सामग्री पर जाएँ
सर्वकोश
काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)

काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)

Kavyamimamsa of Rajasekhara with Hindi Commentary

महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा

DevanagariSanskritpublished381 पृष्ठ

पृष्ठ 86, कुल 381 में से

संदर्भ में पढ़ें
पृष्ठ 86

कविरहस्ये सप्तमोऽध्यायः । ३१

यतो नाटकादावीश्वरादीनां देवानां च प्रवेशे तच्छायावन्ति वा-
क्यानि विधेयानि । इति दिव्यम् ।
इह हि प्रायोवादो यदुत मर्त्यावतारव्यवहाररुचेर्भगवतो वासु-
देवस्य वचो वैष्णवम् [इति] । तन्मानुषमिति व्यपदिशन्ति । तच्च
त्रिधा रीतिन्त्रयभेदेन । तदाहुः—
“वैदर्भी गौडीया पाञ्चाली चेति रीतयस्तिस्रः ।
आशु(सु) च साक्षान्निवर्सति सरखती तेन लक्ष्यन्ते॥”
रीतिरूपं वाक्यत्रितयम् । काकुः पुनरनेक्यति । “काकुर्व(व)क्रो-
क्तिर्नाम शब्दालङ्कारोऽयम्” इति रुद्रटः । “अभिप्रायवान्पाठधर्मः
काकुः । स कथमलङ्कारी स्यात् ?” इति यायावरीयः । सा च द्विधा
साकाङ्क्षा निराकाङ्क्षा च । वाक्यान्तराकाङ्क्षिणी साकाङ्क्षा । वाक्यो-
त्तरभाविनी निराकाङ्क्षा । तदेव वाक्यं काकुविशेषेण साकाङ्क्षम् ।
तदेव काक्वन्तरेण निराकाङ्क्षम् । आक्षेपगर्भा, प्रश्नगर्भा, वितर्कगर्भा
चेति साकाङ्क्षा । विधिरूपा, उत्तररूपा, निर्णयरूपेति निराकाङ्क्षा ।
तत्राक्षेपगर्भा—
“यदि मे वल्लभा दूती तदाऽहमपि वल्लभा ।
यदि तस्याः प्रिया वाचः तन्ममापि प्रियप्रियाः ॥”
एवमेव निर्देष्टुर्विधिरूपा । प्रश्नगर्भा—
“गतः स कालो यत्रासीन्मुक्तानां जन्म वल्लिषु ।
वर्तन्ते साम्प्रतं तासां हेतवः शुक्तिसम्पुटाः ॥”
इयमेवोपदेष्टुरुत्तररूपा । वितर्कगर्भा—
“नवजलधरः सन्नद्धोऽयं न दृप्तनिशाचरः
सुरधनुरिदं दूराकृष्टं न नाम शरासनम् ।
अयमपि पटुर्धारासारो न बाणपरम्परा
कनकनिकषस्निग्धा विद्युत्प्रिया न ममोर्वशी ॥”
इयमेवोपदेष्टुर्निर्णयरूपा । ता इमास्तिस्रोऽपि नियतनिबन्धाः ।
तद्विपरीताः पुनरनन्ताः । तत्राभ्युपगमानुनयकाकू—