न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 467, कुल 654 में से
संदर्भ में पढ़ेंन्द्रियं च कथं ग्राहकमत इन्द्रियगुणानाम् अन्तःपतितत्वान्न प्रमेयत्वम्, त-
स्माद्भौतिकानीन्द्रियाणि स्वं स्वं विषयमुपलभन्त इति सिद्धम् ।
प्रयोगस्तु-पार्थिवं घ्राणं द्रव्यत्वे सति रूपादिमध्ये गन्धस्यैव व्यञ्जकत्वा-
द् गन्धयुक्तद्रव्यवत्, तत्र व्यञ्जकत्वमात्रमनैकान्तिकमिति गन्धस्यैव विशे-
ष्यते, सोऽयमसिद्धो हेतुर्भवेद् गन्धत्वस्यापि घ्राणव्यङ्ग्यत्वादिति रूपादिमध्य
इत्युक्तम् , तथाऽपि सन्निकर्षेण व्यभिचार इति तद्व्युदासाय द्रव्यत्वे सतीति
विशेषणम् , एवं रसनादिष्वपि प्रयोगा रचनीयाः, श्रोत्रं त्वाकाशैकदेश इति
शब्दाधिकरणे निर्णीतम् , गन्धादिविषयोपलब्धिनिबन्धनसुखदुःखोपभोगहेतु-
भूतधर्माधर्मोपनिबद्धानां चेन्द्रियाणामिन्द्रियत्वमिति तद्वशाद्यथा यथा नियत-
विषयग्रहणकारणता घटते तथा कल्प्यते इति सर्वमनवद्यम् ।
एकेन्द्रियवादिमतम् ।
आह भवन्तु भौतिकानीन्द्रियाणि पञ्चेति तु न युक्तमुक्तं त्वगेव ह्येकमिन्द्रि-
यं भवितुमर्हति सर्वत्रानपायात् , करतलकपोलकण्ठादिवर्तिनापि त्वगिन्द्रियेण
रूपोपलम्भप्रसङ्ग इति चेद्, नावयवविशेषशक्तिविशेषनियमात् , न हि पाणिना
पादेन वोपस्थकार्यं कर्तुं शक्यते, अस्ति चावयवविशेषस्वभावविशेषवैचित्र्यम् ,
तुषारकर्पूरपूर्णवारिण्युत्तरमानसे ।
यथा च वृषणौ स्नातः स्फुटतं न तथा स्फिचौ ॥
क्लिन्नार्द्रतृणकाष्ठादिधूमेन कटुना यथा ।
मूर्धाऽक्षिवेदनेदेति न तथाऽवयवान्तरे ॥
तस्मादवयवविशेषव्यवस्थितनानाशक्तिखचितं त्वगेवैकमिन्द्रियमिति ।
एकेन्द्रियवादखण्डनम् ।
उच्यते, कुतोऽयमपूर्व एव महाप्राज्ञा वादी सरलमतीनस्मान्वञ्चयितु-
मागतः योऽवयवविशेषं चाश्रयन्नप्येकमिन्द्रियं मन्यते शक्तिभेदादाश्रयभेदाच्च-
नानात्वमेवैतदिन्द्रियाणामित्यलं महात्मभिः सह कलहेन,
मनुष्यैः सह संवादो मादृशानां हि शोभते ।
देवास्तु नररूपेण त इमे भान्ति वादिनः ॥
ननु नानात्वपक्षेऽपि पञ्चत्वनियमः कथम् ।
द्वे श्रोत्रे चक्षुषी द्वे, च कथं ते एकमिन्द्रियम् ॥
आह च-सव्यदृष्टस्येतरेण(१) प्रत्यभिज्ञानाद् [ गौ० ३।१।७] इति, चक्षु-
( १ ) सव्येति । सव्येन चक्षुषा दृष्टस्य इतरेण दक्षिणेन चक्षुषा प्रत्यभिज्ञाना-
त्स्थिरात्मसिद्धिरित्यर्थः । एवञ्च चक्षुषो द्वित्वमिति भावः ।