मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 313, कुल 377 में से
संदर्भ में पढ़ेंअङ्कः ५ ] मालतीमाधवटीका । ६९
पृ० प०
१२३ ॰कथं द्रागतिप्रशान्तमी॰ । २ ॰षिकाप्रकारै॰ । निः-
सत्त्वता पिशाचानाम् । ४ ॰घूत्कारसंवल्गित॰ । ५
॰चण्डडात्कृति॰ ।
१२४ १ अन्तःशीर्णकरङ्ककर्करतर॰ । १० देहोत्कम्पः स्व॰ ।
घनानि दृढान्यस्थ्नां पञ्जराणि येषां तादृशा जरन्तो जीर्णाः कङ्काला मांसादिशून्या-
स्थिभागा यस्य तत् । वृकपशं शृगालाद्युपलक्षणपरम् । 'कोकस्त्वीहामृगो वृकः'
इत्यमरः । यद्वा 'शालावृकाः कपिक्रोष्टुश्वानः' इति नानार्थेऽमरदर्शनादेतस्यै-
वैकदेशो वृकशब्दः । तेन भीमभीमसेनादिवदस्यापि तावदर्थप्रतिपादकतेत्यव-
धेयम् । यद्वा वृको 'घोष' इति ख्यातः । 'विघसो भोजनशेषेऽपि' इत्यमरः ।
'स्याच्छरीरास्थि कङ्कालः' इत्यमरः ॥ १४ ॥ विहस्येति । अतिसात्त्विकेऽपि
मयि भीषणत्वममी पूतनाः कुर्वन्तीत्यसंबद्धक्रियया हासः । यदाह—'असंबद्धैस्तु
हासः स्यादाग्नेयप्यक्रियादिभिः' इति । प्रकारो वैलक्षण्यम् । ततेत्यादि ।
एते पूर्वोक्तादन्ये पिशाचा विस्तृतदीर्घजिह्वाभीषणमुखविवरं विदार्य व्यादाय
दग्धपुराणरोहिणानामिव द्युतिं दधति धारयन्ति । दग्धत्वेन श्यामत्वं पुराण-
त्वेन जीर्णत्वं दर्शितम् । रोहणो 'रोहिण' इति ख्यातस्तरुः । 'घोधराति' इति
ख्यातो वा । रोहितोऽपि स एव । अत एव 'रोहितः प्लीहनाशकः' इत्यमरोऽपि ।
रोहणानामिति पाठे रोहन्तीति रोहणास्तरवस्तेषामित्यर्थः । ललता चलताज-
गरेण सर्पेण भीषणच्छिद्राणाम् । 'निष्कुहः कोटरं वा ना' इत्यमरः । तदिह
कोटरेणास्यमजगरेण रसना रोहिणेन पिशाच उपमीयन्ते । भयानको रसः ।
यदाह—'विकृतरवसत्त्वदर्शनसंत्रासारण्यशून्यगृहागमनात् । गुरुनृपयोरपराधात्कृत-
श्व(?) भयानको ज्ञेयः ॥' १५ ॥ बीभत्सं घृणाकरम् । निर्भिद्येत्यादि । अयं प्रेतरङ्कः
प्रेतरूपो रङ्कः क्षुधाविशुष्यच्छरीरोऽव्यग्रमनाकुलं यथा तथा क्रव्यं मांसमत्ति खा-
दति । किं कृत्वा । प्रथममादौ कृत्तिं चर्म निर्भिद्य निर्भिन्नीकृत्य पश्चादुत्कृत्य छित्त्वा
उत्कृत्येति पाठे चर्मकोषाकर्षणमुत्कर्तनं तत्पुनः पुनः कृत्वेत्यर्थः । अथानन्तरं
पृथुना महतोच्छोफेन भूयांसि बहूनि मांसानि जग्ध्वा भक्षयित्वा । कीदृशानि ।
अंसयोः स्कन्धयोः स्फिचोः कटिमांसपिण्डयोः पृष्ठे कायपश्चाद्भागे पिण्डयो
जङ्घापाश्चात्यभागयोरुद्दिपदात्कक्षामूलाद्यवयवेषु सुलभानि । उच्छूनत्वात्तेषाम् ।
उग्रपूतीन्युत्कटगन्धीनि । पृथूत्सेधेति पाठे पृथुनोत्सेधेन कायेन बहुतां गतानी-
त्यर्थः । यद्वा उत्सेधेनोन्नत्या भूयांसीत्यर्थः । 'उत्सेधः काय उन्नतिः' इत्यमरः ।
कीदृशो रङ्कः । आर्तस्वारावान् । पर्यस्तमितस्ततः क्षिप्तं नेत्रं येन सः । एतदुभयं
रङ्केषु प्रसिद्धमेव । 'अन्तःपर्यस्तनेत्रः' इति पाठेऽन्तर्मध्ये स्थितनेत्रः । रङ्कत्वेन
कोटराक्षत्वादित्यर्थः । 'आसन्नाग्रवच्चनेत्रः' इति पाठ आसन्नानि गृहीतानि स्राद्यवच्च-
नेत्राणि येन सः । अत एवास्राद्युत्पाटनाय प्रकटितदन्तः । दौर्बल्यप्रकर्षणा-