सामग्री पर जाएँ
सर्वकोश
मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)

मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)

Mrigendra Tantra / Agama with Narayanakantha Vritti

महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा

DevanagariSanskritpublished448 पृष्ठ

पृष्ठ 292, कुल 448 में से

संदर्भ में पढ़ें
पृष्ठ 292

२६२ मृगेन्द्रतन्त्रे । [ १।१२
आगमेन 'इति पञ्चसु शब्दोऽयम्' इत्या-
दिना प्रत्यक्षेण स्पर्शवद्विशेषगुणत्वानुभवात्म-
केन्न येषां बाधः संभवति, ते हेतवः काला-
त्ययापदिष्टत्वान्नार्थसाधकाः भवन्तीति न्याय-
विदो मन्यन्ते ॥
यदि चाश्रयादन्यत्रोपलब्धेराकाशगुणत्वं
शब्दस्योच्यते, तदानीं
इत्यपि स्थितमेव
इदमपि प्रसज्यते इत्यर्थः ॥
किं तदित्याह
अयं
गन्धोऽप्यस्तु नभोगुणः ॥ २६ ॥
येन केतकपुष्पादे-
वैकृष्ट्येऽप्युपलभ्यते ।
आश्रयादन्यत्रोपलब्धेरयं गन्धोऽप्याकाश-
गुण इत्यवश्यं स्थितं, यतः केतकीचम्पककु-
सुमादेर्विप्रकृष्टत्वेऽप्यनुभूयते गन्धः । अस्य च
प्रत्यक्षेणागमेन वा यथा बाधः, तथा प्रागुक्त-
स्याश्रयादन्यत्रोपलब्धेरित्यस्य हेतोर्हेत्ववरत्व-
मिति तात्पर्यम् ॥