मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)
Mrigendra Tantra / Agama with Narayanakantha Vritti
महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा
२५२ मृगेन्द्रतन्त्रे । [ १।१२
तस्य मनसोऽक्षैर्योगात् ज्ञानमुत्पद्यते । तच्च
क्रमयोगितया क्रमिकं, यथा रूपानुभवकाले
न स्पर्शानुभवः रसाद्यनुभवो वा। यद्यपि स्वादु-
सुरभ्यभिजातमर्मरशब्दवदभिरूपं च द्राधि-
ष्ठशष्कुल्यादिकमास्वाद्यमानं युगपत् पञ्चज्ञानो-
त्पादहेतुः, तथापि उत्पलपत्रशतव्यक्तिभेदवद्-
लक्ष्यसूक्ष्मक्रमाणि क्रमिकाण्येव तानि रसादि-
ज्ञानानि । एतच्च शीघ्रसंचारितां विना युगप-
न्मनसः पञ्चज्ञानोत्पादनं नाभाति न प्रकाशते ॥
भौतिकेन्द्रियवाद्यभिप्रायेणाहङ्कारिकत्वमि-
न्द्रियाणामाक्षेप्तुमाह
नियतार्थतयाक्षाणि
नानायोनीनि कस्यचित् ।
गन्धादिव्यञ्जकत्वाच्च
तदाधारात्मकान्यपि ॥ १२ ॥
शब्दैकग्राहकं श्रोत्रं
स्पर्शैकग्राहिणी च त्वक् ।
अन्यान्यपि नियतार्थतया हेतुभूतया क-
स्यचिद्वादिनः पक्षेऽक्षाणि इन्द्रियाणि भिन्नका-
श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते । २५३
रणानि । आहङ्कारिकत्वे हि नैषां नियतार्थत्वं
स्यात् । गन्धादिव्यञ्जकत्वाच्च हेतोस्तेषां गन्धा-
दीनामाधारा आश्रयाः पृथिव्यादयस्तदाधाराः,
तदात्मकानि । दृष्टं हि पार्थिवमेव द्रव्यं गन्ध-
व्यञ्जकं, घ्राणं च गन्धस्य ग्राहकम् । तस्मात्पार्थिवं
घ्राणं, आप्यं रसनं, तैजसं चक्षुरिति एवम-
न्यत् ॥
तत्किं युक्तं नवेत्याह
तथास्तु यदि नादत्ते
सगुणं कारणान्तरम् ॥ १३ ॥
त्वगिन्द्रियमयुक्तार्थ-
ग्राहि युक्तपराङ्मुखम् ।
तेजोवारिमहीद्रव्यं
दृगादत्ते सरूपकम् ॥ १४ ॥
ततस्त्रिद्रव्यजा सा स्या-
न्न परेणेष्यते तथा ।
एकैकमिन्द्रियं स्वकारणादन्यत्कारणान्तरं
गुणसहितं यदि नादत्ते न गृह्णाति, तत् तथास्तु ।
अयमर्थः-यदि इन्द्रियं स्वकारणसमानजातीयं
२५४ मृगेन्द्रतन्त्रे । [ १।१२
द्रव्यं तद्गुणं च गृह्णीयात्, तदानीं विषयनियमः
प्रकृतिनियमगमक इष्येत । यावता द्रव्यान्त-
राणि तद्गुणांश्च गृह्णाति, तस्मान्न नियतार्थतया
प्रकृतिगमकत्वमक्षाणामुपपन्नम् । अथ किं त-
द्नियतयमित्याह 'त्वगिन्द्रियम्' इत्यादि । तथाहि
त्वगिन्द्रियं युक्तस्य स्वकारणत्वात् ग्रहीतुमुप-
पन्नस्य पराङ्मुखं न स्यात् तदा तदेव तत्परत्वेन
गृह्णीयात्, नच स्वकारणादन्यत्वेन अयुक्तग्रह-
णानां पृथिव्यप्तेजसामर्थानां गृहीतृ । तत्कथं
विषयनियमसिद्धिः । तथा दृग्दृष्टिः तेजोद्रव्यं
पृथिवीद्रव्यं च भिन्नरूपं गृह्णाति । अतश्च सा
दृक् त्रिद्रव्यजा भवेत् । नचास्यास्त्रिद्रव्यजत्वं
परेणेष्यते तैजसत्वेनाभ्युपगमात् ॥
किंच
येनोपलभ्यते योऽर्थः
स तस्यार्थस्य कारणम् ॥ १५ ॥
न प्राप्तमपि कर्मादि
सेयं व्यसनसन्ततिः ।
भवत्पक्षे येनेन्द्रियेण यो गन्धाद्याश्रयः पृ-
श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते । २५५
थिव्यादिरुपलभ्यते, स पृथिव्यादिस्तस्य कार-
णमित्यभ्युपगमः । तथाच सति भूतेषु तद्गुणे-
ष्वेव चेन्द्रियेभ्यः प्रतीतयः स्युः । कर्मसामा-
न्यसमवायादि तत् द्रव्येभ्यो गुणेभ्यश्च पदार्था-
न्तरम् । न च तदात्मकान्यक्षाणि । तस्मात्कर्मा-
देरक्षैर्ग्रहणं न प्राप्तम् । उक्तं च खेटकनन्दनेन
'भौतिकत्वाच्च नियमे कर्मसामान्ययोः स्फुटम् ।
देवेभ्यो बुद्धयो न स्युः समवाये च देहिनाम्॥'
(भो० का० ४०)
इति । सेयं प्रकृतिनियमगमके विषयनियमे-
ऽङ्गीक्रियमाणे निष्फला क्लेशपरम्परा प्रसज्यते ।
तस्माद्विषयाणामिन्द्रियाणां च भवदभिमत-
ग्राह्यग्राहकनियमासंभवात् न क्षित्यादिप्रकृ-
तिनियमसिद्धिरित्याहङ्कारिकाण्येवेन्द्रियाणीति
सिद्धम् ॥
अभ्युपगम्यापि ब्रूमः
कर्णरन्ध्रविशिष्टं खं
शब्दवर्गावभासकम् ॥ १६ ॥
नासारन्ध्रविशिष्टं त-
द्भूत केन निवार्यते ।
२५६ मृगेन्द्रतन्त्रे । [ १।१२
तददृष्टावरुद्धं वा
तदप्यन्यत्र किं कृतम् ॥ १७ ॥
प्राप्तं गृह्णाति नातोद्ये
शस्तं केनापि दस्युना ।
नियतविषयत्वेऽप्यक्षाणामिदं तावद्भवान्
पृष्टो व्याचष्टां-यदि कर्णरन्ध्रविशिष्टो नभो-
भागः शब्दवर्गस्येत्यनेकविधस्य शब्दस्य द्यो-
तकः, तत् नासारन्ध्रादिच्छिद्रान्तरं तथा-
विधत्वादुच्यताम् । केन तद्ग्रहणं निवार्यते ।
अथात्रादृष्टं पुरुषार्थप्रदं कर्माख्यमस्ति, येन
श्रोत्रनभोभाग एव शब्दवर्गावभासको, न
नासारन्ध्रादिरिति नियमः, तर्हि तदपीति त-
थापि अन्यत्रेत्यस्मत्पक्षेऽपि तथात्वाभ्युपगमस्य
का क्षतिः। तत्र हि किं कृतं को बाधको जातः,
आहंकारिकत्वे सत्यप्यदृष्टावरुद्धत्वस्य को दोष
इत्यर्थः। अन्यथा हि आतोद्ये तन्त्रीवंशमुरजादि-
वाद्ये प्राप्तमपि आस्यनासारन्ध्रसंनिकर्षस्थमपि
शब्दं तदास्यरन्ध्रं घ्राणच्छिद्रं वा किं केनापि
दस्युना दुराचारेण शस्तत्वात् शब्दं न गृह्णा-
स्यापरि-
Wait, let's look at "सर्वदर्शिज्ञानस्यागमरूपस्यापरि-":
Is it "सर्वदर्शि-" or "सर्वदर्शिन्-"?
Line 11:
"र्थादनुमानान् सर्वदर्शिज्ञानस्यागमरूपस्यापरि-"
Wait, look at "अनुमानान्":
Is it "अनुमानात्" or "अनुमानान्"?
Wait, look at the letter:
It has a loop to the left: 'न्'!
Because it's followed by 'सर्वदर्शि...'?
Wait, in Sanskrit sandhi, t + s -> t s or c ch.
Why would it be 'अनुमानान्'?
Wait, look at the letter: is it 'त्' with a virama or 'न्'?
Look at line 11: "अनुमानान्":
Ah, look at the letter:
It is 'त्' with a virama?
Let's check 'त्' with virama elsewhere:
Line 18: "वृत्तिमत् ।" -> 'त्' has a virama underneath!
Look at line 10: "परिमिता-"
Look at line 11:
"अनुमानात्"?
Wait, look at the character at the end of "अनुमाना":
It has a top bar, a vertical stem, and a loop to the left... wait, that's 'त्'!
Wait, compare 'त्' in "कुत इत्याह" (line
२५८ मृगेन्द्रतन्त्रे । [ ११.१२
धूननज्वलनप्लाव-
खरत्वावेदिनो गुणाः ॥ २० ॥
शब्दा वाय्वादिषु व्योम्नि
सवर्णप्रतिशब्दगाः ।
आकाशो वायुर्वह्निर्जलं पृथिवीति भूत-
पञ्चकम् । एतच्च शब्दाद्येकोत्तरगुणम्, शब्दा-
दयः एकोत्तरगुणाः यस्य तदेवम् । तेन शब्दैक-
गुणमाकाशं, शब्दस्पर्शगुणो वायुः, शब्दस्पर्श-
रूपगुणोऽग्निः, शब्दस्पर्शरूपरसगुणं जलम्,
शब्दादिपञ्चगुणा पृथिवीति । वक्ष्यमाणावका-
शादिवृत्तियुक्तं चैतज्ज्ञेयम् । ये ते वाय्वादिषु
गुणाः शब्दास्ते धूननज्वलनाद्यावेदिनः, यतः
शकशकादिशब्दो वायौ कम्पनावेदकः, धक-
मधकमादिशब्दोऽग्नौ ज्वलनं सूचयति । एवं
च छलछलादिशब्दोऽम्भसि वहनं, खडखडा-
दिशब्दात्मकश्च पृथिव्यां खरत्वं कथयति ।
एते च शब्दाः एतेषां परस्पराहतिवशादुत्प-
न्नाः । व्योम्नि आकाशे सवर्णं समानाक्षरं प्र-
तिशब्दं गायन्तीति सवर्णप्रतिशब्दगाः भव-
न्तीति शेषः । तदुक्तं भोगकारिकासु
श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । २५९
'शब्दस्तद्द्रव्यजनितः पृथग्भूतचतुष्टये ।
प्रतिशब्दकसङ्घातो नभस्येवोदितो बुधैः ॥' (११ का०)
इति ॥
अवकाशादिवृत्तिमदिति भूतपञ्चकस्य सा-
मान्यं यद्विशेषणमुक्तं, तद्विभज्य वक्तुमाह
व्यूहोऽवकाशदानं च
पक्तिसंग्रहधारणाः ॥ २१ ॥
वायुव्योमहुताशाम्बु-
धरणीनां च वृत्तयः ।
व्यूहो विरचनं वायोर्वृत्तिः । अवकाशस्या-
स्पदस्य दानं व्योम्नो व्यापारः । पक्तिः पाक-
स्तेजसः । संग्रहोऽवष्टम्भोऽम्भसाम् । धारणं
धृतिः धरण्याः ॥
अत्र मुनिर्वैशेषिकच्छायया प्रश्नयति
शब्दः खगुण एवेति
तदन्यत्रोपलब्धितः ॥ २२ ॥
ब्रुवते भगवन् केचित्
सर्वभूतगुणः कथम् ।
भो भगवन् यतो भीर्यादेरुत्पद्यते तदन्यत्रो-
२६० मृगेन्द्रतन्त्रे । [ १।१२
पलम्भात् खगुण इति आकाशगुण एव शब्दः
उपपद्यते आश्रयादन्यत्रोपलब्धेर्न स्पर्शवद्वि-
शेषगुण इत्यर्थः । अतश्च कथमयं सर्वभूतगुण
उच्यते ॥
अत्रोच्यते
क्वान्यत्र श्रवणाकाशे
कथमन्यत्र तद्गुणः ॥ २३ ॥
परेष्टादाश्रयात्तत्र
निर्णेतानुभवो नृणाम् ।
आश्रयादन्यत्रोपलब्धित इति यदुक्तं, तत्
क्वान्यत्र । यदि श्रवणाकाश इति अभिमतं, तत्
तद्गुणश्च अन्यत्र वेति कथम् । अयमाशयः-
तदिति आकाशपरामर्शः, तद्गुणः सन् श्रो-
त्राकाशे उपलभ्यमानः कथमन्यत्रेत्युच्यते ।
अथ परेष्टादाश्रयादित्यभिमतं, न तद्युक्तम् ।
अत्र ह्यनुभवः पुंसां संबन्धी निश्चायकः, शब्दा-
[L1
श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । २६१
कदाचित्कर्णमूलेऽपि
संविदित्थ मन्यसे ॥ २४ ॥
श्रोत्रवृत्तिवदस्यापि
परिणामोऽस्तु का क्षतिः ।
अथ मन्यसे कदाचित्कर्णमूलेऽपि संवित् भव-
तीति । किंचात्तः । किमेतावता, आकाशैकगुणत्वं
शब्दस्य सिद्ध्यति । श्रोत्रवृत्तिवद्वीचीतरङ्गवृत्त्या
अस्यापि इति शब्दस्य परिणामात् श्रोत्रनिकटे-
ऽपि कदाचिदुपलम्भोऽस्तु । न चैतावता काचित्
क्षतिः । न च प्रत्यक्षागमव्याहता हेतवोऽर्थं गम-
यन्ति हेत्वाभासत्वात् यथा सेव्यं नरशिरः-
कपालं शुचित्वात्, जाड्यजनकोऽग्निरनुष्ण-
त्वादित्यादौ ॥
तदाह
आगमाध्यक्षविहता
हेतवो नार्थसाधकाः ॥ २५ ॥
कालात्ययापदिष्टत्वा-
दिति न्यायविदो विदुः ।
२६२ मृगेन्द्रतन्त्रे । [ १।१२
आगमेन 'इति पञ्चसु शब्दोऽयम्' इत्या-
दिना प्रत्यक्षेण स्पर्शवद्विशेषगुणत्वानुभवात्म-
केन्न येषां बाधः संभवति, ते हेतवः काला-
त्ययापदिष्टत्वान्नार्थसाधकाः भवन्तीति न्याय-
विदो मन्यन्ते ॥
यदि चाश्रयादन्यत्रोपलब्धेराकाशगुणत्वं
शब्दस्योच्यते, तदानीं
इत्यपि स्थितमेव
इदमपि प्रसज्यते इत्यर्थः ॥
किं तदित्याह
अयं
गन्धोऽप्यस्तु नभोगुणः ॥ २६ ॥
येन केतकपुष्पादे-
वैकृष्ट्येऽप्युपलभ्यते ।
आश्रयादन्यत्रोपलब्धेरयं गन्धोऽप्याकाश-
गुण इत्यवश्यं स्थितं, यतः केतकीचम्पककु-
सुमादेर्विप्रकृष्टत्वेऽप्यनुभूयते गन्धः । अस्य च
प्रत्यक्षेणागमेन वा यथा बाधः, तथा प्रागुक्त-
स्याश्रयादन्यत्रोपलब्धेरित्यस्य हेतोर्हेत्ववरत्व-
मिति तात्पर्यम् ॥
श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते । २६३
उपसंहरन् भूतचतुष्टयगुणविशेषानाह
इति पञ्चसु शब्दोऽयं
स्पर्शो भूतचतुष्टये ॥ २७ ॥
अशीतोष्णो महीवाय्वोः
शीतोष्णौ वारितेजसोः ।
भास्वदग्नौ जले शुक्लं
क्षितौ शुक्लाद्यनेकधा ॥ २८ ॥
रूपं त्रिषु रसोऽम्भःसु
मधुरः षड्विधः क्षितौ ।
गन्धः क्षितावसुरभिः
सुरभिश्च मतो बुधैः ॥ २९ ॥
इति अनयोक्त्या युक्त्या, पञ्चसु भूतेष्वयं
शब्दः, एष्वेवाकाशवर्जितेषु स्पर्शः, तत्र मह्यां
वायौ चाशीतोष्णः, अम्भसि शीत एव, तेज-
सि उष्ण एव । रूपं त्रिष्विति पृथिव्यप्तेजः-
स्वेव, तत्राग्नौ भास्वरं प्रदीप्तं, जले शुक्लं, क्षितौ
शुक्लाद्यनेकविधम् । रसः क्षित्यम्भसोः, तत्रा-
प्यम्भसि मधुरः, क्षितौ कट्वम्ललवणतिक्त-
२६४ मृगेन्द्रतन्त्रे । [ १।१२
मधुरकषायाः । गन्धः पृथिव्यां सुरभ्यसुरभि-
रूपो विद्वद्भिरिष्टः ॥ २९ ॥
अथ यथैषां भूतानां शरीरसंनिविष्टत्वं,
तथोच्यते
देहेऽस्थिमांसकेशत्वङ्-
नखदन्तेषु चावनिः ।
मूत्ररक्तकफस्वेद-
शुक्रादौ वारि संस्थितम् ॥ ३० ॥
हृदि पक्तौ दृशोः पित्ते
तेजस्तद्धर्मदर्शनात् ।
प्राणादिवृत्तिभेदेन
नभस्वानुक्त एव ते ॥ ३१ ॥
गर्ववृत्त्यनुषङ्गेण
खं समस्तासु नाडिषु ।
अस्थिमांसादौ पृथिवी भौतिके शरीरेऽव-
स्थिता । मूत्ररक्तादौ जलम् । हृत्प्रदेशे, पक्तौ
पाकक्रियायामन्नपानेन्धनमौदर्यं तेजस्तस्मिन् ,
दृशोः पित्ते च तत् स्थितम् । तद्धर्मदर्शना-
दित्येकैकस्मिन् योज्यम् । तत्र हृदि तद्धर्मस्यौ-
ष्ण्यस्य, पक्तौ तद्धर्मस्य पाकस्य, दृशोः प्रका-
शस्य, पित्ते च संतापौज्वल्यादेरुपलम्भात् तेजः
संनिविष्टम् । प्राणापानादिवृत्तिभेदेन वायुर्यथा
अवस्थानावस्थितः, तथाच तवोक्तमेवेति वक्ता
श्रोतारं भरद्वाजं मुनिं स्मारयति । यदुक्तं प्राक्
'वृत्तिः प्रणयनं नाम यत्तज्जीवनमुच्यते ।' (११।२२)
इति । सर्वासु च नाडीषु आकाशं गर्ववृत्त्यनु-
षङ्गेणेति अहंकारव्यापारानुषङ्गात् स्थितम् ॥
इदानीं ततः कलादिक्षित्यन्ततत्त्वव्रातं सू-
क्ष्मदेहारम्भकत्वेन वक्तुमाह
प्रयोक्त्र्यादिमहीप्रान्त-
मेतदण्वर्थसाधनम् ॥ ३२ ॥
प्रत्यात्मनियतं भोग-
भेदतो व्यवसीयते ।
प्रयोजयति क्रियाशक्त्युत्तेजनेन पुमांसमि-
ति प्रयोक्त्री कला, तदादि क्षित्यन्तं च एतत्
तत्त्ववृन्दं पुमर्थसाधनमेकैकस्यात्मनो नियतम-
साधारणं भोगभेदात्प्रतीयते साधारणत्वे भो-
३४
२६६ मृगेन्द्रतन्त्रे । [ १।१२
गभेदानुपपत्तेः । ननु भोगभेदे कर्मणो निमि-
त्तत्वमित्युक्तम् । सत्यं, किंतु न साक्षात्, अपि-
तु पारम्पर्येण । तथाहि कर्मकृतस्तत्तच्छरीर-
भेदः, तद्भेदकृतं च भोगवैचित्र्यमित्यदोषः ।
स तु भोगभेदः करिनरतुरगादिभेदभिन्नः सू-
क्ष्मशरीरवैचित्र्यं विना न भवति,-इति अत्रापि
कर्मण एव हेतुतेति न कश्चिद्दोषः ॥
एतच्च सूक्ष्मशरीरं
सर्वतो युगपद्वृत्ते-
रनुत्पादादसर्वगम् ॥ ३३ ॥
भिन्नजातीयमप्येक-
फलं दीपाङ्गवस्तुवत् ।
यद्येतत् सर्वगं विभु स्यात्, तत् सर्वत्र यौग-
पद्येन वृत्त्युत्पादो भवेत् । नचैवं, यावता क्व-
चिदेकदेश एव एतद्वृत्तेः कर्मफलोपभोगलक्ष-
णायाः समुत्पादः। भिन्नजातीयमनेककलादिप्र-
त्युद्भूतमपिच एतत् दीपाङ्गवस्तुवत् एकफलम्।
यथा भिन्नकारणजन्यतैलपात्रवह्निवर्त्यादिवस्तु
तमोनिवृत्तिलक्षणैकार्थसाधकम्, एवं तन्मा-
श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । २६७
त्रमहदहंकारकलाव्युद्भवमप्येतत् कर्मोपभोग-
फलं ज्ञेयम् ॥
अथ व्याख्यातार्थोपसंहाराय प्रकरणान्त-
रोपक्रमाय च श्लोकः
इत्यातिवाहिकमिदं वपुरस्य जन्तो-
श्चित्सङ्गचिद्गहनगर्भविवर्ति लेशात् ।
नैतावतालमिति भौवनतत्त्वपङ्कि-
माधारदेहविषयाभ्युदयाय वक्ष्ये ३४
इत्थमिदमस्य संसारिणो जन्तोरतिवाहयति
अवश्यं भोग्यं कर्मेति आतिवाहिकं वपुर्लेशात्
संक्षेपात् उक्तमिति शेषः। कीदृशम्। चित्सङ्गात्
चित्संश्लेषवशात् चित्, अचिदपि चैतन्यावियु-
क्तत्वात् चिद्रूपमित्यर्थः । गहनं माया, तद्गर्भे
विवर्तते तच्छीलमिति गहनगर्भविवर्ति । एता-
वता च न पर्याप्तमिति कृत्वा भोग्याश्रयभूतां
भौवनतत्त्वपङ्क्तिं वक्ष्ये । किमर्थमित्याह अधार-
देहविषयाभ्युदयाय, सूक्ष्मशरीरस्याधारो यो
भौतिको देहस्तस्य यो वैषयिकोऽभ्युदयः स्र-
क्चन्दनाद्युपभोगस्वरूपः तदर्थम्, यद्वा आधारः
:
Let's transcribe line by line:
Line 1 (Header):
२६८ मृगेन्द्रतन्त्रे । [ १।१२ (or [ १।२ or [ ११२)
Wait, let's look at the spacing and characters:
२६८
मृगेन्द्रतन्त्रे ।
[ १।१२ - wait, writing [ १।१२ is the most faithful and sensible reading of that section marker (Vidyāpāda 1, Prakaraṇa 12). Even if the १ is faint or merged with the danda, or if it is [ १।१२, it clearly denotes [ १।१२. Wait, could it be [ १।१२? Yes!
Let's check Line 2:
आश्रयः, देहः स्थूलः, तत्तद्भुवनजा विषयाः
Wait, look at the comma:
आश्रयः, देहः स्थूलः, तत्तद्भुवनजा विषयाः
Wait, is there a comma after आश्रयः?
Yes, आश्रयः,
Then देहः स्थूलः,
Then तत्तद्भुवनजा (तत्तद्भुवनजा - त, त, द्भ, ु, व, न, जा)
अथ
श्रीमृगेन्द्रतन्त्रे ।
विद्यापादे ।
( त्रयोदशः पटलः )
‘अथोक्तार्थप्रसिद्ध्यर्थम्’ इत्यादिना भुवना-
दिवर्णनं प्राक्तनप्रकरणान्तसूचितं ससंबन्धप्र-
योजनं प्रस्तौति
अथोक्तार्थप्रसिद्ध्यर्थं
भुवनादि विनिर्ममे ।
साधारणेभ्यो योनिभ्यः
कलादिभ्यो महेश्वरः ॥ १ ॥
अथेति अशुद्धात्मनां निरतिशयश्रेयःप्रति-
बन्धककर्मपाशप्रशमाय तत्तद्भोगसाधनतनुक-
रणभुवनसिसृक्षानन्तरं महेश्वरोऽनन्तेशनाथः
उक्तस्य संसार्यणोर्भोगलक्षणस्यार्थस्य प्रकर्षेण
साकल्येन सिद्ध्यर्थं निष्पादनाय साधारणाभ्यः
कलादिभ्यः प्रकृतिभ्यो भुवनादि रचयाञ्चक्रे ।
२७० मृगेन्द्रतन्त्रे । [ १।१३
रचना चैषा न प्रागभाववतामुत्पत्तिः, अपितु
सत्कार्यवादप्रकरणोक्तवत् शक्त्यात्मना स्थि-
तानां व्यक्तरूपतया स्वकारणादभिव्यक्तिः ॥१॥
तानि कालानलादीनि
कलाप्रान्तानि मण्डलम् ।
संसारमिति तत्त्वज्ञा
भोगस्थानं प्रचक्षते ॥ २ ॥
तानि च कालाग्निभुवनादीनि कलाभुव-
नान्तानि । एतच्च भोगस्थानं संसारमण्डलं प-
रमार्थविदः कथयन्ति । प्राक्प्रोक्तं सकलं भोग्यं
भुवनजातं कलादिभ्यो योनिभ्यो जायते,
नतु मायातस्तस्याः श्रीमत्स्वायंभुवादावकार्यत्व-
श्रुतेः, संनिवेशवतीत्वे भोग्यत्वाभ्युपगमे च
भोग्यस्य संनिवेशवतो घटादेरिवानित्यत्वप्र-
संगभयादसंनिवेशवतीत्वं, अभोग्यत्वं चावश्य-
मङ्गीकार्यम् ॥ २ ॥
ननु पुंसो माया यद्यभोग्या, तर्हि तत्कार्य-
व्यतिरेकेणान्यस्य भोग्यस्यासंभवान्न किंचि-
द्भोग्यमित्यभोक्तैव पुरुषः प्रसक्तः । सत्यम्,
श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । २७१
किंतु कार्यं तदीयं व्यक्तरूपतया अवस्थितं स-
दस्य भोग्यम्, नत्वसौ शक्तिमात्ररूपत्वात्तस्या
इति उक्तम् ॥ २ ॥
यद्येवं तद्गर्भे तत्तद्भुवनविशेषश्रुतेर्भुवनानां
च संनिवेशविशिष्टतां विना भुवनत्वायोगा-
न्मायातत्त्वस्यापि संनिवेशवत्त्वं प्रसक्तमित्याह
मायायामपि पठ्यन्ते
गहनेशादयोऽधिपाः ।
तत्त्वशुद्धिश्च दीक्षायां
सर्वं तत्कृतिमस्तके ॥ ३ ॥
नित्यत्वव्यापकत्वादि-
श्रवणादवसीयते ।
दृष्टं पुरादि यद्भोग्यं
मूर्तं प्रलयधर्मि च ॥ ४ ॥
यद्यपि मायातत्त्वे मण्डलेश्वर—गहनेश्वरा-
दयो रुद्राः भुवनाधिवासिनः पठ्यन्ते, यद्व-
क्ष्यति
‘ध्रुवतेजोऽधिपौ रुद्रौ गहनेशश्च सर्वराट् ।
मायाधिकारिणो रुद्रा मण्डलाधिपतीश्वराः ॥’ (१३।१५४)