न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 468, कुल 654 में से
संदर्भ में पढ़ें५४ न्यायमञ्जर्याम्
ष्टुजातेरेकत्वादिति चेत्तर्हीन्द्रियत्वजातेरेकत्वादेकमिन्द्रियं स्यात् , उच्यते चक्षुं-
स्तावत्तेज इति निर्णीतम् , ततश्चैकमेव तदधिष्ठानमेकघ्राणवंशव्यवहि-
तमनेकमिवोपलभ्यते, भिन्नं वा तद्भवतु तेजस्तत्कार्यैक्यादाश्रयभेदेऽप्येकमेव,
श्रोत्रमपि कर्णच्छिद्रद्वयानुस्यूतमेकमेव नभोदेशप्रायं वेदितव्यं कार्यैकत्वस्यापि
भावात् ,
तेनाधिष्ठानभेदेऽपि कार्यैकत्वस्य दर्शनात् ।
तत्सामान्यस्य चैकत्वादेकत्वं श्रोत्रचक्षुषोः ॥
न चेन्द्रियजातेरैक्यादेकमिन्द्रियम् , कार्यस्योपलब्धिलक्षणस्य कारणस्य पृ-
थिव्यादेर्विषयस्य गन्धादेरधिष्ठानस्य त्रिपुटिकादेर्गतेश्च घ्राणत्वादेर्जातिशब्दवा-
च्यस्य योनेर्वा पृथिव्यादेः पञ्चविधत्वात्पञ्चैवेन्द्रियाणि कल्प्यन्ते, यथा पर-
माणुसामान्याविशेषेऽपि पृथिव्यादिचतुर्विधकार्यदर्शनाच्चतुर्विधाः परमाणवः क-
ल्प्यन्त इति ।
वागादीनामिन्द्रियत्वखण्डनम् ।
ननु तथाऽपि न पञ्चेन्द्रियाणि बुद्धीन्द्रियवत्कर्मेन्द्रियाणामपि पञ्चानामुप-
संख्येयत्वात् , तदुक्तं वाक्पाणिपादपायूपस्थाः कर्मेन्द्रियाण्याहुः [ सां० का०
२६]। तेषां च वचनादानविहरणोत्सर्गानन्दात्मकपञ्चविधकार्यसाधनादिन्द्रि-
यत्वं तत्कार्याण्यनितरेतरसाध्यत्वादिति ।
अत्राहुः अत्यल्पमिदमुच्यते पञ्च कर्मेन्द्रियाणीति, अन्यान्यपि खलु न सन्ति
कर्मेन्द्रियाणि ? तथा हि कण्ठोऽन्ननिगरेण स्तनकलशालिङ्गनादिना वक्षो भारव-
हनेन चांसद्वयमिन्द्रियमुच्यते न कथम् ? तत्कार्यस्य शरीरावयवान्तरेऽपि दर्श-
नादिति चेत्किं नु भवानन्नपानं पाणिपादेन निगिरति पायुना वा ? आदानमपि
किमास्यादिना वा न कुर्वते तिर्यञ्चो मनुष्या अपि हि क चित्, असत्स्वपि भ-
वत्कल्पितेषु कर्मेन्द्रियेषु तत्कार्यं यावत्तावदन्यथाऽपि दृश्यते न त्वेवं बुद्धीन्द्रियेषु,
भवत्युत्पाटिताक्षस्य न मनागपि रूपधीः ।
ईषद्विहारादानादि दृष्टं यन्त्राङ्घ्रिपाणिषु ॥
अपि च विहरणमपि न केवलं चरणयुगलकार्यम् अपि तु जानूरुजङ्घादिसहि-
तपादसम्पाद्यमानमपि बाहुसहिताभ्यां पाणिभ्यामपि निर्वर्त्यते न केवलाभ्याम् ,
वागिन्द्रियं तु नाभेरूर्ध्वं सर्वमेव स्यादित्याहुः- 'वायुर्नाभेरूत्थित उरसि विस्तीर्णः
कण्ठे विवर्तितो मूर्धानमाहत्य परावृत्तो वक्त्रे चरन्विविधान् शब्दानभिव्यनक्ति'
इति , अस्ति चेदनुभवो जल्पतां विशेषतस्त्वखण्डगेयं गायतामिति, एवं च
कर्मेन्द्रियमयमेव विश्वमिति न च शरीरमिन्द्रियव्यतिरिक्तं किं चिद्भवेत् । अथ
शरीरावयवेष्वेव भिन्नकार्यकारिषु कर्मेन्द्रियव्यवहारस्तर्हि कण्ठादिभिरतिप्रसङ्ग
इत्युक्तम् , उपस्थेन्द्रियं च कथमेकं गण्यते तेनानन्दवन्मूत्रोत्सर्गस्यापि साध-