काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)
Kavyamimamsa of Rajasekhara with Hindi Commentary
महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा
कविरहस्ये सप्तमोऽध्यायः । २९
आर्षम्—“यत्किञ्चिन्मन्त्रसंयुक्तं युक्तं नामविभक्तिभिः ।
प्रत्यक्षाभिहितार्थं च तदृषीणां वचः स्मृतम् ॥”
आर्षीकम्—“नैगमैर्विविधैः शब्दैर्निपातबहुलं च यत् ।
न चापि सुमहेद्वाक्यमृषीकाणां वचस्तु तत् ॥”
आर्षिपुत्रकम्—“अविस्पष्टपदप्रायं यच्च स्याद्बहुसंशयम् ।
ऋषिपुत्रवचस्तत्स्यात्ससर्वपरिदेवनम् ॥”
तदुदाहरणानि पुराणेभ्य उपलभेत ।
सारस्वताः कवयो नः पूर्वे इत्थङ्कारं कथयन्ति । ब्रह्मविष्णुरुद्रगु-
हबृहस्पतिभार्गवादिशिष्येषु चतुःषष्टावुपदिष्टं वचः पारमेश्वरं
क्रमेण च सञ्चरद्देवैर्देवयोनिभिश्च यथामत्युपजीव्यमानं दिव्यमिति
व्यपदिश्यते । देवयोनयस्तु—
“विद्याधराप्सरोयक्षरक्षोगन्धर्वकिन्नराः ।
सिद्धगुह्यकभूताश्च पिशाचा देवयोनयः ॥”
तत्र पिशाचादयः शिवानुचराः स्वभूमौ संस्कृतवादिनो मर्त्ये तु
भूतभाषया व्यवहरन्तो निबन्धनीयाः । अप्सरसस्तु प्राकृतभाषया ।
तद्दिव्यं वचश्चतुर्द्धा वैबुधं वैद्याधरं गान्धर्वं योगिनीगतं च [इति] ।
शेषाणामेतेष्वेवोपलक्षणं प्रकृतिसादृश्येन । तत्र वैबुधम्—
“समासव्याससंदग्धं शृङ्गाराद्भुतसम्भृतम् ।
सानुप्रासमुदारं च वचः स्यादमृताशिनाम् ॥”
यथा—“यच्चन्द्रकोटिकरकोरकभारभाजि
बभ्राम बभ्रुणि जटाकुहरे हरस्य ।
तद्भोः पुनातु हिमशैलशिलानिकुञ्ज-
झत्कारडम्बरविरावि सुरापगाम्भः ॥”
वैद्याधरम्—“स्तोकानुप्राससच्छायं चतुरोक्ति प्रसादि च ।
द्राघीयसा समासेन विद्धि वैद्याधरं वचः ॥”
१ A सुमहा०. २ A ऋषीणां हि. ३ B उपलभ्येत. ४ B ०वुपदिष्टं.
३० काव्यमीमांसायाम्
यथा— “प्रणतसुरकिरीटप्रांशुर्लांशुवंश-
च्छुरितनखशिखाग्रोद्भासमानारुणाङ्घ्रे ।
उदिततरणिबृन्दोद्दामधामोर्ध्वनेत्र-
ज्वलननिकरदग्धानङ्गमूर्ते नमस्ते ॥”
५ यथा वा— “भ्रमति भ्रमरकरम्बितनन्दनवनचम्पकस्तबकगौरः ।
वात्याहत इव वियति स्फुटलक्ष्मा रोहिणीरमणः ॥”
गान्धर्वम्— “ह्रस्वैः समासैर्भूयोभिर्विभूषितपदोच्चया ।
तत्त्वार्थग्रथनग्राह्या गन्धर्वाणां सरस्वती ॥”
यथा— “नमः शिवाय सोमाय सगणाय ससूनवे ।
१० सवृषव्यालशूलाय सकपालाय सेन्दवे ॥”
योगिनीगतम्— “समासरूपकप्रायं गम्भीरार्थपदक्रमम् ।
सिद्धान्तसमयस्थायि योगिनीनामिदं वचः ॥”
यथा— “दुःखन्धनैकदहनामृतवर्षमेघ
संसारकूपपतनैककरावलम्ब ।
१५ योगीन्द्रदर्पण जगद्गतकृत्स्नतेजः-
प्रत्यक्षचौरवर वीरपते नमस्ते ॥”
महाप्रभावत्वाद्वौजङ्गममपि दिव्यमित्युपचर्यते ।
“प्रसन्नमधुरोदात्तसमासव्यास१भागवत् ।
अनोजस्विपदप्रायं वचो भवति भोगिनाम् ॥”
२० यथा— “सुसर्जि(ञ्जि)तां श्रोत्रसुखां सुरूपा-
मनेकरत्नोज्ज्वलचित्रिताङ्गीम् ।
विद्याधरेन्द्रः प्रतिगृह्य वीणां
पिनाकिने गायति मङ्गलानि ॥”
“किमर्थं पुनरनुपदेश्ययोर्ब्राह्मपारमेश्वरयोर्वाक्यमार्गयोरुपन्या-
२५ सः ?” इत्याचार्याः। “सोऽपि कवीनामुपदेशपरः” इति यायावरीयः ।
————————————————————————
१ Explained in A as समूह.
कविरहस्ये सप्तमोऽध्यायः । ३१
यतो नाटकादावीश्वरादीनां देवानां च प्रवेशे तच्छायावन्ति वा-
क्यानि विधेयानि । इति दिव्यम् ।
इह हि प्रायोवादो यदुत मर्त्यावतारव्यवहाररुचेर्भगवतो वासु-
देवस्य वचो वैष्णवम् [इति] । तन्मानुषमिति व्यपदिशन्ति । तच्च
त्रिधा रीतिन्त्रयभेदेन । तदाहुः—
“वैदर्भी गौडीया पाञ्चाली चेति रीतयस्तिस्रः ।
आशु(सु) च साक्षान्निवर्सति सरखती तेन लक्ष्यन्ते॥”
रीतिरूपं वाक्यत्रितयम् । काकुः पुनरनेक्यति । “काकुर्व(व)क्रो-
क्तिर्नाम शब्दालङ्कारोऽयम्” इति रुद्रटः । “अभिप्रायवान्पाठधर्मः
काकुः । स कथमलङ्कारी स्यात् ?” इति यायावरीयः । सा च द्विधा
साकाङ्क्षा निराकाङ्क्षा च । वाक्यान्तराकाङ्क्षिणी साकाङ्क्षा । वाक्यो-
त्तरभाविनी निराकाङ्क्षा । तदेव वाक्यं काकुविशेषेण साकाङ्क्षम् ।
तदेव काक्वन्तरेण निराकाङ्क्षम् । आक्षेपगर्भा, प्रश्नगर्भा, वितर्कगर्भा
चेति साकाङ्क्षा । विधिरूपा, उत्तररूपा, निर्णयरूपेति निराकाङ्क्षा ।
तत्राक्षेपगर्भा—
“यदि मे वल्लभा दूती तदाऽहमपि वल्लभा ।
यदि तस्याः प्रिया वाचः तन्ममापि प्रियप्रियाः ॥”
एवमेव निर्देष्टुर्विधिरूपा । प्रश्नगर्भा—
“गतः स कालो यत्रासीन्मुक्तानां जन्म वल्लिषु ।
वर्तन्ते साम्प्रतं तासां हेतवः शुक्तिसम्पुटाः ॥”
इयमेवोपदेष्टुरुत्तररूपा । वितर्कगर्भा—
“नवजलधरः सन्नद्धोऽयं न दृप्तनिशाचरः
सुरधनुरिदं दूराकृष्टं न नाम शरासनम् ।
अयमपि पटुर्धारासारो न बाणपरम्परा
कनकनिकषस्निग्धा विद्युत्प्रिया न ममोर्वशी ॥”
इयमेवोपदेष्टुर्निर्णयरूपा । ता इमास्तिस्रोऽपि नियतनिबन्धाः ।
तद्विपरीताः पुनरनन्ताः । तत्राभ्युपगमानुनयकाकू—
३२ काव्यमीमांसायाम्
"युष्मच्छासनलङ्घनाम्भसि मया मग्नेन नाम स्थितं
प्राप्ता नाम विगर्हणा स्थितिमतां मध्येऽनुजानामपि।
क्रोधोल्लासितशोणितारुणगदस्योच्छिन्दतः कौरवा-
नद्यैकं दिवसं ममासि न गुरुर्नाहं विधेयस्तव ॥"
5 अभ्यनुज्ञोपहासकाकू— "मथ्नामि कौरवशतं समरे न कोपा-
दुःशासनस्य रुधिरं न पिबाम्युरस्तः।
सञ्चूर्णयामि गदया न सुयोधनोरू
सन्धिं करोतु भवतां नृपतिः पणेन ॥"
एवं त्रिचतुरकाकुयोगोऽपि। तत्र त्रियोगः—
10 “सेयं पश्यति नो कुरङ्गवधूस्त्रस्तैवमुद्वीक्षते
तस्याः पाणिरयं न मारुतचलत्पत्राङ्गुलिः पल्लवः।
तारं रोदिति सैव नैष मरुता वेणुः समापूर्यते
सेयं मामभिभाषते प्रियतमा नो कोकिलः कूजति ॥"
चतुर्योगः— "उच्यतां स वचनीयमशेषं
15 नेश्वरे परुषता सखि साध्वी।
आनयैनमनुनीय कथं वा
विप्रियाणि जनयन्ननुनेयः ॥"
“सख्या वा नायिकाया वा सखीनायिकयोरथ।
सखीनां भूयसीनां वा वाक्ये काकुरिह स्थिता ॥
20 पदवाक्यविदां मार्गो योऽन्यथैव व्यवस्थितः।
सत्त्वाङ्गाभिनयो(य)द्योत्या तं काकुः कुरुतेऽन्यथा ॥
अयं काकुकृतो लोके व्यवहारो न केवलम्।
शास्त्रेष्वप्यस्य साम्राज्यं काव्यस्याप्येष जीवितम् ॥
कामं विवृणुते काकुरर्थान्तरमतन्द्रिता।
25 स्फुटीकरोति तु सतां भावाभिनयचातुरीम् ॥
इत्थं कविर्निबध्नीयादित्थं च मतिमान्पठेत् ।
यथा निबन्धनिगडच्छायां काश्चिन्निषिञ्चति ॥
[Header] कविरहस्ये सप्तमोऽध्यायः । ३३
करोति काव्यं प्रायेण संस्कृतात्मा यथा तथा ।
पठितुं वेत्ति स परं यस्य सिद्धा सरस्वती ॥
यथा जन्मान्तराभ्यासात्कण्ठे कस्यापि रक्तता ।
तथैव पाठसौन्दर्यं नैकजन्मविनिर्मितम् ॥
ससंस्कृतमपभ्रंशं लालित्यालिङ्गितं पठेत् । ५
प्राकृतं भूतभाषां च सौष्ठवोत्तरमुद्धरेत् ॥
प्रसन्ने मन्द्रयेद्वाचं तारयेत्तद्विरोधिनि ।
मन्द्रतारौ च रचयेन्निर्वाहिणि यथोत्तरम् ॥
ललितं काकुसमन्वितमुज्जवलमर्थवशकृतपरिच्छेदम् ।
श्रुतिसुखविविक्तवर्णं कवयः पाठं प्रशंसन्ति ॥ १०
अतितूर्णमतिविलम्बितमुल्बणनादं च नादहीनं च ।
अपदच्छिन्नमनावृतमतिमृदु परुषं च निन्दन्ति ॥
गंम्भीरत्वमनैश्व(ष्ठु)र्यं निर्व्यूढिस्तारमन्द्रयोः ।
संयुक्तवर्णलावण्यमिति पाठगुणाः स्मृताः ॥
यथा व्याघ्री हरेत्पुत्रान्दंष्ट्राभिश्च न पीडयेत् । १५
भीता पतनभेदाभ्यां तद्वद्वर्णान्प्रयोजयेत् ॥
विभक्तयः स्फुटा यत्र समासश्चाकदर्थितः ।
अम्लानः पदसन्धिश्च तत्र पाठः प्रतिष्ठितः ॥
न व्यस्तपदयोरैक्यं न भिदां तु समस्तयोः ।
न चाख्यातपदम्लानिं विदधीत सुधीः पठन् ॥ २०
आगोपालकमायोषिदास्तामेतस्य लेह्यता ।
इत्थं कविः पठन्काव्यं वाग्देव्या अतिवल्लभः ॥
येऽपि शब्दविदो नैव नैव चार्थविचक्षणाः ।
तेषामपि सतां पाठः सुष्ठु कर्णरसायनम् ॥
पठन्ति संस्कृतं सुष्ठु कुण्ठाः प्राकृतवाचि ते । २५
वाणार(राण)सीतः पूर्वेण ये केचिन्मगधादयः ॥”
आह स—"ब्रह्मन्विज्ञापयामि त्वां स्वाधिकारजिहासया ।
गौडस्त्यजतु वा गाथामन्या वाऽस्तु सरस्वती ॥
[Footnotes]
१ C गम्भीरत्वमवैखर्यं.
५
३४ काव्यमीमांसायाम्
नातिस्पष्टो न चाश्लिष्टो न रूक्षो नातिकोमलः ।
न मन्द्रो नातितारश्च पाठी(ठो) गौडेषु वाडवः ॥
रसः कोऽप्यस्तु काव्यस्तु रीतिः कोऽप्यस्तु वा गुणः ।
सगर्वं सर्वकर्णाटष्टंकारोत्तरपाठिनः ॥
गद्ये पद्येऽथवा मिश्रे काव्ये काव्यमना अपि ।
गेयगर्भे स्थितः पाठे सर्वोऽपि द्रविडः कविः ॥
पठन्ति लटभं लाटाः प्राकृतं संस्कृतद्विषः ।
जिह्वया ललितोल्लापलब्धसौन्दर्यमुद्रया ॥
सुराष्ट्रत्रावणाद्या ये पठन्त्यर्पितसौष्ठवम् ।
अपभ्रंशावदंशानि ते संस्कृतवचांस्यपि ॥
शारदायाः प्रसादेन काश्मीरः सुकविर्जनः ।
कर्णे गुडूचीगण्डूषस्तेषां पाठक्रमः किमु ! ॥
ततः पुरस्तात्कवयो ये भवन्त्युत्तरापथे ।
ते महत्यपि संस्कारे सानुनासिकपाठिनः ॥
मार्गानुगेन निनदेन निधुर्गुणानां
सम्पूर्णवर्णरचनो यतिभिर्विभक्तः ।
पाञ्चालमण्डलभुवां सुभगः कवीनां
श्रोत्रे मधु क्षरति कश्चन काव्यपाठः ॥
ललल्कारया जिह्वं जर्जरस्फाररेफया ।
गिरा भुजङ्गाः पूज्यन्ते काव्यभव्यधियो न तु ॥
पञ्चस्थानसमुद्भववर्णेषु यथा स्वरूपनिष्पत्तिः ।
अर्थवशेन च विरतिः सर्वस्वमिदं हि पाठस्य ॥”
सकाकुकलना पाठप्रतिष्ठेयं प्रदर्शिता ।
अर्थानुशासनस्याथ प्रकारः परिकीर्त्यते ॥
इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमेऽधिकरणे
सप्तमोऽध्यायः वाक्यविशेषाः काकुकलना पाठप्रतिष्ठा च ॥
१ B लटसं. २ A तिष्ठिता.
कविरहस्ये अष्टमोऽध्यायः । ३५
अष्टमोऽध्यायः काव्यार्थयोनयः ।
“श्रुतिः, स्मृतिः, इतिहासः, पुराणं, प्रमाणविद्या, समयविद्या,
राजसिद्धान्तत्रयी, लोको, विरचना, प्रकीर्णकं च काव्यार्थानां
द्वादश योनयः” इत्याचार्याः । “उचितसंयोगेन, योक्तृसंयोगेन,
उत्पाद्यसंयोगेन, संयोगविकारेण च सह षोडश” इति यायावरीयः। ५
तत्र श्रौतः। “उर्वशी हाप्सराः पुरूरवसमैडं चकमे” । अत्रार्थे—
“चन्द्राद्बुधः समभवद्भगवाम्नरेन्द्र-
मार्थं पुरूरवसमैडमसावसूत ।
तं चाप्सराः स्मरवती चकमे किमन्य-
दत्रोर्वशी स्मितवशीकृतशक्रचेताः ॥” १०
यथा वा—“यदेतन्मण्डलं तपति तन्महदुक्थं ता ऋचः स ऋचां
लोकोऽथ यदेतदर्चिर्दीप्यते तन्महाव्रतं तानि सामानि स साम्नां
लोकोऽथ य एष तस्मिन्मण्डले पुरुषः सोऽग्निस्तानि यजूंषि स यजुषां
लोकः सैषा त्रय्येव विद्या तपति ।”
अत्रार्थे—“एतद्यन्मण्डलं खे तपति दिनकृतस्ता ऋचोऽर्चीषि यानि १५
द्योतन्ते तानि सामान्ययमपि पुरुषो मण्डलेऽणुर्यजूंषि ।
एवं यं वेद वेदत्रितयमयमयं वेदवेदी समग्रो
वर्गः स्वर्गापवर्गप्रकृतिरविकृतिः सोऽस्तु सूर्यः श्रिये वः॥”
तच्चेदं वेपहरणम् । यदित्थं कथयन्ति—
“नमोऽस्तु तस्यै श्रुतये यां दुहन्ति पदे पदे । २०
ऋषयः शास्त्रकाराश्च कवयश्च यथामति ॥”
स्मार्तः—‘‘बह्वर्थेष्वभियुक्तेन सर्वत्र व्यपलापिना ।
विभावितैकदेशेन देयं यदभियुज्यते ॥”
अत्रार्थे—“हंस प्रयच्छ मे कान्तां गतिस्तस्यास्त्वया हृता ।
सम्भावितैकदेशेन देयं यदभियुज्यते ॥” २५
१ B प्रमाणं. २ A ०मैल. ३ B प्रपलायिना. ४ V सम्भावितैक०.
३६ काव्यमीमांसायाम्
ऐतिहासिकः—"न स सङ्कुचितः पन्था येन वाली हतो गतः ।
समये तिष्ठ सुग्रीव मा वालिपथमन्वगाः ॥"
अत्र—"मदं नवैश्वर्यलवेन लम्भितं
विसृज्य पूर्वः समयो विमृश्यताम् ।
जगज्जिघृत्सातुरकण्ठपद्धति-
र्न वालिनैवाहिततृसिरन्तकः ॥"
पौराणिकः—"हिरण्यकशिपुर्दैत्यो यां यां स्मित्वाऽप्युदैक्षत ।
भयभ्रान्तैः सुरैश्चक्रे तस्यै तस्यै दिशे नमः ॥"
अत्र—"स सञ्चरिष्णुर्भुवनत्रयेऽपि यां
यदृच्छयाऽशिश्रियदाश्रयः श्रियः ।
अकारि तस्यै मुकुटोपलस्खलत्-
करैस्त्रिसन्ध्यं त्रिदशैर्दिशे नमः ॥"
अत्राहुः—"श्रुतीनां साङ्गशाखानामितिहासपुराणयोः ।
अर्थग्रन्थः कथाभ्यासः कवित्वस्यैकमौषधम् ॥
इतिहासपुराणाभ्यां चक्षुर्भ्यामिव सत्कविः ।
विवेकाञ्जनशुद्धाभ्यां सूक्ष्ममप्यर्थमीक्षते ॥
वेदार्थस्य निबन्धेन श्लाघ्यन्ते कवयो यथा ।
स्मृतीनामितिहासस्य पुराणस्य तथा तथा ॥"
द्विविधः प्रामाणिको मैमांसकस्तार्किकश्च । तत्र प्रथमः । शब्दस्य
सामान्यमभिधेयं विशेषश्चार्थः । अत्र—
"सामान्यवाचि पदमप्यभिधीयमानं
मां प्राप्य जातमभिधेयविशेषनिष्ठम् ।
स्त्री काचिदित्यभिहिते सततं मनो मे
तामेव वामनयनां विषयीकरोति ॥"
१ B जिधित्सा०. २ A हत. ३ V त्रिसन्ध्यं त्रिर्दिशे नमः. ४ B भुवनान्तरेषु
५ B तदाहुः. ६ B श्लाघंते.
कविरहस्ये अष्टमोऽध्यायः । ३७
तर्केषु साङ्ख्यीयः—"नासतो विद्यते भावो नाभावो विद्यते सतः ।
उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदृष्टिभिः ॥१"
अत्र—"य एते यज्वानः प्रथितमहसो येऽप्यवनिपा
मृगाक्ष्यो याश्चैताः कृतमपरसंसारकथया ।
अमी ये दृश्यन्ते फलकुसुमनम्राश्च तरवो
जगत्येवंरूपा विलसति मृदेशा भगवती ॥”
न्यायवैशेषिकीयः—स किंसामग्रीक ईश्वरः कर्ता ? इति पूर्व-
पक्षः । निरतिशयैश्वर्यस्य तस्य कर्तृत्वमिति सिद्धान्तः । अत्र—
"किमीहः किंकायः स खलु किमुपायस्त्रिभुवनं
किमाधारो धाता सृजति किमुपादान इति च ।
अतर्क्यैश्वर्ये त्वय्यनवसरदुःस्थो हतधियः
कुतर्कोऽयं कांश्चिन्मुखरयति मोहाय जगतः ॥”
बौद्धीयः—विवक्षापूर्वा हि शब्दास्तामेव विवक्षां सूचयेयुः ।
अत्र—
"भवतु विदितं शब्दा वक्तुर्विवक्षितसूचकाः
स्मरयति यतः कान्ते कान्तां बलात्परिचुम्बति ।
न न न म म मा मा मां स्प्राक्षीर्निषेधपरं वचो
भवति शिथिले मानग्रन्थौ तदेव विधायकम् ॥”
लौकायतिकः—भूतेभ्यश्चैतन्यं मदशक्तिवत् । अत्र—
“बहुविधमिह साक्षिचिन्तकाः
प्रवदन्त्यन्यमितैः कलेवरात् ।
अपि सं सुदति ते चं चिन्तकाः
प्रलयं यान्ति सहैव चिन्तया ॥”
आर्हतः—शरीरपरिमाण आत्मा । अन्यथा शरीराफल्यमात्मा-
फल्यं वा ।
१ A ॰दर्शिभिः. २ B ॰दितः. ३ C च. ४ B स.
३८ काव्यमीमांसायाम्
अत्र—"शरीरमात्रमात्मानं ये १वदन्ति जयन्ति ते ।
तच्चुम्बनेऽपि यज्जातः सर्वाङ्गपुलकोऽस्य मे ॥"
सर्वपार्षदत्वात्काव्यविद्यायाः तानिमानन्यांश्चार्थान्व्युत्पत्तये प्रत्यवेक्षेत । आहुश्च—
"यांस्तर्ककर्कशानर्थान्सूक्तिष्वाद्रियते कविः ।
सूर्यांशव इवेन्दौ ते काश्चिदर्च(श्च)न्ति कान्तताम् ॥"
समयविद्यासु शैवसिद्धान्तीयः—
"घोरघोरतरातीतब्रह्मविद्याकलातिगः ।
परापरपदव्यापी पायाद्वः परमेश्वरः ॥"
पाञ्चरात्रः—"नाद्यन्तवन्तः कवयः पुराणाः
सूक्ष्मा बृहन्तोऽप्यनुशासितारः ।
सर्वज्वरान्घ्नन्तु ममानिरुद्ध-
प्रद्युम्नसङ्कर्षणवासुदेवाः ॥"
बौद्धसिद्धान्तीयः—"कलिकलुषकृतानि यानि लोके
मयि निपतन्तु विमुच्यतां स लोकः ।
मम हि सुचरितेन सर्वसत्त्वाः
परमसुखेन सुखावनीं प्रयान्तु ॥"
एवं सिद्धान्तान्तरेष्वपि । राजसिद्धान्तत्रय्यामर्थशास्त्रीयः—
"शमव्यायामाभ्यां प्रतिविहिततन्त्रस्य नृपतेः
परं प्रत्यावापः फलति कृतसेकस्तरुख्रिव ।
बहुव्याजं राज्यं न सुकरमराजप्रणिधिभि-
र्दुराराधा लक्ष्मीरनवहितचित्तं छलयति ॥"
नाट्यशास्त्रीयः—"एवं धारय देवि बाहुलतिकामेवं कुरुष्वाङ्गकं
३मात्युच्चैर्नम कुञ्चयाग्रचरणं मां पश्य तावत्स्थितम् ।
देवीं नर्तयतः स्ववक्त्रमुरजेनाम्भोघरध्वानिना
शम्भोर्वः परिपान्तु लम्बितलयच्छेदाहतास्तालिकाः ॥"
१ A विदन्ति. २ A तश्वासदपि. ३ C मात्युच्चैर्न च.
कविरहस्ये अष्टमोऽध्यायः । ३९
कामसूत्रीयः—"नाश्चर्यं त्वयि यल्लक्ष्मीः क्षित्वाऽधोक्षजमागता ।
असौ मन्दरतस्त्वं तु प्राप्तः समरतस्तया ॥"
लौकिकस्तु द्विधा प्राकृतो व्युत्पन्नश्च । तयोः प्रथमः—
"स्फुटितपिठरीबन्धश्लाघ्यो विपक्षगृहेऽप्यभूत्
प्रियतम ययोः स्नेहग्रन्थिस्तथा प्रथमं स नौ । ५
जनवदधुना सद्मन्यावां वसाव इहैव तौ
धिगपरिचितं प्रेम स्त्रीणां चिराय च जीवितम् ॥"
यथा वा—"इक्षुदण्डस्य मण्डस्य दध्नः पिष्टकृतस्य च ।
वाराहस्य च मांसस्य सैष गच्छति फाल्गुनः ॥"
द्वितीयो द्विधा समस्तजनजन्यः कतिपयजनजन्यश्च । तयोः प्रथ- १०
मोऽनेकधा देशानां बहुत्वात् । तत्र दाक्षिणात्यः—
"पिबन्त्यास्वाद्य मरिचं ताम्बूलविशदैर्मुखैः ।
प्रियाधरावदंशानि मधूनि द्रमिडाङ्गनाः ॥"
यथा वा—"विरम मदन कस्त्वं चैत्र का शक्तिरिन्दो-
रिह हि कुसुमबाणाः कुण्ठिताग्राः स्खलन्ति । १५
हृदयभुव इमास्ताः कुन्तलप्रेयसीनां
प्रहतिकिणकठोरग्रन्थयो वज्रसाराः ॥"
उदीच्यः
तस्य रत्नाकरसुता श्रियो देव्याः सहोदरी ।
स्वयंवरविधावासीत्कलत्रं चित्रसुन्दरी ॥”
द्वितीया— “ज्योत्स्नां लिम्पति चन्दनेन स पुमान्सिञ्चत्यसौ मालती-
मालां गन्धजलैर्मधूनि कुरुते खादून्यसौ फाणितैः ।
यस्तस्य प्रथितान्गुणान्प्रथयति श्रीवीरचूडामणेः
तारत्वं स च शाणया मृगयते मुक्ताफलानामपि ॥”
अत्राहुः— “नीचैर्नार्थैः कथासङ्गे(र्गे।) यस्य न प्रतिभाक्षयः ।
स कविग्रामणीरत्रं शेषास्तस्य कुटुम्बिनः ॥”
अभिहितेभ्यो यदन्यत्तत्प्रकीर्णकम् । तत्र हस्तिशिक्षीयः—
“मेघानां क्षणहासतामुपगतो हारः प्रकीर्णो दिशा-
माकाशोल्लसितामितामरवधूपीनस्तनास्फालकः ।
क्षुण्णश्चन्द्र इवोल्बणो मदवशादैरावणप्रेरितः
पायाद्वः परिपाकपाण्डुलवँलीश्रीतस्करः शीकरः ॥”
रत्नपरीक्षीयः— “द्वौ वज्रवण जगतीपतीनां
सद्भिः प्रदिष्टौ न तु सार्वजन्यौ ।
यः स्याज्जपाविद्रुमभङ्गशोणो
यो वा हरिद्रारससंनिकाशः ॥”
धनुर्वेदीयः— “स दक्षिणापाङ्गनिविष्टमुष्टिं
नतांसमाकुञ्चितसव्यपादम् ।
ददर्श चक्रीकृतचारुचापं
प्रहर्तुमभ्युद्यतमात्मयोनिम् ॥”
योगशास्त्रीयः— “यः सर्वेषां हृदयकमले प्राणिनामेकहंस-
स्त्वं जागर्षि स्वपिषि च मुहुर्बुद्ध्यसे नापि बुद्धः ।
तं त्वाराध्य प्रविततधियो बन्धभेदं विधाय
ध्वस्तातङ्का विमलमहसस्ते भवन्तो भवन्ति ॥”
१ A नार्थं. २ B ०स्त्वत्र, ३ B ०मराधिपवधू. ४ A B लवलश्री०.
अष्टमोऽध्यायः । ४१
एवं प्रकीर्णकान्तरमपि । उचितसंयोगः—
“पाण्ड्योऽयमंसार्पितलम्बहारः
कॢप्ताङ्गरागो हरिचन्दनेन ।
आभाति बालातपरक्तसानुः
सनिर्झरोद्गार इवाद्रिराजः ॥”
योक्तृसंयोगः— “कुर्वद्भिः सुरदन्तिनो मधुलिहामस्वादु दानोदकं
तन्वानैर्नमुचिद्रुहो भगवतश्चक्षुःसहस्रव्यथाम् ।
मज्जन्स्वर्गतराङ्गिणीजलभरे पङ्कीकृते पांसुभि-
र्यद्यात्राव्यसनं निनिन्द विमनाः स्वर्लोकनारीजनः ॥”
उत्पाद्यसंयोगः— “उभौ यदि व्योम्नि पृथक्प्रवाहा-
वाकाशगङ्गापयसः पतेताम् ।
तेनोपमीयेत तमालनील-
मामुक्तमुक्तालतमस्य वक्षः ॥”
संयोगविकारः— “गुणानुरागमिश्रेण यशसा तव सर्पता ।
दिग्वधूनां मुखे जातमकस्मादार्द्रकुङ्कुमम् ॥
यथा वा— “उन्माद्यत्यम्बुराशिर्विदलति कुमुदं सङ्कुचन्त्यम्बुजानि
स्यन्दन्ते चन्द्रकान्ताः पतितसुमनसः सन्ति शेफालिकाश्च ।
पीयन्ते चन्द्रिकाम्भः क्रमसरलगलं किं च किञ्चिच्चकोरा-
श्चन्द्रे कर्पूरगौरद्युतिभृति नभसो याति चूडामणित्वम् ॥”
इदं कविभ्यः कथितमर्थोत्पत्तिपरायणम् ।
इह प्रगल्भमानस्य न जात्वर्थकदर्थना ॥
इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमेऽधिकरणे
अर्थानुशासने पोडश काव्यार्थयोनयः अष्टमोऽध्यायः ॥
४२ काव्यमीमांसायाम्
नवमोऽध्यायः अर्थव्याप्तिः ।
“स त्रिधा” इति द्रौहिणिः, दिव्यो, दिव्यमानुषो, मानुषश्च ।
“सप्तधा” इति यायावरीयः; पातालीयो, मर्त्यपातालीयो, दिव्य-
पातालीयो, दिव्यमर्त्यपातालीयश्च । तत्र दिव्यः—
“स्मृत्वा यन्निजवारवासगतया वीणासमं तुम्बरो-
रुद्गीतं नलकूबरस्य विरहादुत्कण्ठुलं रम्भया ।
तेनैरावणकर्णचापलमुषा शक्रोऽपि निद्रां जह-
द्भूयः कारित एव हासिनि शचीवक्त्रे दृशां सम्भ्रमम् ॥”
दिव्यमानुषस्तु चतुर्द्धा । दिव्यस्य मर्त्यागमने, मर्त्यस्य च स्वर्ग-
गमन इत्येको भेदः । दिव्यस्य मर्त्यभावे, मर्त्यस्य च दिव्यभाव इति
द्वितीयः । दिव्येतिवृत्तपरिकल्पनया तृतीयः । प्रभावाविर्भूतदिव्य-
रूपतया चतुर्थः । तत्र दिव्यस्य मर्त्यागमनम्—
“श्रियः पतिः श्रीमति शासितुं जग-
ज्जगन्निवासो वसुदेवसद्मनि ।
वसन्ददर्शावतरन्तमम्बरा-
द्धिरण्मगर्भाङ्गभुवं मुनिं हरिः ॥”
मर्त्यस्य स्वर्गगमनम्—
“पाण्डोर्नन्दन नन्दनं वनमिदं सङ्कल्पजैः सीधुभिः
कृत्तापानककेलि कल्पनतरुषु द्वन्द्वैः सुधालेहिनाम् ।
अप्यत्रेन्दुशिलालवालवलयं सन्तानकानां तले
ज्योत्स्नासङ्गलदच्छनिर्झरजलैर्यत्रं विना पूर्यते ॥”
दिव्यस्य मर्त्यभावः—“इति विकसति तस्मिन्नन्ववाये यदूनां
समजनि वसुदेवो देवकी यत्कलत्रम् ।
किमपरमथ तस्मात्षोडशस्त्रीसहस्र-
प्रणिहितपरिरम्भः पद्मनाभो बभूव ॥”
१ V A कण्ठुलं, V B कण्ठलं. २ A जलं. ३ A पूर्ज्यते.
नवमोऽध्यायः । ४३
मर्त्यस्य दिव्यभावः—"आकाशयानतटकोटिकृतैकपादा-
स्तद्धेमदण्डयुगलान्यवलम्ब्य हस्तैः ।
कौतूहलात्तव तरङ्गविघट्टितानि
पश्यन्ति देवि¹ मनुजाः स्वकलेवराणि ॥"
दिव्येतिवृत्तपरिकल्पना—
"ज्योत्स्नापूरप्रसरविशदे सैकतेऽस्मिन्सरय्वा
वादद्यूतं चिरतरमभूत्सिद्धयूनोः कयोश्चित् ।
एको ब्रूते प्रथमनिहतं कैटभं कंसमन्यः
स त्वं तत्त्वं कथय भवता को हतस्तत्र पूर्वम् ॥"
प्रभावाविर्भूतदिव्यभावः—
"मा गाः पातालमुर्वि² स्फुरसि किमपरं पात्यमानः कुदैत्यै
स्त्रैलोक्यं पादपीठप्रथिम नहि बले पूरयस्यूनमङ्गेः ।
इत्युत्स्म्रायमाने भुवनभृति शिशावङ्कसुप्ते यशोदा
पायाच्चक्राङ्गपादप्रणतिपुलकितस्मेरगण्डस्थला वः ॥"
मर्त्यः—"वधूः श्वश्रूस्थाने व्यवहरति पुत्रः पितृपदे
पदे रिक्ते रिक्ते विनिहितपदार्थान्तरमिति ।
नदीस्रोतो न्यायादकलितविवेकक्रमघनं
न च प्रत्यावृत्तिः प्रवहति जगत्पूर्णमथ च ॥"
पातालीयः—
"कर्कोटः कोटिकृत्व³ः प्रणमति पुरतस्तक्षके देहि चक्षुः
सज्जः सेवाञ्जलिस्ते कपिलकुलिकयोः स्तौति च स्वस्तिकस्त्वाम् ।
पद्मः सङ्घैष भक्तेर्वलगति पुरः कम्बलोऽयं बलोऽयं
सोत्सर्पः सर्पराजो व्रजतु निजगृहं प्रेष्यतां शङ्खपालः ॥"
मर्त्यपातालीयः—"आर्द्रावले व्रज न वेत्स्यपकर्ण कर्णं
द्विः सन्दधाति न शरं हरशिष्यशिष्यः ।
तत्साम्प्रतं समिति पश्य कुतूहलेन
मर्त्यैः शरैरपि किरीटिकिरीटमाथ⁴म् ॥"
१ V A देव. २ B मूर्ध्नि. ३ A कोटिकुण्ठः. ४ A नाथम्.
४४ काव्यमीमांसायाम्
इहापि पूर्ववत्समस्तमिश्रभेदानुगमः । दिव्यपातालीयः—
“स पातु वो यस्य शिखाश्मकर्णिकं
स्वदेहनालं फणपत्रसञ्चयम् ।
विभाति जिह्वायुगलोलकेसरं
पिनाकिनः कर्णभुजङ्गपङ्कजम् ॥”
स्वर्गमर्त्यपातालीयः—
“आंस्तीकोऽस्ति मुनिः स्म विस्मयकृतः पारीक्षितीयान्मखा-
त्त्राता तक्षकक्ष्मणः फणभृतां वंशस्य शक्रस्य च ।
उद्वेल्लन्मलयाद्रिचन्दनलतास्वान्दोलनप्रक्रमे
यस्याद्यापि सविभ्रमं फणिवधूवृन्दैर्यशो गीयते ॥”
सोऽयमित्थङ्कारमुल्लिख्योपजीव्यमानो निःसीमाऽर्थसार्थः सम्प-
द्यते । “अस्तु नाम निःसीमाऽर्थसार्थः । किन्तु द्विरूप एवासौ विचा-
रितसुस्थोऽविचारितरमणीयश्च [इति]। तयोः पूर्वमाश्रितानि शा-
स्त्राणि तदुत्तरं काव्यानि” इत्याौद्भटाः । यथा—
“अपां लङ्घयितुं राशिं रुचा पिञ्जरयन्नभः ।
ज्वमुत्पपात हनुमान्नीलोत्पलदलद्युतिं ॥”
यथा वा—“त आकाशमसिश्याममुत्पत्य परमर्षयः ।
आसेदुरोषधिप्रस्थं मनसा समरंहसः ॥”
यथा च—“तदेव वारि सिन्धूनां महत्स्तेमार्चिषामिति” इत्यादि ॥
“न स्वरूपनिबन्धनमिदं रूपमाकाशस्य सरित्सलिलादेर्वा किन्तु
प्रतिभासनिबन्धनम् । न च प्रतिभासस्तादात्म्येन वस्तुन्यवतिष्ठते ।
यदि तथा स्यात्सूर्याचन्द्रमसोर्मण्डले दृष्ट्या परिच्छिद्यमानद्वादशाङ्गु-
लप्रमाणे पुराणाद्यागमनिवेदितधरावलयमात्रे न स्तः” इति यायाव-
रीयः। एवं नक्षत्रादीनां सरित्सलिलादीनामन्येषां च । यथाप्रतिभासं
च वस्तुनः स्वरूपं शास्त्रकाव्ययोर्निबन्धोपयोगि । शास्त्रे यथा—
१ A अस्तीको. २ V खन्दोलन. ३ C संल्लिख्योपजीव्यमानो. ४ B द्युतिः.
५ C दृष्ट्यपरिच्छिद्यमान.
नवमोऽध्यायः । ४५
“प्रशान्तजलभृत्पङ्के विमले वियदम्भसि ।
ताराकुमुदसम्बन्धे हंसायत इवोडुराट् ॥”
काव्यानि पुनरेतन्मयान्येव । “अस्तु नाम निःसीमाऽर्थसार्थः ।
किन्तु रसवत्त एव निबन्धो युक्तो न नीरसस्य” इत्यपराजितिः ।
यदाह—
“मज्जनपुष्पावचयनसन्ध्याचन्द्रोदयादिवाक्यमिह ।
सरसमपि नातिबहुलं प्रकृतरसानन्वितं रचयेत् ॥
यस्तु सरिद्रिसागरपुरतुरगरथादिवर्णने यत्नः ।
कविशक्तिख्यातिफलो विततधियां नो मतः स इह ॥”
‘आम्’ इति यायावरीयः । अस्ति चानुभूयमानो रसस्यानुगुणो
विगुणश्चार्थः, काव्ये तु कविवचनानि रसयन्ति विरसयन्ति च नार्थाः ।
अन्वयव्यतिरेकाभ्यां चेदमुपलभ्यते । तत्र सरिद्वर्णनरसवत्ता—
“एतां विलोकय तनूदरि ताम्रपर्णी—
मम्भानिधौ विवृतशुक्तिपुटोद्धृतानि ।
यस्याः पयांसि परिणाहिषु हारमूर्त्या
वामभ्रुवां परिणमन्ति पयोधरेषु ॥”
अद्रिवर्णनरसवत्ता—
“एतास्ता मलयोपकण्ठसरितामेणाक्षि रोधोभुव-
श्चौपाभ्यासनिकेतनं भगवतः प्रेयो मनोजन्मनः ।
यासु श्यामनिशासु पीततमसो मुक्तामयीश्चन्द्रिकाः
पीयन्ते विवृतोर्ध्वचञ्चु विचलत्कण्ठं चकोराङ्गनाः ॥”
सागरवर्णनरसवत्ता—
“धत्ते यत्किलकिञ्चितैकगुरुतामेणीदृशां वारुणी
वैधुर्यं विदधाति दम्पतिरुषां यच्चन्द्रिकार्द्रं नभः ।
यच्च स्वर्गसदां वयः स्मरसुहृन्नित्यं सदा सम्पदाम्
यल्लक्ष्मीरधिदैवतं च जलधेस्तत्कान्तमाचेष्टितम् ॥”
१ B अप. २ B omits तु. ३ B omits विरसयन्ति and reads न चार्थो
४ A तलोदरि. ५ B छाया.
२. कवि-विशेष व काव्य-पाक रहस्य (अध्याय ७-९)
४८ काव्यमीमांसायाम्
निबन्ध(न्धे)शुद्धः— “स्तिमितविकसितानामुल्लसद्भ्रूलतानां
मसृणमुकुलितानां प्रान्तविस्तारभाजाम् ।
प्रतिनयननिपाते किञ्चिदाकुञ्चितानां
सुचिरमहमभूवं पात्रमालोकितानाम् ॥”
५ चित्रः— “अलसवलितमुग्धस्निग्धनिष्पन्दमन्दै-
रधिकविकसदन्तर्विस्मयस्मेरतारैः ।
हृदयमशरणं मे पक्ष्मलाक्ष्याः कटाक्षै-
रपहृतमपविद्धं पीतमुन्मूलितं च ॥”
कथोत्थः— “अभिलाषमुदीरितेन्द्रियः
१० स्वसुतायामकरोत्प्रजापतिः ।
अथ तेन निगृह्य विक्रिया-
मभिशप्तः फलमेतदन्वभूत् ॥”
संविधानकभूः— “क्रोधं प्रभो संहर संहरेति
यावद्गिरः खे मरुतां चरन्ति ।
१५ तावत्स वह्निर्भवनेत्रजन्मा
भस्मावशेषं मदनं चकार ॥”
आख्यानकवान्— “पत्युः शिरश्चन्द्रकलामेनैन
स्पृशेति सख्या परिहासपूर्वम् ।
सा रञ्जयित्वा चरणौ कृताशी-
२० र्माल्येन तां निर्वचनं जघान ॥”
किञ्च संस्कृतवत्सर्वासपि भाषासु यथासामर्थ्यं यथारुचि यथा-
कौतुकं चावहितः स्यात् । शब्दार्थयोश्चाभिधानाभिधेयव्यापार-
प्रगुणतामवबुध्येत ।
तदुक्तम्—
i एकोऽर्थः संस्कृतोक्त्या ससुकविरचनः प्राकृतेनापरोऽस्मि-
न्न्योऽपभ्रंशगीर्भिः किमपरमपरो भूतभाषाक्रमेण ।
१ A संविभानभूः. २ B आख्यानवान्.
कविरहस्ये दशमोऽध्यायः । ४९
द्वित्राभिः कोऽपि वाग्भिर्भवति चतसृभिः किञ्च कश्चिद्विवेक्तुं
यस्येत्थं धीः प्रगल्भा स्नपयति सुकवेस्तस्य कीर्त्तिर्जगन्ति ॥१
इत्थङ्कारं घनै्यर्थैर्युत्पन्नमनसः कवेः ।
दुर्गमेऽपि भवेन्मार्गे कुण्ठिता न सरस्वती ॥
इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमेऽधिकरणे
अर्थानुशासने अर्थव्याप्तिर्नवमोऽध्यायः ॥
दशमोऽध्यायः कविचर्या राजचर्या च ।
गृहीतविद्योपविद्यः काव्यक्रियायै प्रयतेत । नामधातुपारायणे,
अभिधानकोशः, छन्दोविचितिः, अलङ्कारतन्त्रं च काव्यविद्याः । क-
लास्तु चतुःषष्टिरुपविद्याः । सुजनोपजीव्यकविसन्निधिः, देशवार्ता, १०
विदग्धवादो, लोकयात्रा, विद्वद्गोष्ठ्यश्च काव्यमातरः पुरातनक-
विनिबन्धाश्च । किञ्च—
स्वास्थ्यं प्रतिभाऽभ्यासो भक्तिर्विद्वत्कथा बहुश्रुतता ।
स्मृतिदार्ढ्यमनिर्वेदश्च मातरोऽष्टौ कवित्वस्य ॥
अपि च नित्यं शुचिः स्यात् । त्रिधा च शौचं वाक्शौचं, मनः- १५
शौचं, कायशौचं च । प्रथमे शास्त्रजन्मनी । तार्तीयीकं तु सनख-
च्छेदौ पादौ, सताम्बूलं मुखं, सविलेपनमात्रं वपुः, महार्हमनुल्बणं
च वासः, सकुसुमं शिर इति । शुचि शीलनं हि सरस्वत्याः संव-
ननमामनन्ति । स यत्स्वभावः कविस्तदनुरूपं काव्यम् । यादृशाकार-
श्चित्रकरस्तादृशाकारमस्य चित्रमिति प्रायोवादः । स्मितपूर्वमभि- २०
भाषणं, सर्वत्रोक्तिगर्भमभिधानं सर्वतो रहस्यान्वेषणं, परकाव्यदूष-
णवैमुख्यमनभिहितस्य, अभिहितस्य तु यथार्थमभिधानम् ।
तस्य भवनं सुसंसृष्टं, ऋतुषट्कोचितविविधस्थानं, अनेकतरुमू-
लकल्पितापाश्रयवृक्षवाटिकं, सक्रीडापर्वतकं, सदीर्घिकापुष्करि-
१ B प्रपन्ना.
५० काव्यमीमांसायाम्
णीकं, ससरित्समुद्रावर्त्तकं, सकुल्याप्रवाहं, सबर्हिणहरिणहारीतं,
ससारसचक्रवाकहंसं, सचकोरक्रौञ्चकुररशुकसारिकं, घर्मक्लान्ति-
चौरं, संभूमिधारागृहयन्त्रलतामण्डपकं, सदोलाप्रेङ्खं च स्यात् ।
काव्याभिनिवेशखिन्नस्य मनसस्तद्विनिर्वेदच्छेदायाज्ञामूकपरिजनं
विजनं वा तस्य स्थानम् । अपभ्रंशभाषणप्रवणः परिचारकवर्गः,
समागधभाषाभिनिवेशिन्यः परिचारिकाः । प्राकृतसंस्कृतभाषाविद्
आन्तःपुरिकाः, मित्राणि चास्य सर्वभाषाविन्दि भवेयुः । सदःसं-
स्कारविशुद्ध्यर्थं सर्वभाषाकुशलः, शीघ्रवाक्, चार्वक्षरः, इङ्गिता-
कारवेदी, नानालिपिज्ञः, कविः, लाक्षणिकश्च लेखकः स्यात् । तद्-
सन्निधावतिरात्रादिषु पूर्वोक्तानामन्यतर(मः) ।
स्वभवने हि भाषानियमं यथा प्रभुर्विदधाति तथा भवति ।
श्रूयते हि मगधेषु शिशुनागो नाम राजा; तेन दुरुच्चारानष्टौ
वर्णानपास्य स्वान्तःपुर एव प्रवर्त्तितो नियमः, टकारादयश्चत्वारो
मूर्द्धन्यास्तृतीयवर्जमूष्माणस्त्रयः षकारश्चेति ।
श्रूयते च सूरसेनेषु कुविन्दो नाम राजा; तेन परुषसंयोगाक्षर-
वर्जमन्तःपुर एवेति समानं पूर्वेण ।
श्रूयते च कुन्तलेषु सातवाहनो नाम राजा; तेन प्राकृतभाषात्म-
कमन्तःपुर एवेति समानं पूर्वेण ।
श्रूयते चोज्जयिन्यां साहसाङ्को नाम राजा; तेन च संस्कृतभाषा-
त्मकमन्तःपुर एवेति समानं पूर्वेण ।
तस्य सम्पुटिका सफ़लकग्वटिका, समुद्गकः, सलेखनीकमषी-
भाजनानि ताडिपत्राणि भूर्जत्वचो वा, सलोहकण्टकानि तालद-
लानि, सुसम्मृष्टा भित्तयः, सततसन्निहिताः स्युः । “तद्धि काव्यवि-
द्यायाः परिकरः” इत्याचार्याः । “प्रतिभैव परिकरः” इति याया-
वरीयाः ।
“कविः प्रथममात्मानमेव कल्पयेत्; कियान्मे संस्कारः, क भाषा-
विषये शक्तोऽस्मि, किंरुचिलोकः परिवृढो वा, कीदृशि गोष्ठ्यां
१ BC सम्भूतिधारागृह० २ B सौरसेनेषु. ३ BC कयिन्दो. ४ B omits च.
५ B फलक. ६ B समुद्गक. ७ A सलेखनी B सलेखनीयक.