न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 463, कुल 654 में से
संदर्भ में पढ़ेंएवं भौतिकानीन्द्रियाणि स्वं स्वं विषयमधिगन्तुमुत्सहन्त इति तल्लक्षणत्वमेषां
सिध्यतीति अतो भूतेभ्य इत्युक्तम् ।
साङ्ख्यमतेनेन्द्रियाणामाहङ्कारिकत्वम् ।
तत्रैतत्परीक्षणीयं वर्तते किं भौतिकानामिन्द्रियाणां स्वविषयग्रहणकरण-
त्वमुतान्यथेति, एवं हि साङ्ख्याः सम्प्रवदन्ते आहङ्कारिकाणीन्द्रियाण्यर्थं
साधयितुमर्हन्ति नान्यथा, तथा हि कारकं कारकत्वादेव प्राप्यकारि भवति
भौतिकानि चेन्द्रियाणि कथं प्राप्यकारीणि दूरवर्तिनि विषये भवेयुः आहङ्का-
रिकाणां तु तेषां व्यापकत्वाद्द्विषयाकारपरिणामात्मिका वृत्तिर्वृत्तिमतो नान्या
सती सम्भवत्येवेति सुवचं प्राप्यकारित्वम्, अपि च महदणुग्रहणमाहङ्कारिकत्वे
तेषां कल्पते न भौतिकत्वे, भौतिकत्वे हि यत्परिमाणं ग्रहणं तत्परिमाणं ग्राह्यं
गृह्णीयादस्ति च गोलकाद