मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 326, कुल 377 में से
संदर्भ में पढ़ें७८ जगद्धरकृता [ अङ्कः ६
पृ० पं०
१४८ १ ॰णिद्दद्धमाणसं पु०। ४ ॰जं दाणिं०। ६ श्रुतमसंतोषश्च
हृदयस्य । १२ ॰माहवसिरिणो मुहा० । १३ सिणं
अवलोअइस्ससि ।
१४९ ६ ॰दाइणो जणस्स अव० । १० ॰सहीए प्पसादादो मा-
लदी किदत्था भोदि ।
१५० १ ॰करुणं वर्तते ।
यस्य सः । मकरन्दः । माधवे दुर्लभां वाञ्छां मलाह—सखे श्रुत-
मिति । माधवः । श्लिष्टे वचनस्यानिष्टाशङ्कितमाह—असन्तोष इति ।
मालती । अत्र परमार्थेत्यादिना विश्वासपात्रत्वमुक्तम् । विरूढ उपचितः ।
सदृशं यथा तथा परिष्वज्येत्यन्वयः । अनुवर्तनीयोपकर्तव्या । समग्रसौ-
भाग्यपदेनारविन्दस्पर्धिनी शोभोक्ता । यदाह—'उत्तमैर्गुणभिः स्पर्धा या
सा शोभा प्रकीर्तिता' । मां हृदये धारयन्तीत्यनेन परंपरया ममापि दर्शनं
स्यादित्युक्तम् । माधवप्रिय इत्यत्र प्राकृते पूर्वनिपातानियमाच्छ्रीमाधवस्येत्यर्थः ।
आनन्दमसृणत्वेन स्निग्धा दृष्टिरुक्ता । म्लानस्येत्यादि । वचांस्येवामृतानि
मयापि दिष्ट्या निर्णीतानि । त्वया श्रुतमित्यादिना निर्णीतानि मया लघूनेत्यपि प-
दार्थः । अमृततुल्यलमाह—म्लानस्य प्रत्याशाभङ्गज्ञानेन संकोचितस्य जीवपुष्पस्य
प्रकाशनानि । अमृतेऽपि सर्वप्रकाशकतया म्लानपुष्पप्रकाशकत्वम् । संतर्पणानि
तृप्तिकरणानि । अमृतेऽप्येवम् । संतर्पणे सति बाह्येन्द्रियतर्पकानि । अमृतेऽप्ये-
वम् । आनन्दनान्यन्तर्मोदकानि । आद्यत आनीयतेऽनेनेत्यायनम् । रसस्यायनं
रसायनम् । वचसां । चित्तोल्लासकत्वेन नवत्वजननादिवामृतस्य जरादिनाशकत्वेन
नवलजननादिदमिति भावः । यद्वा अमृतपदेन जलमोक्षपीयूषाण्युच्यन्ते ।
तत्राद्यपदेन जलसाम्यम् । मोक्षसाम्यार्थमितरपदत्रयम् । मोक्षे हि सम्यक्त्वृ-
त्तिविषये निराकाङ्क्षतैव । इन्द्रियमोहोऽपि विषयग्रहाभावात् । 'आनन्दं ब्रह्मणो
रूपं तच्च मोक्षे प्रतिष्ठितम्' इति श्रुतेरानन्दमयता मोक्षे । यद्वा आद्यपदाभ्यां
जलसाम्यमितरपदाभ्यां मोक्षसाम्यम् । पीयूषसाम्यार्थं शेषपदम् । 'अमृतं मो-
क्षपीयूषसलिलेषु घृतेऽपि च' इति धरणिः ॥ ८ ॥ मालती । अत्रावसिता
मृता तथाविधमनिर्वचनीयम् । न परिहीयते न नश्यति तथा करिष्यसीत्य-
न्वयः । लोकयात्रा गार्हस्थ्यम् । अपत्नीकत्वं वा । माधवाप्तिप्रत्याशानाशादेवमे-
वेत्यवधारणम् । मकरन्दः । हन्तानुकम्पायाम् । करुणमिति । आलस्या-
दिसमुत्थो निरपेक्षभावः करुणः, औत्सुक्यचिन्तासमुत्थः सापेक्षभावो विप्रलम्भ
इत्यनयोर्भेदः । अत एव निरपेक्षपदोपलक्षितनैराश्यमाह । माधवः—नैराश्ये-
त्यादि । नैराश्येन प्रत्याशानाशेन कातरा विसंष्ठुला धीर्यस्या हरिणनेत्रायाः ।
वात्सल्यं प्रियविश्लेषे प्राणत्यागेच्छा । मोहो भ्रमः सप्रत्याशत्वेऽपि नैराश्याभिमानः ।
ताभ्यां यत्परिदेवितं विलपनं वृत्तवर्तमानभाव्यर्थचिन्तनमतिकरुणं मनोज्ञं च श्रुत्वा