न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 464, कुल 654 में से
संदर्भ में पढ़ेंननु च प्राप्यकारित्वमेव चिन्त्यं वर्तते तद्धि रसनस्पर्शनयोः केवल-
मवलोक्यते लोके चक्षुःश्रोत्रे तु दूरदेशव्यवस्थितविषयग्राहिणी कथं प्राप्य-
कारिणी स्याताम् घ्राणे तु त्रिपुटिकानिकटनिहितपदार्थगन्धमपि गृह्णाति
दूरतोऽपि च प्रचलदनिलबलवेल्लितफुल्लमल्लिकादिसौरभमुपलभते त्रिपुटिकोप-
कण्ठढौकितेनापि द्रव्येण न तस्य सन्निकर्ष इति तदप्यप्राप्यकार्य्येव, तस्माच्छ-
क्तिविशेषमधिष्ठानमेव तत्तदिन्द्रियमिति गृह्यताम् उत्सृज्यतां प्राप्यकारित्व-
पक्षः चक्षुषि च चन्द्रार्कग्रहादिग्राहिणि नितरां प्राप्यकारित्वमित्युक्तमेव ।
अत्रोच्यते न प्राप्यकारित्वमुत्स्रष्टुं शक्नुमः कारकत्वमेव हि तथा स-
त्येषामुत्सृजेम, कारकं चाप्राप्यकारि चेति चित्रम् , अदृष्टमपि कारणमा-
त्मनो व्यापकत्वा