मल्लपुराण (ज्येष्ठिमल्ल - प्राचीन भारतीय मल्लविद्या, अखाड़ा व्यायाम व कुश्ती महाग्रन्थ)
Malla Purana: Ancient Indian Wrestling & Martial Arts
ज्येष्ठिमल्ल परम्परा (सम्पादक: भोगीलाल ज. सांडेसरा एवं आर. एन. मेहता) द्वारा
पृष्ठ 107, कुल 141 में से
संदर्भ में पढ़ें६२ मल्लपुराणे
वर्द्धनीयं द्वयं चैव मल्ले त्राणं गजे मदम् ।
मल्लानामनुकथ्यन्ते त्रयोविंशतिसंयमाः ॥ २४ ॥
चेतसा संयमश्चादौ तस्यादौ वाक्यसंयमः ।
दृष्टिसंयम एतस्य तथा वस्तुनि संयमः ॥ २५ ॥
मुखस्य संयमोप्यत्र नीतिसंयम एव च ।
भवस्य संयमः कार्यो मायायाः संयमोपि च ॥ २६ ॥
कामस्य संयमः पश्चात्कर्मणोपि च संयमः ।
अपत्यसंयमो नायमाहारस्य च संयमः ॥ २७ ॥
आसने संयमोप्यस्ति श्रमे वान्योस्ति संयमः ।
श्वासस्य संयमो दृष्टः शयने संयमस्तथा ॥ २८ ॥
पानेपि संयमस्तद्वत्तथा वातस्य संयमः ।
निद्रायाः संयमो यद्वदन्योन्यं सत्यसंयमः ॥ २९ ॥
दानस्य संयमो जातो दुर्लभो धर्मसंयमः ।
एते मल्लैः सदा कार्याः संयमास्त्वेकविंशतिः ॥ ३० ॥
एतैः कृतैः सदा मल्लो जयमाप्नोति निश्चितः ।
अन्नैरूत्पद्यते कामः कामाद्वेगा भवन्ति हि ॥ ३१ ॥
अतो मध्यं सेव्यं च मल्लैरेतच्चतुष्टयम् ।
वेगक्षुत्पिपासाश्च निद्रा चैव तथा पुनः ॥ ३२ ॥
असेवितास्ताडयन्ति प्रकुप्यन्ति हि सेविताः ।
अतो यथाक्षणं सेव्या कदर्पहर्षशान्तये ॥ ३३ ॥
बलहानिर्महान् रोगो नाहारात्कामसंक्षयः ।
तेनाहारः समास्थेयो योगक्षेमाय सर्वदा ॥ ३४ ॥
अपानाज्जायते शोषो ह्यग्निनाशोतिपानतः ।
अतो मुहुर्मुहुः सेव्यमल्पाम्भश्च प्रयत्नतः ॥ ३५ ॥