कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)
Kumarasambhavam of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. सीताराम चतुर्वेदी द्वारा
( ४६ )
करने वाले जन्तुओं ने पुराने वैर को छोड़ दिया था, जिसमें वृक्षों
द्वारा वाञ्छित फलों से अतिथियों का सत्कार किया जाता था
और जिसकी नई कुटियों में अग्नि सञ्चित रहती थी ऐसा वह
तपस्या का वन पवित्र होगया ॥ १७ ॥
ENGLISH TRANSLATION —The penance-forest also
became holy, where the previous antipathy was given
up by the hostile beasts, where the guests were served
with the desired fruits by the trees, and where the
( sacred ) fires were maintained in newly built huts of
leaves 17
PURPORT IN SANSKRIT —पार्वत्या आदर्शचरित्रेण तत्त-
पोवनमपि पवित्रीकृतम् । तत्रस्थैर्वनजन्तुभिः स्वाभाविको विरोध-
स्त्यक्तः—गोव्याघ्रादयः प्रेम्णा परस्परं व्यवहरन्तिस्म । पादपाः
स्वफलैरतिथीनां सत्कारं चक्रुः । पर्णशालावासिनो मुनयश्च
सनियममग्निहोत्रादिकं धर्मकृत्यं विदधुः । एवं पार्वत्यास्तपोवनं
स्वयं पवित्रमन्येषां च पवित्रताकारकमभूत् ॥ १७ ॥
यदा फलं पूर्वतपःसमाधिना
न तावता लभ्यममंस्त काङ्क्षितम् ।
तदानपेक्ष्य स्वशरीरमार्दवं
तपो महत्सा चरितुं प्रचक्रमे ॥ १८ ॥
यदेति । सा देवी यदा यस्मिन् काले तावता तावत्प्रमाणेन
पूर्वतपःसमाधिना पूर्वेणानुष्ठीयमानप्रकारेण तपोनियमेन काङ्-
क्षितं फलं लभ्यं लब्धुं शक्यं न अमंस्त अशक्यममंस्तेत्यर्थः तदा
तत्काले । अविलम्बेनेत्यर्थः । स्वशरीरमार्दवं स्वशरीरस्य मार्दवं
( ४७ )
मृदुत्वं सौकुमार्यं अनपेक्ष्य अविगणय्य महत् दुस्तरं तपः चरितुं
साधयितुं प्रचकमे उपचक्रमे ॥ १८ ॥
PROSE ORDER :—सा यदा तावता पूर्वतपःसमाधिना
काङ्क्षितं फलं लभ्यं न अमंस्त, तदा स्वशरीरमार्दवं अनपेक्ष्य
महत् तपः चरितुं प्रचकमे ॥ १८ ॥
NOTES :—तावता—( तावत् + टा ) तत् परिमाणमस्येति
तावत् , तेन by that much तावत् is formed by adding वतुः
to तत् and by lengthening the vowel of तत् by ' आ
सर्वनाम्नः ' पा० ६ ३ ६१ । पूर्वतपःसमाधिना — तपसः समाधिना
तपः समाधिना . पूर्वेण तपःसमाधिना पूर्वतपःसमाधिना ( उपरि-
वर्णिततपोनियमेन ) by the penance she had been practis-
ing तपःसमाधिः — penance. समाधिः—( सम् + आ + √धा
+कि ; ) concentration of thoughts काङ्क्षितं—(√ काङ्क्ष्
+क्तः) desired लभ्यं—( √लभ् + यत् ) प्राप्यं obtainable
अमंस्त—she thought Aorist third pers sing. of √ मन्
to think. मन्यते ( लट् ) मेने ( लिट् ) मंस्यते ( लृट् ) । स्वशरी-
रमार्दवम् । मार्दव—(मृदु + अण् ) मृदोः भावः मार्दवं (कोमलत्वं)
tenderness , delicacy अण् is added by ' इगन्ताच्च
लघुपू्र्वात् ' पा० ५. १. १३१ । to form Abstract noun. स्वस्याः
शरीरस्य मार्दवं स्वशरीरमार्दवं delicacy of her own body.
अनपेक्ष्य—(न + अप् + √ ईक्ष् + ल्यप् ) not minding. प्रचकमे—
( प्र + √क्रम् + लिट् ) आरेभे began. The √ क्रम् ' to walk '
when preceded by प्र or उप् and means ' to begin ' is
conjugated as आत्मनेपदी । Cf. ' प्रोपाभ्यां समर्थाभ्याम् '
पा० १. ३. ४२., but प्रक्रामति he goes, उपक्रामति comes
CHANGE OF VOICE : — तया यदा तावता पूर्वतपःसमा-
( ४८ )
धिना काङ्क्षितं फलं लभ्यं न अमनि, तदा स्वशरीरमार्दवं
अनपेक्ष्य महत् तपः चरितुं प्रचक्रमे ॥ १८ ॥
HINDI TRANSLATION :—जब उसने सोचा कि पहिले की
( अब तक की हुई ) तपस्या से चाहा हुआ फल प्राप्त होने
वाला नहीं, तब ( उसने ) अपनी देह की कोमलता का विचार
न कर ( अधिक ) कठोर तप करना आरम्भ किया ॥ १८ ॥
ENGLISH TRANSLATION .— When she thought that the
desired fruit was not to be attainable by that much
penance which she had been so far practising, then,
not minding the delicacy of her body, she began a
great penance. 18.
PURPORT IN SANSKRIT :—पूर्वोक्तप्रकारेण तप आचरन्ती
पार्वती यदा स्वाभीष्टसंसिद्धौ ससन्देहा जाता, तदा सा निजदेहस्य
कोमलत्वमनादृत्य कठिनतरं तपः कर्तुं निश्चितवती ॥ १८ ॥
क्लमं ययौ कन्दुकलीलयापि या
तया मुनीनां चरितं व्यगाहत ।
ध्रुवं वपुः काञ्चनपद्मनिर्मितं
मृदु प्रकृत्या च ससारमेव च ॥ १९ ॥
क्लममिति । या देवी कन्दुकलीलया कन्दुकक्रीडया अपि
क्लमं ययौ ग्लानिं प्राप । तया देव्या मुनीनां चरितं तीव्रं तपः
व्यगाहत प्रविष्टम् । अत्रोत्प्रेक्षते—ध्रुवम् अस्याः वपुः काञ्चनपद्म-
निर्मितं काञ्चनपद्मेन सुवर्णकमलेन निर्मितं घटितम् । अतएव
प्रकृत्या पद्मस्वभावेन मृदु च सुकुमारमपि काञ्चनस्वभावेन संसारं
च कठिनं एव । तथा च तदुपादानकत्वाद्देव्या वपुषः सुकुमारस्यापि
तीव्रतपःक्षमत्वमित्युत्प्रेक्षार्थः ॥ १९ ॥
( ४६ )
PROSE ORDER .—या कन्दुकलीलया अपि क्लमं ययौ, तया
मुनीनां चरितं व्यगाहत । ध्रुवं ( अस्याः ) वपुः काञ्चन
पद्मानिर्मितं ( अस्ति ) ( अतएव ) प्रकृत्या मृदु च ससारं एव च
( अस्ति ) ॥१९॥
NOTES :—कन्दुकलीलया—कन्दुकेन कन्दुकस्य वा लीला,
तया by playing with the ball क्लमं—श्रान्ति fatigue ययौ
—प्राप्ता went ; i. e. was fatigued चरितं—the life i. e.
the austerities व्यगाहत—आचर्यत, अक्रियेत्यर्थः was
followed ; was practised. Passive Imperfect of √गाहू
‘ to dive into, to bathe ’ गाहते ( लट् ), अगाहिष्ट (लुङ्) ।
ध्रुवं—निश्चयेन verily It is used to indicate Imagination
( उत्प्रेक्षा ) Cf ‘ मन्ये शङ्के ध्रुवं प्रायो नूनमित्येवमादिभिः ।
उत्प्रेक्षा व्यज्यते शब्दैरिव शब्दोऽपि तादृशः ’ ॥ काव्यादर्श ॥
काञ्चनपद्मनिर्मितं—काञ्चनस्य ( सुवर्णस्य ), पद्मेन ( कमलेन )
निर्मितं made of gold lotuses The expression काञ्चन-
पद्मनिर्मितं does not only mean that her body was of
fair complexion, but also that it possessed the hardness
and power to resist destructive forces of gold and the
softness and beauty of lotus The poet gives reason for
calling the body as such—प्रकृत्या—स्वभावेन by nature.
ससारं—सारेण सह इति ससारम् ( कठिनं बलयुक्तं वा ) hard ;
full of substance 19
CHANGE OF VOICE :—यया कन्दुकलीलयापि क्लमः यये सा
मुनीनां चरितं व्यगाहत । ध्रुवं (अस्याः) वपुषा काञ्चनपद्मनिर्मि-
तेन ( भूयते स्म ) (अतएव) प्रकृत्या मृदुना संसारेणैव च (भूयते
स्म ) ॥ १९ ॥
( ५० )
HINDI TRANSLATION :—जो गेंद के खेलने से भी थक
जाती थी वही ( अब ) तपस्वियों का आचरण ( कठोर तपस्या )
कर रही थी । सचमुच उसका शरीर सोने के कमल का बना
हुआ था ( क्योंकि ) स्वभाव से ही कोमल एवं कठोर या शक्ति-
शाली था ॥ १६ ॥
ENGLISH TRANSLATION —She, who was wearied even
by playing with the ball, betook herself to the life
of ascetics, verily her body was made of gold lotuses,
as it was by nature delicate as well as possessed of
strength 19.
PURPORT IN SANSKRIT —या पार्वती पूर्वमतिकोमल-
शरीरासीत् कन्दुकक्रीडादिभिरपि च श्रान्ताभूत् सैवेदानीं मुनीनां
कठिनं व्रतं सहर्षमाचरति स्म । एतत्समीक्ष्य कविस्तर्कयति—
यन्नूनं तस्याः शरीरं सुवर्णपद्मेन विरचितमासीत्, यत्स्वभावेनैव
कमलमिव कोमलं सुवर्णमिव च कठोरं शक्तिसम्पन्नं वाभूत् ।
पार्वती मृदुशरीरापि सती कठिनतप आचरितुं शकासीदिति
कवेस्तात्पर्यम् ॥ १६ ॥
शुचौ चतुर्णां ज्वलतां हविर्भुजां
शुचिस्मिता मध्यगता सुमध्यमा ।
विजित्य नेत्रप्रतिघातिनीं प्रभा—
मनन्यदृष्टिः सवितारमैक्षत ॥ २० ॥
शुचाविति । शुचौ ग्रीष्मे शुचिस्मिता विशदमन्दहासा
सुमध्यमा पार्वती ज्वलतां दीप्तिमतां चतुर्णां हविर्भुजां अग्नीनां
मध्यगता सती । नेत्रे प्रतिहन्तीति तां नेत्रप्रतिघातिनीं प्रभां सावित्रं
तेजः विजित्य । न विद्यतेऽन्यत्र दृष्टिर्यस्याः सा अनन्यदृष्टिः सती
( ५१ )
सवितारंसूर्य ऐक्षत ददर्श । 'ग्रीष्मे पञ्चाग्निमध्यस्थो वर्षासु स्थण्डि-
लेशयः ' इति स्मरणात् । पञ्चाग्निमध्ये तपश्चचारेत्यर्थः । सवितैव
पञ्चमोऽग्निः—' अग्निः सविता सवितैवाग्नि. ' इति श्रौतलिङ्गात्
॥ २० ॥
PROSE ORDER:—शुचौ ज्वलतां चतुर्णां हविर्भुजां मध्यगता
शुचिस्मिता सुमध्यमा नेत्रप्रतिघातिनीं प्रभां विजित्य अनन्यदृष्टिः
सवितारं पेक्षत ॥ २० ॥
NOTES :—शुचौ—ग्रीष्मे during the hot season. It is
also used for one month only, viz, आषाढ or ज्येष्ठ ।
For the various meanings of शुचि Cf ‘ शुचिर्ग्रीष्माग्नि-
शृङ्गारेष्वाषाढे शुद्धमन्त्रिणि, ज्येष्ठे च पुंसि धवले शुद्धेऽनुपहते
त्रिषु । ’ इति मेदिनी । ज्वलतां—( √ज्वल्+शतृ ), दीप्तिमblock? No: दीप्तिमतां
burning, blazing चतुर्णां—of four ( fires ) While
practising the पञ्चाग्नितप, four fires are placed on all
the four sides, and the Sun serves the purpose of the
fifth fire हविर्भुजां—हविः भुञ्जते इति हविर्भुजः, तेषां which
consume the oblations i e, fires. Its another synonym
is हुतभुक् । मध्यगता—मध्यं गता ( मध्ये स्थिता ) sitting in
the midst शुचिस्मिता—शुचि ( शुद्ध ) स्मितं ( हसितं ) यस्याः
सा of bright smile ; of sweet smile Mark, here शुचि
means ‘ bright, ’ while in the first line it means ‘ the
hot season ’ स्मित—Smile. The √स्मि ‘ to smile ’ means
‘ to wonder ’ when preceded by वि, e. g, विस्मित । The
use of this Adjective shows that Parvati did not mind
the hardship of penance in the least and maintained
the same happy mood as before. सुमध्यमा—सु ( शोभनः )
( ५२ )
मध्यम ( कटिः ) यस्याः सा of beautiful waist ; slender-
waisted ; a graceful woman नेत्रप्रतिघातिनीम् । प्रतिघातिनी
—( प्रति + √हन् + णिनिः + ङीप् ) प्रति हन्तुं शीलमस्या इति
प्रतिघातिनी Dazzling ; repulsing. घातिनी is formed by
adding णिनि to √हन्, ह of which is changed to घ and
न to त । नेत्रयोः प्रतिघातिनी, तां dazzling the eyes. प्रभां—
तेजः lustre ( of the Sun ) विजित्य—having conquered.
The idea is that Parvati became accustomed to fix her
eyes on the Sun. अनन्यदृष्टिः—न अन्यस्मिन् दृष्टिः यस्याः सा
not looking at anything else सवितारं—सुवति इति सविता,
तं the Sun, lit., who impels creatures to action or who
is the producer of things पेक्षत—( √ईक्ष् + लङ् ) gazed
at The penance referred to in this verse is known
as पञ्चाग्निसाधन, which is a very severe type of
asceticism, and means self-mortification by means of
five fires. It is also mentioned in Raghu XIII 41.
‘हविर्भुजां एधवतां चतुर्णां मध्ये ललाटन्तप सप्तसप्तिः । ’
CHANGE OF VOICE :—शुचौ ज्वलतां चतुर्णां हविर्भुजां
मध्यगतया शुचिस्मितया सुमध्यमया नेत्रप्रतिघातिनीं प्रभां विजित्य
अनन्यदृष्ट्या सविता पेक्ष्यत ॥ २० ॥
HINDI TRANSLATION :—ग्रीष्म ऋतु में, जलती हुई चार
अग्नियों के बीच में स्थित, स्वच्छ मुस्कराहट वाली और सुन्दर
कमर वाली (पार्वती) आँखों को चकाचौंध करने वाली (सूर्य
की) चमक को सहकर, और तरफ न देखती हुई सूर्य की ओर
टकटकी लगाये रहती थी ॥ २० ॥
ENGLISH TRANSLATION .—In summer, she, of bright
( ५३ )
smile and of slender waist, sitting in the midst of four
blazing fires, having overpowered (i. e., being used to
bear) the lustre that dazzled the eyes, gazed at the
sun with her sight not directed to anything else. 20
PURPORT IN SANSKRIT —कठिनतरतपोवर्णनप्रसङ्गेन पूर्वं
पञ्चाग्निसारकं वर्णयति—पार्वती शास्त्राज्ञानुसृत्य पञ्चाग्निनामकं
तपः प्रारब्धवती । तत्करणार्थं कृशकटिमती सा ग्रीष्मे दीप्तिमत्तां
चतुर्णामग्नीनां मध्ये स्थिता लोचनयोः कष्टकारकं सूर्यस्य तेजः
पराभूय अनिमेषनेत्राभ्यां सूर्य प्रति ददर्श ॥ २० ॥
तथाभितप्तं सवितुर्गभस्तिभि-
र्मुखं तदीयं कमलश्रियं दधौ ।
अपाङ्गयोः केवलमस्य दीर्घयोः
शनैः शनैः श्यामिकया कृतं पदम् ॥२१॥
तथेति । सवितुः सूर्यस्य गभस्तिभिः किरणैः तथा पूर्वोक्त-
प्रकारेण अभितप्तं संतप्त तस्या इद तदीयं मुखं कमलश्रियं
कमलस्य शोभां दधौ प्राप । यथा रवितापात्कमलं न म्लायति
प्रत्युत विकसति तथा तदीयं मुखमासीदिति भावः । किन्तु अस्य
मुखस्य दीर्घयोः अपाङ्गयोः केवलं नेत्रान्तयोरेव शनैः शनैः मन्दं
मन्दं श्यामिकया कालिम्ना पदं स्थानं कृतम् । तयोः सौकुमार्या-
दित्यर्थः ॥ २१ ॥
PROSE ORDER :—सवितुः गभस्तिभिः तथा अभितप्तं
तदीयं मुखं कमलश्रियं दधौ, श्यामिकया केवलं अस्य दीर्घयोः
अपाङ्गयोः शनैः शनैः पदं कृतम् ॥ २१ ॥
NOTES :—सवितुः—of the Sun. Genitive Sing of
सवितृ (√षू+तृच्) ; सुवति इति सविता, stimulator ;
( ५४ )
rouser, i e, the Sun 'भानुर्हंसः सहस्रांशुस्तपनः सविता
रविः' इत्यमरः । गभस्तिभि. - किरणैः with the rays 'किर-
णोस्रमयूखांशुगभस्तिघृणिरश्मयः' इत्यमरः । अभितप्त-(अभि
- √तप् + क्तः) आभिमुख्येन तप्तं scorched तदीयं-(तत् +
छः-ईय् ) तस्याः इदं तदीयम् of her, i e, of Parvati दधौ
-(√धा + लिट् ) धारयामास put on : bore The beautiful
face of Parvati being reddened by the heat of the
sun looked like a red lotus श्यामिकया-कालिम्ना by
darkness. Instru of श्यामिका। अपाङ्गयोः-नेत्रप्रान्तयोः
of the outer corners of the eyes दीर्घयोः, because long
corners of eyes are one of the marks of beauty. शनैः
शनैः- by and by A sudden darkness would have
marred the beauty of the face पदं कृतम् - i e, made
appearance. The word केवलं indicates that no other
part of the face, except the long corners of the eyes,
was darkened by the heat of the Sun
CHANGE OF VOICE - सवितुः गभस्तिभिस्तथा अभितप्तेन
तदीयेन मुखेन कमलश्रीः दधे, श्यामिका केवलं अस्य दीर्घयोः
अपाङ्गयोः शनैः शनैः पदं कृतवती ॥ २१ ॥
HINDI TRANSLATION - सूर्य की किरणों से इस प्रकार
अत्यधिक तपाया हुआ उसका चेहरा कमल की तरह
सुन्दर हो गया; (और सूर्य की गर्मी से हुई) कालिमा से
केवल उसकी आँखों के लम्बे कौए ही धीरे धीरे काले हो
गये ॥ २१ ॥
ENGLISH TRANSLATION - Her face greatly scorched
by the rays of the sun in this way assumed the beauty
( ५५ )
of a lotus ; and only round the long corners of the
eyes of it (i e, the face) dark colour gradually made
its appearance 21
PURPORT IN SANSKRIT ·—निरन्तरं सूर्याभिमुखं निरीक्षणेन
मुखे विकृतिः संभवास्ति, परं पार्वत्याः मुखं, यत्सततं सूर्यदर्शनेना-
भ्यासीभूतमासीत्, सूर्यस्य रश्मिभिः स्पृष्टं कमलमिवात्यन्तमशोभत
न तु कमपि विकारं दधौ । सूर्यतापजनितं कार्ष्ण्यञ्च केवलं
सुकुमारतरयोर्नेत्रप्रान्तयोरेव शनै. शनै प्रावर्त्तत न तु मुखस्यान्य-
स्मिन् कस्मिंश्चिद्भागे । तत्कार्ष्ण्यञ्च शोभाकरमेवाभूत्, न तु
कान्तिहरम् ॥ २१ ॥
अयाचितोपस्थितमम्बु केवलं
रसात्मकस्योडुपतेश्च रश्मयः ।
बभूव तस्याः किल पारणाविधि-
र्न वृक्षवृत्तिव्यतिरिक्तसाधनः ॥२२॥
अयाचितेति । अयाचितोपस्थितम् अप्रार्थितोपनतं केवलं अम्बु
उदकं रसात्मकस्य अमृतमयस्य उडुपते उडूनां नक्षत्राणां
पतिश्चन्द्रस्तस्य रश्मयः च तस्याः पार्वत्याः पारणाविधि अभ्य-
वहारकर्म बभूव । तावन्मात्रसाधनकोऽभूदित्यर्थः । साध्यसाधनयोर-
भेदेन व्यपदेशः साधनान्तरव्यावृत्त्यर्थः । किल इति प्रसिद्धौ ।
वृक्षवृत्तिव्यतिरिक्तसाधनः । वृक्षाणां या वृत्तिर्जीवनोपायस्तद्व्य-
तिरिक्तं साधनमुपायो यस्य स तथोक्तः पारणाविधिः न बभूव ।
वृक्षोऽप्ययाचितोपस्थितेन मेघोदकेनेन्दुकिरणैश्च जीवतीति
प्रसिद्धम् । अम्बिकापि तावन्मात्रमवालम्बतेत्यर्थः ॥ २२ ॥
PROSE ORDER:—अयाचितोपस्थितं केवलं अम्बु रसात्मकस्य
( ५६ )
उडुपतेः रश्मयः च तस्याः पारणाविधिः बभूव किल, वृत्तवृत्तिव्य-
तिरिक्तसाधनः ( पारणाविधिः ) न ( बभूव ) ॥ २२ ॥
NOTES :- अयाचितोपस्थितम्—न याचितं अयाचितं
( अप्रार्थितं ), अयाचितं च तदुपस्थितं ( प्राप्तं ) अयाचितोपस्थि-
तम् which came to her without begging or any other
effort on her part उपस्थितं - ( उप + √स्था + क्तः ) उपन-
तम् Came to her अम्बु = जलं water. Decline as-अम्बु,
अम्बुनी, अम्वूनि । अम्बु, अम्बुनी, अम्बूनि । अम्बुना, अम्बुभ्यां,
अम्बुभिः । etc. It means rain-water and dew-water
which are obtained without any effort रसात्मकस्य-
रसः ( जलं ) आत्मा यस्य सः, तस्य । जलमयस्य consisting of
water The moon is supposed to be full of water on
account of its cooling rays रस also means ' nectar '
In that case it would mean ' full of nectar ', Cf. the
name सुधाकर of the moon रसात्मक-( रस + आत्मन् +
कन् ) The कन् suffix is optionally added to some
particular words when they form the latter member
of a Bahuvrihi compound Cf. ' शेषाद्विभाषा ' पा०
५.४.१५४ उडुपतेः- उडूनां ( नक्षत्राणां ) पतिः, तस्य the lord
of constellations, i. e., the moon. Note the Genitive
Sing form of उडुपति is उडुपतेः and not उडुपत्युः । The
word पति at the end of a compounded word is declined
like हरि and not like पति e g. उडुपतिना ( तृतीया )
उडुपतये ( चतुर्थी ) उडुपते ( पञ्चमी, षष्ठी ) उडुपतौ ( सप्तमी ) ।
पारणाविधिः-पारणा or पारणा means ' eating or drinking
after a fast ' or simply ' food ' Mallinatha has taken
( ५७ )
it in the latter sense, but it may be taken in its
technical sense also, because Parvati used to observe
fast daily. पारणायाः विधिः पारणाविधिः or पारणैव विधिः
पारणाविधिः—भोजनं व्रतान्तर भोजनं वा । किल—It gives
the sense that it is so mentioned in the Puranas and
such other books. वृत्तवृत्तिव्यतिरिक्तसाधनः । वृत्तिः—जीव-
नोपायः livelihood; subsistence. व्यतिरिक्तं—( वि + अति +
√रिचिर् + क्तः ) भिन्न different. वृक्षाणां वृत्ते व्यतिरिक्तं
साधनं यस्य सः वृत्तवृत्तिव्यतिरिक्तसाधन the means of which
were ( not ) different from the subsistence of trees.
It is an Adjective of पारणाविधिः and means that
Parvati's food consisted of the same things and was
obtained in the same manner as that of trees. 22
CHANGE OF VOICE —अयाचितोपस्थितेन केवलेन अम्बुना
रसात्मकस्य उडुपते रश्मिभिश्च तस्याः पारणाविधिना बभूवे
किल, वृत्तवृत्तिव्यतिरिक्तसाधनेन न ( बभूवे ) ॥ २२ ॥
HINDI TRANSLATION :—बिना मांगे ही प्राप्त हुआ केवल
पानी तथा जलमय चन्द्रमा की किरणें उसका भोजन
था; (उसके भोजन का) साधन वृक्षों के भोजन से भिन्न न
था ॥ २२ ॥
ENGLISH TRANSLATION :—Only the water that came
to her without begging and the rays of the moon
(lit. Lord of the constellations), full of nectar, formed
her food, the means of which were not different from
those by which trees subsist. 22
PURPORT IN SANSKRIT :—पार्वती स्वजीविकोपार्जनार्थं
( ५८ )
कमपि यत्न न कुरुते स्म, तस्याः भोजनञ्च वृक्षाणामाहारवदति-
साधारणमभूत् । यथा हि वृक्षा केवलं वर्षाजलं चन्द्रकिरणांश्चाप-
भुज्य जीवनं धारयन्ति एवमेव सापि याचनां विनैव प्राप्तेन
जलेनामृतमयैश्च चन्द्रमसो रश्मिभिश्च व्रतान्तभोजनं कृतवती ।
एवं तया वृक्षवृत्तितपः प्रारब्धमिति कविना प्रदर्शितम् ॥ २२ ॥
निकामतप्ता विविधेन वह्निना
नभश्चरेणेन्धनसंभृतेन सा ।
तपात्यये वारिभिरुक्षिता नवै-
र्भुवा सहोष्माणममुञ्चदूर्ध्वगम् ॥ २३ ॥
निका मेति । विविधेन पञ्चविधेनेत्यर्थः । नभश्चरेण खेचरेण ।
आदित्यरूपेणेत्यर्थः । इन्धनसंभृतेन काष्ठसमिद्धेन वह्निना । निकाम-
तप्ता निकामं अत्यन्तं तप्ता सा अम्बिका तपात्यये ग्रीष्मान्ते ।
प्रावृषीत्यर्थः । नवैः वारिभिः उक्षिता सिक्ता सती भुवा पञ्चाग्नि-
तप्तया सह ऊर्ध्वगं ऊर्ध्वप्रसृतं ऊष्माणं बाष्पं अमुञ्चत् । 'ग्रीष्मोष्म-
वाष्पा ऊष्माणः ' इति यादवः ॥ २३ ॥
PROSE ORDER — नभश्चरेण इन्धनसंभृतेन विविधेन वह्निना
निकामतप्ता सा तपात्यये नवैः वारिभिः उक्षिता ( सती ) भुवा सह
ऊर्ध्वगं ऊष्माणं अमुञ्चत् ॥ २३ ॥
NOTES •—नभश्चरेण—नभसि ( आकाशे ) चरति इति
नभश्चरः, तेन which wanders or moves in the sky i e.,
the sun. इन्धनसंभृतेन । संभृत—(सम्+√भृञ्+क्त ) प्रदीप्त
kindled or lighted. Lit. fed or maintained इन्धनेन
संभृतः, तेन kindled by fuel, i e ordinary fire. विविधेन
( ५६ )
—नानाप्रकारेण Various, i. e., the five fires referred
to in the 20th shloka above. Some books read द्विविधेन
in place of विविधेन which means 'twofold', i. e., one in
the sky and the other on earth which is maintained
with fuel. This seems to be a better reading, because,
though five in number they are of two kinds only.
वह्निना—अग्निना । It is used in the sense of things
'possessing heat'. निकामतप्ता—निकामं ( अत्यर्थं ) तप्ता,
निकामतप्ता extremely heated. तपात्यये-तपस्य ( ग्रीष्मर्तोः)
अत्ययः ( नाश ), तस्मिन् At the end of the summer. तपः
the summer. Cf 'निदाघ उष्णोपगम उष्णा ऊष्मागमस्तप'
इत्यमरः । अत्ययः—( अति + √ इण् + अच् ) disappearance.
नवैः— नूतनैः fresh, i. e., the first waters of rainy season.
उक्षिता—( √ उक्ष् + क्त + था ) सिक्ता drenched. भुवा सह—
with the earth. Decline भू as भूः, भुवौ, भुवः । भुवं, भुवौ,
भुवः । भुवा, भूभ्यां, भूभिः etc. सह and other particles
expressing 'accompaniment' govern the Instrumental
case. Cf- 'सहयुक्तेऽप्रधाने' पाणिनि २ ३ १६ । ऊर्ध्वगम्—
(√ गम् + डः = गः) ऊर्ध्वं गच्छतीति, तम् which goes upwards.
ऊष्माणम्—उष्णतां heat. Just as vapour comes out of
the earth when drenched with the fresh showers of the
rainy season, so did it arise from the body of Parvati
which had been heated by the five fires. This shows
that her body was heated very much, so much so that
it turned water into vapour. 23.
CHANGE OF VOICE :—नभश्चरेण इन्धनसंभृतेन द्विविधेन
( ६० )
वह्निना निकामतप्तया तया तपात्यये नवैः वारिभिः उक्षितया भुवा
सह ऊर्ध्वगः ऊष्मा अमुच्यत ॥ २३ ॥
HINDI TRANSLATION :—आकाश में चलने वाली तथा
ईंधन से जलनेवाली नाना अग्नियों से अत्यधिक तपायी हुई वह
(पार्वती), ग्रीष्म ऋतु के अन्त मे (वर्षा के) प्रथम पानी से
सींची हुई पृथिवी के साथ ऊपर को जाने वाली गर्मी (अर्थात्
भाप) छोड़ती थी ॥ २३ ॥
ENGLISH TRANSLATION —She, extremely heated by
various fires - the one wandering in the sky and the
others maintained by means of fuel—when drenched
with the fresh waters at the end of the summer, gave out,
along with the earth, heat that ascended upwards 23.
PURPORT IN SANSKRIT :—यथा ग्रीष्मर्तौ सूर्यातपेनामितप्ता
पृथिवी वर्षागम्भे जलसिक्ता सती वाष्पं मुञ्चति तच्च पृथिव्या
ऊर्ध्वं याति, तथैव पञ्चाग्नितप आचरन्ती पार्वती सूर्यातपेन चतसृषु
दिक्षु स्थापितैर्वह्निभिश्च निकामं तप्ता वर्षाप्रारम्भे जलसिक्ता सती
ऊर्ध्वगामिबाष्पं त्यजति स्म ॥ २३ ॥
स्थिताः क्षणं पक्ष्मसु ताडिताधराः
पयोधरोत्सेधनिपातचूर्णिताः ।
वलीषु तस्याः स्खलिताः प्रपेदिरे
चिरेण नाभिं प्रथमोदविन्दवः ॥ २४ ॥
स्थिता इति । प्रथमोदबिन्दवः उदकस्य बिन्दवः उदकविन्दवः ।
‘मन्थौदन०’ इत्यादिनाेदकशब्दस्योदादेशः । प्रथमे उदबिन्दवः ।
प्रथमविशेषणाद्विन्दूनां विरलत्वं बहुवचनान्नातिविरलत्वं च गम्यते ।
तथा च चिरत्वनाभ्यन्तरगमनयोर्निर्वाहः । तस्याः पार्वत्याः पक्ष्मसु
नेत्रलोमसु क्षणं स्थिताः स्थितिं गताः । स्थिता इत्यनेन पक्ष्मणां
( ६१ )
सान्द्रत्वं क्षणमिति स्नैग्ध्यं च गम्यते । अनन्तरं ताडिताधरास्ता-
डितो व्यथितोऽधर ओष्ठो यैस्ते तथोक्ताः । एतेनाधरस्य मार्दवं
गम्यते । ततः पयोधरोत्सेधनिपातचूर्णिताः पयोधरयोः स्तनयोः
उत्सेधे उपरिभागे निपातेन पतनेन चूर्णिताः जर्जरिताः । कुचका-
ठिन्यादिति भावः । तदनु वलीषु उदररेखासु स्खलिताः ।
निम्नोन्नतत्वादिति भावः । इत्थं चिरेण न तु शीघ्रम् । प्रति-
बन्धबाहुल्यादिति भावः । नाभिं प्रपेदिरे प्रविष्टाः । न तु
निर्जग्मुः । एतेन नाभेर्गाम्भीर्यं गम्यते । अत्र प्रतिपदमर्थवत्वात्परि-
करालङ्कारः ॥ २४ ॥
PROSE ORDER :—प्रथमोदबिन्दवः क्षणं तस्याः पक्ष्मसु
स्थिताः, ताडिताधराः, पयोधरोत्सेधनिपातचूर्णिता वलीषु
स्खलिताः नाभि चिरेण प्रपेदिरे ॥ २४ ॥
NOTES :—प्रथमोदबिन्दवः—प्रथमे(नवाः) उदकस्य(जलस्य)
बिन्दवः (कणाः) प्रथमोदबिन्दवः drops of first water. उदक
is optionally changed to उद् when followed by मन्थ,
ओदन, सक्तु, बिन्दु etc. Cf. 'मन्थौदनसक्तुविन्दुबज्रभारहार-
वीवधगाहेषु च' पा० ६. ३. ६० । पक्ष्मसु—नेत्रलोमसु at the eye-
lashes. पक्ष्मन् is declined as पक्ष्म, पक्ष्मणी, पक्ष्माणि etc.
स्थिता.—rested This shows that her eyelashes were
dense, which is a sign of beauty, and the adverb क्षणं
indicates that they were also smooth. ताडिताधराः—
ताडितः अधरो यैस्ते which struck against the lower lip.
पयोधरोत्सेधनिपातचूर्णिताः । उत्सेधः—( उत्—√सिध् to go
+घञ् ) उन्नतिः height, elevation ; bigness ; protrusion.
पयोधरयोः (स्तनयोः) उत्सेधे (उन्नतप्रदेशे) निपातेन चूर्णिताः
broken on account of their falling on the elevation of
कु० सं०—६
( ६२ )
her breasts. This indicates that her breasts were
quite elevated and hard वलीषु—उदरस्थितासु रेखासु
at the folds or wrinkles. स्खलिताः—निरुध्य पतिताः
stumbling through. नाभिं—navel चिरेण—विलम्बेन after
a long delay. It is an indeclinable word and not the
Instrumental Sing. The drops reached her navel after
a long delay, because they had to meet with so many
obstructions in the way. प्रपेदिरे—( प्र+√पद् to go+
लिट् ) प्राप्ताः reached. Conjugate as—पद्यते ( लट् ) अपद्यत
( लङ् ) पत्स्यते ( लृट् ) अपादि ( लुङ् ) etc. In this shloka
the poet has described the natural path of the drops
of rainy showers that fell on Parvati when she sat
in the open By the way it has given him an occasion
to suggest the excellence of the various limbs of
Parvati.
This verse is a good example of परिकर अलङ्कार,
' in which many significant epithets or adjectives are
employed one after the other to give force to a
statement, Cf. ' उक्तैः विशेषणैः साभिप्रायैः परिकरो मतः । '
साहित्यदर्पणम् ।
CHANGE OF VOICE :—प्रथमोदबिन्दुभि क्षणं तस्याः पक्ष्मसु
स्थितैः, ताडिताधरैः, पयोधरोत्सेधनिपातचूर्णितैः, वलीषु स्खलितैः
नाभिः चिरेण प्रपेदे ॥ २४ ॥
HINDI TRANSLATION :—( वर्षा ) जल की प्रथम बूंदें कुछ
देर के लिये उसकी आँखों के बालों में ठहर कर ( फिर ) नीचे
( ६३ )
के ओठ से टक्कर खाकर ( तत्पश्चात् ) स्तनों की ऊँचाई पर
गिरने से छिन्न भिन्न हुई ( इसके बाद पेट की ) वलों में
फिसलती हुई नाभि में बड़ी देर में पहुँचती थीं ॥ २४ ॥
ENGLISH TRANSLATION —The drops of first water
rested for a moment on her eyelashes, ( then )
struck against her lower lip, broke by falling on the
elevation of her breasts, ( and then ) stumbling
through the folds ( of her belly ), reached her navel
after a long delay. 24
PURPORT IN SANSKRIT :—यदा हि तपः कुर्वन्ती पार्वती
असंवृते स्थाने निषीदति स्म तदा तदुपरि निपतिताः वर्षाजलस्य
बिन्दवः पूर्वं तदक्षिलोमसु निरम्य किञ्चित्कालं तत्र विश्रामं प्रापुः,
ततो भ्रष्टा अधरे पतिताः, ततो निपत्य कुचयोश्छिन्नतां गताः, पुनः
निम्नस्थानाभिमुखीभूनास्तदुदरप्रदेशस्य वलीषु स्खलन्तो दीर्घकालेन
तस्या नाभि प्राप्ताः तस्याश्च गाम्भीर्यात्तत्रैव स्थितिमकुर्वन् । एतेन
पार्वत्याः नेत्रलोम्नां घनत्वं, अधरस्य सौकुमार्यं, स्तनयोः काठिन्यं,
उदरप्रदेशस्य निम्नोन्नतत्वं, नाभेश्च गाम्भीर्यं व्यज्यते ॥ २४ ॥
शिलाशयां तामनिकेतवासिनीं
निरन्तरास्वान्तरवातवृष्टिषु ।
व्यलोकयन्नुन्मिषितैस्तडिन्मयै-
र्महातपःसाक्ष्य इव स्थिताः क्षपाः ॥ २५ ॥
शिलाशयामिति । निरन्तरासु नीरन्ध्र सु अन्तरे मध्ये वातो यासां
तादृश्यो या वृष्टयस्तासु अन्तरवातवृष्टिषु । न निकेते गृहे वसतीति
अनिकेतवासिनीम् । अनावृतदेशवासिनीमित्यर्थः शिलायां शेत
इति शिलाशयां शिलातलशायिनीम् । ' अधिकरणे शेतेः' इत्यच्
( ६४ )
प्रत्ययः । तां पार्वतीं महातपः साक्ष्ये साक्षाद्द्रष्टा साक्षी । ' साक्षा-
द्द्रष्टरि संज्ञायाम् ' इतीनि प्रत्ययः । तस्य कर्म साक्ष्यम् । महा-
तपसः साक्ष्ये स्थिताः क्षपाः तडिन्मयै विद्युद्रूपैः उन्मिषितैः
अवलोकनैः व्यलोकयन् इव । इवेति चक्षुषा विलोकनमेवात्प्रेक्ष्यते ।
साक्ष्यं तु ' आदित्यचन्द्रावनिलोऽनलश्च द्यौर्भूमिरापो हृदयं
यमश्च । अहश्च रात्रिश्च उभे च संध्ये धर्मश्च जानाति नरस्य
वृत्तम् । ' इति प्रमाणसिद्धत्वान्नोत्प्रेक्ष्यमित्यनुसंधेयम् ॥ २४ ॥
PROSE ORDER :—निरन्तरासु अन्तरवातवृष्टिषु अनिकेत-
वासिनीं शिलाशयां तां महातपःसाक्ष्ये स्थिताः क्षपाः तडिन्मयैः
उन्मिषितैः व्यलोकयन् इव ॥ २४ ॥
NOTES :—निरन्तरासु – निर्गतं ( दूरीभूतं ) अन्तरं ( मध्यं )
याभ्यः, ताः, तासु Continuous, ceaselessly falling Adjec-
tive of वृष्टिषु । अन्तरवातवृष्टिषु—अन्तरे ( मध्ये ) वातो
( वायु :) यासां ता अन्तरवाताः i. e. accompanied by winds.
अन्तरवाताश्च ताः वृष्टयः अन्तरवातवृष्टयः ( कर्मधारयः ) तासु
showers accompanied by winds. अनिकेतवासिनीम् ।
वासिनी—( √वस्+णिनि.+ङीप् ) dwelling न निकेते
वसतीत्यनिकेतवासिनी, ताम् not living in a house or shel-
tered roof, i. e., who lived in an open space शिलाशयां –
शिलायां शेते इति शिलाशया, तां who slept on a slab of stone.
शयः is formed by adding अच् to √ शी to sleep, by ' अधि-
करणे शेतेः' पा० ३ २ १४ । It was necessary for Parvati
to live in such a way while performing penance. महातपः
साक्ष्ये । साक्ष्यं – साक्षिणः कर्म साक्ष्यं ( साक्षिन्+ष्यञ् ) the
act of a witness The word साक्षिन् is formed by ' साक्षाद्
द्रष्टरि संज्ञायाम् ' पा० ५. २ ११। in the sense of one
( ६५ )
who sees a thing with his own eyes महतः तपसः साक्ष्ये
इति महातपःसाक्ष्ये doing the work of witnesses of the
rigid penance स्थिताः—i. e doing the duty of. क्षपाः—
रात्रयः nights ‘ निशा निशीथिनी रात्रिस्त्रियामा क्षणदा क्षपा ’
इत्यमरः । As Parvati used to perform meditation in
loneliness, even her friends being absent at the time,
it behoves alright that nights have been described as
witnesses of her penance. तडिन्मयै.—( तडित् + मयट् )
विद्युद्रूपैः made of lightning ‘ तडित्सौदामिनीविद्युच्चञ्चला
चपला अपि ’ इत्यमरः । The suffix मयट् is added in the
sense of ‘made of’ or ‘in the form of’ by ‘तत्प्रकृत-
वचने मयट् ’ पा० ५ ४ २१ । As nights have no actual eyes,
lightning has been quite properly mentioned as their
glances उन्मिषितैः—( उत् + √मिष् to open the eyes +
क्तः ) अवलोकनैः by means of glances व्यलोकयन्—( वि +
√लोक् to see + लङ् ) looked इव is used as a mark of
‘ Imagination.’ The flashes of lightning are imagined
as the twinklings of the eyes of the night 25.
CHANGE OF VOICE :—निरन्तरासु अन्तरवातवृष्टिषु अनि-
केतवासिनी शिलाशया सा महातपःसाक्ष्ये स्थिताभिः क्षपाभिः
तडिन्मयैः उन्मिषितैः व्यलोक्यत इव ॥ २५ ॥
HINDI TRANSLATION :—लगातार होने वाली, हवा के
झोकों से युक्त वर्षा में खुले में रहने वाली, पत्थर की चट्टान पर
सोने वाली उस ( पार्वती ) को, उसकी कठिन तपस्या के साक्षी
का कार्य करती हुई रात्रियाँ मानो विद्युत् रूप दृष्टियों से देखती
थीं ॥ २५ ॥