मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)

मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)
Mrigendra Tantra / Agama with Narayanakantha Vritti
महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा
DevanagariSanskritpublished448 पृष्ठ
पृष्ठ 291, कुल 448 में से
संदर्भ में पढ़ेंपृष्ठ 291
श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । २६१
कदाचित्कर्णमूलेऽपि
संविदित्थ मन्यसे ॥ २४ ॥
श्रोत्रवृत्तिवदस्यापि
परिणामोऽस्तु का क्षतिः ।
अथ मन्यसे कदाचित्कर्णमूलेऽपि संवित् भव-
तीति । किंचात्तः । किमेतावता, आकाशैकगुणत्वं
शब्दस्य सिद्ध्यति । श्रोत्रवृत्तिवद्वीचीतरङ्गवृत्त्या
अस्यापि इति शब्दस्य परिणामात् श्रोत्रनिकटे-
ऽपि कदाचिदुपलम्भोऽस्तु । न चैतावता काचित्
क्षतिः । न च प्रत्यक्षागमव्याहता हेतवोऽर्थं गम-
यन्ति हेत्वाभासत्वात् यथा सेव्यं नरशिरः-
कपालं शुचित्वात्, जाड्यजनकोऽग्निरनुष्ण-
त्वादित्यादौ ॥
तदाह
आगमाध्यक्षविहता
हेतवो नार्थसाधकाः ॥ २५ ॥
कालात्ययापदिष्टत्वा-
दिति न्यायविदो विदुः ।