मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)

मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)
Mrigendra Tantra / Agama with Narayanakantha Vritti
महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा
DevanagariSanskritpublished448 पृष्ठ
पृष्ठ 289, कुल 448 में से
संदर्भ में पढ़ेंपृष्ठ 289
श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । २५९
'शब्दस्तद्द्रव्यजनितः पृथग्भूतचतुष्टये ।
प्रतिशब्दकसङ्घातो नभस्येवोदितो बुधैः ॥' (११ का०)
इति ॥
अवकाशादिवृत्तिमदिति भूतपञ्चकस्य सा-
मान्यं यद्विशेषणमुक्तं, तद्विभज्य वक्तुमाह
व्यूहोऽवकाशदानं च
पक्तिसंग्रहधारणाः ॥ २१ ॥
वायुव्योमहुताशाम्बु-
धरणीनां च वृत्तयः ।
व्यूहो विरचनं वायोर्वृत्तिः । अवकाशस्या-
स्पदस्य दानं व्योम्नो व्यापारः । पक्तिः पाक-
स्तेजसः । संग्रहोऽवष्टम्भोऽम्भसाम् । धारणं
धृतिः धरण्याः ॥
अत्र मुनिर्वैशेषिकच्छायया प्रश्नयति
शब्दः खगुण एवेति
तदन्यत्रोपलब्धितः ॥ २२ ॥
ब्रुवते भगवन् केचित्
सर्वभूतगुणः कथम् ।
भो भगवन् यतो भीर्यादेरुत्पद्यते तदन्यत्रो-