मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)

मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)
Mrigendra Tantra / Agama with Narayanakantha Vritti
महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा
DevanagariSanskritpublished448 पृष्ठ
पृष्ठ 290, कुल 448 में से
संदर्भ में पढ़ेंपृष्ठ 290
२६० मृगेन्द्रतन्त्रे । [ १।१२
पलम्भात् खगुण इति आकाशगुण एव शब्दः
उपपद्यते आश्रयादन्यत्रोपलब्धेर्न स्पर्शवद्वि-
शेषगुण इत्यर्थः । अतश्च कथमयं सर्वभूतगुण
उच्यते ॥
अत्रोच्यते
क्वान्यत्र श्रवणाकाशे
कथमन्यत्र तद्गुणः ॥ २३ ॥
परेष्टादाश्रयात्तत्र
निर्णेतानुभवो नृणाम् ।
आश्रयादन्यत्रोपलब्धित इति यदुक्तं, तत्
क्वान्यत्र । यदि श्रवणाकाश इति अभिमतं, तत्
तद्गुणश्च अन्यत्र वेति कथम् । अयमाशयः-
तदिति आकाशपरामर्शः, तद्गुणः सन् श्रो-
त्राकाशे उपलभ्यमानः कथमन्यत्रेत्युच्यते ।
अथ परेष्टादाश्रयादित्यभिमतं, न तद्युक्तम् ।
अत्र ह्यनुभवः पुंसां संबन्धी निश्चायकः, शब्दा-
[L1