सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

मल्लपुराण (ज्येष्ठिमल्ल - प्राचीन भारतीय मल्लविद्या, अखाड़ा व्यायाम व कुश्ती महाग्रन्थ)

Malla Purana: Ancient Indian Wrestling & Martial Arts

ज्येष्ठिमल्ल परम्परा (सम्पादक: भोगीलाल ज. सांडेसरा एवं आर. एन. मेहता) द्वारा

DevanagariSanskritpublished141 पृष्ठ

चक्षुष्यं बृंहणं हृद्यं^{५२} बल्यं वृष्यं तथैव च ।
एते खण्डस्य विज्ञेया नवधा कीर्तिता गुणाः ॥ ५२ ॥
शर्करा तु नवगुणा कथिता पूर्वसूरिभिः ।
ज्वरहरा पित्तहरा तथा शीतकरापि च ॥ ५३ ॥
छर्दिहरा तृड्हरा तथा श्लेष्महरापि च ।
मूर्छाहरा क्लेशहरा^{५३} विषाग्नी^{५४} चैव कथ्यते ॥ ५४ ॥
माक्षिकं मधु विज्ञेयं संयुक्तं नवभिर्गुणैः ।
कषायं शीतलं रूक्षं मधुरं दीपनं तथा ॥ ५५ ॥
तथैव लेखनं चैव बल्यं व्रणविशोधनम् ।
शोषणं चैव नवधा माक्षिकस्य गुणा इमे ॥ ५६ ॥
गव्यं पयो दशगुणं श्रूयतां च यथा तथा ।
रसायनं बलकरं हृद्यं मेधाकरं तथा ॥ ५७ ॥
आयुष्यं^{५५} पुष्टिदं चैव तथा वातहरं परम् ।
रक्तकरं पित्तहरं विकारहरमेव च ॥ ५८ ॥
अजापयो नवगुणं कषायं मधुरं तथा ।
संग्राहिकं शीतलं च लघु रक्तकरं तथा ॥ ५९ ॥
विशेषतः पित्तहरमतिसारघ्नमेव च ।
क्षयकासज्वरहरं तेन सेव्यं^{५६} सदा भवेत् ॥ ६० ॥
माहिष्यं सप्तधा दुग्धं कथितं पूर्वसूरिभिः ।
माहिष्यं च हि मधुरं वह्निनाशनमेव च ॥ ६१ ॥
निद्राकरं शीतकरं^{५७} जडत्वकरमेव च ।
मेदःकरं कफकरं कथिताः सप्त गुणा इमे ॥ ६२ ॥
५२ सद्यं P. ५३ त्रासहरा P. ५४ विषघ्ना P. ५५ पुष्टदम् P. ५६ सौख्यं P.
५७ शीतकम् B.

नवमोऽध्यायः । ४५
गव्यं दधि स्वादुकरं म(ब)लकं ग्राहकं तथा ।
उष्मघ्नं च वातघ्नं मेदःशुक्रकरं तथा ॥ ६३ ॥
रक्तपित्तश्लेष्मशोषनाशनं स्निग्धमेव च ।
तथैव पाके मधुरं दीपनं बलवर्धनम् ॥ ६४ ॥
वातहरं पवित्रं च रुचिकामिकरं५८ तथा ।
इति ज्ञात्वा प्रयोक्तव्यं गव्यं दधि यथोचितम् ॥ ६५ ॥
आजं५९ दधि चाष्टगुणं कफवातहरं परम् ।
पाचनं बलसंयुक्तं कृमिनाशनमेव च ॥ ६६ ॥
कासहरं श्वासहरं अग्निदीपनमेव च ।
एवंगुणं६० च विज्ञाय भोक्तव्यं सर्वदा दधि ॥ ६७ ॥
माहिषं६१ द्वादशगुणं दधि निश्चित्य कथ्यते ।
विपाके मधुरं वृष्यं रक्तपित्तहरं तथा ॥ ६८ ॥
बलसंवर्धनं स्निग्धं महन्मादकर्मेव६२ च ।
मधुरं कफहरं६३ चैव मेदोवृद्धिकरं परम् ॥ ६९ ॥
रसे पाके६४ च मधुरं तथा वातकरं परम् ।
गव्यघृतस्य चाष्टौ ये गुणा मे कथितास्तवै ॥ ७० ॥
विपाके मधुरं चैव६६ वातपित्तहरं तथा ।
विषहरं चाग्निकरं चक्षुर्निर्मलकारकम्६७ ॥ ७१ ॥
तथा बलंकरं६८ चैव गुणा गव्यघृतस्य च ।
आजस्य च घृतस्यापि गुणास्तेपि प्रकीर्तिताः ॥ ७२ ॥
चाक्षुष्यं दीपनं बल्यं कासघ्नं६९ श्वासनाशनम् ।
क्षयरोगहरं चैव अजाया घृतमुत्तमम् ॥ ७३ ॥
५८ रुचिकामकरम् B. ५९ आज्यं P. ६० गुणां P. ६१ माहिष्यम् P.
६२ महामोदकमेव B. ६३ कलहरम् P. ६४ रसपाके B. ६५ गुणान्स्ते कथयाम्यहम् P.
६६ शीत P. ६७ चक्षुर्निर्माल्याकारकम् P. ६८ मलकरम् B. ६९ काशघ्नं B.

मल्ल-युद्ध तकनीकें, दांव-पेंच, बन्धन, मालिश एवं मल्लपुराण उपसंहार

४६ मल्लपुराणे
माहिषस्य घृतस्यैव गुणाः सप्त प्रकीर्तिताः ।
मधुरं पित्तरक्तघ्नं गुरु पाके७० क्षयापहम् ।। ७४ ।।
वातघ्नं शीतलं चैव माहिषं घृतमुत्तमम् ।
रक्तशालिश्चाष्टगुणो नयविद्भिरुदाहृतः ॥ ७५ ॥
चक्षुष्यः शुक्रकृत् चैव मूत्रकृत्७२ परमार्थतः७३ ।
तृषाहरो बलकरो हृद्यः स्वरकरोऽपि च ॥ ७६ ॥
गौरषष्टिश्चतुर्धा तु गुरुशीतार्तिदोषहृत् ।
यवाश्चाष्टादशगुणा रूक्षाः शीतास्तथैव च ॥ ७७ ॥
गुरवः स्वादवन्तश्च शीतला वातकारकाः७४ ।
वृष्यैस्थैर्यकराश्चैव पित्तहन्तार एव च ॥ ७८ ॥
मेदोहराः७५ कफहरास्तथा चाग्निकरा अपि ।
पित्तअर्ष(त्तार्शो) हराः७६ श्वासकासघ्नाश्च विशेषतः ।
गुरुस्तम्भहराश्चैव७७ कण्ठरोगहरास्तथा७८ ॥ ७९ ॥
गोधूमा द्वादशगुणा वातला७९ गुरुवस्तथा ।
स्निग्धाश्च जीवनाश्चैव वातपित्तहरा अपि ।
सन्धानकाः सुमधुराः शीतलाः स्थिरकारकाः ॥ ८० ॥
मुद्गाश्चतुर्गुणा ज्ञेयाः८१ कफपित्तहरास्तथा ।
कषाया मधुराः प्रोक्ता एते मुद्गगुणाः स्मृताः ॥ ८१ ॥
चणकः षड्गुणः प्रोक्तः कफहृत् पित्तहृत् तथा ।
शुक्रहरो वातकरः शीतमोहहरस्तथा ॥ ८२ ॥
७० गुरु पाके etc. not found in P. ७१ Whole verse missing in P.
७२ मूत्रहृत् B. ७३ परमार्थिनः P. ७४ The verse reads as follows in P. :—
कथिता द्वादशा मल्ला रौक्षा शीतास्तथैव च । गुरुः स्वादु वंशाश्च शीतजा वाचकारकाः ॥
७५ मेदहरा P. ७६ हर्षकराः P. ७७ हरश्चैव B. ७८ हरस्तथा B. ७९ वातुला P.
८० संघामकारकाश्चैव P. ८१ मुहुश्चतुर्गुणेज्ञेयः P. ८२ The line reads as follows
in P. कषायो मधुरः प्रेक्त एते द्रूलचतुर्गुणाः ८३ The line reads as follows in
P. चणाः षड्गुणकाः प्रोक्ताः कफकृत् पित्तकरस्तथा।


आद
माषा
वृष्यो
वातह
गुरुर्भा
एते
कषाय
असृग्
संग्राि
एकाद
सुस्वादु
अशोँघ्नि
बहुविण्
अजिर्णा
अभिष्य
बलकरं
सरसं मां
अथ भोजनम् ।
अतिमात्रं
भोजनं ८६
हेमन्ते ८७
पच्यत्यल्पे
८४ पृष्टे P. ८
८९ तथा च P. ९० नत्यु
not found in P. ९
नेन P. ९७ च मात्रं E
१०१ पंचतालपेधनो P.

आदकी द्विगुणा प्रोक्ताः कफपित्तहरा स्मृता ।
माषाश्च द्वादशगुणाः स्निग्धाश्च मधुरास्तथा ॥ ८३ ॥
वृष्यो^{८४} मेदकरश्चैव कफमांसकरोऽपि च ।
वातकृत् बृंहणश्चैव बलयुक्तः पुरीषकृत् ॥ ८४ ॥
गुरुर्भवति तेनैव माषः सर्वेषु शस्यते ।
एते द्वादश गुणाः प्रोक्ता गुणान्मांसस्य बोर्धतै ॥ ८५ ॥
कषायं मधुरं चैव हृद्यं पित्तहरं तथा ।
असृग्हरं चामिकरं कफवातहरं^{८६} तथा ॥ ८६ ॥
संग्राहिकं रोचकं च बलकृत् ज्वरहरं तथा ।
एकादशगुणं मांसं शीर्षरोगहरं परम् ॥ ८७ ॥
सुस्वादुमत्तिसारं च पित्तासृक्हरं परम् ।
अशोघ्नं^{८७} लघु रूक्षं च कषायं स्वादु चैव हि ।
बहुविष्ठाकरं चैव शीतलं^{८८} च विशेषतः ॥ ८८ ॥
आजंमांसमष्टगुणं स्निग्धं वृद्धिकरं परम् ।
अभिष्यन्दहरं चैव नात्युष्णं^{९०} धातुसाम्यकम् (कृत्) ॥ ८९ ॥
बलकरं बृंहणं च तथा वातहरं परम्ै ।
सरसं मांसं च परं कफवातहरं तथौ ॥ ९० ॥
अथ भोजनम् ।
अतिमात्रं तुं^{९३} रोगायैं अंशदोषचतुष्टकम्^{९५} ( ? ) ।
मोजनं^{९६} हीनमात्रं^{९७} च बलं तेन प्रजायते ॥ ९१ ॥
हेमन्ते^{९८} शीतसंरोधांद् भवति प्रबलोऽनलैः ।
पच्यत्यल्पेन्धनो^{१०१} धातूननलो वायुनेरितः ॥ ९२ ॥
८४ पृष्ठे P. ८५ निबोधत B. ८६ करम् P. ८७ अरंधि P. ८८ साखतं P.
८९ तथा च P. ९० नत्युष्णम् धातुरोचनम् P. ९१ तथा P. ९२ The whole line is
not found in P. ९३ जु P. ९४ रोगा च P. ९५ अशदोषाय तुष्टकम् P. ९६ भोज-
नेन P. ९७ च मात्रं P. ९८ हेमें हेशात् P. ९९ संरोधात् P. १०० न च P.
१०१ पंचतालपेधनो P.

४८ मल्लपुराणे
गोधूमपिष्टकेनापि पाकांश्चैव बहूनपि१०२ ।
गुणान्करोति संयुक्तो घृतेनापि गुडेन च ॥ ९३ ॥
वसन्ते यवं१०३गोधूमाः क्षौद्रं१०४जाङ्गलकान्यपि ।
सुशीततोयसिक्ताङ्गो लिप्ताङ्गश्चन्दनैः शुभैः ॥ ९४ ॥
पाटलावासितं चाम्भः कर्पूरेण च शितलम् ।
शशाङ्ककिरणै रात्रौ सेवितं प्रपिवेन्मुहुँः ॥ ९५ ॥
अन्नादष्टगुणं पिष्टं पिष्टादष्टगुणं पयः ।
पयसोष्टगुणं माषं माषादष्टगुणं घृतम् ॥ ९६ ॥
घृतादष्टगुणं तैलं स्नानसंमर्दनं परम् ।
शाकपाके रुचिकरं केवलं नैव भक्षयेत् ॥ ९७ ॥
माषेन वर्धते कायो घृतेन वर्धते बलम् ।
पिष्टेन वर्धते प्राणः शौर्यमन्नात् प्रवर्धते ॥ ९८ ॥
इति श्रीमल्लपुराणे भोजनप्रकरणं नाम षष्टो नवमं[नवमो]ऽध्यायः ।
१०२ बह्वपि P. १०३ जव B. १०४ क्षौर P. १०५ B ends here with
the colophon. इति श्रीमल्लपुराणे नवमं प्रकरणं समाप्तं । शुभं भवतु । संवत् १७३१ वर्षे पौष
शुक्लपक्ष ११ सोमवार शुभांलिखितं दुनीचंद्रेणे ।
पञ्चोत्तरं पंचशतं च मल्ला
संस्थापिता चक्रधरेण भक्त्या ।
तेभ्यः प्रदत्तं निजगात्रविद्या
शरीरसाध्या रिपुनाशकारी ॥ १ ॥

दशमोऽध्यायः ।
श्रमोयं मल्लविद्यायाः कथितः षोडशात्मकः ।
यस्य चाभ्यासतो लोके त्रैलोक्यविजयी भवेत् ॥ १ ॥
रङ्गश्रमस्तम्भश्रमस्तथा भ्रमणिकाश्रमः ।
श्वासप्रेरणिकाभ्यासस्तथाहं(यं) स्थापितश्रमः ॥ २ ॥
ऊहापोहश्रमो(प्य)न्यो गुरुगोणितकश्रमः ।
श्रमो लघुगोणितके श्रेष्ठः स्यात्प्रमदाश्रमः ॥ ३ ॥
आमर्दकीश्रमः श्रेष्ठो याञ्चास्वादनकः श्रमः ।
कुण्डकर्षणकोभ्यासस्तथान्यत्कृतकाराश्रमः ॥ ४ ॥
जलश्रमो बहुगुणः परानारोहणः श्रमः ।
भोजनोर्ध्वभ्रमणिका षोडशैतच्छ्रूमास्थिजाः ॥ ५ ॥
श्रमाणां चैव कथ्यन्ते त्रयो भेदाः पृथक् पृथक् ।
उत्तमा मध्यमाश्चैव भवन्ति च तथाधमाः ॥ ६ ॥
रङ्गश्रमस्तु श्रेष्ठः स्यात् ज्येष्ठः सर्वश्रमेषु च ।
ये चाभ्यासेन सर्वेऽपि श्रमाः सिद्धा भवन्ति हि ॥ ७ ॥
तत्रादौ मध्यमांश्चान्यानन्यांस्ते कथयाम्यहम् ।
स्तम्भश्रमणिका बाहुबाहुभ्रमणमेव च ॥ ८ ॥
गुरुगोणितकश्चैव लघुगोणितकस्तथा ।
गदाश्रमेपि तत्रादौ ततश्च छोनकश्रमः ॥ ९ ॥
अङ्गकावर्तनाभ्यासस्तथा च श्रमकाश्रमाः ।
जलश्रमस्तथा चैव सोपनरो गुरुश्रमः ॥ १० ॥
भोजनोर्ध्वश्रमणिका कपि(थि)ताः सप्त चाधमाः ।
दिनान्तरे यदाभ्यासे बलमोजः प्रवर्धते ॥ ११ ॥

५० मल्लपुराणे
पञ्चदश समाख्याताः कथ्यन्ते विविधश्रमाः ।
अथ पञ्चदशविधैर्लागैश्च च लभ्यते ॥ १२ ॥
ऊर्ध्वलागो मध्यलागस्तथाधोलाग इष्यते ।
निराधारोपि लागः स्यात्कचिदङ्गबलादिह ॥ १३ ॥
वामदक्षिणलागाभ्यां लागश्च कथितः श्रमः ।
उपविश्यैव लागोपि चरणेनापसर्पणम् ॥ १४ ॥
कक्षयोः पादसन्धिश्च धारणं कथितं बुधैः ।
उदरस्कंधयोश्चैव धारणं वरपादयोः ॥ १५ ॥
ऊरुसंधिधारणं च तयोःप्रेरणं परम् ।
त्रिधा स्तम्भाधिरोहणं दण्डाघातस्तथैव च ॥ १६ ॥
अङ्गवर्तनलागश्च तथा पादापकर्षणम् ।
विज्ञेयो दशधा चैव स्तम्भः श्रमसमुद्भवः ॥ १७ ॥
अङ्गस्य सहजं प्राणं स्कन्धप्राणं तथैव च ।
करप्राणं सुविप्राणं दण्डप्राणमपि ध्रुवम् ॥ १८ ॥
तलहस्तभवं प्राणं बाहुप्राणं तथैव च ।
जङ्घाप्राणं कटिप्राणं पादसंधिभवं तथा ॥ १९ ॥
जायते कठिनाङ्गत्वं अन्यस्य च जयस्तथा ।
अग्निवृद्धिः श्रमो ज्ञेयो लघुत्वमपि दृश्यते ॥ २० ॥
इत्येवं पञ्चदशधा प्राणस्तंभश्रमस्तथा ।
अभ्यस्तेन सदा युक्तो नियुक्तविजयी भवेत् ॥ २१ ॥
इति श्रीमल्लपुराणे स्तम्भश्रमलक्षणं नाम सप्तमो[दशमो ]ऽध्यायः ।

एकादशोऽध्यायः ।
कथयाम्यन्यश्रवणं रमणीकमनुत्तमम् ।
तथाक्रमं प्रकुर्वीत मल्लाः पञ्चविधा अपि ॥ १ ॥
अस्थिसारो मांससारो मेदसारस्तथैव च ।
तथास्थिमांससारश्च चतुर्थकः प्रकीर्तितः ॥ २ ॥
तथास्थिमेदसारोपि पञ्चमः (मध्व) प्रयुज्यते ।
पञ्चानां गुणभेदानां भिन्नभ्रमणिका स्मृता ॥ ३ ॥
कथयिष्यामि विधिवद्यो यथा तं करिष्यति ।
क्रमात्त्रयः समाख्याताः पूर्वसूरिभिरेव च ॥ ४ ॥
प्रयस्य क्रमोतिक्रमो धारणाक्रमेति स्मृतः ।
दोषचयस्तनोर्वातकफपित्तसमं (स्य सं)भवः ॥ ५ ॥
तत्रास्थिसारमल्लेन पित्तसारेण तेन तु ।
प्रशस्तक्रमपूर्वं तु कर्तव्या अम्राणिका सदा ॥ ६ ॥
मांससारेण वातेन संयुक्तेन यथा क्रमः ।
इति क्रमभ्रमणिका कर्तव्या सुखमिच्छता ॥ ७ ॥
तथैव मेदसारेण कफवातयुतेन ते ।
सदा गौणितककटिप्राणसंप्राणमेव च ॥ ८ ॥
पवनस्य जयश्चैव एतदष्टगुणं स्मृतम् ।
मल्लानां विजयकरं तस्मादेतत्समभ्यसेत् ॥ ९ ॥
अष्टधा भवति प्राणं बाहुप्रेरणिकश्रमात् ।
तलहस्तभवं प्राणं भुजप्राणं तथैव च ॥ १० ॥
स्कन्धप्राणमुरःप्राणं भुजशीर्षभवं तथा ।
जानुप्राणं कटिप्राणं रोपणं तलपादयोः ॥ ११ ॥

५२ मल्लपुराणे
ऊर्ध्वस्थायिकमेवैतत् प्राण एकादशात्मकः ।
अतः सर्वप्रकारेण श्रममेव सदाभ्यसेत् ॥ १२ ॥
ऊहापोहस्तु कर्तव्यः प्रतिमल्लसमागमे ।
यथा तथ्यं व्यक्तं शृणु अनुष्ठेयं च सर्वदा ॥ १३ ॥
ऊहापोहश्च कार्यस्तु प्राण अष्टविधस्तथा ।
कथं च धारयिष्यामि कथं स्थाप्यामि वा पुनः ॥ १४ ॥
कथं च धारयिष्यामि गमिष्यामि च वा कथम् ।
गृह्यते वा कथं ह्येष रक्ष्यते वा कथं परः ॥ १५ ॥
कथं प्रमाणं क्रियते कथं न क्रियतेऽपि वा ।
गुरुगोणितकाभेदाः श्रेष्ठाः सप्तदशापि वा ॥ १६ ॥
तानहं कथयिष्यामि यथायोग्यं तथाबलम् ।
प्रथमं च नमस्कृत्य कक्षायां जानुसंभवम् ॥ १७ ॥
ध्रियते वामपार्श्वे तु दक्षिणेन पुनस्तथा ।
तथैव कुक्षिज्ञानुभ्यां तले कृत्वा विधारणम् ॥ १८ ॥
धृतेनापि वशं तिष्ठेत्ततो याति तथा पुनः ।
उरसा धारणं तस्मात्ततो दण्डविधारणम् ॥ १९ ॥
पुनश्चैव तु जानुभ्यां तले हस्तविधारणम् ।
पुनरुत्तिष्ठविंशति यथाशक्त्या समभ्यसेत् ॥ २० ॥
ध्रियते वाङ्घ्रिजानुभ्यां लोलयेच्च पुनः पुनः ।
धारणं तलपादाभ्यां तथैव च पुनः क्रमात् ॥ ३१ ॥
अथ धारयकन्ये(स्यै)व स्थानानि परिपूरयेत् ।
शिरसा धारणं चैव शिरसो हननं ततः ॥ २२ ॥
बाहुचालनमेवोक्तं चरणग्रहणमेव च ।
पदस्य संधिग्रहणं करसंधिस्तथैव च ॥ २३ ॥

एकादशोऽध्यायः । ५३
सर्वाङ्गे चालनं चैव भेदाः सप्तदश स्मृताः ।
गुरुगोणिताभ्यां चैव वर्धते प्राण उत्तमः ॥ २४ ॥
एकोनविंशत्यधिकं कथ्यतेऽथ यथा शृणु ।
जङ्घाप्राणू( ण )मुरःकण्ठप्राणं च उत्तमम् ॥ २५ ॥
सर्वाङ्गस्थानसंभूतं जायते प्राणमष्टधा ।
इति ज्ञात्वा च सततं सादरं च समभ्यसेत् ॥ २६ ॥
मयात्वेवं समाख्याताः सर्वे विजयहेतवे ।
त्रयः पीडनका भेदाः कथिता मल्लकर्मणि ॥ २७ ॥
तलहस्तविधारणं कक्षाधारणमेव च ।
भुजसंधिधारणं च त्रयः पीडनकेऽधमाः ॥ २८ ॥
गुणा भवन्ति ये चान्ये शृणु तान् कथितान् मया ।
प्राणं चतुर्धा भवति व्यक्तं पीडनकश्रमात् ॥ २९ ॥
कक्षाप्राणं च भवति प्राणं च करसंधिजम् ।
तलहस्तभवं प्राणं पादप्राणं भवत्यपि ॥ ३० ॥
इति पीडनिकाभ्यां च दृढप्राणं चतुष्टयम्
प्राणपञ्चं गदाभ्यासात् कर्तुमर्हति सर्वदा ॥ ३१ ॥
तलहस्तप्राणं चात्र भुजप्राणं तथा पुनः ।
यो वा छोटनकाभ्यासात् प्राणत्रयसमुद्भवः ॥ ३२ ॥
तलहस्तभवं प्राणं पोवाप्राणं तथैव च ।
भुजप्राणं तथैवात्र सदा तेन समभ्यसेत् ॥ ३३ ॥
मयाद्य कथिता विप्र मल्लानां हितकाम्यया ।
चतुर्विधं भवेत्प्राणं कुण्डकावर्तनश्रमात् ॥ ३४ ॥
जङ्घाप्राणं च प्रथमं कटिप्राणस्तथैव च ।
जितश्वासश्च भवति हृदयं दृढमेव च ॥ ३५ ॥

५४ | मल्लपुराणे
कंदुका(कुण्डक)वर्तनाभ्यासात् सदा तेन समाचरेत् ।
कर्कराश्रमकायोगात्प्राणं चैव चतुर्विधाः(धम्) ॥ ३६ ॥
जङ्घाप्राणं कटिप्राणं लघु तव भवत्यपि ।
पदनस्य जयश्चैव अर्थश्च जायते सदा ॥ ३७ ॥
तेन तत्सर्वदा कुर्यात्कर्कराश्रममुत्तमम् ।
प्राणद्वयं जलाभ्यासात्कर्तृर्भवति निश्चितम् ॥ ३८ ॥
भुजप्राणमुरःप्राणं सर्वं तेन समाचरेत् ।
सोपानरोहणे चैव प्राणत्रयमुदाहृतम् ॥ ३९ ॥
भोजनार्थभ्रमात्पुंसां त्रिविधं प्राणमेव च ।
जायते सर्वसामान्यं तथैव च समाचरेत् ॥ ४० ॥
पञ्चदशविधानोपि श्रमे प्राणसमुद्भवः ।
एवं रङ्गसमभ्यासात्प्रशमो जायते तनुः ॥ ४१ ॥
तेन सर्वश्रमाणां तु ज्येष्ठी रङ्गश्रमोधिकः ।
इति ज्ञात्वा गुणान्सर्वानुत्तमा गुणहेतवः ॥ ४२ ॥
मर्दना भीमसेनी च दातव्या शत्रुमर्दिनी ।
अष्टौ गुणा भवन्त्येते शृणु वा कथयाम्यहम् ॥ ४३ ॥
श्वासहरा वृद्धिकरा तथा श्रमहरापि च ।
मेदोहरा प्राणकरा सुशरीरकरापि च ॥ ४४ ॥
तथोत्करकरौ चैव तथाप्यायनकरापि(च) ।
देयास्थिमांससारस्य भीमसेनी च मर्दनी ॥ ४५ ॥
त्वग्रुधिरमांसमेदपर्यन्तेनाभिसंयुता ।
गुणाः सप्त भवन्त्यत्र स्फुटं ते कथयाम्यहम् ॥ ४६ ॥
निद्रां करोति प्रथमं तथा तेजः करोति च ।
शौर्यकरा दीपनी च अङ्गशुद्धिकरोति च ॥ ४७ ॥

कुरुतेऽत्यन्तशोभा च मनस्थिरकरा तथा ।
भीमसेनी च दातव्या मांससारस्य मर्दना । ४८ ॥
त्वग्रुधिरमांसपुष्टस्य लघुसारेण वर्द्धयेत् ।
करोति च गुणान्सप्त शृणु सर्वसुखावहान् ॥ ४९ ॥
उत्साहं कुरुते चाशु तथा ह्रादं करोति च ।
सुखं करोति परमं लाघवं कुरुते परम् ॥ ५० ॥
मेधां ददाति परमां तन्द्रां च हरयेत्सदा ।
एवं सा कुरुते भद्र श्वाससारस्य मर्दना ॥ ५१ ॥
तेन सर्वैस्तथा सेव्यो मल्लैः सर्वाङ्गसिद्धये ।
तथा मांसास्थिसारस्य लघ्वी देया च मर्दना। ॥ ५२ ॥
त्वग्रुधिरपुष्टिकरा प्रजाह्लादप्रदायिनी ।
चलकरा दीप्तिकरा चक्षुरारोग्यकारिणी ॥ ५३ ॥
कायाशोधकरा चैव कायामार्दवकारिका ।
मर्दनाय परा नास्ति कार्या सौष्ठवकारका ॥ ५४ ॥
अस्थिगता मांसगता तथा मलगतापि वा ।
श्रुता सा परमा गुह्या साम्या चैव पृथक् पृथक् ॥ ५५ ॥
प्रथमा भीमसेनी च तथा नारायणी परा ।
तृतीया चित्रिणी प्रोक्ता मसृणी च तथा परा ॥ ५६ ॥
चेतःप्रकरा चैवेयं कथिता कैटभारिणा ।
प्रथमा चरणे देया द्वितीया जानुनि न्यसेत् ॥ ५७ ॥
तृतीया च करे देया मसृणी पट्टके तथा ।
पुनश्चतुर्विधा देया द्वात्रिंशद्गुणकारिका ॥ ५८ ॥
तथा त्रयोदशगुणैर्हेतुभिर्नामदोहरा ।
श्रमहरा तथा वातहरा च कफहारिणी ॥ ५९ ॥

५६ मल्लपुराणे
अग्निकरा वृद्धिकरा तनुविस्तारकारिका ।
काठिन्यदा प्राणकरा तथा श्वासहरापि च ॥ ६० ॥
इत्यास्थिता त्रिदशधा कथिता मर्दना मया ।
कष्टं हरन्ति निःशेषजडत्वं यात्यसंशयम् ॥ ६१ ॥
श्रमवानसि वातीति मांसस्य मर्दको भवेत् ।
भीमसेना च मल्लानां देवा(या) नारायणी शृणु ॥ ६२ ॥
चित्रिणी बालवृद्धानां तैलाभ्यङ्गेषु मर्दनी ।
भीमसेनी च विज्ञेया मर्दना सुखकारिका ॥ ६३ ॥
धातुपञ्चकपर्येन्तं जानुपादविमर्दनम् ।
सा ज्ञेया नारायणी चासौ मर्दना सुखहेतवे ॥ ६४ ॥
करस्तु केवलं यत्र दद्यात्त्वक्मांसमर्दना ।
सा मर्दना प्रयत्नेन चित्रिणी कथिता बुधैः ॥ ६५ ॥
तैलाभ्यङ्गे पटे नैव मसृणी त्वक्विमर्दना ।
इति विशेषतो युक्ता मर्दना लोकसंमता ॥ ६६ ॥
ज्ञात्वैतां च बहु शृणु चतुर्णामसमन्विताम् ।
या यस्य रोचतेऽत्यन्तं तां तस्य कारयेद्ध्रुवम् ॥ ६७ ॥
व्यायामः कफनाशाय वातनाशाय मर्दनी ।
स्नानं च पित्तनाशाय तेन मल्ला महाबला ॥ ६८ ॥
इति श्रीमल्लपुराणे सामान्यमर्दनं नामाष्टमोऽध्यायः [ एकादशोऽध्यायः ]

द्वादशोऽध्यायः।
प्राणसाध्यो जयो युद्धे प्राणश्चाङ्गविमर्दनात् ।
श्रमः शरीरसाध्योयं शरीरं पुष्टिकारणम् ॥ १ ॥
अतः शरीरपुष्टीयमुपायं कथयाम्यहम् ।
उचिताहारचेष्टां तु यथा पुष्टिः प्रजायते ॥ २ ॥
वातपित्तकफानां तु प्रकोष्ठे तेन लक्ष्यते ।
तत्र प्रकुप्यति वातः प्रकारैः षोडशात्मभिः ॥ ३ ॥
आम्लतिक्तकषायाणां कटुकानां च सेवनात् ।
मथ्यमानां सर्वाङ्गानां वेगसंधारणादपि ॥ ४ ॥
व्यापीनमासनाच्चैव तथा जलतरणादपि ।
बलवृद्धिकराच्चैव तथा जागरणादपि ॥ ५ ॥
सामान्यमन्नशाकादिभोजनैश्च विशेषतः ।
मेघोद्य(द्भू)मनकाले च जीर्णवस्त्रैस्तथैव च ॥ ६ ॥
इति षोडशधा चैव जन्तोर्वातः प्रकुप्यति ।
इति क्षीयं(बं) प्रयत्नेन यथा सुखमवाप्नुयात् ॥ ७ ॥
अथ वातप्रकोपस्य लक्षणं कथयाम्यहम् ।
त्रायते येन विज्ञाय यथा युक्तिश्चिकित्सिते ॥ ८ ॥
शिरसीव तथा वाते वातश्च श्रोत्रयोरपि ।
नेत्रयोर्हृदये चैव हनुदेशे तथैव च ॥ ९ ॥
स्कन्धयोरङ्गसंधौ च जायते च दिवानिशम् ।
भुजयोश्चैव जङ्घायां सका(संको)चमपि जायते ॥ १० ॥
भ्रमः कम्पस्तथा स्वेदः सी(स्ने)हः पृष्ठोदरेषु च ।
बृंहणं कक्षयोश्चैव नाभिदेशे तथैव च ॥ ११ ॥

गुह्ये चैव तथापन्ने तथा पृष्ठे (क)क्षयोरपि ।
एतेष्वङ्गेषु मल्लानां विकारात् रुक् प्रजायते ॥ १२ ॥
आपरं (अल्पं) भवति चापल्यं त्वक्पारुष्यं च जायते ।
अग्निविषतमा(मता) चैव लक्ष्यन्ते वायुलक्षणम् ॥ १३ ॥
वातप्रशमनोपायं संपातं कथयाम्यहम् ।
स्नेहेनेनाभिषेकश्च नित्यं चोपक्रमादपि ॥ १४ ॥
मन्थादिमं मांसमयं ध्रुवं वातप्रशान्तये ।
दातव्यं भेषजं पश्चादुपवासादनन्तरम् ॥ १५ ॥
ज्ञात्वा प्रयत्नः कर्तव्यः संक्षेमाप्त्यै यशायसे ।
रक्षा च त्रिफलाभिश्च रेचना च अपि स्मृतम् ॥ १६ ॥
रुधिरस्रावमपि च घृतं दुग्धं च शर्करा ।
पित्तप्रशमनं चैव मल्ले कर्तव्यमुत्तमम् ॥ १७ ॥
एलया सितया मिश्रं पयःखण्डेन योजितम् ।
सप्तरात्रप्रयोगेण पित्तं नाशयति ध्रुवम् ॥ १८ ॥
कुर्वन् पित्तप्रशान्तिश्च प्राप्नोति परमं सुखम् ।
इति पित्तप्रशान्तिश्च सर्वं च कथितं मया ॥ १९ ॥
बहुमण्डजलाहारैर्मधुरैश्चातिशीतलैः ।
दधिदुग्धघनान्नैश्च तथैव च नवोदकैः ॥ २० ॥
तथा पित्तविकारैश्च भक्ष्यैश्चेक्षुसमुद्भवैः ।
लवणेन दिवास्वापात्तथैव विषमासनात् ॥ २१ ॥
एतैः प्रकारैश्चान्यैश्च कफः कुप्यति न संशयः ।
इति प्रकोपः कफजो ज्ञातव्यो लक्षणैः सदा ॥ २२ ॥
कथ्यन्ते लक्षणान्यत्र कफकोपभवानि च ।
अङ्गस्य गौरवं चैव तथाग्नेरपि मन्दता ॥ २३ ॥

द्वादशोऽध्यायः। ५९
हृदयस्य सदा क्लेशो सुखं चैव प्रशुष्यति ।
मुखे मधुरता चैव तथालस्यमपि ध्रुवम् ॥ २४ ॥
अतिकासप्रभावोपि तथैव चक्षु पाण्डवा(ण्डुता ) !
प्रज्ञाभ्रमे( मो ) रोमहर्षस्तथैव पीनसा(सो)द्भवः ॥ २५ ॥
कायो निद्रा च तन्द्रा च तथा लाला च पोतनम् ।
जायते यत्र यत्रेदं स्थानानि कथयाम्यहम् ॥ २६ ॥
कण्ठोष्ठरसनास्वेदो दन्तम्लेषु तत्क्षणम् ।
बालप्राणतलेष्वेव तथैव श्रवणान्तरे ॥ २७ ॥
तथा सर्वश्रमस्थाने भवेच्चलचलायनम् ।
विज्ञाय लक्षणैरेतैः श्रमं कुर्वन्ति तत्क्षणम् ॥ २८ ॥
नाशश्चैव प्रकर्तव्यः शुद्धोष्णोदकवारिणा ।
आद्रकं च त्रिकट् कर्म दर्पयित्वा प्रयत्नतः ॥ २९ ॥
बीजपूरकगर्भेण मेलयित्वा च सैन्धवम् ।
कवलानि मुखे धृत्वा चावयित्वा समुत्सृजेत् ॥ ३० ॥
योगमेनं कृतं प्राहुर्निश्चितं कफनाशनम् ।
तस्मादारोग्यप्राप्त्यर्थं शोचनीयं प्रयत्नतः ॥ ३१ ॥
हिंगु सौवर्चलं शुण्ठी दाडिमं मुस्तसंयुतम् ।
उष्णेन वारिणा पीतं हृद्रोगश्वासकासनुत् ॥ ३२ ॥
अन्यौषधानि विज्ञाय कर्तव्यानि च तत्क्षणात् ।
येनैवारोग्यमाप्नोति मल्लः सर्वच्च (त्र) सर्वदा ॥ ३३ ॥
इति श्रीमल्लपुराणे वातपित्तकफनाशकप्रकरणं नाम नवमोऽध्यायः [ द्वादशोऽध्यायः । ]

त्रयोदशोऽध्यायः।
मल्लयुद्धं सविज्ञानं विशेषं कथितं तव ।
इदानीमुपयोगः स्यात्तस्य विस्तारयाम्यहम् ॥ १ ॥
द्रष्टव्यं सततं राज्ञा शास्त्रेण च विवेकिना ।
संग्रामरसिकेनैव नित्यं विविधबुद्धिना ॥ २ ॥
युद्धमुत्साहजननं दुःखहन्तृ विनोदनम् ।
मल्लयुद्धसमं नास्ति तेन युद्धं समारभेत् ॥ ३ ॥
जित्वा च सकलान् रिपून प्रायो निष्कण्टका मही ।
दाविनियाश्च युद्धेन राज्ञां नान्य(द्) विनोदनम् ॥ ४ ॥
अतो रङ्गं समाहूय चतुरैर्नागरैः परैः ।
कलाविद्भिरमात्यैश्च सुहृद्भिश्चैव उत्सवैः ॥ ५ ॥
आहारारोग्यसंपन्नाः श्रमोत्साहसमन्वितः(ताः) ।
संमतं मध्यमं ज्ञेयं सिंहमानं तथाऽधमम् ॥ ६ ॥
इति ज्ञात्वा विधानेव(नेन) देशकालविशेषि(ष)तः ।
कदाचित्कालयोगेन विशेषो भवति श्रमे ॥ ७ ॥
आरोग्यस्य समर्थं च कथं त्राणसमुद्भवः ।
यावत्संख्या पालिता तु श्रमविघ्नः प्रजायते ॥ ८ ॥
ततो द्विगुणाभिरभ्यस्तं प्राप्यते त्राणमुत्तमम् ।
श्रमेण मध्यमं तद्वत् हानाभिरधमं मतम् ॥ ९ ॥
एवं श्रमेण पुष्ट्या च पालिकापिसुखेन च ।
येन केन प्रकारेण त्राणमेवं विवर्द्धयेत् ॥ १० ॥
नियुद्धविद्याबीजमत्राणादपरं वरम् ।
हस्तमेलापकं (:) कार्यो यो येन सदृशो भवेत् ॥ ११ ॥

त्रयोदशोऽध्यायः । ६१
गजो गजेन संयोज्यो प्राणः प्राणवता सह ।
ज्येष्ठिना च समं ज्येष्ठि नियुद्धे विजयो भवेत् ॥ १२ ॥
अन्तरज्येष्ठिनासार्द्धमन्तरज्येष्ठिनं न्यसेत् ।
समं गोपकुलेनैव तथा गोपकुलोपि च ॥ १३ ॥
वृद्धो वृद्धेन संयोज्यो बालकेन तु बालकः ।
भविष्योपि भविष्येण यो यःस्यादपि धर्मतः ॥ १४ ॥
युद्धमेतत्सममात्रेषु कृष्णेन प्रतिपादितम् ।
दातव्यो ज्येष्ठिना ज्येष्ठि प्रतियोद्धा न लभ्यते ॥ १५ ॥
अन्तरज्येष्ठिनौ द्वौ तु योधयेतां परस्परम् ।
कथमप्यन्तरज्येष्ठी प्रतियोद्धा च नो भवेत् ॥ १६ ॥
तदा गोपकुलौ द्वौ च ताभ्यां चैव नियुद्धयेत् ।
भविष्योपि श्रमे पूर्वं सहायो न भवेद्यदि ॥ १७ ॥
समं गोपकुलेनासौ योधयेदविलम्बयेत् ।
वृत्ते गोपकुले द्वन्द्वे भविष्यो बलसंयुतः ॥ १८ ॥
अन्तरज्येष्ठिना सार्धं तथा गोपकुलेन च ।
अन्तरज्येष्ठिनं जित्वा भविष्येण योजयेत्पुनः ॥ १९ ॥
तस्मिन् द्वये पातिते च भविष्येण समं ततः ।
अन्तरज्येष्ठिनौ द्वौ च योज्यौ बलसमन्वितौ ॥ २० ॥
अधमज्येष्ठिना सार्द्धं भविष्यो युद्धमर्हति ।
उत्तमे ज्येष्ठिना जिते सर्वोपि परमं पदम् ॥ २१ ॥
देवकीपालितं पुत्रैर्मल्लवत्परमाप्नुयात् ।
एवं यत्र यस्य येन स तेन तत्र योधयेत् ॥ २२ ॥
हस्तमेलापकं कृत्वा दत्वा योग्यं यथार्थतः ।
मदेन युध्यते हस्ती मल्लश्लाघेण युद्धयति ॥ २३ ॥

६२ मल्लपुराणे

वर्द्धनीयं द्वयं चैव मल्ले त्राणं गजे मदम् ।
मल्लानामनुकथ्यन्ते त्रयोविंशतिसंयमाः ॥ २४ ॥
चेतसा संयमश्चादौ तस्यादौ वाक्यसंयमः ।
दृष्टिसंयम एतस्य तथा वस्तुनि संयमः ॥ २५ ॥
मुखस्य संयमोप्यत्र नीतिसंयम एव च ।
भवस्य संयमः कार्यो मायायाः संयमोपि च ॥ २६ ॥
कामस्य संयमः पश्चात्कर्मणोपि च संयमः ।
अपत्यसंयमो नायमाहारस्य च संयमः ॥ २७ ॥
आसने संयमोप्यस्ति श्रमे वान्योस्ति संयमः ।
श्वासस्य संयमो दृष्टः शयने संयमस्तथा ॥ २८ ॥
पानेपि संयमस्तद्वत्तथा वातस्य संयमः ।
निद्रायाः संयमो यद्वदन्योन्यं सत्यसंयमः ॥ २९ ॥
दानस्य संयमो जातो दुर्लभो धर्मसंयमः ।
एते मल्लैः सदा कार्याः संयमास्त्वेकविंशतिः ॥ ३० ॥
एतैः कृतैः सदा मल्लो जयमाप्नोति निश्चितः ।
अन्नैरूत्पद्यते कामः कामाद्वेगा भवन्ति हि ॥ ३१ ॥
अतो मध्यं सेव्यं च मल्लैरेतच्चतुष्टयम् ।
वेगक्षुत्पिपासाश्च निद्रा चैव तथा पुनः ॥ ३२ ॥
असेवितास्ताडयन्ति प्रकुप्यन्ति हि सेविताः ।
अतो यथाक्षणं सेव्या कदर्पहर्षशान्तये ॥ ३३ ॥
बलहानिर्महान् रोगो नाहारात्कामसंक्षयः ।
तेनाहारः समास्थेयो योगक्षेमाय सर्वदा ॥ ३४ ॥
अपानाज्जायते शोषो ह्यग्निनाशोतिपानतः ।
अतो मुहुर्मुहुः सेव्यमल्पाम्भश्च प्रयत्नतः ॥ ३५ ॥

त्रयोदशोऽध्यायः । ६३
असेवितेङ्गजाड्यं च मोहं च कुरुते परम् ।
मेदोवृद्धिं करोत्यत्राङ्गानि(न)श्चैनाति(तानि) सेवते ॥ ३६ ॥
अतो मल्लैः सावधानैरङ्गसौख्यविवृद्धये ।
यथाक्षणमियं निद्रासेवनातिशयेन च ॥ ३७ ॥
असेविता पीडयन्ति(ति) नाशयत्यतिसेविता ।
अतो यथार्थतः सेव्यमन्नाद्येतच्चतुष्टयम् ॥ ३८ ॥
मलमूत्रमरुच्छुक्रवेगान् कापि न धारयेत् ।
भगन्दराश्मरीगुल्मगुदजानां प्रबोधयेत् ॥ ३९ ॥
जितेऽजितेन्द्रियग्रामे जितं तेन चराचरम् ।
अतश्च कामकं ज्ञेयं येन स्याद्विजितेन्द्रियः ॥ ४० ॥
मल्लैःसह शरीराणि मनसा गन्तुं दूषणम् ।
न बाध्योयं च सर्वेषां तस्मादेतत्समभ्यसेत् ॥ ४१ ॥
अभ्यासः क्रियते यस्मात्तस्मादध्यात्ममुच्यते ।
शब्दस्पर्शरूपरसगन्धाः पञ्च तथैव च ॥ ४२ ॥
आत्मबुद्धीन्द्रियाण्यर्था बहिः करणमुच्यते ।
एते बुद्धीन्द्रियाण्यत्र विषयाः परिकीर्तिताः ॥ ४३ ॥
उत्सर्गः खादनं चैव ग्रहणं लपनं गतिः ।
कर्मेन्द्रियाणामेते हि विषयाः परिकीर्तिताः ॥ ४४ ॥
आत्मा मनश्च बुद्धिश्च अन्तःकरणमुच्यते ।
आत्माबुद्धीन्द्रियाण्यर्था बहिः करणमुच्यते ॥ ४५ ॥
शब्दान्मृगो गजः स्पर्शात्पतङ्गो रूपतस्तथा ।
रसा(स)न्नलिर्गन्धान्मत्स्यो विषपंचे(षे पञ्च) पतन्ति च ॥ ४६ ॥
तस्माद्देशं च कालं च ज्ञात्वा विभवमात्मनः ।
अनासक्तैश्च सेव्यन्ते विषयान्भोगमात्मनः ॥ ४७ ॥