादस्ति च गोलकाद

ननु च प्राप्यकारित्वमेव चिन्त्यं वर्तते तद्धि रसनस्पर्शनयोः केवल-
मवलोक्यते लोके चक्षुःश्रोत्रे तु दूरदेशव्यवस्थितविषयग्राहिणी कथं प्राप्य-
कारिणी स्याताम् घ्राणे तु त्रिपुटिकानिकटनिहितपदार्थगन्धमपि गृह्णाति
दूरतोऽपि च प्रचलदनिलबलवेल्लितफुल्लमल्लिकादिसौरभमुपलभते त्रिपुटिकोप-
कण्ठढौकितेनापि द्रव्येण न तस्य सन्निकर्ष इति तदप्यप्राप्यकार्य्येव, तस्माच्छ-
क्तिविशेषमधिष्ठानमेव तत्तदिन्द्रियमिति गृह्यताम् उत्सृज्यतां प्राप्यकारित्व-
पक्षः चक्षुषि च चन्द्रार्कग्रहादिग्राहिणि नितरां प्राप्यकारित्वमित्युक्तमेव ।
अत्रोच्यते न प्राप्यकारित्वमुत्स्रष्टुं शक्नुमः कारकत्वमेव हि तथा स-
त्येषामुत्सृजेम, कारकं चाप्राप्यकारि चेति चित्रम् , अदृष्टमपि कारणमा-
त्मनो व्यापकत्वा

इन्द्रियपरीक्षा । ५१

ख्येति । तेजोद्रव्येण च निरर्गलं(१) विजृम्भमाणेण भूयसा ग्रीष्मो भवति तत्र
सत्यपि तेजोद्रव्ये तद्गुणस्योष्णस्पर्शस्यैव ग्रहणं न भास्वररूपस्येति, भास्वरं-
च कार्तस्वरादौ तैजसद्रव्ये रूपमुपलभ्यते नोष्णस्पर्शः, उदकान्तर्गते च तेज-
सि ज्वलनतप्ते जले ज्वलनगुण उष्णस्पर्शोऽनुभूयते न भास्वरं रूपमिति, एव-
मिह नयनरश्मौ तैजसे द्रव्ये द्वावपि रूपस्पर्शो नोपलभ्येते इति कमुपालभे-
महि, उक्तं च—(२)दृष्टानुमितानां हि नियोगप्रतिषेधानुपपत्तिः प्रमाणस्य
तत्त्वविषयत्वादिति [ गौ० ३-१-५३ ] । न च सर्वत्र नयनरश्मेरनुपलम्भः क-
चिद्धि वृषदंशप्रभृतीनां (३)नक्तञ्चराणां निशि निबिडतमतमःपङ्कपटलावलिप्ते
वेश्मनि सञ्चरतां चाक्षुषं तेजो भास्वरं रूपं दूरमपि प्रसरदुपलभ्यत एव, अ-
न्यत्र तु मध्यन्दिनाल्काप्रकाशवद्ग्रहणमस्मदादिनयनरश्मेः, अयं तु विशेषः
उल्कारूपस्य दिवा दिवाकरकरविभवाभिभूतत्वादग्रहणं नयनरश्मिरूपस्य त्व-
नुद्भूतत्वादेवेति ।
यत्तु काचाभ्रपटलस्फटिकान्तरितपदार्थोपलम्भनं तत्र काचादीनां केषां-
चिदतिस्वच्छत्वात्केषांचिच्च ससुषिरत्वाच्चाक्षुषतेजःप्रसरनिरोधकौशलं नास्तीति
प्राप्यकारित्वं चक्षुषस्तावता भवति ।
यत्तु कुतो नयनरश्मेरियती गतिर्गगनमाक्रम्य यद्गभस्तिमालिनं स्पृशति न
प्रतिहन्यते च सावित्रेण वेगवता तेजसेति, उक्तमत्र दृष्टानुमितानां नियोग-
प्रतिषेधानुपपत्तिरिति, कार्यसत्तया हि तथाविधं कारणं कल्प्यते यद् दूरमपि
प्रसरति प्रसरदपि परेण न च निरुध्यते, दृष्टश्चानिरोधो भर्जनकपालादौ तेजसः
पच्यमानद्रव्यपाकसिद्धेः कलशे च निषिक्तानामपां बहिः शीतस्पर्शग्रहणादनि-
रोधः, एवं नयनरश्मेरपि भविष्यति, न तु गोलकस्यैव शक्तिकल्पना लघ्वीति
वक्तव्यम् , प्राप्यकारित्वव्याघातादिति, अत एव सर्वेन्द्रियाणां प्राप्यकारित्वं
पश्यद्भिः शास्त्रज्ञैरिन्द्रियार्थसन्निकर्षः षट्प्रकारो व्याख्यातः, प्राप्यकारिता च न
गोलकस्योपपद्यते तदप्राप्तस्य पर्वतादेर्ग्रहणात्तत्प्राप्तस्य च प्रत्युताञ्जनशलाका-
देरग्रहणाद्गोलकं चक्षुः,
चिकित्सादिप्रयोगस्तु गोलके यः प्रवर्त्तते ।
सोऽयमाधारसंस्कार आधेयस्योपकारकः ॥
( १ ) निरर्गलं-निष्प्रतिबन्धम् ।
( २ ) दृष्टानुमितानामिति । दृष्टानामनुमितानां वा पदार्थानाम् 'एवं भवत'
इति नियोगः 'एवं मा भवत' इति प्रतिषेधो वा नोपपद्यते तथाभूतविषयकं हि प्रमा-
णमित्यर्थः ।
( ३ ) वृषदंशो-बिडालः ।

अत एव गोलकगुणदोषानुवर्तित्वमपि विषयोपलब्धेर्घटमानमाधारद्वारकौ
हि तदाधेयस्यैव तौ गुणदोषाविति, तस्मादप्राप्तविषयग्रहणानुपपत्तेर्गोलकच-
क्षुःपक्षो भिक्षूत्प्रेक्षितः(१) प्रेक्षावतां हृदयेषु न विश्राम्यतीति प्राप्यकारि तेज
एव चक्षुरिति स्थितम् । इत्थं भौतिकेन्द्रियवादेऽपि प्राप्यकारित्वसिद्धेर्न का-
पिलकथितमाहङ्कारिकत्वमिन्द्रियाणामुपपद्यते ।

इन्द्रियाणामाहङ्कारिकत्वखण्डनम् !

ननु पक्षद्वयेऽपि प्राप्यकारित्वोपपत्तेः कोऽयं भौतिकत्वं प्रत्यभिनिवेशाति-
शयो भवतामिति, उच्यते—एकप्रकृतित्वे हीन्द्रियाणामेकमेव सर्वविषयप्रका-
शनकुशलमिन्द्रियं भवेत्सर्वाणि वा सर्वविषयग्राहीणि भवेयुः कारकस्याविशे-
षात् , कारणनियमाधीनो हि कार्यनियमः अहङ्काराख्यं च कारणं, सकलवि-
षयप्रकाशनशक्तियुक्ते तस्मिन् कथमन्द्रियान्तराणि विषयान्तरग्राहीणि ततो
भवेयुः, भौतिकत्वे तु भूतानां भेदान्नियतगुणोत्कर्षयोगित्वान्नियतविषयग्राहीन्द्रि-
यप्रकृतित्वं तथा च प्रदीपादितेजो रूपरसाद्यनेकविषयसन्निधानेऽपि रूपस्यैव
प्रकाशीभवितुमर्हति एवमन्द्रियान्तरेष्वपि वक्तव्यम् , तदेष विषयनियमः
प्रकृतिनियमकारित इन्द्रियाणामिति भौतिकानीन्द्रियाणि।
यच्चैवं तैजसेन चक्षुषा कथं पार्थिवस्य रूपस्य ग्रहणं पृथिव्या एव वा,
आप्येन च रसनेन पार्थिवस्य रसस्य, वायवीयेन स्पर्शनेन्द्रियेण च पृथिव्या-
दिस्पर्शस्य तदिदं प्रकृतिनियमेऽपि कथं विषयसाङ्कर्यमिति ? नैष दोषो रूपादि-
विषयविषयोऽपि ह्येषां नियमो न तदाश्रयविषयः, तैजसं हि प्रदीपादिद्रव्यं
रूपमेव प्रकाशयद्दृश्यते न तेजोवृत्त्येव रूपम् , आप्यमपि द्रव्यं रसमेव
व्यनक्ति न तु सलिलस्थमेवेति, घ्राणे तु न कश्चिद्दोषः तद्ग्राह्यस्य तस्य
पृथिव्येकवृत्तित्वादिति, द्रव्यस्यापि दर्शनस्पर्शनग्राह्यत्वमविरुद्धमित्थं भौतिक-
त्वेऽपीति, यदुक्तं महदणुग्रहणाच्चाभौतिकानीन्द्रियाणीति, तन्न, दूरप्रसारित्वस्य
दर्शितत्वात् ततश्च विततत्वाद्विततग्राहि भवत्येव, विततत्वेनापि नाहङ्कारिकत्वम्।
यत्पुनरभ्यधायि भौतिकत्वे परगुणवत्स्वगुणस्यापि प्रकाशकमिन्द्रियं स्या-
दिति, तदयुक्तं सगुणस्येन्द्रियस्येन्द्रियभावात् , इन्द्रियेण हि सता तेन विषयः
परिच्छिद्यते सगुणस्य चास्येन्द्रियत्वं स्वगुणरहितं तदिन्द्रियमेव न स्यादनि-

( १ ) भिक्षूत्प्रेक्षितः-बौद्धकल्पितः । तेषामयमाशयः चक्षुर्हि विषयसन्निकर्ष-
रहितमेव ग्राहकम् , यदि प्राप्यप्रकाशकारि स्यात् तदा रसनादिवदधिष्ठानसम्बद्धं गृह्णी-
यात् न चैवं गोलकासम्बद्धग्रहणात्, किञ्च यदि चक्षुः प्राप्य गृह्णीयात्तर्हि स्वतोऽधिक-
परिमाणं न गृह्णीयात्, एवञ्च प्राप्यकारित्वानुरोधेन गोलकातिरिक्तश्चक्षुः परैरङ्गीक्रियते
तदेव नास्तीति गोलकमेव चक्षुरिति ।

न्द्रियं च कथं ग्राहकमत इन्द्रियगुणानाम् अन्तःपतितत्वान्न प्रमेयत्वम्, त-
स्माद्भौतिकानीन्द्रियाणि स्वं स्वं विषयमुपलभन्त इति सिद्धम् ।
प्रयोगस्तु-पार्थिवं घ्राणं द्रव्यत्वे सति रूपादिमध्ये गन्धस्यैव व्यञ्जकत्वा-
द् गन्धयुक्तद्रव्यवत्, तत्र व्यञ्जकत्वमात्रमनैकान्तिकमिति गन्धस्यैव विशे-
ष्यते, सोऽयमसिद्धो हेतुर्भवेद् गन्धत्वस्यापि घ्राणव्यङ्ग्यत्वादिति रूपादिमध्य
इत्युक्तम् , तथाऽपि सन्निकर्षेण व्यभिचार इति तद्व्युदासाय द्रव्यत्वे सतीति
विशेषणम् , एवं रसनादिष्वपि प्रयोगा रचनीयाः, श्रोत्रं त्वाकाशैकदेश इति
शब्दाधिकरणे निर्णीतम् , गन्धादिविषयोपलब्धिनिबन्धनसुखदुःखोपभोगहेतु-
भूतधर्माधर्मोपनिबद्धानां चेन्द्रियाणामिन्द्रियत्वमिति तद्वशाद्यथा यथा नियत-
विषयग्रहणकारणता घटते तथा कल्प्यते इति सर्वमनवद्यम् ।
एकेन्द्रियवादिमतम् ।
आह भवन्तु भौतिकानीन्द्रियाणि पञ्चेति तु न युक्तमुक्तं त्वगेव ह्येकमिन्द्रि-
यं भवितुमर्हति सर्वत्रानपायात् , करतलकपोलकण्ठादिवर्तिनापि त्वगिन्द्रियेण
रूपोपलम्भप्रसङ्ग इति चेद्, नावयवविशेषशक्तिविशेषनियमात् , न हि पाणिना
पादेन वोपस्थकार्यं कर्तुं शक्यते, अस्ति चावयवविशेषस्वभावविशेषवैचित्र्यम् ,
तुषारकर्पूरपूर्णवारिण्युत्तरमानसे ।
यथा च वृषणौ स्नातः स्फुटतं न तथा स्फिचौ ॥
क्लिन्नार्द्रतृणकाष्ठादिधूमेन कटुना यथा ।
मूर्धाऽक्षिवेदनेदेति न तथाऽवयवान्तरे ॥
तस्मादवयवविशेषव्यवस्थितनानाशक्तिखचितं त्वगेवैकमिन्द्रियमिति ।
एकेन्द्रियवादखण्डनम् ।
उच्यते, कुतोऽयमपूर्व एव महाप्राज्ञा वादी सरलमतीनस्मान्वञ्चयितु-
मागतः योऽवयवविशेषं चाश्रयन्नप्येकमिन्द्रियं मन्यते शक्तिभेदादाश्रयभेदाच्च-
नानात्वमेवैतदिन्द्रियाणामित्यलं महात्मभिः सह कलहेन,
मनुष्यैः सह संवादो मादृशानां हि शोभते ।
देवास्तु नररूपेण त इमे भान्ति वादिनः ॥
ननु नानात्वपक्षेऽपि पञ्चत्वनियमः कथम् ।
द्वे श्रोत्रे चक्षुषी द्वे, च कथं ते एकमिन्द्रियम् ॥
आह च-सव्यदृष्टस्येतरेण(१) प्रत्यभिज्ञानाद् [ गौ० ३।१।७] इति, चक्षु-
( १ ) सव्येति । सव्येन चक्षुषा दृष्टस्य इतरेण दक्षिणेन चक्षुषा प्रत्यभिज्ञाना-
त्स्थिरात्मसिद्धिरित्यर्थः । एवञ्च चक्षुषो द्वित्वमिति भावः ।

५४ न्यायमञ्जर्याम्
ष्टुजातेरेकत्वादिति चेत्तर्हीन्द्रियत्वजातेरेकत्वादेकमिन्द्रियं स्यात् , उच्यते चक्षुं-
स्तावत्तेज इति निर्णीतम् , ततश्चैकमेव तदधिष्ठानमेकघ्राणवंशव्यवहि-
तमनेकमिवोपलभ्यते, भिन्नं वा तद्भवतु तेजस्तत्कार्यैक्यादाश्रयभेदेऽप्येकमेव,
श्रोत्रमपि कर्णच्छिद्रद्वयानुस्यूतमेकमेव नभोदेशप्रायं वेदितव्यं कार्यैकत्वस्यापि
भावात् ,
तेनाधिष्ठानभेदेऽपि कार्यैकत्वस्य दर्शनात् ।
तत्सामान्यस्य चैकत्वादेकत्वं श्रोत्रचक्षुषोः ॥
न चेन्द्रियजातेरैक्यादेकमिन्द्रियम् , कार्यस्योपलब्धिलक्षणस्य कारणस्य पृ-
थिव्यादेर्विषयस्य गन्धादेरधिष्ठानस्य त्रिपुटिकादेर्गतेश्च घ्राणत्वादेर्जातिशब्दवा-
च्यस्य योनेर्वा पृथिव्यादेः पञ्चविधत्वात्पञ्चैवेन्द्रियाणि कल्प्यन्ते, यथा पर-
माणुसामान्याविशेषेऽपि पृथिव्यादिचतुर्विधकार्यदर्शनाच्चतुर्विधाः परमाणवः क-
ल्प्यन्त इति ।
वागादीनामिन्द्रियत्वखण्डनम् ।
ननु तथाऽपि न पञ्चेन्द्रियाणि बुद्धीन्द्रियवत्कर्मेन्द्रियाणामपि पञ्चानामुप-
संख्येयत्वात् , तदुक्तं वाक्पाणिपादपायूपस्थाः कर्मेन्द्रियाण्याहुः [ सां० का०
२६]। तेषां च वचनादानविहरणोत्सर्गानन्दात्मकपञ्चविधकार्यसाधनादिन्द्रि-
यत्वं तत्कार्याण्यनितरेतरसाध्यत्वादिति ।
अत्राहुः अत्यल्पमिदमुच्यते पञ्च कर्मेन्द्रियाणीति, अन्यान्यपि खलु न सन्ति
कर्मेन्द्रियाणि ? तथा हि कण्ठोऽन्ननिगरेण स्तनकलशालिङ्गनादिना वक्षो भारव-
हनेन चांसद्वयमिन्द्रियमुच्यते न कथम् ? तत्कार्यस्य शरीरावयवान्तरेऽपि दर्श-
नादिति चेत्किं नु भवानन्नपानं पाणिपादेन निगिरति पायुना वा ? आदानमपि
किमास्यादिना वा न कुर्वते तिर्यञ्चो मनुष्या अपि हि क चित्, असत्स्वपि भ-
वत्कल्पितेषु कर्मेन्द्रियेषु तत्कार्यं यावत्तावदन्यथाऽपि दृश्यते न त्वेवं बुद्धीन्द्रियेषु,
भवत्युत्पाटिताक्षस्य न मनागपि रूपधीः ।
ईषद्विहारादानादि दृष्टं यन्त्राङ्घ्रिपाणिषु ॥
अपि च विहरणमपि न केवलं चरणयुगलकार्यम् अपि तु जानूरुजङ्घादिसहि-
तपादसम्पाद्यमानमपि बाहुसहिताभ्यां पाणिभ्यामपि निर्वर्त्यते न केवलाभ्याम् ,
वागिन्द्रियं तु नाभेरूर्ध्वं सर्वमेव स्यादित्याहुः- 'वायुर्नाभेरूत्थित उरसि विस्तीर्णः
कण्ठे विवर्तितो मूर्धानमाहत्य परावृत्तो वक्त्रे चरन्विविधान् शब्दानभिव्यनक्ति'
इति , अस्ति चेदनुभवो जल्पतां विशेषतस्त्वखण्डगेयं गायतामिति, एवं च
कर्मेन्द्रियमयमेव विश्वमिति न च शरीरमिन्द्रियव्यतिरिक्तं किं चिद्भवेत् । अथ
शरीरावयवेष्वेव भिन्नकार्यकारिषु कर्मेन्द्रियव्यवहारस्तर्हि कण्ठादिभिरतिप्रसङ्ग
इत्युक्तम् , उपस्थेन्द्रियं च कथमेकं गण्यते तेनानन्दवन्मूत्रोत्सर्गस्यापि साध-

ष्टा?
Let's read character by character:
नि (ni)
र्दि (rdi)
ष्टा (ṣṭā)
ना (nā)
म (ma)
व (va)
म (ma)
र्शः (rśaḥ)
Wait, is the first one ष्टा or ष्ट?
It is ष्ट without आ? No, it looks like नि र्दि ष्टा ना म! But wait, is it निर्दिष्टनामवमर्शः or निर्दिष्टानामलवमर्शः?
Look closely: नि र्दि ष्टा ना म व म र्शः - wait, the letter after र्दि is ष्टा! The letter after that is ना! The letter after that is म!
Wait, does it say निर्दिष्टानामलवमर्शः? No, there is no ल. It's म!
Wait, निर्दिष्टानाम् + अवमर्शः = निर्दिष्टानामलवमर्शः? No, म् + अ = म!
Wait! निर्दिष्टानाम् ends in म्.
अवमर्शः begins with अ.
म् + `

५६न्यायमञ्जर्याम्

गन्धत्वादीनां तु घ्राणादिग्राह्यत्वादतिव्याप्तिरिति पृथिव्यादिगुणा इति विशेषणो-
पादानम् , ते चामी गन्धादय इन्द्रियार्था भोग्याः सन्तः सक्तिहेतवः संसारद्रा-
घिमाणमावहन्तीति हेयतया भावयितव्याः ।
नन्वेवं गन्धादिगुणाधिकरणस्यावयविनः प्रथमस्य रागहेतोरसंग्रहः स्यात्,
वक्ष्यति च 'तन्निमित्तं त्ववयव्यभिमान' [गो० अ० ४ आ०२ सू० ३] इति,
संख्यापरिमाणादिगुणान्तराणामपि रागहेतुत्वमस्त्येव, यथा बर्हिकलापानुकारि-
परिमुदितकुसुमदलपटलशबलविलासिनीकेशपाशवृत्ति रूपं हरति हृदयं यूनाम्
तथा तद्गता बहुत्वसंख्याऽपि, उत्तप्तकनकशिलानिभनितम्बबिम्बरूपवत्तत्परिमा-
णमपि हरति च सरभसम् , अवयवसंयोगविभागाद्यपि तथा कन्दुक्रादिकीडासु
किसलयितविसरविलासविसरमधुरपरिक्रमणादि कन्दुकान्तम् , तथान्यज-
जात्यादिपरिहारं स्वानुरूपजातियोगित्वमपीत्यादि सर्वं द्रव्यगुणकर्मादि
सक्तिकारणमुक्तं स्यात् ।
अत्र के चित्पृथिव्यादिगुणा इति द्वन्द्वसमासं व्याचक्षते पृथिव्यादीनि च
गुणाश्चेति, पृथिव्यादिपदेन गुणाधिकरणमवयवि द्रव्यमुक्तमाश्रितत्वविशेषण-
त्वाभ्यां सर्वे गुणा इति, गुणग्रहणेन च संख्यापरिमाणादिवत्कर्मसामान्याद्यपि
सर्वमुक्तमतो नासंग्रह इति ।
तदिदमनुपपन्नं गन्धादिग्रहणस्य हि तदानीमानर्थक्यं गुणाश्चेत्यनेनैव गता-
र्थत्वात् , विशेषख्यापनार्थं तदुपादानमिति चेत्तर्हि किं द्वन्द्वसमासवर्णनेन अय-
मेवास्तु समाधिः ।
यद्यपि द्रव्यकर्मसामान्यानाम् अन्येषां च संख्यापरिमाणादिगुणानामस्त्येव
सक्तिहेतुता, तथापि प्राधान्येन गन्धादीनामेव सा, दृश्यते हि रूपादिनिरपेक्षस्य
द्रव्यस्य संख्यादेः सामान्यस्य वा न सक्तिहेतुत्वं समस्तीति रूपादय एव मुख्यं
रागकारणं तत्र झगिति बुद्धेः प्रसरकरणादुक्तं च—
तथापि नितरां रागवृद्धयै रूपादयो नृणाम् ।
त एव कविभिर्गीताः पञ्चेषोः पञ्च सायकाः ॥
तस्मात्पृथिव्यादीनां गुणा इति षष्ठीसमास एव श्रेयान् , गुणव्यतिरिक्तश्च
गुणी पूर्वमेव समर्थितो यमहमद्राक्षं तं स्पृशामीति प्रत्ययप्रामाण्यात् ।
पृथिव्यादिगुणा इति यदुक्तं तदिदानीं विभज्य वर्ण्यते कस्य कति गुणा
इति, तत्र—
गन्धादयो नियोक्तव्याश्चत्वारः पृथिवीगुणाः ।
अप्तेजोमरुतामेकं पूर्वपूर्वमपोह्य तु ॥
गन्धवर्जं रसरूपस्पर्शा अपां, रसवर्जं रूपस्पर्शौ तेजसः, रूपवर्जं स्पर्शाख्यः
वायोरिति आकाशस्य तु गुणः शब्दः ।