सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 466, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 466

अत एव गोलकगुणदोषानुवर्तित्वमपि विषयोपलब्धेर्घटमानमाधारद्वारकौ
हि तदाधेयस्यैव तौ गुणदोषाविति, तस्मादप्राप्तविषयग्रहणानुपपत्तेर्गोलकच-
क्षुःपक्षो भिक्षूत्प्रेक्षितः(१) प्रेक्षावतां हृदयेषु न विश्राम्यतीति प्राप्यकारि तेज
एव चक्षुरिति स्थितम् । इत्थं भौतिकेन्द्रियवादेऽपि प्राप्यकारित्वसिद्धेर्न का-
पिलकथितमाहङ्कारिकत्वमिन्द्रियाणामुपपद्यते ।

इन्द्रियाणामाहङ्कारिकत्वखण्डनम् !

ननु पक्षद्वयेऽपि प्राप्यकारित्वोपपत्तेः कोऽयं भौतिकत्वं प्रत्यभिनिवेशाति-
शयो भवतामिति, उच्यते—एकप्रकृतित्वे हीन्द्रियाणामेकमेव सर्वविषयप्रका-
शनकुशलमिन्द्रियं भवेत्सर्वाणि वा सर्वविषयग्राहीणि भवेयुः कारकस्याविशे-
षात् , कारणनियमाधीनो हि कार्यनियमः अहङ्काराख्यं च कारणं, सकलवि-
षयप्रकाशनशक्तियुक्ते तस्मिन् कथमन्द्रियान्तराणि विषयान्तरग्राहीणि ततो
भवेयुः, भौतिकत्वे तु भूतानां भेदान्नियतगुणोत्कर्षयोगित्वान्नियतविषयग्राहीन्द्रि-
यप्रकृतित्वं तथा च प्रदीपादितेजो रूपरसाद्यनेकविषयसन्निधानेऽपि रूपस्यैव
प्रकाशीभवितुमर्हति एवमन्द्रियान्तरेष्वपि वक्तव्यम् , तदेष विषयनियमः
प्रकृतिनियमकारित इन्द्रियाणामिति भौतिकानीन्द्रियाणि।
यच्चैवं तैजसेन चक्षुषा कथं पार्थिवस्य रूपस्य ग्रहणं पृथिव्या एव वा,
आप्येन च रसनेन पार्थिवस्य रसस्य, वायवीयेन स्पर्शनेन्द्रियेण च पृथिव्या-
दिस्पर्शस्य तदिदं प्रकृतिनियमेऽपि कथं विषयसाङ्कर्यमिति ? नैष दोषो रूपादि-
विषयविषयोऽपि ह्येषां नियमो न तदाश्रयविषयः, तैजसं हि प्रदीपादिद्रव्यं
रूपमेव प्रकाशयद्दृश्यते न तेजोवृत्त्येव रूपम् , आप्यमपि द्रव्यं रसमेव
व्यनक्ति न तु सलिलस्थमेवेति, घ्राणे तु न कश्चिद्दोषः तद्ग्राह्यस्य तस्य
पृथिव्येकवृत्तित्वादिति, द्रव्यस्यापि दर्शनस्पर्शनग्राह्यत्वमविरुद्धमित्थं भौतिक-
त्वेऽपीति, यदुक्तं महदणुग्रहणाच्चाभौतिकानीन्द्रियाणीति, तन्न, दूरप्रसारित्वस्य
दर्शितत्वात् ततश्च विततत्वाद्विततग्राहि भवत्येव, विततत्वेनापि नाहङ्कारिकत्वम्।
यत्पुनरभ्यधायि भौतिकत्वे परगुणवत्स्वगुणस्यापि प्रकाशकमिन्द्रियं स्या-
दिति, तदयुक्तं सगुणस्येन्द्रियस्येन्द्रियभावात् , इन्द्रियेण हि सता तेन विषयः
परिच्छिद्यते सगुणस्य चास्येन्द्रियत्वं स्वगुणरहितं तदिन्द्रियमेव न स्यादनि-

( १ ) भिक्षूत्प्रेक्षितः-बौद्धकल्पितः । तेषामयमाशयः चक्षुर्हि विषयसन्निकर्ष-
रहितमेव ग्राहकम् , यदि प्राप्यप्रकाशकारि स्यात् तदा रसनादिवदधिष्ठानसम्बद्धं गृह्णी-
यात् न चैवं गोलकासम्बद्धग्रहणात्, किञ्च यदि चक्षुः प्राप्य गृह्णीयात्तर्हि स्वतोऽधिक-
परिमाणं न गृह्णीयात्, एवञ्च प्राप्यकारित्वानुरोधेन गोलकातिरिक्तश्चक्षुः परैरङ्गीक्रियते
तदेव नास्तीति गोलकमेव चक्षुरिति ।