मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)

मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)
Mrigendra Tantra / Agama with Narayanakantha Vritti
महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा
DevanagariSanskritpublished448 पृष्ठ
पृष्ठ 293, कुल 448 में से
संदर्भ में पढ़ेंपृष्ठ 293
श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते । २६३
उपसंहरन् भूतचतुष्टयगुणविशेषानाह
इति पञ्चसु शब्दोऽयं
स्पर्शो भूतचतुष्टये ॥ २७ ॥
अशीतोष्णो महीवाय्वोः
शीतोष्णौ वारितेजसोः ।
भास्वदग्नौ जले शुक्लं
क्षितौ शुक्लाद्यनेकधा ॥ २८ ॥
रूपं त्रिषु रसोऽम्भःसु
मधुरः षड्विधः क्षितौ ।
गन्धः क्षितावसुरभिः
सुरभिश्च मतो बुधैः ॥ २९ ॥
इति अनयोक्त्या युक्त्या, पञ्चसु भूतेष्वयं
शब्दः, एष्वेवाकाशवर्जितेषु स्पर्शः, तत्र मह्यां
वायौ चाशीतोष्णः, अम्भसि शीत एव, तेज-
सि उष्ण एव । रूपं त्रिष्विति पृथिव्यप्तेजः-
स्वेव, तत्राग्नौ भास्वरं प्रदीप्तं, जले शुक्लं, क्षितौ
शुक्लाद्यनेकविधम् । रसः क्षित्यम्भसोः, तत्रा-
प्यम्भसि मधुरः, क्षितौ कट्वम्ललवणतिक्त-