सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

Malatimadhavam of Mahakavi Bhavabhuti with Commentary

महाकवि भवभूति द्वारा

DevanagariHindipublished377 पृष्ठ

६० जगद्धरकृता [ अङ्कः ५

पृ० प०
११५ १ अतिमुक्तमङ्गयो० । ३ अपि कर्णजाह० । ४ तदङ्ग-
परिवर्तमा० ।

रतिशया भा यत्र तादृशमाननं यस्य । अत एव हेयत्वार्थं मृगाङ्कपदेनोपन्यासः ।
यस्य वामः पाणिविनयं हरत्यपनयति । तत्र हेतुमाह । प्रविगलदसृक्पङ्कः स्रवद्रु-
धिरकर्दमः । ललच्चञ्चलं नरजाङ्गलं महामांसं यत्र सः । न हि विनीतो रक्तं महा-
मांसं च धारयति । अत्र पूर्वार्धेन ललितमुत्तरार्धेन विकटत्वमुक्तम् । अत एव
व्यक्तसाहसः । महामांसधारित्वेन वीरबीभत्सरसावुक्तौ । यदाह—'उत्साहाद्यव-
सायाद्विस्मयहर्षाच्च मोहाच्च । विविधाद्वन्धविशेषाद्वीररसो नाम संभवति ॥ अन-
भिमतदर्शनेन च गन्धरसस्पर्शशब्ददोषैश्च । उत्तेजनैश्च बहुभिर्बीभत्सरसः समुद्भव-
वति ॥' दधदित्यत्र 'नाभ्यस्ताच्छतुः' इति नुमो निषेधः । 'जङ्गलं निर्जनस्थाने
त्रिलिङ्ग्यां पिशितेऽस्त्रियाम्' इति मेदिनीकारः ॥ ५ ॥ पणायिता विक्रेता ।
विगलितप्रायो भ्रष्टप्रायः ॥ व्योम्न इत्यादि । गगनस्योपान्ता ध्वान्तलताभिर्व्या-
प्यन्ते । तमालपुष्पस्तबकपङ्क्तिभिरिव । एवं च पृथिव्युपान्तभागेन नूतने जले
मज्जतीव । उत्प्रेक्षेयम् । त्रियामा रात्रिः । प्रारम्भे प्रदोषमात्रेऽपि नीलत्वं निजं
वनेषु तरुणयति । कीदृशम् । वातानां समूहो वात्या तस्याः संवेगेन निवर्तनेन
विष्वक् चतुर्दिशं वितता विस्तारिता वलयिता वलयाकारा स्फीता गभीरा या
धूम्या धूमसमूहो नीहारो वा तत्सदृशम् । एवं चान्धकारोपमाद्गतप्राया संध्ये-
त्यर्थः । 'धूम्या धूमसमूहेऽपि नीहारेऽपि निगद्यते' इति धरणिः ॥ ६ ॥ साशंसं
सप्रार्थनम् । प्रेमेत्यादि । मुग्धदृशो मालत्यास्तास्ता अनुभूताश्चेष्टाः संभोगे चुम्ब-
नादयो मयि पुनर्भूयासुः । 'चेष्टाविशेषाः संभोगे चुम्बनालिङ्गनादयः' इति
कण्ठाभरणम् । कीदृश्यः । प्रथमं प्रेम्णा संभोगप्रीत्यार्दा इव तापशान्तिहेतुरोमाञ्चा-
दिजनकत्वात् । ततो विश्वासमुपेत्य चित्तप्रसादस्पृशः । ततः परिचयात्सुखास्वा-
दभेदादुद्भूतरागोद्रेकाः । निसर्गमधुराः सहजमनोज्ञाः । यास्वाशंसोपनीतास्वपि
क्षणान्निरतिशयसुखघनो लयो लीनता भवति तासु चेष्टासु मनो लीयत इत्यर्थः ।
कीदृशः । अन्तःकरणस्य मनसो बाह्येन्द्रियव्यापारावरोधनशीलः । मालतीमय-
त्वेन तन्मनो बाह्यविषये न व्याप्रियत इत्यर्थः । अत एवानेकशङ्कातङ्कसंकुलेऽपि तत्र
स्थाने माधवस्य न साध्वसादिकमपीति भावः । यद्वा । तास्ताश्चेष्टा बकुलवीथ्यादिषु
यास्तया कृतास्तास्ता मयि भवेयुः । तासामेव दुर्लभत्वादाशंसनीयता ॥ प्रथम-
प्रीतिहेतुत्वादालिङ्गनमाशास्ते— अतिमुक्तेत्यादि । प्रियया सह तदङ्गपरिवृत्ति-
मप्यहमाप्नुयाम् । तत्तस्या अङ्गे क्रोडे सर्वतोभावेन वर्तनम् । हृदयालिङ्गनमित्यर्थः ।
अपिर्भिन्नक्रमः । यद्वा तदङ्गे परिवर्तनमूर्ध्वाधःक्रमेण पुरुषायितमाप्नुयाम् । कीदृशः ।
प्रियया कर्णजाहे कर्णमूले विनिवेशितमाननं यत्र । ममापि सः । प्रथमपक्षे कर्ण-
मूलेऽर्पितमाननं येन सः । 'तस्य पाकमूले पील्वादिकर्णादिभ्यः कुणब्जाहचौ'
इति मूले जाहच्प्रत्ययः । अतिक्रान्ता मुक्ता यया सातिमुक्ता । मुक्ता मुक्ताहा-

An exact, line-by-line transcription of the Sanskrit text from the image:

अङ्कः ५ ] मालतीमाधवटीका । ६३
पृ० प०
११६ ३ ॰धुना तत्संदर्शनेनातिखरोपोऽपि न विशे० । ४ ॰सं-
भावितात्मजन्मनः संस्कारा० ।
११७ १ ॰करोत्यन्तर्वृत्ति० ।
रमपास्य तदर्पणादतिक्रमः । यद्वा अतिमुक्तातिबिरला मालत्यवलोकव्याख्यानात् ।
एतादृशी या मद्ग्रथिता केसरावली तस्याः सतताधिवासेन सुभगः सुरभिरर्पित-
स्तनौ यत्रेति क्रियाविशेषणम् । अविमुक्तेति पाठो न मनोहरः । अविमुक्तत्वादेव
सतताधिवासस्य लब्धत्वात्सततग्रहणस्य व्यर्थत्वात् ॥ ८ ॥ संभूयेत्यादि । तस्या-
स्तनमुखं पुनरपि पश्येयमित्येतदेव प्रार्थये । अङ्कप्राप्तेर्दुर्लभत्वादिति भावः । कीदृ-
शम् । कामस्य मङ्गलार्थं गृहम् । तत्र कामो हृष्टो वसतीत्यर्थः । यद्

प्रकारानाह—लीनेव निहुतेव । यत्र यस्य संबद्धस्य न प्रत्यक्षोपलम्भस्तत्र
तल्लीनामित्युच्यते । यथा पयसि लीनं लवणम् । सर्वत्रात्र लग्नस्य प्रकारभेदे-
नोपमाभेदाः । पूर्वपूर्वापरितोषाद्वा । तथा हि । लीनस्याप्रतिभासात्स्पष्टप्रतिभा-
सार्थमाह—प्रतिबिम्बितेव । यत्र स्वच्छद्रव्याभिहतं चक्षुः परिवृत्य द्रव्यानंतरं
गृह्णाति तत्तत्र प्रतिबिम्बितमित्युच्यते । यथा स्फटिके रक्तपुष्पम् । प्रतिच्छायया
वस्त्वन्तरसंसर्गाधीनत्वेनासाहजिकत्साहजिकत्वोपवर्णनायाह—लिखितेव । य-
त्प्रशिथिलावयवसंयोगाश्रयेण द्रव्येण घनद्रव्योपरि संस्थानविशेषवनिर्मीयते तत्तत्र
लिखितमित्युच्यते । यथा पत्रे लिपिः । लिखनस्य जलाद्युपनिपातविना-
शितया न चिरस्थायित्वमतस्तदर्थमाह—उत्कीर्णरुपेव । यद्यत्र निबिडद्रव्ये
तादृशेन किंचिदवयवविभागः क्रियते तत्तत्रोत्कीर्णम् । यथा टङ्कादिना शि-
लादि । अस्याप्येकभागवृत्तितया सर्ववृत्तित्वार्थमाह—प्रत्युप्तेव प्रत्युप्तमर्धरोपि-
तम् । यद्यत्र द्रव्यानंतरसंसर्गे तत्तत्र प्रत्युप्तम् । यथाङ्गुलीयके मण्यादि ।
अस्यापि शक्योद्धारत्वान्निबिडसंबन्धायाह—वज्रलेपघटितेव । यद्यत्र किंचिद्घ-
नद्रव्याभिघातजन्यकर्मजन्यसंयोगविभागानाश्रयस्तत्तत्र वज्रलेपघटितम् । यथा
हीरकादि । तथापि लेपस्य बहिर्वृत्तित्वादन्तःसंसर्गार्थमाह—अन्तर्निखातेव ।
यद्यत्र संबद्धमूर्ध्वाधःसंयोगादिना धृतं नोपलभ्यते तत्तत्र निखातमित्युच्यते । यथा
भूमौ मूलकादि । निखातत्वं सर्वरोपणमुक्तमर्धरोपणमित्यनयोर्भेदः । निखात-
स्यापि निर्बन्धातिशयेन शक्योद्धारतया विवेकादिदुःशक्यत्वार्थमाह—कामस्य
पञ्चभिः शरैः कीलितेव । कीलितस्य प्रतिकीलनोद्धार्यतयाशक्योनमूलनायाह—
चिन्तापरम्परासूत्रसमूहेन गाढं यथा स्यात्तथा स्यूतेव सीवनं प्रापितेव । जाल-
निविडसीवनेनानुच्छेदनीयत्वमुक्तम् । इहोपाधेयाभेदेऽप्युपाधिभेदादपौनरुक्त्यमि-
त्यवधेयम् । एकमेव हि वस्तु तत्तदुपाधिवैशिष्ट्याद्भिन्नबुद्धिविषयो यथा दण्डिकुण्ड-
लिवादिः । यद्वा नोऽस्माकं चेतसि सा लग्ना दृढं संबद्धा । दृढसंबद्ध एव लग्न-
पदार्थः । 'शरोलग्नः' इत्यादौ तथा दर्शनात् । दृढसंबद्ध एव नानाप्रकारेण
स्थिरीक्रियते । कामबाणपञ्चकेन कीलितेव । चिन्ताप्रवाहरूपतन्तुसंतत्या स्यूतेव ।
ननु द्वयमप्यदो न युक्तम् । तया सद्धान्तस्य चैतन्यस्य संबन्धाभावात् । अतो
विषयविषयिभावप्रकाशान्नमतभेदेनाह—लीनेवेति । लीनत्वं तदात्मतया संबद्धत्वम् ।
विषयविषयिणोस्तदात्मरूप एव संबन्ध इति योगाचारमतमनेनोक्तम् । प्रतिबि-
म्बितेवेति सांख्यमतोपदर्शनम् । लिखितेवेति सौत्रान्तिकमतोपदर्शनम् । तत्र हि
ज्ञानेन स्वीयाकारार्पणं विषये क्रियत इति तत्तदाकारस्याभिव्यक्तिः । शिलादौ
तुरगादिवदिति लिखनसाम्यम् । उत्कीर्णरूपेति विषयाकारेण चैतन्यपरिणाम इहो-
त्कीर्णरूपता । अत्र डिण्डिममतम् । प्रत्युप्तेवेति पूर्वरूपतिरोधानादन्यरूपार्विभावेन

अङ्कः ५ ] मालतीमाधवटीका । ६३
पृ० पं०
११९ ३ भवत्वाघोषयामि तावत् (उच्चैः ।) भोः । पूतं नि-
र्व्याजं० । ७ ०दुत्तालवेतालमुक्तमु० ।
२२० ५ ०विघसैराघर्घरं क्र० । ८ ०शाचानाम् । एते हि० ।
९ तपष्पृथुरस० । १० ०दार्य विवर्णदे० ।
सुवर्णरचितभाजनादाविव तत्तद्विषयाकारतया ज्ञानपरिणाम इति पातञ्जलमतम् ।
वज्रलेपघटितेवेति नैयायिकमतम् । तदीयतामात्ररूपो हि स्वभावभेदः प्रकाशस्य
विषयविषयिभावः । अयं च तावद्वस्तुस्थिरतया वज्रलेपघटनातो न भिद्यते ।
अन्तर्निखातेवेति विज्ञानवादिमतोपदर्शनम् । अत्र हि विज्ञानस्यान्तर्निखननान्न
बाह्यवस्तुस्थितिरिति । इहापि तथा । एते च विषयविषयिभावविकल्पाश्चिन्ता-
प्रकारत्वान्माधवस्य चित्ते विपरिवर्तन्ते । एवं च चेतसा सह संबन्धः । पश्चा-
त्कीलनेन वा सीवनेन वा गाढसंबद्धतां गता भवति लग्ना । ततश्च तद्दर्शनं महा-
पुरुषानुभूतं तस्येति किमत्र चित्रमिति भावः । अत्र पञ्चभिरित्यनेन युगपत्काम-
बाणविषयत्वमात्मनो निवेदयता दुःसहदशाशालित्वं सूचितम् । चेतोभुव इत्यनेन
तत्प्रभवस्य तस्य मर्मज्ञता ध्वनिता । 'यथाशक्ति यथायुक्ति यथागति यथामति ।
यथाधीति यथानीति विवेचितमिदं मया' ॥ १० ॥ माधवः । कौणपनिकायो
राक्षससमूहः । रौद्रता भीषणत्वम् ॥ पर्यन्तेत्यादि । तमः कर्तृ । चिताज्यो-
तिषामौज्ज्वल्यं परभागतो गुणोत्कर्षाधानात्प्रकटयति व्यक्तीकरोति । तमसि
संनिहिते सति तेजसां कान्त्युत्कर्षः स्फुट एवेति भावः । कीदृशं तमः । आ-
भोगात्परिपूर्णतया भीमम् । चितालोकमण्डलस्य पर्यन्ते निकटदेशे प्रतिरोधन-
शीलं मेदुरं स्निग्धं चयेन सङ्घेन स्त्यानं घनम् । यद्वा । पर्यन्ते यः प्रतिरोधोऽन्ध-
कारस्य प्रसरणनिवारणं तेन मेदुरो मांसलो यश्चयस्तेन घनमित्यर्थः । कटाः शवाः
पूतनाः श्मशानवासिनो राक्षसास्तत्प्रभृतयोऽन्येऽपि तत्रत्याः शृगालादयः किल्कि-
लाकोलाहलैः किलकिलाहूपारावैः संराविणं परस्पराह्वानं कुर्वते । संमदाद्दर्पात् ।
उत्ताला उद्भटाश्चञ्चला वा । तालादुद्धता उत्तालाः । सुप्सुपेति समासः । तेनान्यो-
न्यहस्ततालवन्त इति वा । संसक्ता मिलिता आकुलास्त्वरायुक्ताः केलयः क्रीडा
येषां ते । यद्वा संसक्तत्वेनाकुला केलिर्येषां ते । संसक्त इति भावप्रधानम् । यद्वा
संसक्ता कुलेन स्वयूथेन केलिर्येषां ते । त्रिपदबहुव्रीहावुत्तरपदत्वाभावान्न पुंवद्भावः ।
'सान्द्रे स्निग्धे च मेदुरः' इत्यमरः । किलकिलेत्यव्यक्तशब्दः । अविभावितविशेषः श-
ब्दसमूहः कोलाहलः । संपूर्वादीतेरभिविधौ भाव इन्गुण । तदन्तात्स्वार्थेऽण् । आदिष्ट-
द्भिः । शवानां शब्दकरणं वेतालाधिष्ठानात् । रौद्ररस इह । तल्लक्षणं भरते—'इति
रौद्रो रसो दृष्टो रौद्रैरेवाङ्गचेष्टितैः । शस्त्रप्रहारभूमिष्ठभयकम्पक्रियात्मकः ॥' इति
॥ ११॥ भो भो इत्यभिमुखीकरणरूपे संबोधने । निकेतनं गृहम् । अशस्त्रेत्यादि ।
अशस्त्रपूतं संमुखपतितस्य खर्गिणो मांसं शस्त्रपूतमतस्तेषामग्राह्यम् । इदमिति न

६४ जगद्धरकृता [ अङ्कः ५

पृ० प०
१२१ १ ललदजगर० । ३ हन्त, बीभत्समेवाग्रे० । निर्भिद्यो-
कृत्य कृ० । ०पृथूच्छ्रोफभू० । ५ ०ष्ठ पिण्डाद्य० । ६
आर्तः पर्यस्तनेत्रः० । ९ ०कथनपरिणमन्मेद० ।
१२२ ३ ०पिशाचाङ्गनानाम् । तथा हि । अग्रे० । ७ स्नेह-
सुराः कपा० ।

तादृशमिदम् । यद्वा अशस्त्रपूतं शस्त्रेणाच्छिन्नम् । धातूनामनेकार्थत्वात् । शस्त्रहतमां-
सस्य रणे सुलभतया तेषामस्पृहात् इदमतादृशमित्यभावः। अव्याजं निष्कपटम्। यद्वा
‘इष्टसिद्धिं पणीकृत्य साहसाद्यदुपार्जितम् । अशस्त्रपूतं निर्व्याजमेतन्मांसं विदुर्बुधाः॥’
इति परिभाषितमेव । ‘क्रियश्चतुष्पदे श्रेष्ठाः पुरुषा द्विपदे तथा’ इति वचनात्प्रश-
स्त्यार्थमाह—पुरुषस्याङ्गादानीयोपकल्पितम् । विक्रीयत इष्टसिद्धिमूल्येनेत्यर्थात् ।
विक्रयस्य मूल्यसापेक्षत्वात् । यद्वा विक्रीयते दीयते । धातोरनेकार्थत्वात् ॥ १२ ॥
‘उच्चैर्घृष्टं तु घोषणा’ इत्यमरः । वेतालः श्मशानदेवताकिङ्करः । ‘तुमुलं रणसं-
कुले’ इत्यमरः । तेषामन्योन्यस्पर्धया रणे संकुलत्वम् । अविभाविताक्षरत्वेनाव्य-
क्तत्वम् । प्रचलित उच्चावचः । संकटो व्याप्तः । कर्णेत्यादि । उल्का ज्वाला मुखे
येषां ते उल्कामुखाः शृगालभेदाः तेषां मुखैर्नभ आकीर्यते व्याप्यते । यद्वा
उल्कामुखा एतन्नामप्रसिद्धा एव रणवासिनो जन्तुभेदाः । कीदृशैः । कर्णसमीप-
विदीर्णसृक्काभ्यां विकटं करालं यद्यादानमास्यविकासस्तेन दीप्तोऽग्निर्यैषु । ऊ-
र्ध्वाधःस्थितदंष्ट्राणां कोटिभिरग्रैर्विशङ्कटैः संकुलैर्विकरालैर्वा सर्वतो धावद्भिः ।
विद्युत्पुञ्जतुल्यानि केशनयनभ्रूश्मश्रुजालानि यत्र तैः । पिङ्गलत्वात्केशादीनां
विद्युत्तुल्यता । अत एवोल्कामुखः शृगालान्यो जन्तुभेद इति पक्षः साधीयान् ।
उल्काप्रकाशालक्ष्याण्यन्यादलक्ष्याणि विशुष्काणि दुर्बलानि दीर्घानि वपूंषि येषां
तेषाम् । एतेन दुर्बलत्वमुक्तम् । ‘प्रान्तावोष्ठस्य सृक्वणी’ इत्यमरः । केशेत्यादौ
पूर्वनिपातविधेरनित्यत्वात्भ्रूशब्दमपहाय केशशब्दस्य पूर्वनिपातः । लक्ष्यशब्दो
प्यति यकारवान् । कर्मणि घञि तद्रहित इत्यवधेयम् । अद्भुतरसोऽयम्
॥ १३ ॥ अपि चेति । अपिर्जुगुप्सायाम् । चः समुच्चये । गर्हामाह—एत-
दित्यादि । एतत्पूतनचक्रं श्मशानप्रेतसमूह आलोकयते । किं कुर्वत् । अत्या-
कुलतयाक्रमेण युगपत्कृतो यो ग्रासस्ततोऽर्धं भूमौ पतितमर्धं चर्वणेन मुख एव
स्थितम् । तत्र भूमिपतितैरर्धभुक्तैर्मनुष्यमांसविघसैरुच्छिष्टैः सर्वत्र वृकान्को-
कानारण्यकुकुराद्यनुत्पुष्णत्पुष्टान्कुर्वत् । अक्रमत्वं प्रतिपक्षशङ्कया । अभिला-
षातिशयाद्वा । कीदृशान् । अहमहमिकया मांसग्रहणादीषद्दष्टैरमव्यक्तशब्दं
यथा स्यादेवं रुदतः । एतत्तु कुक्कुरेषु स्फुटमेव । कीदृशं पूतनाचक्रम् । खर्जूर-
द्रुमदघ्ना तत्प्रमाणा जङ्घा यस्य तत् । एतेन जङ्घानां ग्रन्थियोगित्वकर्कशत्व-
नीरसत्वलोमशत्वानि दर्शितानि । असिता श्यामा या त्वक् चर्म तया नद्धाः
सर्वतो विस्तीर्णा याः स्नायवो ‘नहरु’ इति ख्यातास्ताभिर्ग्रन्थिषु संधिभागेषु

अङ्कः ५ ] मालतीमाधवटीका । ६९
पृ० प०
१२३ ॰कथं द्रागतिप्रशान्तमी॰ । २ ॰षिकाप्रकारै॰ । निः-
सत्त्वता पिशाचानाम् । ४ ॰घूत्कारसंवल्गित॰ । ५
॰चण्डडात्कृति॰ ।
१२४ १ अन्तःशीर्णकरङ्ककर्करतर॰ । १० देहोत्कम्पः स्व॰ ।
घनानि दृढान्यस्थ्नां पञ्जराणि येषां तादृशा जरन्तो जीर्णाः कङ्काला मांसादिशून्या-
स्थिभागा यस्य तत् । वृकपशं शृगालाद्युपलक्षणपरम् । 'कोकस्त्वीहामृगो वृकः'
इत्यमरः । यद्वा 'शालावृकाः कपिक्रोष्टुश्वानः' इति नानार्थेऽमरदर्शनादेतस्यै-
वैकदेशो वृकशब्दः । तेन भीमभीमसेनादिवदस्यापि तावदर्थप्रतिपादकतेत्यव-
धेयम् । यद्वा वृको 'घोष' इति ख्यातः । 'विघसो भोजनशेषेऽपि' इत्यमरः ।
'स्याच्छरीरास्थि कङ्कालः' इत्यमरः ॥ १४ ॥ विहस्येति । अतिसात्त्विकेऽपि
मयि भीषणत्वममी पूतनाः कुर्वन्तीत्यसंबद्धक्रियया हासः । यदाह—'असंबद्धैस्तु
हासः स्यादाग्नेयप्यक्रियादिभिः' इति । प्रकारो वैलक्षण्यम् । ततेत्यादि ।
एते पूर्वोक्तादन्ये पिशाचा विस्तृतदीर्घजिह्वाभीषणमुखविवरं विदार्य व्यादाय
दग्धपुराणरोहिणानामिव द्युतिं दधति धारयन्ति । दग्धत्वेन श्यामत्वं पुराण-
त्वेन जीर्णत्वं दर्शितम् । रोहणो 'रोहिण' इति ख्यातस्तरुः । 'घोधराति' इति
ख्यातो वा । रोहितोऽपि स एव । अत एव 'रोहितः प्लीहनाशकः' इत्यमरोऽपि ।
रोहणानामिति पाठे रोहन्तीति रोहणास्तरवस्तेषामित्यर्थः । ललता चलताज-
गरेण सर्पेण भीषणच्छिद्राणाम् । 'निष्कुहः कोटरं वा ना' इत्यमरः । तदिह
कोटरेणास्यमजगरेण रसना रोहिणेन पिशाच उपमीयन्ते । भयानको रसः ।
यदाह—'विकृतरवसत्त्वदर्शनसंत्रासारण्यशून्यगृहागमनात् । गुरुनृपयोरपराधात्कृत-
श्व(?) भयानको ज्ञेयः ॥' १५ ॥ बीभत्सं घृणाकरम् । निर्भिद्येत्यादि । अयं प्रेतरङ्कः
प्रेतरूपो रङ्कः क्षुधाविशुष्यच्छरीरोऽव्यग्रमनाकुलं यथा तथा क्रव्यं मांसमत्ति खा-
दति । किं कृत्वा । प्रथममादौ कृत्तिं चर्म निर्भिद्य निर्भिन्नीकृत्य पश्चादुत्कृत्य छित्त्वा
उत्कृत्येति पाठे चर्मकोषाकर्षणमुत्कर्तनं तत्पुनः पुनः कृत्वेत्यर्थः । अथानन्तरं
पृथुना महतोच्छोफेन भूयांसि बहूनि मांसानि जग्ध्वा भक्षयित्वा । कीदृशानि ।
अंसयोः स्कन्धयोः स्फिचोः कटिमांसपिण्डयोः पृष्ठे कायपश्चाद्भागे पिण्डयो
जङ्घापाश्चात्यभागयोरुद्दिपदात्कक्षामूलाद्यवयवेषु सुलभानि । उच्छूनत्वात्तेषाम् ।
उग्रपूतीन्युत्कटगन्धीनि । पृथूत्सेधेति पाठे पृथुनोत्सेधेन कायेन बहुतां गतानी-
त्यर्थः । यद्वा उत्सेधेनोन्नत्या भूयांसीत्यर्थः । 'उत्सेधः काय उन्नतिः' इत्यमरः ।
कीदृशो रङ्कः । आर्तस्वारावान् । पर्यस्तमितस्ततः क्षिप्तं नेत्रं येन सः । एतदुभयं
रङ्केषु प्रसिद्धमेव । 'अन्तःपर्यस्तनेत्रः' इति पाठेऽन्तर्मध्ये स्थितनेत्रः । रङ्कत्वेन
कोटराक्षत्वादित्यर्थः । 'आसन्नाग्रवच्चनेत्रः' इति पाठ आसन्नानि गृहीतानि स्राद्यवच्च-
नेत्राणि येन सः । अत एवास्राद्युत्पाटनाय प्रकटितदन्तः । दौर्बल्यप्रकर्षणा-

६६ | जगद्धरकृता | [ अङ्कः ५
पृ० ५०
१२५ ७ ०अम्ब सिणेहमअहिअए हृदा० ।

टप्रकटितदशनलम् । अङ्गस्थात्क्रोडीकृतात्करङ्कात् कपालादाकृष्येत्याक्षेपात् ।
अन्यथापादानानुपपत्तिः । कीदृशं क्रव्यम् । अस्थिषु यत्संतिष्ठति तत् । स्फुट-
गतमपि निम्नोन्नतविषमस्थानगतमपीत्यर्थः । अत एव रक्तः । 'स्त्रियां स्फिचौ
कटिप्रोथौ' इत्यमरः । 'पिण्डः खण्डेऽङ्गभेदे स्यात्' इति मेदिनीकारः । 'करङ्को
मस्तकेऽपि स्यात्' इति धरणिः । अयं बीभत्सो रसः ॥ १६ ॥ निष्ठापेत्यादि ।
एतेऽपि कुणपभुजः शवभक्षकाः पिशाचा बह्नीभ्यश्चिताभ्यः प्रेतकायानाकृष्य
तेषामेव जङ्घानलकं जङ्घाप्रधानमस्थि निष्कुष्य विगतमांसावरणं कृत्वा मज-
धाराः पिबन्ति । मज्जास्थिमध्यस्थितस्नेहः । कीदृशीः । आराद्दूरतः एवोद्-
यिनीर्लम्बमानाः । द्रवमयत्वात् । यद्वा आरात्समीपे पिबन्तीति योजना ।
'आराद्दूरसमीपयोः' इति विश्वः । चिताभूयस्त्वेनातिभीषणतोक्ता । कीदृशान् ।
निष्ठापेनेषत्तापेन स्विद्यन्त्यसृञ्जि येषाम् । 'पद्न्नो-' इत्यादिसूत्रेणासृक्श-
ब्दस्यासन्नादेशेऽल्लोपे रूपम् । अस्र इति पाठो न युक्तः । तृतीयादावस्थीत्यादि-
नानङ्ग्विधानात् । यद्वा प्रेतकायादिति पञ्चम्यन्तः पाठः । अतोऽस्र इति पञ्च-
म्यामनङि रूपम् । चिताभ्य इति ल्यब्लोपे पञ्चमी । 'निस्रस्तपूती' इत्यनभ्यावृत्तौ
छलम् । क्वथनेन पाकक्रमेणाङ्गेषु परिणमज्जीर्यन्मेदो येषां तान्संसृष्टधूमानपि ।
कीदृशं जङ्घानलकम् । उत्पक्कमुच्छूनं कृत्वा पक्वमत एव संसनशीलं मांसं य-
स्मात् । यद्वा उत्पक्केनोद्भूतपाकेन संसि मांसं यस्मात् । उत्पक्क इति भावे क्तः ।
प्रचलन्तः शिथिलीभवन्त उभयतो जानूरुपर्वणो गुल्फाच्च ये सन्धयोऽस्थ्नां पर-
स्परमिलनस्थानानि तैर्निर्मुक्तम् । प्रचलमिति पाठ उभयतः पार्श्वाभ्यां प्रचलम् ।
अत एव सन्धिपरिमुक्तमित्यर्थः । 'कुणपः शवमस्त्रियाम्' इत्यमरः । नलकं 'नरहड'
इति ख्यातम् । 'सरी' इति ख्यातं वा । बीभत्स एवात्र रसः ॥ १७ ॥ अहो इति
बीभत्सशृङ्गारदर्शनेनाश्चर्यम् । प्रादोषिको रात्रिप्रारम्भजः । शृङ्गारबीभत्सयोः
परस्परविरोधेऽपि संस्थानासाम्यात्संमेदाभास इह प्रसाधनाच्चात्र शृङ्गारः ।
यदाह--'ऋतुमाल्यालंकारैः प्रियजनगान्धर्वकाव्यसेवाभिः । उपवनगमनविहारैः
शृङ्गाररसोऽपि संभवति ॥' अत एवायं श्लोकः कण्ठाभरणेऽपि रससंकराभास
उदाहृत इति । अन्त्रैरित्यादि । एताः पिशाचस्त्रियः कान्तैः संभूय मिलित्वा
कपालचषकैरस्थिस्नेहसुरामज्जमयानि पिबन्ति । कीदृश्यः । अन्त्रै रचितो मङ्ग-
लार्थे प्रतिसरो हस्तसूत्रमूर्णामयं याभिस्ताः । अवैधव्यचिह्नं मङ्गलप्रतिसरो
भवति । यद्वा प्रतिसरः कङ्कणम् । तदप्यवैधव्यचिह्नतया मङ्गलम् । 'कङ्कणे
करसूत्रे च भवेत्प्रतिसरोऽस्त्रियाम्' इति मेदिनीकारः । प्लीहस्त एव रक्तपद्मं तेन
व्यक्तमुत्तंसं कर्णभूषणं बिभ्रति याः । सहसा शीघ्रं हृत्पद्ममालाः पिनह्य परिधाय ।
हृत्पद्मस्य श्वेततया पुण्डरीकपदेनोपन्यासः । यदाह-'द्वादशाङ्गुलसंपूर्णे श्वेते
हृदयपङ्कजे' इति मालया मनोहरतयान्या मा गृह्णात्विति परिधाने शीघ्रता ।

अङ्कः ५ ] मालतीमाधवटीका । ६७
पृ० प०
१२६ ६ निशुम्भनिर्भरं० । ९ ०रिषद्यकर्कि वः क्रीडि० ।
अत एव प्रीताः रक्तकर्दमकुङ्कुमवत्यः । अत्र पिबन्त्यस्तीत्यादौ यतिभङ्गशङ्का न
कार्या । संधिकृतपदविच्छेदे तस्यादोषात् । 'रेवां द्रक्ष्यस्रुपलविषमाम्'इत्यादौ
तथा दर्शनात् । 'चषकं पानपात्रं स्यात्' इति हारावली । इह बीभत्समिश्नः शृङ्गा-
ररसः ॥१८॥ झटिति शीघ्रम् । विभीषिका परमभयदायिनी रौद्रता । तस्याः
प्रकारा भेदाः । अपक्रान्तं प्रपलाय्य गतम् । निःसत्त्वा इत्यनेनात्मप्रौढिर्दर्शिता ।
महामांसविक्रयादपि नेष्टलाभ इति निर्वेदः । विचितो व्याप्तः । तमोव्या-
प्तत्वेन कथं विचितत्वज्ञानमित्यत आह— इयमिति । गुञ्जदित्यादि । इयं
सरित्पुरत एवास्ति । पारेश्मशानं श्मशानपारदेशे । 'पारे मध्ये षष्ठ्या वा' इति
समासः । कुञ्ज एव कुटीरोऽल्पा कुटी तत्र या कौशिकघटा पेचकसमूहः । गुञ्ज-
न्तीनां कुञ्जकुटीरकौशिकघटानां घूत्काररूपं संवलितं ध्वनितम् । कन्दच्छृगालानां
डात्कृतिर्डात्कारः शब्दविशेषः । अनयोर्द्वन्द्वः । ताभ्यां भृतः पूरितो यः प्राग्भा-
रोऽग्रतटं तेन भीषणैस्तटैर्लक्षिता । लक्षणे तृतीया । अन्तरभ्यन्तरे शीर्णास्त्रुटिता
ये करङ्काः कपालानि तेषां कंक॑रो भग्नावयवः 'काकर' इति प्रसिद्धो वा कर्क॑रो
यत्र । अत एव तरतां संतरणशीलानां संरोध्यवरोधकः कूलङ्कषः कूलविदारको
यः स्रोतोनिर्गम स्तेन घोरो घर्घरोऽव्यक्तलपो रवः शब्दो यत्र सा । तरःसंरोधीति
पाठे तरसा वेगेन संरोधि गमनविरोधि । कर्क॑रेण दृढेन तरसा संरोधीत्यर्थः ।
'अल्पा कुटी कुटीरः स्यात्' इत्यमरः । घटाशब्दः समूहमात्रवचनोऽपि करिघ-
टादौ लात्यन्तिकस्तस्य प्रयोग इत्यवधेयम् । घूत्कारडात्कृती अनुकरणशब्दौ ।
क्वचित् फात्कृतिरिति पाठः । तत्रापि फात्कृतिरनुकरणशब्द एव । 'फेरुफेर-
वजम्बूकाः' इत्यमरः । 'तटः प्राग्भार इत्यपि' इत्यमरः । 'कर्क॑रो भग्नभागेऽपि
दृढेऽपि खण्डितेऽपि च' इति धरणिः । तदिह करङ्ककर्क॑रसंकुलनदीप्रवाहस्तीरं
पातयति घर्घररवं च कुरुत इति स्फुटमेव ॥ १९ ॥ नेपथ्ये । हा तात इत्यत्र
हायोगेऽपि न द्वितीया । हाशब्दस्य शोकवाचिन उपग्रहात् । तस्य च संबोधने
प्रथमाप्रयोगात् । तदन्यार्थस्य योगे द्वितीयेति न्यासः । अङ्कमुखे स्त्रीरलापहा-
रस्य सूचितत्वानेपथ्ये भणनमिदम् । नाद इत्यादि । अयं तावन्नादः श्रोत्रयोः
संवादं पूर्वोपलम्भाकारतामेति । कीदृशः । विकला त्रस्ता या कुररी 'हापूती'
इति प्रसिद्धा पक्षिवधूतस्याः कूजितवत्स्निग्धः स्नेहस्तार उच्चश्च । त्रासात्तथा-
ल्यतास्तारो नादः । अत एव चित्ताकर्षी प्रियलाञ्चितानुकर्षकः । परिचित इव
पूर्वमुपलब्ध इव । अत एव श्रोत्रसंवादितास्य । परिचयश्च शंकरगृहे वृत्तंः । यदि
श्रोत्रसंवादमेति कथं तर्हीवकार (?) इत्यत आह। अन्तर्भिन्नं द्विधाभूतं संशयाक्रान्तं
हृदयं भ्रमति दोलायते । उभयत आकर्षात् । अत्र मालतीगमनासम्भवात्संवादस्य
च स्फुटत्वात् । यद्वा ह्यन्तर्भिन्नं विद्धमसम्भवेनेत्यर्थात् । तथा बन्धुगतानिष्टशङ्का-
कलङ्गात्प्रत्यङ्गं विह्वलति । करादीनि कम्पन्त इत्यर्थः । तस्याः कथमहिावस्थान-

६८ जगद्धरकृता। अङ्कः ५ ]
पृ० पं०
१२७ ४ ०निष्पीडत्कारफुल्लत्फणा० । ७ च्छटाल्लङ्घभी० ।
मिति भयाद्देहस्तम्भः। यदाह—‘हर्षव्याधित्रासरोषाद्यैः स्तम्भः संभवति । चिन्ता-
स्तिमितता दृष्टिश्च स्खलति’ । कथम कस्मादेव ममेदं वृत्तमिति विमर्शयन्नाह—
कोऽयं प्रकारः किंनिमित्तं स्नेहमाविष्करोति । किमेतत् । सैवेयं किमन्यद्वा तत्तु-
ल्यमित्यर्थः । संमुग्धमिति पाठे कर्णपीडां करोतीत्यर्थः । नादश्रुत्या मोहात्॥२०॥
करालेत्यादि । अयमुत्थितकरुणरसो ध्वनिः कथं वा संभाव्यत इत्यन्वयः ।
उच्चरन्नुत्तिष्ठन् । वितर्कसंप्रधारणमाह—नन्विति । ननु संभावनायाम् । ईदृशा-
संभाव्यमानजातीयानामनिष्टानां जनवधानामिदं करालायतनं स्थानमिति संभाव्यते
॥२१॥ वक्ष्यन्हिद्वं न्यस्त

अङ्कः ५ ] मालतीमाधवटीका । ६९
पृ० प०
१२८ १ ०प्रमादः । ३ रम्भकयो० । ९ ०हा दइअ माह० ।
१२९ २ (शस्त्रमुद्यम्य ।) यदस्तु तदस्तु व्यापादयामि । चा० ।
१० ०त्यक्त्वा शङ्कां प्रलापनिर्गलं ।
पर्यासितः क्षिप्तः पर्वतो यत्र तत् । देव्या अनेकबाहुशालितया दोःखण्ड इत्यु-
क्तम् । 'अब्जादिकदम्बे खण्डमस्त्रियाम्' इत्यमरः । तथा ज्वलतानलेन पिङ्गलं
यन्नेत्रं ललाटलोचनं तस्य छटा ज्वालानिर्गमप्रसरस्तस्य साटेन विस्तारेण भीमं
यदुत्तमाङ्गं शिरस्तस्य भ्रमिर्मण्डलाकारेण भ्रमणं तया प्रसृता प्रारब्धालातचक्र-
क्रिया वह्निप्रज्वलितार्धकाष्ठविशेषकर्म तया स्यूता इवैकत्र प्रतिबद्धा इव दिग्भागा
यत्र तत् । तथातिमहत्खट्वाङ्गाग्रध्वजोत्कम्पादिक्षिप्त इतस्तस्तारागणो यत्र तत् ।
तथा हृष्टकटपूतनोद्भूतवेतालानां तालेन कलकलेन स्फुटत्कर्णात एव संभ्रान्ता
त्रसन्ती सत्वरा वा गौरी तस्या निबिडालिङ्गनेन हृष्यचित्तं त्र्यम्बकं शिवमत्यर्थमा-
नन्दयति । आभीक्ष्ण्ये णिनिः । 'साटो निकुञ्जे विस्तारे' इति विश्वः । 'शङ्खमग्रे-
ऽपि कीर्तितम्' इति शाश्वतः ॥ २३ ॥ माधवः । धिक्प्रमाद इत्यत्र वर्तत
इति क्रियाध्याहारः । तत् 'उपपदविभक्तेः कारकविभक्तिर्बलीयसी' इति धिग्योगे
द्वितीयां बाधित्वा प्रथमेत्यवधेयम् । न्यस्तेत्यादि । सेयं भूरिवसोः सुता यस्याः
कृते मयैवं दुःखमनुभूयते पाखण्डचाण्डालयोर्गोचरं संमुखं गता । पाखण्डेषु चा-
ण्डालोऽसौ । तद्दर्शनविरुद्धक्रियाकारित्वात् । यदाह—'न भुञ्जीतार्कपत्रेषु स्त्रीबालं
नैव घातयेत्' । यद्वा । पाखण्डौ च तौ चाण्डालौ च । निषिद्धक्रियत्वात् ।
यदाह—'अवध्यास्तु समाख्याताः सर्वयोनिगताः स्त्रियः' । चाण्डालत्वादेव पापा-
रम्भवतोर्मारणप्रवृत्तयोः । न्यस्ते अलक्तकरसे माल्यवसने यस्यां सा । एतद्वध्य-
चिह्नम् । यथा मृगी वृकयोः संमुखं गता तथैयं भीरुः । मृगीनयनेन भयचलनेत्र-
तोक्ता । वसोर्देवताभेदस्य । एतेनास्य सुखित्वमुक्तम् । मृत्योर्यमस्य मुखे वर्तते ।
अत एव हाशब्दः परिदेविते स्त्रीरत्नमपि वध्यत इति । निन्दायां धिगिति । वि-
षादे कष्टम् । कोपेऽनिष्टम् । अस्ता नष्टा करुणा दया यत्र एतादृशो विधेरा-
रम्भः कोऽयम् । निन्दितोऽयम् । कीदृग्वा । 'किं वितर्के परिप्रश्ने क्षेपे निन्दा-
प्रकारयोः' इति विश्वः । करुणोऽयं रसः । 'इष्टवधदर्शनाद्वा करुणरसो नाम
संभवति' इति भरतः । 'चण्डालोऽपि च चाण्डालः' इति शब्दभेदः । 'पुष्प-
पुष्पस्रजौ माल्यम्' इत्यमरः ॥ २४ ॥ त्वं भद्रेत्यादि । प्रहर्षिणीच्छन्दसा श्लो-
कार्धम् । चामुण्डे भगवतीत्यामन्त्रणार्थम् । हे भद्रे, यस्तव दयितो वल्लभस्तेनेष्टस्तं
[L

७० जगद्धरकृता [ अङ्कः ५
पृ० प०
१२९ १ ०कथं वर्तताम् ।
स्मरणमाह—यस्येत्यत्र 'अधीगर्थे' इति कर्मणि षष्ठी । यस्य गुणमिति वा । अन्तकाले
माधवस्मरणं मुक्तिहेतुरिति कटाक्षितम् । कपालकुण्डला । हन्त खेदे । काम-
न्दकीमित्रपुत्रत्वान्ममापि माधवस्तादृश एव । तदनुरक्ता चेयं कथं वध्येति खेद
इति भावः । अत एव तपस्विन्यनुकम्पा । अघोरघण्टः । उद्दिष्ट्रां वाचा प्रति-
ज्ञाताम् । उपनिहितामुपढौकिताम् ॥ २५ ॥ माधवः । कफोणेरधोभागो मणि-
बन्धपर्यन्तः प्रकोष्ठः । विक्षिप्यापसार्य । खड्गहस्तत्वेन बाहुमध्येऽपसारणं
जातिः । प्रतिहतो निराकृतः । अपसद निन्दित । मरणेत्यादि । सोऽयं तव
मित्रं पुरत एव वर्तत इत्याक्षेपात् । यो बकुलवीथ्यादिषु सानुरागदर्शनप्रसन्नया
त्वया स्वीकृतः । मरणसमय इत्यनेनानुराग उक्तः । यदाह—'साहसानुरक्तं हि
स्त्रियो भजन्ते' इति । तत्र मुक्ताशङ्को निर्भयः । पाखण्डादिति भावः । अत एव
प्रतापेन निर्गलोऽनभिभाव्यः । प्रलापेति पाठे हा नाथ, माधवेत्यादिमालतीप्रला-
पेन निर्गल उच्छृङ्खल इत्यर्थः । त्यक्त्वा शङ्कामिति पाठे शङ्कां भयं लज्जादिकं वा
त्यक्त्वा । प्रतापनिरानुकुलो वा । प्रतापनिरङ्कुशो वेत्यर्थः । यद्वा शङ्कां त्यक्त्वा यं प्रति
त्वया प्रकटितो निजस्नेहः सोऽयमित्यर्थः । यद्वा अयं कीदृशः । प्रकाशितआत्मस्नेहः ।
मरणसमये रक्षणादिति भावः । हे सुतनु, अत उद्गतं कम्पं त्यज । असौ पापः सं-
प्रत्येव पाप्मनो निषिद्धाचरणस्य फलं मरणरूपमुग्रं तीव्रमनुभविष्यति । संप्रतीत्यनेन
प्रकृतोपयुक्तं निजाप्तत्वं पौरुषं च ध्वनितम् । कीदृशस्य । प्रतीपो विपरीतो वि-
पाको विरुद्धपरिणतिर्यत्र तस्य । अनुभवतीत्यत्र 'वर्तमानसामीप्ये वर्तमानवद्वा' इति
भविष्यति लट् । शृङ्गारवीरसंभेदोऽत्र ॥ २६ ॥ अघोरघण्टः । अन्तरायो
विघ्नः । कपालकुण्डला । भूमिः स्थानम् । मालती । त्रासातिशयाच्चिरानिः-
श्वासः । अत्रोपरि सौधोपरि । अलिन्दे 'ओट' इति प्रसिद्धे । यूयमिति । अ-
हमबला सुप्ता चान्येनानीता, यूयं धीरा विबुद्धा अपीदानीमिह किमर्थमागता
इत्यर्थः । त्वदित्यादि । हे भीरु, महामांसविक्रयाय श्मशाने भ्रमंस्तव क्रन्दि-
तान्याकर्ण्यागतोऽस्मि । महामांसविक्रयफलमाह—त्वदिति । तद्विवाहेन धन्यजन्मा
पुण्यजन्माहं भवामीत्यभिनिवेशेनातिशयेनावेशेन वा कदर्यमानः पीड्यमानः ।
अतस्त्वां विना न मे जीवनमिति संभाव्यमानफलतया मांसविक्रये प्रवृत्तोऽस्मीति
भावः । त्वत्पादपङ्कजेति पाठे प्रेयसीचरणग्रहणस्य मान एव कर्तव्यतया मानप्र-
सादनमेवोत्सरोत्तरं चरितेत्याशंसितवान् । अत एव सलज्जमित्युक्तमिति भावः ।
'धन्यः पुण्यवति स्मृतः' इति विश्वः । कुत्सितोऽर्थः कदर्यः । भीरु इत्यनेन रोद-
नोपपत्तिरुक्ता । तदिह त्वन्निमित्तमहं साहसी त्वं पुनः कीदृशीति न जान इति
तात्पर्यम् ॥ २७ ॥ मालती । अत एव हर्षविस्मयवशादाह मालती—
कथमित्यादि । परिभ्रमणमितस्ततो गमनम् । आत्मनिरपेक्षः श्मशानभ्रमेण ।
माधवः । विस्मयेऽहो नु खलु भोः काकतालीयमचिन्तितोपनतम् । यथा

अङ्कः ५ ] मालतीमाधवटीका । ७१
पृ० प०
१३३ ५ छिन्नस्कन्ध० ।
काकागमनतालपतनयोरेकदा संभवो दैवाधीनस्तयेदमपीत्यर्थः। राहोरित्यादि ।
दैवाद्विधिवशादासाद्य प्राप्य । अर्थात्प्रियाम् । अस्य दस्योश्चौरस्य खङ्गपातविषया-
त्प्रेयसीमाकर्षतो मम चेतः कथं वर्तताम् । नवनवरसोदयात्तन्न जान इत्यर्थः ।
कामिव । राहोराननचरीमिन्दुकलामिव । कृपाणपातविषयामिति पाठे खङ्गप-
तनस्य विषय आश्रयो यत्र तामेतादृशीं प्रेयसीं प्राप्य कथं मम चेतो वर्ततामिति
योजना । यद्वा अस्य कीदृशस्य । आच्छिन्दतो द्विधाकर्तुमुद्यतस्य । प्रियामि-
त्यर्थात् । ततो जीवनाभाव एवास्या इति भावः । चौरिकयापहरणेन दस्युत्वम् ।
तदिह प्रथमार्धेन हेतुरुक्तः । द्वितीयेन फलमाह—आतङ्काञ्चितचमत्काराद्विकलं
नन्वस्य निसर्गसात्त्विकस्य भयमिति यद्यपि तथापि प्रियप्राप्त्या जीवनसव्यपेक्षतया
भयमुचितमेव । पूर्वं तु जीवननिरपेक्षतया निर्भयत्वमित्यातङ्को भयमेव । राहो-
रित्युपमानं भयहेतुः । चन्द्रकलोपमया जगन्नेत्रोत्सवकरीयं व्यसनमुपगतेति करु-
णया द्रवीभूतम् । दैवादासाद्येति विस्मयाद्विचलितम् । दस्योरित्यनेन मालतीमयं
हन्तुमुद्यतश्चौर इति कोपेन दीप्तम् । आच्छिन्दतः प्रेयसीमिति प्रियाजीवननि-
र्वाहेण हर्षेण प्रसन्नम् ॥ २८ ॥ अघोरघण्टः । ब्राह्मणेति सिद्धानुगुणशुचित्वार्थं
यज्ञोपवीतधारणात् । डिम्भो बालकः । ब्राह्मणकपालभोजिनो मम ब्राह्मणवधेऽपि
न दोष इत्युक्तमनेनेत्यपि भावः ॥ व्याघ्रेत्यादि । हे पाप, मालत्युपहारकृत्य-
परस्य मे गोचरं समीपं यत्प्राप्तोऽसि । अत एव विघ्नकारितया पापेति । कीदृशस्य
मे । व्याघ्रगृहीतहरिणीकृपयाकुलो यो मृगस्तन्यायेन मृगीमनुसरन्व्याघ्रसंनिधौ
पतन्मृगस्तस्य वध्यो भवेत्येवं हिंसारुचेः एनां न रक्षसि त्वं तु म्रियस्व इति भा-
वमाश्रित्य । पाठान्तरं हिंसारुचे इति संबोधन वा । सोऽहं भवतैव प्रागग्रे भूत-
जननीं जगन्मातरं चण्डिकामृध्नोमि प्रीणयामि । ‘ऋधु वृद्धौ’ इति स्वादिरपीति
धातुप्रदीपः । कीदृशेन खङ्गाहत्या व्यस्तस्कन्धश्छिन्नग्रीवः अत एव कबन्धस्तस्य
रन्ध्राद्रुधिरप्राग्भारं श्च्योतनं समूहं वा निःखन्दितुं शीलं यस्य तेन । रुचेरिति
पञ्चम्यन्तपाठे रुचेर्हेतोर्मे गोचरं प्राप्तोऽसीत्यर्थः । पापस्थाने प्रायःपाठे समस्तमेव
पदम् । ‘केतनं कृत्ये केतावुपनिमन्त्रणे’ इत्यमरः । ‘गोचरस्तु समीपे स्यात्’ इति
धरणिः । यत एव च्छिन्नग्रीवोऽत एव कबन्ध इति हेतुहेतुमद्भावेनोक्तिपोष एव
वीररसोऽयम् ॥ २९ ॥ मारणेऽपराधमाह—असारमित्यादि । हे पाखण्ड,
जगदसारं सारशून्यं विधातुं कर्तुं कथं व्यवसितः कृतप्रारम्भोऽसि । ‘अशक्यानि
दुरन्तानि समव्ययफलानि च । असत्यानि च कार्याणि नारभेत विचक्षणः ॥’
इति । न श्रुतं त्वया । तथा च संसारसारभूतेयमेव । अनया विनासार एव स इति ।
यदाह—‘सारं तु महिलारत्नं संसार इति निश्चयः ।’ इति । ‘जातौ जातौ यदु-
त्कृष्टं तद्धि रत्नं प्रचक्षते ।’ इति । तत्सर्वमाकृष्येयं निर्मिता । अतो रत्नमि-
यम् । मनोहरत्वदीप्तित्वतरलत्वादिनेयं वा रत्नम् । अत एव तदभावात्प्रमु-

७२ जगद्धरकृता [ अङ्कः ५
पृ० प०
१३६ १ ० नन्वयं भवसि । ३ ०अणथ्थसंसआदो ।
षितरत्नं त्रिभुवनं कर्तुं व्यवसितोऽसि । तदेतत्सर्वविषयं चौर्यं दुरन्तमिति भावः ।
इयमतिकान्त्या जगदुद्द्योतयतीत्यालोकभूता । एतदभावान्निरालोकं तमः प्रविष्टं
लोकं जनं कर्तुं व्यवसितोऽसि । अत एवोत्कृष्टं प्रति लोकोक्तिस्तेन विनान्धका-
रस्तत्सत्त्व उद्योत इति । बान्धवजनानामेतत्सखीनामियं जीवनहेतुः । अत एतन्ना-
शान्मरणशरणं सखीजनं विधातुं व्यवसितोऽसि । अन्यस्त्रीनाशे तत्सख्यो दुः-
खिताः । एतन्नाशे तु म्रियन्त एवेति भावः । अत्रासारं संसारमित्यादिना नायिका-
गतरा मणीयकातिशयवर्णनमुपक्रम्य मरणशरणमित्यादिस्नेहविषयताप्रतिपादना-
देकवाक्यतयैकरसनिर्वाह इत्यदेश्यम् । मात्रादिबन्धुव्यतिरिक्तोदासीनबान्धवसंग्र-
हपदान्जनशब्दात्स्वस्यैव माधवावस्था विपत्तिं सूचयतीत्यदोषात् , तदीयनानागुण-
चिन्तनादेव मरणशरणता ममेत्यारब्धनिर्वाहाच्च । कन्दर्पश्चैतया मोहनास्त्रेण दर्पं
करोति । एतदभावाददर्पं कन्दर्पम् । जननयनस्यैतद्दर्शनमेव फलम् । अत एत-
न्नाशात्तदफलं जगदनयालंकृतमेव । एतदभावाज्जीर्णारण्यतुल्यं तदिति । अत्र
प्रियाप्रशंसया शृङ्गारो बन्धुमरणात्करुणा पाखण्डाक्षेपाद्वीरः कथमित्यद्भुतमिति
नाना रसाः ॥ ३० ॥ पुनरपि दोषमुद्भाव्य दण्डं चिकीर्षुराह—प्रणयीत्यादि ।
हे पाप, तव शिरस्येष भुज आकस्मिकयमदण्ड इव पततु । आकस्मिकत्वेनाप्र-
तिक्रियत्वमुक्तम् । कीदृशस्य । तन्न वपुषि वधाय शस्त्रमुत्तोलयतः । अत्र भुजप-
देन बाहुव्यापारमात्रेणैव हन्तव्योऽसीति शौर्यातिशय उक्तः । यद्वपुः सुकुमारशि-
रीषपुष्पाघातैरपि ताम्यति म्रियति । कीदृशैः । सप्रश्रयसखीसविलासपरिहासरस-
प्राप्तैः । अत्रापि शृङ्गारवीरकारुण्यसंभेदः ॥ ३१ ॥ मालती । अत्र त्वज्जीवने
मम जीवनमपि सफलम् । अन्यथा तु मरणमेव वरमिति भावः । कपालकु-
ण्डला । मालतीव कपालकुण्डलापि स्वनाथमाह—भगवन्निति । अवष्टम्भा-
र्थमप्रमत्त इति । द्वयोर्भयं ज्ञात्वोभावाहतुः—धैर्यमित्यादि । हे भीरु, त्वं
हृदये धैर्यं कुरु । एष पापो हतः । अस्य वधे कुतः संशय इति वृथा भयं त
इति भावः । अत्र युक्तिमाह—सारङ्गेण मृगेण सह युद्धविधाने हरेः सिंहस्य
प्रमादोऽनवधानता किं वा केनचित्कदाप्यनुभूतः । कीदृशस्य । इभकुम्भरूपं
यत्कूटमुच्चप्रदेशस्तत्कुट्टनशीलं हस्त एव वज्रं यस्य । यद्वा हरेरिन्द्रस्य हस्तिना सह
युद्धे नास्ति प्रमादः । कीदृशस्य । हस्तिकुम्भवत्पीवरशुण्डकुट्टाकं पाणिस्थकुलिशं
यस्य । कुम्भकूटपाणिकुलिशपदे शाकपार्थिवादिः । ‘सारङ्गः पुंसि हरिणे चातके
च मतङ्गजे’ इति मेदिनीकारः । वीरो रस इह ॥ ३२ ॥ मालतीगृहकथाकथ-
नागाह—भो भो इति । अप्रतिहतेति सत्यवचनेत्यर्थः । एतेनाघोरघण्टकृतो
मालत्यपहार इति कामन्दकीवचनं सत्यम् । मालतीमाधवयोश्च विवाहः सत्य इति
षष्ठाङ्कावतार इति सूचितम् । पर्यवष्टम्भनं सर्वतो वेष्टनम् । नेत्यादि । एतत्कर्म
मालत्यपहरणात्मकं भीषणं सिंहकौशलहरणात् । अद्भुतं बहुरक्षरक्षिताया अपि

अङ्कः ५ ] मालतीमाधवटीका । ७३
पृ० पं०
१३७ २ ॰षिणः सैनिकाः इय० । ३ ॰प्रज्ञागतिर्भंग० । ॰म-
न्दकी बः समा० । ५ ॰घण्टादन्यस्य कर्मैतद्भीषणाङ्ग-
तम् । १० ॰बान्धवसमाजसुस्थितां मालतीं विधाय० ।
१४ ॰व्यतिकररणत्कार० । १५ ॰वेगव्युपशमः ।
१३८ १ ॰पिशितपिण्डेषु विलस-० ।
इति श्मशानवर्णनं नाम पञ्चमोऽङ्कः ।
हरणात् ॥ ३३ ॥ कपालकुण्डला । स्त्रीत्वाद्भयेन पलायनेच्छुराह—भगव-
न्निति । अघोरघण्टः । संग्रामादपसरणस्याधर्महेतुतया सात्त्विकतया चाह—
संप्रतीति । पौरुषं पुरुषस्य व्यापारस्तेजो वा । 'पौरुषं पुरुषस्योक्तं भावे क-
र्मणि तेजसि' इति विश्वः । मालती । मालती त्रासावेगातिशयादाह—हा तात,
हा भगवति, इति । माधवः । मालतीरक्षार्थं कापालिको मया हत इत्यमात्यो
जानात्वित्याशयेन मालतीं च कातरां वीक्ष्याह—भवत्विति । बान्धवेत्यादिना
भाविकार्योपयोग उक्तः । अन्यतः कापालिकादन्यदेशं स्वसंमुखमिति यावत् ।
माधवाघोरघण्टौ द्वावप्येकश्लोकेन प्रहारव्यापारमाहतुः—कठोरेत्यादि । हे
पाप, ममासिः खड्गस्तव प्रत्यङ्गं लवशः खण्डं खण्डं सपदीदानीमेव विक्षिपतु ।
कर्दमेष्विव मांसपिण्डेषु निरातङ्को यथारुचि विचरन्सन् । कीदृशः कठिना-
स्थिग्रन्थिघटनेन यो रणत्कारो व्यक्तध्वनिस्तेन मुखरः सशब्दः । कठिनस्नायु-
च्छेदेषु मुहूर्तं कृतवेगोपरमश्च ॥ ३४ ॥
कतीह पञ्चमाङ्के स्फुरन्ति नोद्भटा रसाः ।
मदीयबुद्धिरल्पिका क्व वेद तानशेषतः ॥
प्रासोष्ट यं रत्नधरोऽतिभव्योऽऽतिभव्यरूपो दमयन्तिकापि ।
जगद्धरं तत्कृतटिप्पणेऽङ्कोऽगमन्मनोहारिणि पञ्चमोऽयम् ॥
इति पञ्चमोऽङ्कः ।

षष्ठोऽङ्कः ।
पृ० पं०
१३९ २ °निमित्तं व्यापादितास्म० । ५ °कोपस्य विजृम्भितम् ।
१४० ४ °मङ्गलाय गन्तव्यमित्यादिशन्ति भगवतीनिदेशवर्ति-
नोऽमात्यदाराः । अन्य० । १० °घरण्टिदेण समअरन्देण
णाहमाहवेण । जहा जाणीहि दाव जत्ताहिमुह पउत्तो
मालदी णव त्ति । ता जाव० ।
सप्रति पूर्वाङ्कवृत्तगुरुवधवर्तमानाङ्कभाविमालतीविवाहभविष्यदङ्कमालतीहरणा-
न्याह—तत इत्यादि । आः पीडायां कोपे च । ‘आस्तु स्यात्कोपपीडयोः’
इत्यमरः । जीनिमित्तं कापालिकवधेन पापेति । इहानुभविव्यतीत्यनेन क्रमरूपो
गर्भसंधिरुक्तः । यदाह—‘भाविनोऽर्थस्य यज्ज्ञानं क्रमः स परिकीर्तितः’ दुरात्मन्
कामोपहतात्मन् । विजृम्भितं मालत्यपहरणेनेति भावः । तदेवाह—शान्तिरि-
त्यादि । तस्य भुजङ्गशत्रोः सर्पहिंसकस्य गरुडस्य वा कुतः शान्तिर्निर्वृतिरुपशमो
वा । अपि तु नैव । यस्मिन्प्रत्यक्तकोपा तिग्मदन्ताग्रा विषोद्गारेण दुःसहा सर्पाणी
सदैव दंशाय जागर्ति । एवकारेण मुहूर्त्तमात्रमपि न स्वस्येत्याशयः । अनुशयो गा-
ढरोषः । गरुडपक्षे तादृशी दंशार्थं जागर्ति । तस्यातिबलत्वान्न तत्करोतीति युक्त-
मेव ॥ १ ॥ नेपथ्ये । अधुना विवाह मङ्गलकृत्यं दर्शयति—भो राजान
इत्यादि । जन्या वरस्य स्निग्धास्तेषां यात्रायाः प्रवेशो वधूगृहप्राप्तिः प्रत्यासन्नः
समीपवर्त्यत एवात्यर्थं त्वरयति । ततो भो राजानः, क्षत्रियाः, विवाहकृत्येषु चर-
मवयसां वृद्धानामाज्ञया संचरध्वं प्रवर्त्तध्वम् । विवाहादम्भे वृद्धोपदिष्टमेव कर्मकारैः
क्रियते । इह तु प्रभुतातिशयान्नृपा एव कर्मकारा इति दर्शितम् । भूमिदेवाः ब्राह्मणाः
कर्णमनोहरं यथा तथा पठन्तु । वैवाहिकमङ्गलवेदानित्यर्थात् । यद्वा यद्वेदस्वरूपं
श्रवणसुभगं मङ्गलत्वात्तत्पठन्त्वित्यर्थः । पुरन्ध्रीर्लक्ष्यीकृत्याह—नाणारचनानां मङ्ग-
लादीनां समूहैः करणैश्चित्रमद्भुतं यथा तथा चेष्ट्यताम् । भावे तद् । यद्वा चित्रं
नानाकर्म । केचिन्मङ्गलगीतं केचिद्वाद्यं केचिन्नृत्यं कुर्वन्त्वित्यर्थः । मङ्गलेभ्यो
मङ्गलं कर्तुम् । ‘क्रियार्थोपपदस्य’ इति चतुर्थी । तदर्थ्ये वा । संचरध्वमिति ‘समस्तु-
तीयायुक्तात्’ इति तद् । ‘वरः स्निग्धेऽपि जन्ये स्यात्’ इति मेदिनीकारः । एतेन
चारिकाविवाहमङ्गलमपि ध्वनितोक्तम् ॥ २ ॥ संबन्धिनो वरस्य भ्रात्रादयः ।
भ्रात्रादीनां नन्दने वृद्धेऽसंभवादिति । परापतन्त्यायान्ति । अविघ्नेति माधवविवा-
ह्वायेति भावः । नन्दनविवाहस्य विघ्नवत्त्वात् । निदेश आज्ञा । अमात्यो भूरिवसुः ।
दाराः स्त्रियः । अनुगमनं तत्र नियुक्त आनुयात्रिको मालव्यनुगामी । कपालकु-
ण्डला । कामन्दकीनामश्रवणभीता निष्क्रमणार्थमाह—भवत्विति । परिकृ-
मेतिकर्तव्यता । अपक्रम्येति । मङ्गलवेशतयान्त्येनापि संभावितनिःसारणा
यत इति भावः । माधवापकारमित्यनेनाष्टमाङ्कं सूचयन्ती विघ्नमुद्द्योतयति । अभि-

सुवर्णानां मयूखाः किरणा यत्र तादृशो मेचकः स्निग्धश्यो येषु तैः ।"
Wait, line 34:
"मेचकः स्निग्धश्यो येषु तैः ।" -> "स्निग्धश्यो"? Or "स्निग्धश्यामो"? Or "स्निग्धत्वं"?
Let's look at: "स्नि - ग्ध - श्या - मो" - YES, 'श्या' with 'मो'! "स्निग्धश्यामो येषु तैः ।"
Wait, let's look at: "स्निग्धश्यामो" vs "स्निग्धश्यो":
Look at the characters:
स्नि (sni) - ग्ध (gdha) - श्या (shyā) - मो (mo).
Yes! "स्निग्धश्यामो येषु तैः ।"
Line 35:
"मयूरमेचकनिभैरिति पाठे प्रेङ्खत्यन्यो बहुमयूरस्तस्य मेचकाश्चन्द्रकाभिरतिशया"
Wait, let's look at line 35:
"मयूरमेचकनिभैरिति पाठे प्रेङ्खत्यन्यो बहुमयूरस्तस्य मेचकाश्चन्द्रकाभिरतिशया"
Wait, let's look at: "प्रेङ्खत्यन्यो" or "प्रेङ्खन्नन्यो" or "प्रेङ्खन्त्यन्यो"?
Letters:
प्रे - ङ्ख

७६ जगद्धरकृता [ अङ्कः ६
पृ० पं०
१४२ १० ०चापखण्डवि० । ११ ०किणीजालरणि० ।
१४३ ३ ०रिमयूखमे० । ८ ०कलधौ अवत्तविचित्त० ।
१४४ १ ०मणहरा प्पण्डुर० । देहसोहा पढमुग्गअचन्दे०
१४५ ३ ०दम्पत्योपयमने । ४ ०शिवदायी च भ० ।
भा येषां तैः । ‘मेचकश्चन्द्रके स्निग्धे श्यामलेऽपि च दृश्यते’ इति विश्वः । ‘भूरि
क्लीबं सुवर्णे च प्राज्ये स्याद्वाच्यलिङ्गकम्’ इति मेदिनीकारः । उन्मेष्युड्डीनो यश्चाषः
पक्षिभेदस्तस्य च्छदच्छायया पक्षकान्त्या संवलितैरिव मिलितैः । कीदृशाः । उद्भूत-
चित्रस्य चीनदेशभववस्त्रस्य प्रस्तारेण शय्यया प्रसारेण वा च्छन्ना इव । ‘प्रस्तार-
स्तानितं शय्या’ इति हारावली । मणय इवाभरणस्थरत्नानि ॥ ५ ॥ कलहंसः ।
अत्रावर्जिता तिर्यक्क्लप्ता । कनकं हिरण्यम् । कलधौतं रजतम् । ‘कलधौतं
हेमरौप्ययोः’ इति विश्वः । पङ्केन लेपेन । वेत्रलता वेत्रदण्डिका । परिक्षिप्ता
रचिता । मण्डल इति । अस्मान्मण्डलात्केनापि न बहिर्गन्तव्यमिति भावः ।
दूरत एव मालत्या इत्यर्थात् । पृथुसिन्दूरपूर एव सन्ध्यारागस्तेनोपरक्ता किंचि-
दारक्ता चटुला चपला घूर्णती लम्बमाना या नक्षत्रमाला सप्तविंशतिमौक्तिकमाला
हस्तिप्रसाधनभेदो वा सैवाभरणं तद्धारिणीम् । रात्रिपक्षे नक्षत्रमाला तारका-
माला । करेणुर्हस्तिनी सैव रात्रिस्ताम् । दृश्यमाना चासौ मनोहरा चेति समासः ।
पाण्डुरा धूसरा परिक्षामातिकृशाङ्गदीप्तिर्यस्याः सा । एतेन चन्द्रकलासाम्यमु-
क्तम् । दृश्यमानेत्यनेनान्येषां दर्शनमात्रं तव परमुपभोगो मालत्या इति सूचि-
तम् । पाण्डुरेत्यादिना मालत्यामान्तर उद्वेग उक्तः । किंचिदन्तरं कियद्दूरम् ।
प्रसृता गता । कलधौततष्टपत्रेति पाठे तष्टपत्रं पट्टिकेत्यर्थः । इयमित्यादि ।
इयं वरारोहा प्रशस्तश्रोणिका विवाहमहोत्सवसंपत्तिं प्रकृष्टां रम्यां च वहति । स-
हजरमणीयत्वात् । उद्गाढां प्रबलां चित्तपीडां च प्रकाशयति । कीदृशी । पाण्डु-
क्षामैरङ्गैरलंकृतभूषणा । अतिरम्यतयामीभिरेव भूषणान्यलंक्रियन्त इति भावः ।
अन्तरभ्यन्तरे परिशोषिणी । अत एवाङ्गानां पाण्डुक्षामत्वम् । कलितं परिहितं
कुसुमं यया सा । बालां षोडशवर्षवयस्कां अवयवैरित्यनेन सर्वाङ्गीणं पाण्डुत्वा-
युक्तम् । लतेव । यथा लता नवा वसन्तादिप्रभावात्सपुष्पापि कुतश्चिद्वैकृतादन्तः
परिशोषं वहति तथेयमपीत्यर्थः । निपादिता उपवेशिता । अवतारणार्थमिदम्
॥ ६ ॥ कामन्दकी । सहर्षमित्यभीष्टसंपादनादिति भावः । विधातेत्यादि ।
नोऽस्माकं मनोज्ञाय हृद्याय विधये व्यापाराय प्रकृतविवाहाय भद्रं कुशलम-
विघ्नं विधाता ददातु । विधय इत्यत्र तादर्थ्ये चतुर्थी । क्रियार्थोपपदस्येति वा ।
वृत्तेऽपि कार्ये राजविरोधादनिष्टमाशङ्क्याह—परमरमणीयामविरोधिनीं परिणति-
मुत्तरविशुद्धिं देवाः कुर्वन्तु । स्वस्यापि फलमाह—अहं कृतकृत्या भूयासम् ।

अङ्कः ६] मालतीमाधवटीका । ७७
पृ० प०
१४६ ३ (प्रविश्य पेटकहस्ता) । ६ युक्तमाहामात्यः । माङ्गलिकं
हि तत्स्थानमतो दर्शय । ११ ०व्यति मदयन्तिका ।
(प्र०)० । भवत्वोमित्युच्य० ।
१४७ ८ ०इतस्तावत्स्तम्भापवारितौ तिष्ठावः ।
यतो मालतीमाधवयोर्विवाहे समस्तोऽयं प्रयत्नः फलतु । उत्तरकालशुद्ध्या
फलदायी भवत्वित्यर्थः । परिणतिशुद्ध्या शिवदापी भवतु । कल्याणकरोऽस्त्वित्यर्थः ।
शिवतातिश्च भवत्विति पाठे शिवतातिः शिवकरः । 'सर्वदेवात्तातिल्' इत्यनुवर्तमाने
'शिवशमरिष्टस्य करे' इति तातिल् । अत्र मरणमेव सर्वदुःखनाशकतया निर्वाणं
मोक्षस्तस्यान्तरमवसरः । यद्वा मरणमेव निर्वाणं निर्वृतिः सुखम् । 'निर्वाणं निर्वृतौ
मोक्षे' इति विश्वः । 'अन्तरमवसराध्वात्मसहशेषु' इति मेदिनीकारः ॥ ७ ॥
मालती । संभावयिष्ये सम्यक् प्राप्स्यामि । भूप्राप्तावित्यस्यात्मनेपदिनो रूपम् ।
सांप्रतमित्यनेन माधवालाभान्नन्दनलाभादिलम्बनाच्चेति दर्शितम् । मन्दभाग्यतया
माधवप्राप्तिवन्मरणमपि न स्यादिति भावः । लवङ्गिका । अत्र क्तामिता क्रमं
श्रमं प्रापिता । अनुकूलेन माधवेन सह विप्रलम्भो विरहस्तेन । यद्वा अनुकूलो
नन्दनस्तस्य विप्रलम्भेन वञ्चनया । प्रतीहारी । पेटकं मञ्जूषा । 'पेटकं पुस्त-
कादीनां मञ्जूषायां कदम्बके' इति मेदिनीकारः । पेटकग्रहणं तु नन्दनप्रसाधना-
र्थम् । अत्र नेपथ्यं प्रसाधनम् । कामन्दकी । युक्तमिति । एतत्प्रसाधना-
न्मकरन्दमलंकृत्य मदयन्तिकां विवाहयिष्यामीति भावः । माङ्गलिकं मङ्गलहेतुः।
प्रतीहारी । अत्र धवलं यत्पट्टं सूत्रमयमंशुकं तेन निर्मितश्चोलकः कूर्पासकः ।
'चोलः कूर्पासकोऽस्त्रियाम्' इत्यमरः । उत्तरीयद्रूपं रक्तांशुकं सिन्दूरीवस्त्रम् ।
'आपीडः शेखरोऽस्त्रियाम्' इति मेदिनीकारः । भवतीति संबोधनम् ॥ काम-
न्दकी । गुरुसमक्षं मालत्यनुरागानुभवो माधवस्य न स्यादत उक्तम्-प्र-
विश त्वमिति । कामन्दकी । विविक्ते विजने ॥ मालती । हृद्गतमरणा-
वकाशप्राप्त्या सानन्दोक्तिरियम् । बाह्यसंवेदनाभावान्मलतीं न पश्यतीति भावः॥
मकरन्दः । अपवारितं व्यवहितम् ॥ लवङ्गिका । अत्राङ्गरागः कुङ्कु-
मादिः । मालती । तत्प्रयोजनमपश्यन्तीवाह-ततः किं मयानेन कर्तव्य-
मित्यर्थः । लवङ्गिका । अत्र पाणिग्रहणेति सामान्योक्त्या माधवनन्दसयोर्विवा-
हश्लेषेण नर्मस्फोटोऽयमिति भावः । यदाह-'श्लेषेणोक्तिस्तु भावानां नर्मस्फोटो
इतीरितः ।' मालती । अत्र दुर्विलासपरिणामः प्रियत्यागाप्रियप्राप्तिलक्षणः ।
दुःसहमिति क्रियाविशेषणम् । अनया क्लिष्टं मदूचो न ज्ञातमत इयमेव वदत्वित्यत
आह-मालती । अत्राभिनिवेशिनो मनोरथेन बिसंवादं प्रतिकूलं भाग्यं

७८ जगद्धरकृता [ अङ्कः ६
पृ० पं०
१४८ १ ॰णिद्दद्धमाणसं पु०। ४ ॰जं दाणिं०। ६ श्रुतमसंतोषश्च
हृदयस्य । १२ ॰माहवसिरिणो मुहा० । १३ सिणं
अवलोअइस्ससि ।
१४९ ६ ॰दाइणो जणस्स अव० । १० ॰सहीए प्पसादादो मा-
लदी किदत्था भोदि ।
१५० १ ॰करुणं वर्तते ।
यस्य सः । मकरन्दः । माधवे दुर्लभां वाञ्छां मलाह—सखे श्रुत-
मिति । माधवः । श्लिष्टे वचनस्यानिष्टाशङ्कितमाह—असन्तोष इति ।
मालती । अत्र परमार्थेत्यादिना विश्वासपात्रत्वमुक्तम् । विरूढ उपचितः ।
सदृशं यथा तथा परिष्वज्येत्यन्वयः । अनुवर्तनीयोपकर्तव्या । समग्रसौ-
भाग्यपदेनारविन्दस्पर्धिनी शोभोक्ता । यदाह—'उत्तमैर्गुणभिः स्पर्धा या
सा शोभा प्रकीर्तिता' । मां हृदये धारयन्तीत्यनेन परंपरया ममापि दर्शनं
स्यादित्युक्तम् । माधवप्रिय इत्यत्र प्राकृते पूर्वनिपातानियमाच्छ्रीमाधवस्येत्यर्थः ।
आनन्दमसृणत्वेन स्निग्धा दृष्टिरुक्ता । म्लानस्येत्यादि । वचांस्येवामृतानि
मयापि दिष्ट्या निर्णीतानि । त्वया श्रुतमित्यादिना निर्णीतानि मया लघूनेत्यपि प-
दार्थः । अमृततुल्यलमाह—म्लानस्य प्रत्याशाभङ्गज्ञानेन संकोचितस्य जीवपुष्पस्य
प्रकाशनानि । अमृतेऽपि सर्वप्रकाशकतया म्लानपुष्पप्रकाशकत्वम् । संतर्पणानि
तृप्तिकरणानि । अमृतेऽप्येवम् । संतर्पणे सति बाह्येन्द्रियतर्पकानि । अमृतेऽप्ये-
वम् । आनन्दनान्यन्तर्मोदकानि । आद्यत आनीयतेऽनेनेत्यायनम् । रसस्यायनं
रसायनम् । वचसां । चित्तोल्लासकत्वेन नवत्वजननादिवामृतस्य जरादिनाशकत्वेन
नवलजननादिदमिति भावः । यद्वा अमृतपदेन जलमोक्षपीयूषाण्युच्यन्ते ।
तत्राद्यपदेन जलसाम्यम् । मोक्षसाम्यार्थमितरपदत्रयम् । मोक्षे हि सम्यक्त्वृ-
त्तिविषये निराकाङ्क्षतैव । इन्द्रियमोहोऽपि विषयग्रहाभावात् । 'आनन्दं ब्रह्मणो
रूपं तच्च मोक्षे प्रतिष्ठितम्' इति श्रुतेरानन्दमयता मोक्षे । यद्वा आद्यपदाभ्यां
जलसाम्यमितरपदाभ्यां मोक्षसाम्यम् । पीयूषसाम्यार्थं शेषपदम् । 'अमृतं मो-
क्षपीयूषसलिलेषु घृतेऽपि च' इति धरणिः ॥ ८ ॥ मालती । अत्रावसिता
मृता तथाविधमनिर्वचनीयम् । न परिहीयते न नश्यति तथा करिष्यसीत्य-
न्वयः । लोकयात्रा गार्हस्थ्यम् । अपत्नीकत्वं वा । माधवाप्तिप्रत्याशानाशादेवमे-
वेत्यवधारणम् । मकरन्दः । हन्तानुकम्पायाम् । करुणमिति । आलस्या-
दिसमुत्थो निरपेक्षभावः करुणः, औत्सुक्यचिन्तासमुत्थः सापेक्षभावो विप्रलम्भ
इत्यनयोर्भेदः । अत एव निरपेक्षपदोपलक्षितनैराश्यमाह । माधवः—नैराश्ये-
त्यादि । नैराश्येन प्रत्याशानाशेन कातरा विसंष्ठुला धीर्यस्या हरिणनेत्रायाः ।
वात्सल्यं प्रियविश्लेषे प्राणत्यागेच्छा । मोहो भ्रमः सप्रत्याशत्वेऽपि नैराश्याभिमानः ।
ताभ्यां यत्परिदेवितं विलपनं वृत्तवर्तमानभाव्यर्थचिन्तनमतिकरुणं मनोज्ञं च श्रुत्वा

अङ्कः ६ ] मालतीमाधवटीका । ७९
पृ० प०
१५३ १० ०चिरं महुसवो लोअणाणं० ।
१५४ २ ०दूसहारम्भदूमा० । ६ ०सिरिसह० ।
चिन्तया यो विषादस्त्रेन विपत्तिमुद्वहामि । चिन्ताविषादरूपां वा विपत्तिं महो-
त्सवं चोद्वहामि । चकारो मिथो विरुद्धरसयोजने । इह हेतुफलभावेनान्वयः ।
तथा हि नैराश्यकातरबुद्धिलाद्वात्सल्यम् । ततः परिदेवनम् । तच्छ्रुत्वा मनोवि-
षादः । तथा हरिणेक्षणत्वेनापहृतचित्तस्य ममालाभान्मनोज्ञपरिदेवितं श्रुत्वा महो-
त्सवः । 'स पुनः क्रन्दनैर्मोहैः प्रलापैः परिदेवनैः । देहायासामिघातैश्च करुणा-
मिनयो भवेत् ॥' इति भरतः ॥ ९ ॥ लवङ्गिका । अत्रामङ्गलप्रतिघातो वि-
वाहादिति बाह्यम् । माधवसन्निधानादित्यान्तरम् । मालती । बाह्यार्थमाक-
ल्याह—अत्र तच्छरीरावच्छिन्नात्मा मालती । जीवनं तदृष्टविशेषकारितदेहात्म-
संयोग इति जीवनमालत्योर्भेदः । जीवनस्य सुखहेतुतया प्रियत्वं, तच्चेद दुःखसंत-
तिजनकमतरत्याज्यमेव भवतीति भावः । मालती । अत्रान्यजनेत्यन्यपदेन
माधवाभिधानम् । नन्दनापेक्षयान्यत्वात् । दुर्लभत्वेन परकीयत्वारोपाद्वा । बीभ-
त्समिह नन्दनविवाहार्थमङ्गलस्यानिष्टस्य दर्शनात् । अनपराध्दामितीषदर्भे नञ् ।
आनन्दनविवाहपर्यन्तस्थायित्वे महापराधो यतः । अन्यस्य संभोगादेरभावादेष
एवेत्युक्तम् । अपरिपन्थिन्यविरोधिनी । एतदात्मत्यागरूपम् ॥ संज्ञया संकेतेन ॥
माधवः । परवाननायत्त्रः । साध्वसेन जडतया । मकरन्दः । अल्यभीष्टलाभादि-
यम् । नेदीयंसां निकटानाम् ॥ स्वैरं शनैः । मालती । अत्र भर्तु स्वीकुर्वित्यर्थः ॥
माधवस्य संस्कृतभाषया लवङ्गिकाश्रमो न स्यादिति भाषासमावेशेनाह—सरल
इत्यादि । साहसं आत्मनिरपेक्षकार्यं रागमनुरागं परिहर । हे रम्भोरु, कदली-
समोरुदेशे, संरम्भं मरणे त्वरां त्यज । जीवन्त्यां प्रत्याशापि स्यादिति भावः ।
विरसं रसशून्यं तव विश्लेषदुःखं सोढुं मे चित्तमक्षमं यतः । अतोऽयं वल्लभस्त्वयि
दत्तोऽतस्त्यज मरणाभिनिवेशमिति लवङ्गिकामिप्रायः । अत एव सरले अहे, ऋ-
जुप्रकृतिके वा । माधवपक्षे सरले हे अजानति, तव विरहायासं सोढुं मे चित्तम-
सहमतस्तव समीपमागतोऽस्मि तन्मरणं त्यज । इतरत्सममेव । तदिह संस्कृतप्रा-
कृतयोः साम्यात्प्राकृतसमकम् ॥ १० ॥ किं वेत्यादि । किं वा भणामि । त्वदा-
रम्भनिषेधं न करोमीत्यर्थः । हे विरहदुःसहकष्टकारिणि सुश्रोणि, काममभीष्टं कुरु ।
यद्येवं तदा ममालिङ्गनं देहीति लवङ्गिकापक्षे । माधवपक्षे । तु किंवा भणामि किं
वक्तव्येन कामं कामव्यापारं कुरु । अतः परिरम्भणं देहि । 'आरोहः श्रोणिका-
च्योः' इति धरणिः । श्लोकद्वयमिदं सौरसेन्या । यदाह—'सप्तार्थ लक्षणं प्रोक्तं
सौरसेन्याः प्रपञ्चतः । लक्षणं त्वेकमेवास्याः संस्कृतात्पदन्यूनता' ॥ ११ ॥ मा-
लती । अत्र उत्पीडः प्रबलीभूया निर्गमः । उत्पीडः समूहो वा । अपश्चिमं चर-
मम् । प्रियस्पर्शाद्दाहादाह्लादहर्षम् । कठोरमरालगर्भो बीजकोशः । पक्ष्मलो रोमाञ्च-