मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)
Mrigendra Tantra / Agama with Narayanakantha Vritti
महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा
पृष्ठ 288, कुल 448 में से
संदर्भ में पढ़ें२५८ मृगेन्द्रतन्त्रे । [ ११.१२
धूननज्वलनप्लाव-
खरत्वावेदिनो गुणाः ॥ २० ॥
शब्दा वाय्वादिषु व्योम्नि
सवर्णप्रतिशब्दगाः ।
आकाशो वायुर्वह्निर्जलं पृथिवीति भूत-
पञ्चकम् । एतच्च शब्दाद्येकोत्तरगुणम्, शब्दा-
दयः एकोत्तरगुणाः यस्य तदेवम् । तेन शब्दैक-
गुणमाकाशं, शब्दस्पर्शगुणो वायुः, शब्दस्पर्श-
रूपगुणोऽग्निः, शब्दस्पर्शरूपरसगुणं जलम्,
शब्दादिपञ्चगुणा पृथिवीति । वक्ष्यमाणावका-
शादिवृत्तियुक्तं चैतज्ज्ञेयम् । ये ते वाय्वादिषु
गुणाः शब्दास्ते धूननज्वलनाद्यावेदिनः, यतः
शकशकादिशब्दो वायौ कम्पनावेदकः, धक-
मधकमादिशब्दोऽग्नौ ज्वलनं सूचयति । एवं
च छलछलादिशब्दोऽम्भसि वहनं, खडखडा-
दिशब्दात्मकश्च पृथिव्यां खरत्वं कथयति ।
एते च शब्दाः एतेषां परस्पराहतिवशादुत्प-
न्नाः । व्योम्नि आकाशे सवर्णं समानाक्षरं प्र-
तिशब्दं गायन्तीति सवर्णप्रतिशब्दगाः भव-
न्तीति शेषः । तदुक्तं भोगकारिकासु